मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 331–340
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २ ९ ५ स्वर्ग में पूजित होता ( आदर पाता ) है; किन्तु जो ऐश्वर्य ( स्वामित्व के अभिमान ) से ( दुःखितों के आक्षेपों को ) नहीं सहता है, उससे वह नरक जाता है ॥३१३ ॥
ब्राह्मण के सुवर्ण को चुरानेवाले का कर्त्तव्य-राजा स्तेनेन गंतव्यो मुक्तकेशेन धीमता । आचक्षाणेन तत्स्तेयमेवंकर्माऽस्मि शाधि माम् ॥ ३१४ ॥
स्कन्धेनादाय मुशलं लगुडं वाऽपि खादिरम् ।
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ३१५ ॥
भाष्य— अविशेषोपादाने सुवर्णहारी स्तेनो द्रष्टव्यः । तस्यैव शास्त्रान्तरे गमन-' विधानात् । न चेदमागमनपरं विधिशास्त्रम्, दण्डविधित्वात् । उक्तं हि “ स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णय ” इति ( ३०१ ) । अतोऽनुवादो गमनस्यात्र । राजसकाशं सुवर्णचौरेण गन्तव्यम् । मुक्तकेशेन धीमता धैर्यवता । ' धावतेति ' पाठान्तरम् । आच-क्षाणेन कथयता पथि तत्पातकमेवंकर्माऽस्मि - ' ब्राह्मणस्य मयेयत्सुवर्णं हृतमिति कुरु निग्रहं मे ' । वर्णानाममनुक्रमेण मुशलादीनामुपदेशं मन्यन्ते । तदयुक्तम् । वाशब्दो न समर्थितः ः स्यात् । न च ब्राह्मणस्येदं प्रायश्चित्तमिच्छन्ति । तत्प्रायश्चित्तेषु निरूपयिष्यामः । खदिरजाति-गुड एव — न मुशलेनानुषक्तव्यः ॥३१५ ॥
हिन्दी – ब्राह्मण के सुवर्ण को चुरानेवाला चोर कन्धे पर मुसल या खैर कत्थे की लाठी या दोनों ओर तेज शक्ति ( दोनों ओर धारवाली बर्धी ) या लोहे का डण्डा लिये तथा ‘ बालों को खोले हुए दोड़कर राजा के पास जाकर ' मैंने ऐसा कार्य ( ब्राह्मण के सुवर्ण की चोरी ) किया है, मुझे दण्डित कीजिए ' ऐसा राजा से कहे ॥३१४-३१५ ॥ [ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥ २२ ॥ ]
[ हिन्दी – राजा मुसल ( या चोर के कन्धे पर रखकर लाये गये लाठी आदि ) से स्वयं उस चोर को एकबार मारे, उस मारने से चोर शुद्ध अर्थात् निष्पाप हो जाता है और ब्राह्मण तपस्या से ही शुद्ध होता है अर्थात् ब्राह्मण का सुवर्ण चुरानेवाले ब्राह्मणजातीय चोर को राजा उस मुसलादि से मारे नहीं, किन्तु वह ब्राह्मणजातीय चोर तपस्या ( प्रायश्चित्त ) करके आत्मशुद्धि कर ले || २२ || ] शासन नहीं करानेवाले राजा का दोष-शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्विषम् ॥ ३१६ ॥
मनु II 21
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
२ ९ ६ मनुस्मृतिः [ अष्टमः भाष्य — शासनान्मुशलादिभिः प्रहरणात्क्षत्रियादिः पापान्मुच्यते । विमोक्षादुत्सर्गात् । गच्छ क्षान्तमिति । “ ब्राह्मणस्तपसैवेति " वधतपसी विहिते ( मनु ११।