मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 321–330

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 321–330

पृष्ठ 321

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 321 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य'‘मणिप्रभा ' हिन्दीटीकासहिता २८५ हिन्दी — चमड़ा, चमड़े से बने पदार्थ ( रस्सी, घी- तेल का कुप्पा, जूता आदि ), लकड़ी और मिट्टी के बर्तन, फूल, मूल, ( कन्द ) तथा फल को नष्ट करनेवाला व्यक्ति नष्ट हुए पदार्थों के मूल्य का पाँच गुना धन राजा को दण्ड - स्वरूप में दे, ( तथा उन पदार्थों के स्वामी को उन नष्ट पदार्थों का मूल्य देकर तुष्ट करे ) ॥२८९ ॥

रथादि के नष्ट होने पर दण्डाभाव-यानस्य चैव यातुश्च यानस्वामिन एव च ।

दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ २ ९ ० ॥

भाष्य — सत्यामपि हिंसायां क्वचिद्दोषो नास्तीत्येतदनेन प्रकरणेन प्रदर्श्यते । यानं गन्त्र्यादि यदारुह्य यान्ति पन्थानम् । तच्च गन्त्र्यादि बलीवर्दगर्दभमहिषादिवाह्यम् । त एव वा गर्दभादयः पृष्ठारोह्या यानानि । याता तदारूढः सारथ्यादिः । यानस्वामी यस्य तत्स्वयानम् । तत्रैषां चक्रवेगादिभी रथ्याकर्षणयुक्तैर्वाऽश्वादिभिः कस्यचिद्द्रव्यस्य नाशो वा मरणम् । तत्र पशुस्वामिपालव्यतिक्रमन्याये प्राप्ते कदाचिद्यातुर्दोषः कदाचित्स्वामिनः कदाचिदुभयोः कदाचिन्न कस्यचिदपीति यो विशेषस्तत्र नोक्त इहैवेष्यते— स उच्यते । अतिवर्तनानि— अतिक्रम्य हिंसादण्डं वर्तते, नात्र दण्डोऽस्ति, दण्डनिमित्तानि न भवन्तीति यावत् । शेषे दण्ड उक्तेभ्यो निमित्तेभ्योऽन्यत्र । तान्यपि वक्ष्यति ॥२ ९ ० ॥ यत्र नास्ति दोषस्तानि तावदाह-हिन्दी - रथ, गाड़ी आदि सवारी, सारथि ( उनका चालक गाड़ीवान, एक्कावान, कोचवान आदि ) और स्वामी, इन पर वक्ष्यमाण ( ८।२ ९१-२९ २ ) दश अवस्थाओं में किसी के मर जाने था किसी सामान के नष्ट हो जाने पर दण्ड नहीं किया जाता तथा इन ( वक्ष्यमाण –८ । २ ९१-२९ २ ) दश अवस्थाओं के अतिरिक्त अवस्था में दण्ड किया जाता है ॥२९ ० ॥

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।

अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ २ ९ १ ॥

छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।

आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ २ ९ २ ॥

भाष्य — नासायां भवं नास्यम् । शरीरावयवाद्यत् । नासिकापुटसंयोगिनी बली-वर्दानां रज्जुरश्वानां खलीनं हस्तिनामङ्कुशः । तस्मिन् छिन्ने त्रुटिते । युगे च भग्ने । रथाङ्गकाष्ठं युगम् । छिन्नं नास्यमस्येति बहुव्रीहिणा रथ उच्यते पशुर्वा – उभयोरपि साक्षात्पारम्पर्येण सम्बन्धात् । तिर्यक्प्रतिमुखागते याने । तिरश्चीनं वा प्रतीचीनं वा कथंचिद्भूवैषम्यात्पशुत्रासाद्वा यानं गच्छत् कंचिदपराध्येन्न दुष्येत् । प्राजको हि संमुखी-

