मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 341–350
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३०५ त्यादिसंस्कारः । तत्र शतं दण्डः । आद्यमिति पाठे प्रथमसाहसः । अग्निगृहात् परिगृहीतं शालाग्निहोत्रेत्यादिकम् – हेमन्ते वा शीतार्दितानां दरिद्रा-णामप्रणीतमप्यग्नेरुपकल्पनं पाककालः शीतादिनिवृत्त्यर्थं वा तापनकालः । अविशेषेणाय-मग्नेर्दण्डः स्वल्पस्य बहोरुपक्लृप्तस्यानुपक्लृप्तस्य च । सत्यपि सूत्रादिदण्डे आदिग्रहणे नाग्नेस्तन्मूल्यादि सम्भवति, क्रयविक्रयव्यवहारा-प्रसिद्धेः । यावता वेन्धनेनाग्निरपहृतपरिमाण उत्पद्यते यावतीभिर्दक्षिणाभिस्तन्मूल्याद्-द्विगुणो दण्डः सम्भवति शक्यते च व्यपदेष्टुम् । तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । अत-स्त्रेताग्निहरणे यावत्पुनराधाने गच्छति प्रायश्चित्तेष्टौ च तावदग्निमते दातव्यः । अतोऽय-मग्नेर्दण्डः शालाप्रणीताग्निविषय एव स्वल्पत्वात् । त्रेतायां तु तन्मूल्याद्विगुण इति । तथा च “ सुलभेष्वधिकारनिवृत्तिमकुर्वत्सु यागाङ्गद्रव्येष्वपह्रियमाणेषु कुशकरका-ग्निहोत्रद्रव्याण्यपहरतोऽङ्गच्छेदः स्यात् ” इति शङ्खः । अग्निषु तु हतेष्वधिकार एव निवर्तते । तत्र कथं महान् दण्डो न स्यात् ॥ ३३३ ॥
हिन्दी – जो साफ - सुथरी करके उपभोग में लाने योग्य बनायी गयी सूत्र आदि ( ८।३२६-३२९ ) वस्तुओं की तथा अग्निहोत्र से ' त्रेताग्नि ' की चोरी करे; राजा उसको प्रथम साहस ( ८।१३८ अर्थात् २५० पण ) से दण्डित करे ॥३३३ ॥
चोर का हाथ कटवाना आदि-येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ३३४ ॥
भाष्य- - भूयोभूयः प्रवृत्तस्यायं दण्डः । यो धनेन दण्डितोऽपि न मार्गेऽवितिष्ठते तस्य त्रिचतुर्दण्डितस्यानवतिष्ठमानस्य द्रव्यजातिपरिमाणानपेक्षः सन्धिच्छेदाद्यनपेक्ष-श्चौर्यक्रियामात्राश्रितोऽङ्गच्छेदः । यस्य यस्याङ्गस्य बलमाश्रित्यावतिष्ठते स्तेनश्चौर्ये प्रवर्तते तत्तदस्य हरेच्छिन्द्यात् । यथा कश्चित्पादबलमाश्रित्यावष्टभ्य पलायते ' न मामनुगन्तुं कश्चिदपि शक्नोतीति ' तस्य पादच्छेदः । अन्यः ' सन्धिभेदज्ञोऽहं ' तस्य हस्तच्छेदः । प्रत्यादेशाय प्रतिरूपफलदर्शनाय । स्वावष्टम्भेन साभिमानं सक्रोधं सावज्ञं न्यक्करणं वा ‘ प्रत्यादेश: ’ – य एवं करोति तस्य तस्याहमेवं कर्तेति व्याख्यापनं ‘ प्रत्यादेशः ’ ॥३३४ ॥
हिन्दी — चोर जिस - जिस अङ्ग ( हाथ, पैर आदि ) से जिस प्रकार मनुष्यों में कुचेष्टा ( चोरी करना, सेंध मारना आदि दुष्कर्म ) करे; राजा फिर वैसा अवसर नहीं आवे, इसके लिए उस चोर के उस उस अङ्ग को कटवा ले ॥३३४ ॥
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
३०६ मनुस्मृतिः अधार्मिक पिता आदि को भी दण्डनीयता-पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । [ अष्टमः नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ ३३५ ॥
भाष्य — ‘ भार्या पुत्रः स्वका तनुः ' आत्मीयं शरीरं – कः पुनरात्मनो दण्डः । प्रायश्चित्ततपोधनदानादिविवक्षितम् । विचलितो धर्मात् स्वकात् यो यः स्वधर्मान्नानु-तिष्ठति स सर्वो दण्ड्यः ॥३३५ ॥