१०० ) । तत्र वधस्तावद्ब्राह्मणस्य नास्ति । तपस्तु प्रायश्चित्तम् । न च तप इच्छातोराजाभिगमनमस्ति । तस्मात्क्षत्रियादीनामेष विमोक्षः । स च धनदण्डं गृहीत्वा । यत आह आशसित्वेत्यादि । न च विमोक्षणशुद्धौ सत्यां राज्ञस्तदशासनाद्दोषोपपत्तिः । न च " शासनमपि विहितं मोक्षोऽपि विहितः- तत्र यस्मिन्पक्षे शासनं तदपेक्षं दोषवचनम् । ” पाक्षिकं हि तथा कल्पनम् । न च नित्यवच्छ्रुतस्य पाक्षिकत्वं युक्तं कल्पयितुम् । तथा च सामान्येन वसिष्ठादय आहुः – अधर्मेण स्वीयेन ऋच्छति राजानमुत्सृजन्तं सकिल्बिषन्तं चेद् घातयेद् राजा घ्नन्धर्मेण न दुष्यति ' । नायं विकल्पो युक्तः । क्वचिदियं हिंसा प्रतिषिद्धा “ न हिंस्याद्भुतानीति ” रागादिना पुरुषार्थतया प्राप्ता । क्वचिद्विहिता – क्रत्वर्थत्वेन ‘ यो दीक्षितो यदग्नीषोमीयमिति ' । इदं तु शासनविमोक्षणवचनं न नाम प्रतिषिद्धं सति विधौ । कथं न प्रतिषेधः । “ न हिंस्याद्भूतानीति ” सामान्यतः प्रतिषेधो विधिविशेषमन्तरेण न शक्यो बाधितुम् । अथोच्यते — नैवायं प्रतिषेधस्य विषयः, कर्मार्थत्वात् । कथं पुनरन्तरेण विधिं कर्मार्थता शक्याऽवगन्तुम् । लोकत इति चेल्लौकिकी प्रवृत्तिः । कथं तर्हि प्रतिषेधस्तत्रावतरेत् । ननु प्रधाने प्रवृत्तिर्निरूप्याताम् । यदि तावद्वैदिकी प्रवृत्तिस्ततस्तदङ्गे हिंसायामपि तत एव । एका हि प्रवृत्तिरङ्गप्रधानयोः । अथ लिप्सातोऽङ्गेऽपि तत्र प्रवृत्ति:, सुतरां तर्हि हिंसेयं लौकिकी । जीविकार्थिनो हि प्रजापालनाधिकारनियमो न वैधः । तेनेयमङ्गस्थापि हिंसा श्येनतुल्यत्वात्प्रतिषेधविषयः । न च लौकिकमस्या नियतमङ्गत्वम् । नो हिंसामन्तरेण प्रजापालनमशक्यम्, निरोधादिनाऽिपि शक्यत्वात् । नैष नियमः । एकरूपाऽङ्गप्रधानयोः प्रवृत्तिरिति स्नान्नाग्नीषोमीययोरनेन विशेषः स्यात् । अतो लिप्सा-लक्षणेऽपि प्रधानेऽङ्गे विधिलक्षणमभ्युपेतव्यम् । न चैष हिंसाविधिलक्षणा शक्याऽभ्युप-गन्तुं स्वरूपस्य कार्यस्य च लौकिकत्वात्पालनस्य हिंसायाश्च ॥ अथ विधिलक्षणा षोडशि-ग्रहणवद्विकल्पितुमर्हति शासनवचनेन प्रतिषिद्धा । अन्ये तु मन्यन्ते । द्वे एते वाक्ये | शासनादिति स्तेनस्य शुद्धिरुच्यते, परेणार्धेन राज्ञस्स्तदशासने दोषः । तत्र यदि राजाऽशासनदोषमात्मन्यङ्गीकृत्य मुञ्चेन्मुच्येतैवैनसः । एवं ब्राह्मणस्यापि स्वयमागतस्य वधः शुद्धिहेतुः – ' लक्ष्यं शस्त्रभृतामिति वचनात् ( मनु ० ११।७३ ) । “ न शारीरो ब्राह्मणदण्डः ” इति ( गौतम सू ० १२।४६ ) राजा यदि
प्रतिषेधातिक्रमेण हन्याद्ब्राह्मणः शुध्येदेव ।
अशासित्वा मुशलादिभिरहत्वा । स्तेनस्य यत्पापं तेन युज्यते ॥३१६ ॥
हिन्दी – ( मुशल आदि— ( पूर्व श्लोकोक्त ( ८।३१५ ) शस्त्रों में से जिस शस्त्र को चोर लाया हो उससे ) एक बार राजा के द्वारा मारने के कारण प्राणत्याग करने से या मरे
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २ ९ ७ हुए के समान जीवित भी उस चोर को छोड़ देने से वह चोर चोरी के पाप से छूट जाता है; किन्तु ( दया आदि के कारण ) उसे दण्डित नहीं करनेवाला उस चोर के पाप को प्राप्त करता है ॥३१६ ॥
दूसरे के पाप की प्राप्ति-अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी ।
गुरौ शिष्यश्च याज्यश्चस्तेनो राजनि किल्बिषम् ॥ ३१७ ॥