पृष्ठ 322

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 322 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८६ मनुस्मृतिः [ अष्टमः नाञ्छक्तो रक्षितुं तिर्यक् प्रत्यगवस्थितौ त्वदृश्यमानस्य कथं रक्षतु । ' प्रतिमुखागतं ’ प्रत्यगावृत्तिः । अन्ये तु तिर्यगागते हिंस्यमाने ऋजुगामिन्येव याने न दोषमाहुः— प्रतिमुखं चाभिमुखं मन्यन्ते । अभिमुखागतः किमिति चक्रिणं दृष्ट्वा पन्थानं न ददाति । अक्षचक्रे रथाङ्गे प्रसिद्धे । यन्त्राणि चर्मबन्धनानि शकटकाष्ठानाम् । योक्त्रं पशुग्रीवाकाष्ठम् । रश्मिः प्रग्रहो हस्तवघ्नं युग्यानां संचरणनियमनार्थः । आक्रन्द उच्चैः शब्दोऽपैहीत्यपसरेत्यर्थः । इतिकरणो भाषाप्रसिद्धतदर्थशब्दोच्चारणार्थो, न त्वय-मेव शब्दः प्रयोक्तव्यः । अविधेयेषु युग्येष्वसरापसरेति क्रोशतः प्राजकस्य पथो नाति-क्रामन्यादि हिंस्यान्न दोषः ॥२९१-२९ २ ॥ हिन्दी— ( १ ) बैल के नाथ टूट जाने पर, ( २ ) जूवा के टूट जाने पर, ( ३ ) भूमि के ऊँची - नीची होने से गाड़ी के तिर्छा ( एकवाई ) हो जाने पर, ( ४ ) उलट जाने पर, ( ५ ) धूरा टूट जाने पर, ( ६ ) पहिया टूट जाने पर, ( ७ ) चमड़े ( या रस्सी आदि ) के जोड़ कट ( या खुल ), जाने पर ( ८ ) जोता ( बैल आदि रथवाहक पशु के गले में लगी हुई रस्सी ) के टूट जाने पर, ( ९ ) रास ( सारथि के हाथ द्वारा पकड़ी जानेवाली रस्सी ) के टूट जाने पर और ( १० ) ‘ हट जावो, हट जावो ' ऐसा सारथि के चिल्लाने पर ( यदि कोई वस्तु नष्ट हो जाय या कोई मर जाय तो सारथि आदि ) कोई दंडनीय नहीं होता है ऐसा मनु ने कहा है ॥२९१-२९ २ ॥ सारथि की मूर्खता से किसी के मरने पर स्वामी को दण्ड–

यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ।

तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ २ ९ ३ ॥

हिन्दी — जहाँ सारथि की मूर्खता से रथ के इधर - उधर अर्थात् उल्टा - सीधा होने के कारण कोई मर जाय तो ( मूर्ख सारथि रखने के कारण उसके स्वामी पर ) दो सौ पण ( ८।१३६ ) दण्ड होता है । सारथि के चतुर होने आदि अवस्था में दण्डविधान–

प्राजकश्चेद्भवेदाप्तः प्राजक दण्डमर्हति ।

युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ २ ९ ४ ॥

भाष्य - प्राजको यानसारथितस्य वैगुण्यमशिक्षितत्वं न तु प्रमादः 1 । प्रमादे हि शिक्षितस्य स्वामिनो न दोषः । तस्माद्धेतोर्यदि युग्यं यानं सहसाऽपवर्तते स्पष्टं मार्गं हित्वा तिर्यक् पश्चाद्वा गच्छेत् किंचिन्नाशयेत्तत्र स्वामी दण्ड्यः । अशिक्षित: प्राजकः किमित्यारोपितः । ‘ “ मनुष्यमारणे क्षिप्रम् ” ( २ ९ ६ ) इत्यादिना वक्ष्यमाणेन प्राणिभेदेन

पृष्ठ 323

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 323 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता २८७ द्रव्यभेदेन च दण्डान्तरविधानाद्विशतमित्यविवक्षितम् । दण्डनिमित्तमेतदित्येतावतैव वाक्यस्यार्थवत्वादुत्तरत्र न कश्चिदन्योऽर्थः श्रूयते येन वाक्यं तत्र संख्याविधायक-मित्युच्येत ॥२, ९३-२९ ४ ॥ हिन्दी – यदि सारथि चतुर हो ( और कोई वस्तु नष्ट हो जाय ) तो वही ( सारथि ही ) दो सौ पण से दण्डनीय होता है तथा यदि सारथि चतुर नहीं हो तो उस ( रथ गाड़ी आदि ) पर सवार होनेवाले प्रत्येक व्यक्ति ( मूर्ख सारथि वाले सवारी पर चढ़ने के कारण ) सौ-सौ पण से दण्डनीय होते हैं ( और स्वामी को दो सौ पण से दण्डनीय होने का विधान पहले ) ( ८।२ ९ ३ कह ही चुके हैं ) ॥२९ ४ ||

अन्यान्य अवस्थाओं में दण्डविधान-स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।