हिन्दी — पिता, आचार्य, मित्र, माता, स्त्री, पुत्र और पुरोहित इनमें जो अपने धर्म में नहीं रहता, वह क्या राजा का दण्डनीय नहीं है? अर्थात् पूज्य या निकट सम्बन्धी होने पर भी वह दण्डनीय ही है ॥ ३३५ ॥
कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ३३६ ॥
भाष्य – प्राकृतो जनः सामान्यपुरुषो यो नातिगुणसंयुक्तः । तस्य यत्र यस्मिन्न-पराधे यावान् दण्डस्तत्सहस्रगुणो राज्ञः । कार्षापणग्रहणस्य दण्डपरिमाणोपलक्षणार्थ-त्वात् दृष्टार्थत्वात् दण्डस्य । तस्य चात्मानमनियम्य परो नियन्तुं न शक्यत इति युक्तं प्रत्यपराधे राज्ञो दण्डार्हत्वम् । महाधनत्वादल्पं दण्डं न विगणयेत् । राजाधिकृतानां मन्त्रिपुरोहितादीनामनयैव कल्पनया न्यूनाधिकभावः । धनदण्डश्च ब्राह्मणेभ्योऽप्सु प्रवेशनेन वरुणाय वा । यतो वक्ष्यति ' राज्ञां दण्डधरो
हि सः ' ( ९ ।२४५ ) ॥३३६ ॥
हिन्दी — जिस अपराध में साधारण मनुष्य एक पण से दण्डनीय है, उसी अपराध में राजा सहस्र पण से दण्डनीय है, ऐसा शास्त्र का निर्णय है ॥ ३३६ ॥
विमर्श —– अपने ऊपर किये हुए दण्डद्रव्य को राजा राजकोष में जमा नहीं करे, अपितु आगे ( ९ ।२४५ ) के वचनानुसार पानी में फेंक दे या ब्राह्मणों में बाँट दे । गुण - दोषज्ञ शूद्रादि चोर को दण्ड-अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ३३७ ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ॥ ३३८ ॥
भाष्य - तद्दोषगुणविद्धि स इति हेत्वभिधानाद्विदुषां दण्डोऽयम् । यत्र खलजन एकं कार्षापणं दाप्यते तत्र विद्वान् शूद्रोऽष्टगुणम् । अष्टभिः आपाद्यते 1
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३०७ सम्बध्यते । यत्किल्बिषं पापं तदेवमुच्यते । अष्टभिर्वाऽऽपाद्यत आहन्यते गुण्यत इति यावत् । उभयथाऽप्यष्टगुणस्य वाचकोऽष्टापाद्यशब्दः । एवं तदेव द्विगुणं वैश्यस्य । स हि साक्षादध्ययनज्ञानयोरधिकृतः । शूद्रस्तु कथञ्चिद्ब्राह्मणापाश्रिततत्सङ्गत्या कियदपि ज्ञास्यति । क्षत्रियस्तु रक्षाधिकारदोषेण समाने विद्वत्त्वे ततोऽपि द्विगुणं दण्ड्यते । ब्राह्मणे तु दण्डविधौ न तृप्यति । चतुःषष्टिशतमष्टविंशं वा शतमिति । तस्य हि प्रवचनमुपदेष्टृत्वं वाधिकंच— -यतो रक्षा ततो भवेत् । प्राकृतजनस्य तिर्यक्प्रख्यस्य कोऽपराधः । अविद्वांसो गुणदोषानभिज्ञा प्रवर्तन्ते । विद्वानपि तथैव चेद्वर्तेत हन्त हतं जगत्, तृतीयस्य शिक्षितुर-भावात् । तदुक्तं “ द्वौ लोकविश्रुतौ राजा ब्राह्मणश्च बहुश्रुत ” इति । राज्ञः पूर्वेण दण्डा-धिक्यमनेन ब्राह्मणस्य । आधिक्यमात्राविधिश्चायं न यथाश्रुतसंख्याविधिः – ब्राह्मणदण्डेऽनवस्थाश्रवणादयं वायं वेति । न च विकल्पो युक्तो व्यवस्थाहेतुत्वाभावात् । तुल्यबलस्यैव विकल्पस्य पर विषयाश्रयानुपपत्तेः । को हि राजा द्विजगुणमृत्सृज्य चतुःषष्टिं ग्रहीष्यति । यदि परमदृष्टार्थो दण्डो विकल्प उपपद्येत — न चादृष्टार्थोऽयमित्युक्तम् । तथा च गौतम: - ( १२।