भाष्य — अन्नमत्तीत्यन्नादः । भ्रणहा ब्रह्महा । तदीयमन्नं यो भुङ्क्ते तस्मिंस्तद्-ब्रह्महत्यापापं मार्ष्टि निरस्यति श्लेषयति । यथा मलिनं वस्त्रमुदके मृज्यते तन्मलं तत्र संक्रामत्येवम् । अर्थवादश्चायम् । तस्य तत्पापमुत्पद्यते । ब्रह्मणो श्लेषः । पत्यौ भर्त्तरि भार्यापचारिणी जारिणी— स चेत्क्षमते । तत्रापि भर्तुरुत्पद्यते पापं, तस्या अपैति । गुरौ शिष्यश्च याज्यश्च शिष्यः ” सूर्याभ्युदितादिभिरपराध्य गुरौ क्षममाणे तत्पापं प्रक्षि-` पति । एवं याज्यो याजके । सोऽपि गुरुरेवेत्यतो याजकग्रहणं न कृतम् । एवं चौरो राजनि— न चेद्राज्ञा निगृह्यते । याज्योऽपि कर्मणि प्रवृत्ते विधिमपक्रामति चेद्याजकवचने ग्नावतिष्ठते तदा त्याज्यः, न पुनस्तस्य ताडनादि शिष्यवत्कर्तव्यम् । अन्नादादिषु
ग्सर्वेष्वन्यत्र विधिरस्तीति न बुद्धिः । अतोऽर्थवादोऽयम् ॥३१७ ॥
हिन्दी — भ्रूणहत्या करनेवाला अपने ( भ्रूणहत्या करनेवाले का ) अन्न खानेवाले को, व्व्यभिचारिणी स्त्री ( जार को सहने अर्थात् मना नहीं करनेवाले ) पति को, शिष्य ( सन्ध्या-व्वन्दनादि नित्य - कृत्यत्याग को सहनेवाले ) गुरु को, याज्य अर्थात् यजमान ( विधि का त्त्यागकर यज्ञादि कर्म करते रहने पर भी उसे सहन करनेवाले अर्थात् विधिपूर्वक यज्ञादि क्कर्म को करने के लिए प्रेरित नहीं करनेवाले ) गुरु को और चोर ( दण्डित नहीं करनेवाले ) रराजा को अपना - अपना अपराध ( पापजन्य दोष ) दे देते हैं ॥ ३१७ ॥
विमर्श - भ्रूणहत्या करनेवाले आदि तो अपने - अपने कर्मों के पाप ( दोष ) से युक्त राहते ही हैं, किन्तु उनके अन्न खानेवाले आदि भी उनके पाप से युक्त हो जाते हैं, अतएव रराजा को चाहिए कि चोर को अवश्य दण्डित करे ।
दण्ड प्राप्ति से पाप मुक्ति-राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३१८ ॥
भाष्य — यदुक्तं पापकारिणो निग्रहेण कर्मकृतो रक्ष्यन्त इति तत्स्फुटयति । धृतो व्विनिपातितो दण्डो येषां राजभिस्ते कृत्वा पापानि कृतपापा राजनिग्रहेण निर्मला न्निरस्तपापा भवन्ति । अपगते च पापे यदेषां स्वर्गारोहकं कर्म तेन स्वर्गं प्राप्नुवन्ति ।
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ मनुस्मृतिः [ अष्टमः महद्धि पापं शुद्धस्य कर्मणः फलस्य प्रतिबन्धकम् । सुकृतिनो नित्यं सुकृतकर्मकारिणः । यथा सन्तः धार्मिकास्तद्वत् । सतामधर्मो नैवोत्पद्यत एषामुत्पन्नो निग्रहणेन विनाशित इति प्राक्प्रध्वंसाभावयोर्विशेषः । मानवग्रहणान्न प्रकरणाच्चौराणामेव । दण्डशब्दस्तु शरीरनिग्रहविषयो न हि प्रकरणमतिक्रामति । धनदण्डो हि राजार्थः । वृत्तिर्हि सा राज्ञः । शारीरे तु दण्डे दण्ड्यमानार्थता न शक्यते निह्नोतुम् । त्वक्संस्कारो हि सा । अथेयं बुद्धि – ' पालनमेव हिंसामन्तरेण न निष्पाद्यते — तच्च राजार्थमिति कुतो मार्यमाणार्थता मारणस्य ' – अथ किं पालनं न पाल्यमानार्थं दृष्टमेवाप-ह्रूयते । न हि तद्दृष्टमुपादेयं राज्ञैव स्वरक्षार्थं करणशुल्कादिभृत्या उपादीयन्ते । अत: सुतरां रक्षोपयोग्गित्वे हिसायां न हिंस्यमानार्थतासिद्धिः । कथं वा हिंसया विना न रक्षानिर्वृत्तिर्यदि तावदेवमर्थं निगृह्यन्ते