प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २ ९ ५ ॥

भाष्य — उक्तो हिंसायां दमः । तत्र विशेषं वक्तुमिदमाह । स प्राजकः पथि संरु-द्धोऽग्रेघनावसर्पिणा संरुद्धो निरुद्धगतिः पश्चात्स्थितेनासुशिक्षितत्वात्प्रमादाद्वा वेगेन धुर्याश्चोदिताः पुनः स्थिरयतश्चेन्निकटो रथस्तेन च तस्य वेगनिरोधे कृते यदि पुरो-रथस्थावेगपातात्पशुभिः रथयुक्तैरश्वादिभिः । रथेन रथावयवैर्वा । प्राणिनो मनुष्या-दीन्मारयेत् । ततो दण्डस्य विचारो नास्ति । स्थित एव दण्डः । अथवा जवोत्पतिता अश्वाः पथि संरोधकसंमुखीनरथदर्शनेन बलाद्विधार्यमाणा-स्तिर्यग्गत्या गच्छेयुः पार्श्वकीयान् प्रत्यगवस्थितत्वात्तथा हन्युस्तत्र दण्डो विचारितो नास्ति— प्राजके दोषाभावात् ।

अथवा पथि स्थितो वर्तमानः संरुद्धो न विध्रियमाणः ।

अथवा विचारितो विशेषेण विहितो विशेषित इति यावत् ॥२ ९ ५ ॥

हिन्दी - मार्ग में रथ- पशुओं या रथादि से रुका हुआ भी सारथि रथ ( गाड़ी आदि ) हांके और ( उसी कारण ) किसी की मृत्यु हो जाय तो राजा बिना विचार किये अर्थात् शीघ्र ही उस सारथि को दण्डित करे ॥२९ ५ ॥

मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् ।

प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ २ ९ ६ ॥

भाष्य— तादृशे प्राजके रथपशुभिर्मनुष्यश्चेन्मार्यते तदा चौरवत्तस्य किल्बिषं दण्डः । यद्यपि चौरस्य वधः सर्वस्वहरणादयो दण्डास्तथापीह धनदण्ड एव गृह्यते न वध: । महत्स्वर्धमिति तत्रैवार्धसम्भवात् । स चोत्तमसाहसः कैश्चिदभ्युपगतः । यतश्च क्षते क्षुद्रकपशूनां तृतीयस्थानप्राप्तानां द्विशतो दमोऽतः प्रथमस्थानां मुख्यानामुत्तमो युक्त

पृष्ठ 324

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 324 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८८ मनुस्मृतिः [ अष्टमः इति । प्राणभृतः प्राणवन्तो मनुष्यतिर्यक्पक्ष्यादयः । महत्सु महत्त्वं गवां प्रभावतो हस्त्यादीनां प्रमाणतः । आदिग्रहणाद्गर्दभाश्वतरव्याघ्रादयश्च कथंचित्परिगृह्यन्ते । वयं तु ब्रूमः - ' सहस्रम् ' इत्येवमवक्ष्यत् यद्यन्ये चौरवद्दण्डा नाभिप्रेता अभ-विष्यन् । तस्मादर्धग्रहणांद्वधो मा भूद्धनदण्डास्तु सर्वस्वहरणादयः सर्वे चौरोक्ताः पुरुषा-पेक्षयातिदिश्यन्ते । ननु च मनुष्यमारणेऽन्यस्य चौरदण्डस्यातिदेशोऽयुक्तः । स प्रतिपदं मनुष्यहनने विहित: । स च ‘ पुरुषाणां कुलीनानामिति ' ( ३३२ ) वध एव । तत्र किमिति वाक्यान्तर-गतार्धशब्दानुरोधेनैवं व्याख्यायते । वरमर्धस्यैव गुणतः काचिद्वृत्तिराश्रीयताम् ॥ ” सत्यं— यदि धर्मशब्दो मारणेन सम्बध्यमानोऽन्यथोपपद्येत । न च चौरवदित्य-स्यानुषङ्गागतस्यार्थान्तरवृत्तिः पूर्वापरवाक्ययोः शक्या ॥२९ ६ ॥ हिन्दी— ( अब एक बार अपराध होने पर दण्ड - विधान कहते हैं - ) सारथि की असावधानी से मनुष्य के मर जाने पर उसे ( सारथि को ) चोर के समान पाप लगता है ( अत: वह ‘ उत्तम साहस ’ अर्थात् १००० पण से दण्डनीय होता है ), तथा बड़े जीव, ऊँट, गाय, बैल, हाथी, घोड़ा आदि के मरने पर आधा पाप लगता है ( अत: वह ‘ मध्यम साहस ' अर्थात् ५०० पण से दण्डनीय होता है ) ॥२९ ६ ॥