१७ ) “ विदुषोऽतिक्रमदण्डभूयस्त्वम् ” इत्याह । तस्मादनवस्था विधित्वं व्याहन्ति । न च गुणा-पेक्षो विकल्पो युक्तो नष्टादिश्लोकेनैव सिद्धत्वात् । अर्थवत्त्वात्च्त्चात्र विध्यवगतिः । स-चाधिक्यविधौ लब्धालम्बन इति न यथाश्रुतपरिकल्पने विकल्पने समर्थः॥३३७-३३८ ॥ हिन्दी - चोरी के गुण तथा दोष को जाननेवाले शूद्र के चोरी करने पर चोरी के विषय में शूद्र को आठगुना, वैश्य को सोलहगुना, क्षत्रिय को बत्तीसगुना और ब्राह्मण को चौसठ - गुना या सौ गुना या एकसौ आट्ठाइस गुना पाप होता है; क्योंकि वह उस ( चोरी ) के गुण और दोष का जानकार है । ( अतएव अपराधानुसार उक्त शूद्र, वैश्य, क्षत्रिय और ब्राह्मण उत्तरोत्तर दण्डनीय होते हैं ) ॥ ३३७-३९ ॥
वनस्पतियों के मूलादि की अस्तेयता-वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ३३ ९ ॥
भाष्य — वनस्पतय एव वानस्पत्यं वृक्षाः । स्वार्थे प्रत्ययः । ग्रासार्थं गृह्यमाणम-स्तेयं वंशाङ्कुरादि । मूलफलं वनस्पतीनामन्यद्विससस्यादि । सूत्रादिगणेऽग्रासार्थं मूलफला-हरणे दण्ड उक्तः । अस्तेयवचनं ग्रासार्थमात्रार्थम् । अक्षीणवृत्तेरपि कथञ्चिज्जातलौल्यस्य स्मृत्यन्तर-दर्शनाच्चापरिवृतेश्च दण्डः । तथा च गौतम: ( १२।२८ ) “ पुष्पाणि स्ववदाददीत फलानि चापरिवृत्तानाम् ” इति ।
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
३०८ मनुस्मृतिः [ अष्टमः दार्वग्न्यर्थम् — आहिताग्नेरसन्निहिते वनस्पतावुद्वात्यग्नौ तद्धारणार्थं काष्ठम-दोषं पालाशीर्वा समिधो व्यादध्यात् । अप्रचुरपलाशे च ग्रामे कथं स्यादित्यादिति यदि गृह्येरन्न दोष: । तृणं च गोभ्यः । तादर्थ्ये चतुर्थी । गोग्रहणात्प्रस्तरार्थं दोष एव । ये तु ग्रासार्थपदेन गवामभिसम्बन्धमिच्छन्ति तेषां गोभ्य इति नोपपद्यते । षष्ठी हि तत्र युक्ता || ३३ ९ || हिन्दी— ( बिना घेरी हुई ) वनस्पतियों के मूल तथा फल, अग्निहोत्र के लिए समिधा ( हवनकाष्ठ ) और गोग्रास के लिए घास ग्रहण करने को मनु ने चोरी नहीं कहा है । चोर के हाथ से दक्षिणादि लेने पर दण्ड–
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ ३४० ॥
भाष्य — अतिदेशोऽयम् । यो ब्राह्मणश्चौरानुपजीवति स चौरवद्दण्ड्यः । याजना-ध्यापनेनापि । अपिः क्रियान्तरसूचकः । तेन प्रतिग्रहप्रीत्यादायादि गृह्यते । क्षत्रियादीना-मन्यथैव वृत्तिः वार्तादि । स्वकर्मणा चोरधनं गृह्णताम् । ब्राह्मणग्रहणं तु ' मया किल धर्मेणार्जितं याजयता’इत्यभिमाननिवृत्त्यर्थम् । अदत्तमादत्ते गृह्णातीत्यदत्तादायी चोरः । लिप्सेत लब्धुमिच्छेत् । अगृहीतास्वपि दक्षिणासु तत्सम्बन्धादेव चौरनिग्रहः ॥३४० ॥
हिन्दी – जो ब्राह्मण नहीं दी गयी वस्तु ( या धन ) को चुरानेवाले चोर के हाथ * यज्ञ कराने या पढ़ाने की दक्षिणा भी ( ' यह दूसरे का है ' ऐसा जानता हुआ ) लेने की इच्छा करे तो जैसा चोर है वैसा वह ब्राह्मण भी है, ( अतएव ऐसा ब्राह्मण भी चोर के समान दण्डनीय है ) ॥३४० ॥
दो गन्ना लेनेवाले द्विज पंथिकादि को दण्डाभाव—