पुनरकार्यमावर्तयिष्यते तन्निरोधनादिनापि शक्यते नियन्तुम् । अथ तान्निगृहीन्दृष्ट्वा भयादन्ये न प्रवर्तयिष्यन्त इति धनदण्डेनापि शक्यते दुःखयितुम् । हन्यमानेष्वपि सहस्रशः प्रवर्तन्ते । तस्मादियं हिंसा रक्षा सती हिस्यमान-संस्कार इति मन्तव्यम् । अतश्च कारणादिछेदने नियमः । हस्त्यादिविधिश्च दण्ड्येष्वे-वादृष्टमाधास्यति, न राजार्थो भविष्यति । तस्माच्छरीरदण्डे पापान्मुक्तिर्न धनदण्ड इति स्थितम् । तथाच महापातकिनां हृतसर्वस्वानामप्सु प्रवेशितदण्डानां संव्यवहारपरिहारार्थमङ्कनं वक्ष्यति । यदि च धनदण्डेन शुध्येषुः पुनरङ्कनमनर्थकं स्यात् । अत्र च स्वयमागतस्य नानीतस्य विशेषो यः स्तेन एवं विशेषो भवतु । इदं तु सर्वं शारीरदण्डविषयम् ॥३१८ ॥
हिन्दी — मनुष्य पाप करके राजा से दण्डित होकर पापरहित हो ( अपने दूसरे पुण्य कर्मों के प्रभाव से ), पुण्यात्माओं के समान स्वर्ग को जाते हैं ॥ ३१८ ॥
कुएँ की रस्सी आदि चुराने पर दण्ड–
यस्तु रज्जुं घटं कूपाद्धरेद्धिंद्याच्च यः प्रपाम् ।
स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् ॥ ३१ ९ ॥
भाष्य – प्रपिबन्त्यस्यामिति प्रपा । जलाधारस्थानं उद्धृतजलनिधानं वा ।
माषस्य जातिर्न निर्द्दिष्टा । सा मरुजाङ्गलानूपभेदाद् द्रष्टव्या ।
तच्च रज्ज्वादि समाहरेद्दद्यात्तस्मिन् स्थाने, न राजनि ॥३१९ ॥
हिन्दी – जो कुएँ की रस्सी या घड़ा चुराता है अथवा प्याऊ ( पौसरा ) तोड़ता है,
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २ ९९ वह एक मासे सुवर्ण से दण्डनीय होता है और उसे उक्त चोरित रस्सी तथा घड़े को लाना तथा प्याऊ को बनवाना भी पड़ता है ॥ ३२ ९ ॥ धान्यादि चुराने पर दण्ड–
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ ३२० ॥
भाष्य – कुम्भशब्दः परिमाणविषये वर्तते न घटमात्रे । क्वचिद्विंशतिप्रस्थान्क्व-चिद्द्वाविंशतिरिति देशभेदाद्व्यवस्था । दशभ्योऽधिकं हरतो वधविधिरुक्तार्थोऽनुबन्धा-दिना नियम्यते । शेषेषु दशसु प्राकृत एकादशगुणो दण्डः । तस्य च तद्धनमिति सर्वत्र स्तेये योज्यम् । धान्यं व्रीहियवादिसप्तदशानीति स्मर्यते ॥ ३२० ॥
हिन्दी - राजा दश कुम्भ से अधिक धान्य ( अन्न ) चुरानेवाले को वध ( चुरानेवाले तथा धान्य के स्वामी के गुणादि के अनुसार ताड़न, अङ्गच्छेदन एवं वध तक ) से दण्डित करे । शेष ( एक कुम्भ से अधिक दस कुम्भ तक धान्य चुराने के अपराध ) में चुराये हुए धान्य के ग्यारहगुने धान्य से चोर को दण्डित करे और धान्य के स्वामी का जितना धान्य चुराया गया हो उतना वापस दिलवा दे ॥ ३२० ॥
विमर्श – २० पल ( ८० भर ) का एक सेर और २०० पल का एक द्रौण और २० द्रौण का एक ‘ कुम्भ ' होता है । सुवर्ण, वस्त्रादि चुराने पर दण्ड–
तथा धरिममेयानां शतादभ्यधिके वधः ।
सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ ३२१ ॥