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।

पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ २ ९ ७ ॥

भाष्य- - अपचितपरिमाणाः क्षुद्रकाः । ते च केचिद्वयस्तः, वत्सकिशोरककल-भादयः । केचिज्जातिस्वभावतः, अजैडकादयः । तत्राजाविकानां पञ्च माषान्वक्ष्यति । परिशेषाणां गवादीनामेवायं दण्डोऽल्पपरिमाणानाम् । शुभा मृगाः पृषतादयः - आकारतो लक्षणतश्च । पक्षिणो हंसशुकसारिकादयः । अशुभाः काकोलूकशृगालादयः । पशु-शब्दश्चतुष्पाज्जातिवचनः । हिंसामात्रेण दण्डमिममिच्छन्ति । न प्रकृतयानविधिहेतुं ब्रुवते । ' तत्र दण्डो विचारित ' ( २ ९ ५ ) इत्यनेनैव यानप्रकरणं व्यवच्छिन्नम् । विचारितः समाप्तविचार इत्यर्थः । इदानीमेतत्प्रकरणनिरपेक्षमुच्यत इति । एवं तु " प्राणभृत्सु महत्स्वर्धमिति ” हस्तादि-च्छेदनं ‘ मारण’मित्यर्धशब्दो नेयः स्मृत्यन्तरात् ॥ २ ९ ७ ॥ हिन्दी— ( स्वरूप अर्थात् कद या आयु में ) छोटे पशुओं के मर जाने पर दो सौ पण तथा शुभ मृग ( रुरु, पृषत् आदि जाति का हरिण ) और शुभ पक्षी ( शुक, मैना, हंस, सारस आदि ) के मर जाने पर पचास पण से वह सारथि दण्डनीय होता है ।

पृष्ठ 325

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 325 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता · गर्दभाजाविकानां तु दण्डः स्यात्पाञ्चमाषिकः । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ २ ९ ८ ॥ २८ ९ भाष्य – पञ्च माषाः परिमाणमस्येति पाञ्चमाषिकः । माषस्य च द्रव्यजातेरनुप-पादनान्मर्ध्यमकल्पनायाश्च न्याय्यत्वाद्रौप्यस्य निर्देशोऽयमित्याहुः । हिरण्यं तु युक्तम् । एवं तत्सममिति न वाधितं भवति । अनुबन्धाद्यपेक्षया तु द्रव्यजातिः कल्प्येति सिद्धान्त: ॥२९ ८ ॥ -हिन्दी – गधा, बकरी, भेड़ के मर जाने पर पाँच मासा ( चाँदी ) तथा कुत्ता • और सूअर के मर जाने पर एक मासा चाँदी से वह सारथि दण्डनीय होता है ॥ २ ९ ८ ॥ शिक्षार्थ स्त्री- पुत्रादि के लिए दण्ड-भार्या पुत्रश्च दासश्च प्रेष्यो भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ २ ९९ ॥ भाष्य — प्राप्ता अपराधं प्राप्तापराधाः । ' अपराधो ' व्यतिक्रमः नीतिभ्रंशः । स यदा तैः कृतो भवति तदा ताडयितव्याः । ताडनमपि हिंसेत्युक्तम् । सा च “ न हिंस्याद्भूतानीति ” प्रतिषिद्धाऽपराधे निमित्ते भार्यादीनां प्रतिप्रसूयते । सम्बन्धिशब्दाश्चैते । या यस्य भार्या यश्च यस्य दासः स तेनानुशासनीयः । मार्गस्थापनोपायविधिपरश्चायम्, न ताडनविधिरेव । तेन वाग्दण्डाद्यपि कर्तव्यम् । अपराधानुरूपेण कदाचित्ताडनम् । सोदस्थाने कनीयान्पठितव्यः- — भ्राता तथानुजः । स हि ज्येष्ठस्य पुत्रवत्ताडनार्हः । वैमात्रेयोऽपि चेदपितृको गुणवज्ज्येष्ठतन्त्रश्च । सोऽप्युन्मार्गगामी ताडनादिपर्यन्तैरुपायै-निवारणीयः । वेणुदलं वंशत्वक् । एतदप्युपलक्षणं – तथाविधानां मृदुपीडासाधनानां शिफादीनाम् ॥२९९ ॥

हिन्दी —स्त्री, पुत्र, दास, प्रेष्य ( बाहर भेजा जानेवाला नौकर ), सहोदर ( छोटा ) भाई यदि अपराध करे तो उसे रस्सी से या पतली बाँस की छड़ी से ( शिक्षार्थ ) ताड़न करना चाहिये ॥२९९ ॥

पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे

कथञ्चन ।

अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥ ३०० ॥

भाष्य — उक्तताडनदेशसाधनाभ्यामन्येन प्रकारेण घ्नन्नक्ष्यादिषु लगुडादिभिर्वाचौर-दण्डं प्राप्नोति । निन्दैषा । न त्वयमेव दण्डः । योऽन्यत्र हिंसायां दण्डः सोऽत्र भवती-त्युक्तं भवति ॥ ३०० ॥

-हिन्दी – ( अभिभावक ) उन्हें ( रस्सी या पतली बाँस की छड़ी ) से पीठपर मारे, मस्तक पर कदापि न मारे अन्यथा मस्तकपर मारता हुआ मनुष्य चोर के समान पाप

पृष्ठ 326

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 326 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ० मनुस्मृतिः ( वाग्दण्ड, बनधन दण्डादि ) का भागी होता है ॥ ३०० ॥

चोर के लिए दण्डविधान—

एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।

स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ३०१ ॥

[ अष्टमः भाष्य - एष निःशेषेणोक्तो दण्डपारुष्यनिर्णयो दण्डव्यवस्था । दण्डशब्दो हि साधनोपलक्षकतया विवादपदेऽन्वितार्थः । नामधेये पूर्वपदम् । स्तेनस्य चौरस्य दण्ड-• भेदानतः परं वक्ष्यामीत्युपसंहारोपन्यासार्थः श्लोकः ॥३०१ ॥

हिन्दी— ( महर्षियों से भृगु जी कहते हैं कि – मैंने ) यह ( ८।२७ ९ -३०० ) दण्ड की कठोरता का निर्णय पूर्णतया कहा, अब इसके आगे के निर्णय का विधान कहूँगा ॥ ३०१ ॥

के आगे ( ८।३०१-३४४ ) चोर के दण्ड

चोरनिग्रह राजकर्तव्य-परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः ।

स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ३०२ ॥

भाष्य — कश्चित्करुणावान् क्रूरं हिंसा कर्मेति मन्यमानो न प्रवर्तते । अतस्तत्प्रवृ-त्त्यर्थं स्तेननिग्रहस्तुत्यर्थवादः प्रक्रम्यते । नात्र हिंसादोषोऽस्ति । प्रत्युत दृष्टोपकार-हेतुत्वात्स्तेनहिंसैव श्रेयस्करी । वेदतुल्यतां च ख्यापयितुमर्थवादा भूयांसः । तत्र हि प्रायेण सार्थवादका विध्युद्देशा इति । तत्प्रतीत्यनुसरणेन वैदिकोऽयमर्थ इति प्रसिद्धिः । भवन्ति चात्र केचित्प्रतिपत्तारो ये स्तुतिभिरतितरां प्रवर्तन्ते । परमं यत्नं प्रकृष्टमतिशयवत्तात्पर्यमाश्रयेत् । चरैश्चारयेत् साक्षात्प्रकाशं चाति-प्रयत्नतः । स्तेनाश्चौराः । निग्रहो नियमनवधबन्धनादि । एवं कृते यशः ख्याति-र्भवति । निरुपद्रवोऽस्य राज्ञो देशः स्तेना नाभिभवन्ति निशा दिवा तुल्या तत्रेति सर्वत्र स्थितं भवति । राष्ट्रं वर्धते । राष्ट्रं जनपदस्तस्मिन्निवासिनश्च पुरुषाश्चौरैरनुपद्रूयमाणा वर्धन्ते । श्रीभिः प्रमोदमाना बहु पर्यन्ते देशान्तरस्था अपि निरुपद्रवं राष्ट्रमाश्रयन्ते । ततो वर्धते ॥३०२ ॥

हिन्दी — राजा चोरों का निग्रह करने के लिए पूर्णतया प्रयत्न करे; क्योंकि चोरी के निग्रह से इस ( राजा ) के यश तथा राज की वृद्धि होती है ॥ ३०२ ॥

चोर से अभय करने का फल-अभयस्य हि यो दाता स पूज्यः सततं नृपः ।

सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ३०३ ॥

पृष्ठ 327

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 327 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २ ९ १ भाष्य — अभयं चौरादिभ्योऽधिकृतेभ्यश्चासद्दण्डनिवारणेन यो ददाति स सर्वदैव पूज्यो भवति । स्वैरकथास्वपि राज्याच्च्युतो वनस्थोऽपि । सत्रं क्रतुविशेषो गवाम-यनादि । तदस्य वर्धते निष्पद्यते । सर्वाङ्गसमुत्पन्नमेवंगुणमित्येतद्वर्धत इत्यनेनाहरहः सत्रफलं प्राप्नोतीत्यर्थः । अभयं यत्र दक्षिणा । अन्येषु सत्रेषु दक्षिणा नास्ति । इदं तु सर्वेभ्योऽपि विशिष्टं यद्दक्षिणावत् । सा च गवाश्वादि — दक्षिणाविलक्षणेत्यर्थवान्सत्र-व्यतिरेकः ॥३०३ ॥