भाष्य— धरणं ‘ धरिमा ' तुला । तेन मीयन्ते परिछिद्यन्ते तानि धरिममेयानि । घृतादीनां द्रवाणां प्रस्थादिमेयताऽस्तीति कठिनानां परिमेयता भवतीति तदर्थमाह । सुवर्णरजतादीनाम् । आदिग्रहणादेव रजते लब्धे पुनरुपादानात्तुल्यग्रहणार्थात्प्रवालादीनि गृह्यन्ते, न तु ताम्रलोहादीनि । तेषां शतादूर्ध्वं हरणे वधः । किं पुनरेतच्छतं पलानामुत कर्षाणामेव कार्षापणानां वा । केचिदाहुः पलानामिति । न त्वत्र विशेषे हेतुरस्ति । तस्माद्यस्मिन्देशे धरिममानकाले यया संख्यया व्यवहारः— ' शतमिदं सुवर्णस्य ' क्वचित्तोलके क्वचित्पलेषु — यथादेशं व्यवस्था । उत्तमानां च वाससां कौशेयपट्टादीनामिति । शतादभ्यधिके वधः इत्यनुषङ्गः । अत्रापि शाटकयुगमेकमिति संख्यायते । पुष्पपटाद्युपबर्हणं त्वेकमेवेति । “ ननु च सुवर्णरजतादीनामित्येव सिद्धे परिमेयग्रहणमनर्थकम् । ”
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
३०० मनुस्मृतिः नानर्थकम् कर्पूरागुरुकस्तूरिकादीनां महार्घाणां ग्रहणार्थम् । [ अष्टमः आदिग्रहणाद्धि तैजसानि गृह्यन्ते, निष्कादिपरिमाणव्यपदेश्यानि वा । न हि कर्पूरादीनां कर्षादिव्यपदेशोऽस्ति । यद्यपि सुवर्णवद्रजतेऽपि शतसंख्या तथापि प्रायश्चित्त-भेदवद्दण्डभेदोऽपि युक्तो विषमसमीकरणस्यान्याय्यत्वात् । अतो यावत्सुवर्णगतस्य मूल्यं
तावति रूप्ये गृहीते वधः । कर्पूरादीनां तु पलानामेव शतसंख्या ॥३२१ ॥
हिन्दी — और काँटे से तौलने योग्य सोना, चाँदी आदि तथा उत्तम वस्त्र सौ पल से अधिक चुरानेवाले को राजा वध ( देश, काल, चोर, द्रव्य के स्वामी की जाति तथा गुण की अपेक्षा से ताडन अङ्गच्छेदन और मारण तक ) से दण्डित करे ॥ ३२१ ॥
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ३२२ ॥
भाष्य – सुबोधोऽयम् । मूल्यादिति । नापहृतमेव द्रव्यं देयम् । क्वचित्तज्जातीयं नैव प्राप्यते । अतो रूपकैर्धान्यादिना वा विनिमेयम् ॥३२२ ॥
हिन्दी – ( सोना, चाँदी आदि काँटे पर तौलकर बेची जानेवाली वस्तु तथा बहुमूल्य रेशमी वस्त्रादि को ) ५० पल से अधिक १०० पल तक चुरानेवाले का हाथ काटने का दण्ड ( मनु आदि ने ) कहा है और शेष ( एक पल से पचास पल तक उक्त वस्तुओं को चुराने के अपराध ) में राजा चोरित वस्तु का ग्यारह गुना दण्ड निश्चत करे ॥ ३२२ ॥
स्त्री, पुरुषादि चुराने पर दण्ड–
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधमर्हसि ॥ ३२३ ॥
भाष्य- – सत्कुले जाता विद्यादिगुणयोगिनः कुलीनाः । नारीणां च विशेषता गुणरूपसौभाग्यसम्पन्नानामित्यर्थः । चशब्दात्कुलीनानामित्येव परस्परापेक्षाणि नारीणां विशेषणानि । मुख्यानि उत्तमानि रत्नानि वज्रवैडूर्यमरकतप्रभृतीनि । अत्रापि सुवर्णशततुल्यानीत्यपेक्ष्यम् । अन्यथोत्तमत्वमापेक्षिकमिति दण्डो न व्यवतिष्ठेत ।
वधमर्हति । अनुबन्धाद्यपेक्षया सर्वत्र वध्यर्थो योजनीयः ।
अकुलीनानामवशिष्टानाममुख्यानां च ' शेष त्वेकादशगुण ' इत्येव ॥३२३ ॥
हिन्दी — श्रेष्ठ कुल में उत्पन्न पुरुष तथा विशेषतः स्त्रियों और मुख्य रत्न ( माणिक्य हीरा, वैदूर्य आदि ) की चोरी करनेवाला वधके योग्य होता है अर्थात् राजा को उक्त चोरी करनेवाले का वध करना चाहिये ॥३२३ ॥
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३०१
बड़े पशु आदि के चुराने पर दण्ड-महापशूनां हरणे शस्त्राणामौषधस्य च ।
कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ३२४ ॥
भाष्य- -महापशवो हस्त्यश्वादयः । तेषा हरणे कालकार्यापेक्षा दण्डप्रक्लृप्तिः । “ ननु च सर्वत्रैव कालाद्यपेक्षोक्ता । तथा च कालदेशवयः शक्तीश्चिन्तयेद्दण्डकर्म-णीति ' । सत्यम् । विज्ञाते दण्डस्वरूपे न्यूनाधिकभावोऽनुबन्धाद्यपेक्षः । यथा वधविधौ ताडनमारणादिकल्पनाऽपेक्ष्या । इहात्यन्तविलक्षणो दण्डः । तथा हि विंशतिपणोऽपि खङ्गः शत्रोरुद्यतशस्त्रस्य सन्निधौ यदि ह्रियते तेन कार्यातिशयेन तेन च कालेन मारणं दण्डः । अन्यदा द्विगुण एकादशगुणो वा । तथौषधमलभ्यत्वेन महाप्रयोजनं तदुपयोग-वेलायां ह्रियते — लभ्यमानमपि क्वाथाद्यपेक्षं कालातिक्रमणेन महदातुरस्य दुःखं जन-यतीति — तत्र महान्दण्डः । अन्यदा तु स्वल्प इति । न तत्रान्तरमन्तरेणेदृशं वैषम्यं लभ्यते । अन्यथा स एवैकः श्लोको दण्डविधौ पठितव्यः स्यात् । तस्माद्वक्तव्यमिदम् । विग्रहकालेऽश्वादीनां राज्यापेक्षो दण्डः । शास्त्राणां राजोपयोगिनां कदाचित्क्षमा कदा-चिन्महान्दण्डः । गोमहिष्यादीनां तु प्रजासम्बन्धिनां न राज्ञा क्षन्तव्यम् । कार्यं च यद-श्वादिभिः कर्त्तव्यं तदप्यपेक्ष्यम् । विग्रहोऽपि । यदि पर्वतादौ भवति यत्र नातीवाश्वैः प्रयोजनं भवत्येव दण्डह्रास: । कालमासाद्य ज्ञात्वा निरुप्य दण्डं कल्पयेत् । स एवात्र भवति न नः शास्त्रम् ॥३२४ ॥
हिन्दी - बड़े पशु ( हाथी, घोड़ा, ऊँट, बैल, गाय, भैंस आदि ) के, तलवार आदि शस्त्रों के और औषधों के चुराने पर राजा समय ( अकाल, दुर्भिक्ष आदि ), कार्य ( चोरित का भले - बुरे कार्यों में उपयोग आदि ) को देखकर चोर के लिए दण्ड का निश्चय करे || ३२४ ॥
गोषु ब्राह्मणसंस्थासु खरिकायाश्च भेदने ।
पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ३२५ ॥
भाष्य - ब्राह्मणसंस्था ब्राह्मणाश्रिता ब्राह्मणस्वामिकाः । तासां हरणे । षष्ठ्यर्थे सप्तमी । पशूनां चाजैडकादीनाम् । बहुवचनं सर्वत्राविवक्षितम् । सद्यस्तत्क्षणादविचार्य । पादस्यार्धमर्धपादम्, तदस्यास्तीत्यर्धपादिकः । तच्च सम्भवति यदि पादार्थं छिद्यते । तेनार्धपादछेदनं कर्त्तव्यमिति वाक्यार्थः । खरिका यया गोरथक्षेत्रादौ वाह्यते बलीवर्द: । भेदने वाह्यमानायाः प्रतोदेन पीडोत्पादने ।
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
३०२ मनुस्मृतिः [ अष्टमः ‘ भेदनं ’ वाहानामुपलक्षणार्थं व्याचक्षते पूर्वे । अवश्यं वाहयन्दुःखयति । प्रतोदेन वाहने एवायं दण्ड इत्यन्ये पठन्ति । अन्ये तु पादस्य पश्चाद्भागं चतुर्थं खरिकामाहुः । खरिकेति या प्रसिद्धा पलायनशीला यां पालोऽन्यो वा भिन्दन्नर्धपादिकः कार्यः । अन्ये त्वधिकरणसप्तमीं मत्वा गोसंस्थदध्यादीन्यध्याहरन्ति । तदयुक्तम् । श्रुतपद-सम्बन्धसम्भवे कुतोऽध्याहारः ॥३२५ ॥
हिन्दी - ब्राह्मण की गाय चुराने पर, वन्ध्या गाय को लादने के लिए नाथने पर और यज्ञार्थ लादे गये बकरा आदि पशु को चुराने पर राजा अपराधी ( चोर ) का आधा पैर तत्काल कटवा दे ॥३२५ ॥