हिन्दी – जो राजा ( प्रजाओं को चोरों से ) अभय करनेवाला है वह अवश्यमेव पूज्य ( प्रशंसनीय ) है; क्योंकि उस ( चोरों से अभय करनेवाले राजा ) का अभयरूपी दक्षिणा वाला यज्ञ सर्वदैव बढ़ता है ॥ ३०३ ॥

राजा को धर्माधर्म के षष्ठांश की प्राप्ति-सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।

अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ ३०४ ॥

भाष्य – सर्वतः प्रकाशाद्यज्ञादेः तथा ग्रामवासिभिः वनवासिभिश्च कृताद्धर्मषड्-भागं राजा लभते । एवमधर्मादपि चौरैः प्रच्छ कृताद्राज्ञः षड्भागो भवति । न केवलं स्तेनैर्ये मुष्यन्ते तदरक्षातो राज्ञामधर्मो यावद्ये हरन्ति तेषामपि चौर्यभावेनाधर्मोदयस्त-दंशेनापि राजानः सम्बध्यन्ते ताननिगृह्णन्तः । अदृष्टदोषसम्बन्धनिवारणमपि रक्ष्याणां रक्षैव । तत्राधिकृतस्य राज्ञस्तदकरणाद्युक्तः प्रत्यवायः । “ ननु च भृतिपरिक्रीतत्वाद्धर्म-षड्भागमयुक्तम् । ’ ” उक्तं दीनानाथप्रव्रजितादयः सन्त्यकरप्रदाः । परिपूर्णस्वधर्मपालने कानुपपत्तिः ॥३०४ ॥

हिन्दी – प्रजाओं की रक्षा करनेवाले राजा को सबके धर्म का छठा भाग प्राप्त होता है और ( प्रजा की रक्षा नहीं करनेवाले राजा को अधर्म का भी छठा भाग प्राप्त होता है ॥ ३०४ ॥

यदधीते

यद्यजते यद्ददाति यदर्चति ।

तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ३०५ ॥

भाष्य – यदुक्तं ' सर्वत ' इति तस्य प्रपंचोऽयम् । अध्ययनादयो धर्मार्थतयाऽन्यत्र ज्ञापिताः प्रसिद्धरूपाश्च । ' अर्चनं ' देवगुरुणां पूजनम् । तस्येति कर्मणोऽध्ययनादेः पदार्थस्येति योजनीयम् 1 । क्रियायाः स्त्रीलिङ्गत्वात् । षड्भाग इति । न च कर्तुः पञ्च-कर्मफलांशात् षष्ठो नृपतेः, समग्रकर्मफलभोक्तृत्वस्याधिकारतः कर्तुरवगतत्वात् । अपि तु सम्यग्ग्रक्षणात्स्वकर्मानुष्ठानात्तावन्मात्रं राज्ञः फलमुत्पद्यत इति । नान्यकृतस्य

शुभस्याशुभस्य वा अन्यत्र गमनम् । नाकर्तुः फलमस्तीति स्थितम् ॥३०५ ॥

पृष्ठ 328

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 328 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ २ मनुस्मृतिः [ अष्टमः हिन्दी – ( राज्य में रहनेवाली प्रजा ) जो ( वेदादि ) पढ़ती है, यज्ञ करती है, दान देती है तथा ( देवादि का ) पूजन करती है; उस ( पुण्य ) का छठाँ भाग अच्छी तरह ( प्रजा की ) रक्षा करनेवाले राजा को प्राप्त होता है ॥ ३०५ ॥

रक्षन्धर्मेण भूतानि राजा वध्याश्च घातयन् 1 यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥३०६ ॥

भाष्य — भूतानि स्थावरजङ्गमानि चौरेभ्यो रक्षन् । वध्याश्च शास्त्रतो वधार्हाः-तांश्च घातयन् । सहस्त्रशतदक्षिणानां पौण्डरीकादीनां क्रतूनां फलमन्वहं राजा प्राप्नो-तीति स्तुतिः ॥३०६ ॥