सूत, रुई आदि चुराने पर दण्ड–
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ३२६ ॥
हिन्दी— ( ऊन आदि का ) सूत, कपास ( रूई ), सुरा - बीज, गोबर, गुड़ दही, दूध, छाछ, पेय ( पीने योग्य शर्बत या जल आदि ) पदार्थ, घास ॥३२६ ॥
वेणुवैदलभाण्डानां लवणानां तथैव च ।
मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ३२७ ॥
हिन्दी — बाँस के बने सर्वविध बर्तन ( या पानी लाने के लिए महीन बाँस के टुकड़ों से बने विशेष प्रकार के बर्तन ), नमक, मिट्टी के बर्तन या खिलौने आदि, मिट्टी, राख ॥३२७ ॥
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम् ॥ ३२८ ॥
हिन्दी — मछली, पक्षी, तैल, घी, मांस, मधु ( शहद ) और पशुओं से उत्पन्न होने-वाले पदार्थ ( जैसे सींग, खुर, चमड़ा आदि; हाथी के दाँत और हड्डी आदि ) || ३२८ ॥
अन्येषां चैवमादीनामद्यानामोदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥ ३२ ९ ॥
-भाष्य — सूत्रमूर्णासनादि । लवणानि सैंधवबिड्लवणादीनि । यच्चान्यत्पशु-सम्भवमामिषादि । अन्येषामपूपमोदकादीनाम् । आदिशब्दः प्रकारे । प्रकारः सादृश्यं तुल्यता सदृशकार्यकरणोपयोगादिरूपा । तथा च सर्पिर्मण्डेक्षुखण्डशर्कराकिलाटकूर्चि-काद्या अपूपा गृह्यन्ते । पशुसम्भवं राङ्कवाजिनाद्यपीच्छन्ति केचित् । आदिग्रहणात्-
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता ३०३ प्रकृतिर्विकृतिरपि । यच्चोभयोपादानं दध्नः क्षीरस्य चेति तदुदाहरणार्थम् । एवं सूत्र-ग्रहणेन सूत्रमयं वासोऽपि गृह्यते । नलिकादीनां सत्यपि सूत्रमयत्वे पशुसम्भवत्व उत्तम-त्वादुत्तमानां चेत्यस्यापवादविषयः । प्रकृत्यन्तरे तैलशब्द स्नेहवाची, न तिलविकार एव । तेनातसीप्रियङ्गुपञ्चाङ्गुल-तैलादयोऽपि गृह्यन्ते ॥३२६-३२९ ॥ हिन्दी - इसी प्रकार के दूसरे पदार्थ ( मैनसिल, शिलाजीत आदि ), मद्य ( बारह प्रकार के मादक पदार्थ या मदिरा ), भात तथा सभी प्रकार के पकवान ( पूआ पूड़ी, कचौड़ी मिठाई आदि ) के चुराने पर चोरित वस्तु का दुगुना दण्ड चोर पर करना चाहिये ॥३२९ ॥
पुष्पादि के चुराने पर दण्ड–
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥ ३३० ॥
भाष्य— नवमालिकादीनि पुष्पाणि । हरितं धान्यं क्षेत्रस्थं अपक्वम् । नगा वृक्षाः । अन्येष्वपरिपूतेषु । बहुवचनात्परिपवनस्य च धान्येष्वेव तुषपलालादिविमोक्ष-रूपस्य सम्भवादुत्तरश्लोके धान्यग्रहणमेवाकृष्यते । गुल्मादीनां हि सत्यपि पलाशे व्यामिश्रत्वे पुष्पाणां च परिपूतव्यवहारः । सप्तमी हरणापेक्षा । तत्तु पूर्वस्मादनुवर्तते । अत्र पञ्चकृष्णलो दण्डः । कृष्णला नानाद्रव्यजाः । अल्पत्वमहत्त्वप्रयोजना-पेक्षाः । सुवर्णस्येति पूर्वे ॥३३० ॥
हिन्दी — फूल, हरा धान्य, विना घेरे हुए गुल्म, वेलि, वृक्ष, बिना साफ किये ( नहीं ओसाये गये ) धान्य के ( बाँधकर भरपूर बोझ को ) चुरानेवाले पर ( देश, काल, पात्र आदि के अनुसार सोने या चाँदी का ) पाँच ' कृष्णल ' ( ८।१३४ ) अर्थात् एक आना भर दण्ड करना चाहिये ॥३३० ॥