हिन्दी— ( निरपराध स्थावर - जङ्गम सब ) जीवों की धर्मपूर्वक रक्षा करता हुआ तथा वधयोग्य जीवों का वध करता हुआ राजा प्रतिदिन सहस्त्रों - सैकड़ों दक्षिणा वाले यज्ञों को करता रहता है || ३०६ ॥ विमर्श – सहस्रों - सैकड़ों जीवों की रक्षा करने से उस राजा को यज्ञ के समान तज्जन्य पुण्य प्राप्त होता है ॥

अरक्षक करग्रहीता की निन्दा-योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः ।

प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥३०७ ॥

भाष्य — बलिप्रभृतीनि राजाग्राह्यकरनामानि देशभेदे सूपमाणवकवत्प्रसिद्धानि । तत्र बलिर्धान्यादेः षष्ठो भागः । करो द्रव्यादानम् । शुल्कं वणिक्प्राप्यभागः । प्रति-भागं फलभरणिकाद्युपायनम् । राजैतद्गृह्णाति चौरेभ्यश्च न रक्षति स सद्य आयुः-क्षयान्नरकं गच्छेत् । गृहीत्वा राजभागं रक्षा कर्तव्या नरकायुःक्षयभयादिति श्लोक-तात्पर्यम् ॥३०७ ॥

हिन्दी— ( प्रजाओं की ) रक्षा नहीं करता हुआ जो राजा बलि, कर, शुल्क ( टैक्स ) तथा प्रतिभाग दण्ड को ( प्रजाओं से ) लेता है; ( मरकर ) तत्काल नरक को जाता है ॥३०७ ॥

विमर्श - प्रजाओं से राजा को प्राप्त होनेवाला अन्न आदि का छठा भाग ' बलि ', प्रतिमास या प्रति छठे मास ( भाद्र तथा पौष ) में प्राप्तव्य राजभान ' कर ', स्थल - जलादि मार्ग से व्यापार करनेवालों से विक्रय - द्रव्यानुसार लिया जानेवाला धन अर्थात् चुङ्गी या कस्टम, ( आयात - निर्यात - कर ) ' शुल्क ' फल, फूल, शाक आदि के रूप में लिया जानेवाला राजभाग ‘ प्रतिभाग ' और जुर्माने के रूप में लिया जानेवाला राज - भाग ‘ दण्ड ’ कहलाता है ।

पृष्ठ 329

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 329 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

अरक्षितारमत्तारं बलिषड् भागहारिणम् ।

तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ ३०८ ॥

२ ९ ३ भाष्य - पूर्वस्य शेषोऽयं निन्दार्थवादः । न रक्षति श्रत्ता । उपजीविता प्रजानां राजभागग्रहणेन । एतदेव स्पष्टयति । बलिषड् भागहारिणं तं तादृशं राजानमाहुः शिष्टाः सर्वलोकस्य हारकं

सर्वस्याः प्रजायाः समग्रं मलं पापं तस्य स्वीकर्तारम् ।

सर्वेण प्रजापापेन दूष्यत इत्यर्थः ॥३०८ ॥

हिन्दी— ( निर्दोष प्रजा की दुष्ट चौरादि से ) रक्षा नहीं करता हुआ तथा ( प्रजा से ) छठे भाग के रूप में बलि ( राजग्राह्य भाग ) को लेता हुआ सब लोकों के सब पापों का हरण ( ग्रहण ) करनेवाला होता है, ऐसा मनु आदि ऋषि कहते हैं ॥ ३०८ ॥

अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।

अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ३० ९ ॥

भाष्य - मर्यादा शास्त्रशिष्टसमाचारनिरूढा धर्मव्यवस्था — साऽनवेक्षिताऽतिक्रान्ता येन । ‘ नास्ति परलोको नास्ति दत्तं नास्ति हुतमिति ' नास्तिकः । प्रथमो रागादिना त्यक्तधर्मः, नास्ति वस्त्विति विपरीताभिनिवेशः । विलुम्पति हरति धनान्यसद्दण्डैः प्रजानाम् । तत्तुल्योऽरक्षिता । तमधोगतिं विद्यान्नरकपतितमधोगतं विद्यान्नरकपतित-मेवाचिरात् । पाठान्तरम् — ‘ असत्यं च नृपं त्यजेत् ' । अन्यदुक्त्वाऽन्यत्करोति यस्तं त्यजेत्तद्विषये नासीत ॥३० ९ ॥ हिन्दी - शास्त्रमर्यादा को नहीं माननेवाले, नास्तिक, ( लोभादि के वशीभूत होकर ) अनुचित दण्ड आदि के द्वारा धन लेनेवाले, रक्षा नहीं करनेवाले और ( कर, बलि आदि का ) भोग करनेवाले राजा की अधोगति जाननी चाहिये ॥३० ९ ॥ अधार्मिक का तीन प्रकार से निग्रह-अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥ ३१० ॥