निरन्वयादि वस्तु चुराने पर दण्ड–
परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ३३१ ॥
भाष्य- - मूलमिक्षुद्राक्षादि । निरन्वये द्रव्यहरणे । ' अन्वयो'ऽनुनयः, स्वामिनः प्रीत्यादिप्रयोगः – ‘ यत्त्वदीयं तन्मदीयमेवेत्यनया बुद्ध्याऽहं प्रवृत्तः - न चेदेवं तद्-गृहाणे’त्येवमादिवचनम् तद्यत्र न क्रियते तन्निरन्वयम् । साहसप्रकारत्वादधिको दण्ड: । अन्वयेन सह सान्वयः ।
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
३०४ मनुस्मृतिः [ अष्टमः अथवा निरन्वयो येन सह कश्चिदपि सम्बन्धो नास्त्येकग्रामवासादिः । ततः शतं दण्ड्यः । अथवा अनारक्षं निरन्वयम् । सति तु रक्षके उभयापराधादल्पो दण्डः । खलस्थेषु धान्येष्वयं दण्डः । तत्र हि परिपूयन्ते । गृहस्थेषु त्वेकादशगुणः प्रागुक्तः ( ३२० ) ॥ ३३१ ॥
हिन्दी- - साफ किये हुये धान्य, शाक, मूल ( कन्द या जड़ ), फल को चौर्य पदार्थ के स्वामी के साथ किसी प्रकार का ( एक गाँव में हरना आदि ) सम्बन्ध नहीं रहने पर चोरी करनेवाले व्यक्ति पर सौ पण तथा चौर्य वस्तु के स्वामी के साथ किसी प्रकार का
सम्बन्ध रहने पर चोरी करनेवाले व्यक्ति पर ( ८ । १३६ ) दण्ड करना चाहिये ॥३३१ ॥
' साहस ' तथा ' स्तेय ' का लक्षण-स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ३३२ ॥
भाष्य - परद्रव्यापहरणं स्तेयमुच्यते । धात्वर्थप्रसिद्ध्या चास्यैव कर्ता ' स्तेन: ' । इह तु विशेषेणायं व्यवहार इष्यते तदर्थोऽयं श्लोकः । न परद्रव्यादानमात्रं स्तेयम् । ऋणादाननिक्षेपादिष्वपि स्तेयदण्डप्रसङ्गात् । संज्ञाभेदो दण्डभेदार्थः । कर्म यत्कृतं परपीडाकं वस्त्रीत्पाटनाग्निदाहद्रव्यापहरणादि । अग्निदाहे यद्यपि द्रव्यापहरणं नास्ति तथापि चौर्यमेव रहसि करणादपह्नवाच्च मन्यन्ते । चौर्ये हि द्रव्यविशेषा-श्रयो दण्डः । सोऽत्र न स्यात् । एवमर्थमेव स्तेयप्रकरणोत्कर्षणम् । प्रसभं कर्मेति कर्म-ग्रहणाद्द्रव्यापहारादन्यदप्येवं कृतमयुक्तं साहसमेव । “ कस्तर्ह्यग्निदाहादावप्रसभं कृते दण्डः ” । कंटकशुद्धौ वक्ष्यामः ( ९ ।२५६ ) । अत एव सन्धिच्छेदेऽसत्यपि द्रव्यापहरणे
कण्टकशुद्धौ दण्डमामनन्ति । अन्यथा स्तेय एवावक्ष्यत् ॥३३२ ॥
हिन्दी – वस्तु- स्वामी के सामने से बलात्कारपूर्वक किसी वस्तु का अपहरण करना ‘ साहस ’ ( डाका डालना ) और वस्तुस्वामी के परोक्ष में ( नहीं रहने पर चुपके से ) किसी वस्तु का अपहरण कर भाग जाना ( या अपहरण करने के बाद में अस्विकार करना ) ‘ स्तेय ' ( चोरी करना ) कहलाता है ॥ ३३२ ॥
उपभोग्य सूत्रादि तथा त्रेताग्नि चुराने पर दण्ड–
यस्त्वेतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः ।
तं शतं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ३३३ ॥
भाष्य - एतानि सूत्रादीन्युपक्लृप्तानि प्रत्यासन्नदानोपभोगादिकार्यकालानि । अथवा संस्कृतानि कृतसामर्थ्याधानानि । यथा तदेव सूत्रं तन्तुवायहस्ते वायनार्थं दत्तं किञ्चिद्वि-गुणीक्रियते किञ्चित्परिवर्त्यते — एवं दधि मन्थनमरिचशर्करादिसंस्कृतं क्षीरं घृतमि-