भाष्य — अर्थवादैर्दृढीकृत्य निग्रहविधिमिदानीं प्रस्तौति I । अधार्मिकः । प्रकरणा-च्चौरः । तं त्रिभिर्नियमनप्रकारैर्निगृह्णीयान्नियच्छेत् । न्यायो नियामक: । निरोधनं राजदुर्गे बन्धनागारे धरणम् । बन्धस्तत्रैव रज्जुनिगडादिभिरस्वातन्त्र्योत्पादनम् । विविधो वधस्ताडनादारभ्य शरीरनाशनात् प्राणात्यागपर्यन्तः । निर्देशादेव त्रित्वे लब्धे त्रिभि-रिति वचनमन्येषामपि नियमनप्रकाराणां परिग्रहणार्थम् । तेन तप्ततैलसेकादयोऽपि परि-गृहीता भवन्ति ॥ ३१० ॥

हिन्दी – ( अतएव धार्मिक राजा अपराध के अनुसार ) विरोध ( हवालात या कैदखाने

पृष्ठ 330

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 330 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ४ मनुस्मृतिः [ अष्टमः में बन्द ) करना, बन्धन ( हथकड़ी, बेड़ी आदि डालना ) और अनेक प्रकार के वध ( ताडन-मारण आदि ); इन तीन उपायों से अधार्मिक ( चोर आदि ) का प्रयत्नपूर्वक निग्रह ( कर उन्हें दण्डित ) करे ॥३१० ॥

पाप - निग्रह तथा सज्जनानुग्रह का फल-निग्रहेण हि पापानां साधूनां संग्रहेण च ।

द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ३११ ॥

भाष्य – पापयुक्ताः पुरुषाः पापाः । तेषां निग्रहः पूर्वोक्तः । यथाशास्त्रवर्तिनः साधवः । तेषां संग्रहोऽनुग्रहो यथाशक्त्युपकारः । तेन पूयंते विपाप्मानो भवन्ति प्राय-श्चित्तेन वेत्यर्थवादः । अथवा पापानुत्पत्तिरेव पूतत्वम् । ब्राह्मणा इव सततमिज्याभिः नित्यैर्महायज्ञादिभिः ॥३११ ॥

हिन्दी – पापियों के निग्रह ( दण्डित कर रोकथाम करने ) तथा सज्जनों पर अनुग्रह करने से राजा, यज्ञों से द्विजातियों के समान सर्वदा पवित्र अर्थात् पुण्यवान् होता है ॥ ३११ ॥

वादी - प्रतिवादी तथा बाल वृद्धादि के आक्षेप को सहना-क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ ३१२ ॥

भाष्य — कार्यिणोऽर्थिप्रत्यर्थिज्ञातिसुहृदः । कस्मिश्चिद्बध्यमाने यदि तत्पिता तन्माता वा राजानं क्षिपेत्कुत्सयेत् अभिशपेद्वा तदा क्षमा कार्या । बालादीनां कार्यिणामपि ।

एवमात्मने हितं कृतं भवति । क्षंतव्यमित्येताद्विधेः फलमेवात्महितम् ॥ ३१२ ॥

हिन्दी — स्व - हित - कर्त्ता राजा ( दुःखित ) वादी तथा प्रतिवादी ( मुद्दई और मुद्दालह ) के और बालक, बूढ़े और आर्त ( रोगी आदि ) के आक्षेपों को सहन करे ॥ ३१२ ॥

उक्ताक्षेप सहने आदि का फल-यः क्षिप्तो मर्षयत्यात्तैस्तेन स्वर्गे महीयते ।

यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ३१३ ॥

भाष्य- -आर्तैर्दण्ड्यमानतत्सम्बन्धिभिरभिक्षिप्त आक्रुष्टो यन्मर्षयति न क्रुध्यति तेन क्षमणेन स्वर्गे महीयते । कण्ड्वादित्वाद् यः । महत्त्वं प्राप्नोति स्वर्गे । अकोपेन तर्हि क्षमा कर्तव्या । अकामिनो यथाकामी अत आह । यत्तु प्रभुरहमित्यभिमानेन न सहते तेन नरकं प्राप्नोति । आर्त्तग्रहणं बालवृद्धयोरपि प्रदर्शनार्थं पूर्वशेषत्वादस्य || ३१३ ॥ हिन्दी - जो राजा दुःखितों के आक्षिप्त ( कंठोर वचनों को ) संहता है, उससे वह