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३४१ ॥
-भाष्य — द्विजग्रहणं शूद्रप्रतिषेधार्थम् । अध्वगो नैकग्रामवासी । तत्रापि क्षीण-वृत्तिः क्षीणपथ्योदनः । द्वाविक्षू दण्डौ । मूलके । प्रदर्शनार्थं चैतत् । परिमितहरीतक-मुद्गादिशमीधान्यानाम् । तथा च “ शमीत्रपुसयुग्यघासेषु च नाप्रतिषेध ” इति स्मृत्यन्तरम् । परक्षेत्रात्परकीयस्थानादित्यर्थः — परिवृतादपि ॥३४१ ॥
हिन्दी — पाथेय ( रास्ते के कलेवा ) से रहित द्विज पथिक यदि दूसरे के खेत से दो गन्ने ( ऊख ) या दो मूली ग्रहण कर ले तो वह दण्डनीय नहीं होता है ॥ ३४१ ॥
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता बिना बँधे पशु आदि के अपहरणकर्त्ता को दण्ड–
असंदितानां संदाता संदितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥ ३४२ ॥
३० ९ भाष्य— पश्वादयो विमुक्तशृङ्खलादिबन्धना मुस्तादियवभूयिष्ठेषु विजनेषु वार्यन्ते । ततश्चेन्निद्रायति स्वामिनि पाले वा कश्चित्सन्दानवतः कुर्यात् खलीनकबन्धादिना – नूनं निनीषत्यसाविति शङ्कया— चौरवद्दण्ड्यः । यस्तु स्वामिगृहच्युतं यूथभ्रंशागतं वा रक्षितु-मेव वा बध्नीयान्न तस्य दोषः । एवं गवादीनामपि गले दामादिसञ्जनने एष एव दमः । ये च संदिताः पादस्थशृङ्खलादिना तेषां मोक्षकः । दासांश्च रहसि प्रोत्साह्य भक्तदासादीनप-हरति ‘ अहं ते बहु ददामि किमेतं भजसे ' इति । कुलीनानां हरणे वध उक्तः ‘ पुरुषाणामि-त्यत्र ' ( ३२३ ) । अनेन दासानामुच्यते । यथा तत्रैव कुलीनमुक्तमेवमत्रापि प्रोत्साह्य नयनं ग्रहणं न कर्त्तव्यम्— तत्र प्रबलादिना चौर्येण वेति । अश्वरथहर्तेति । अश्वानां रथानां च । महापशूनामित्यत्र ( ३२५ ) राजसम्बन्धिनोऽश्वाः, इमे तु जनपदानाम् । तत्र राजेच्छया दण्डः, इह तु नियतो वधः । यद्यपि बहवश्चोरदण्डास्तथापि स्मृत्यन्तरे । “ बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् ॥ ” इति । इहापि सामान्यतो ‘ येन येने ' त्युपक्रम्य ' ( ३३४ ) ' तत्तदेव हरेदिति ' । अन्ये त्वश्वयुक्तो रथ इति समान्यं मन्यन्ते — प्रदर्शनाच्चाश्वगोरथादीनाम् । तत्र केवलानामश्वानां रथस्य च दण्डश्चिन्त्यः । स्मृत्यन्तरे केवलानामश्वानां चौरदण्डस्योक्तत्वात् रथयुक्तानामपि सिद्धः । ये तु प्रोत्साह्य नयनं ' हरणं ' मन्यन्ते तेषामश्वरथशब्देन रथकारो लक्ष्यते— रथकर्तेति । तच्च सर्वशिल्प्यर्थम् । शिल्पिनां हरणे चौरदण्डः । अश्वानामपि प्रोत्साहनं वडवादर्शनेन ॥३४२ ॥
हिन्दी — बिना बँधे हुए दूसरे के पशु ( घोड़ा, गाय, बैल, बछवा आदि ) को बाँध लेनेवाला, बाँधे हुए दूसरे के पशुओं को खोल देनेवाला तथा दास, घोड़ा और रथ ( गाड़ी, ताँगा, एक्का आदि सवारी को ) चुरानेवाला ( बड़े - छोटे अपराध के अनुसार अधिक या कम ) चोर के समान ( मारण, अङ्गच्छेदन, धनादि ग्रहण अर्थात् जुर्माना आदि ) दण्ड के द्वारा दण्डनीय होता है ॥३४२ ॥
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ॥ ३४३ ॥
भाष्य- -अनेनान्तरप्रक्रान्तेन मार्गेण चौरनिग्रहं कुर्वाणो यशः सकलजनसाधु-वादो अस्मिल्लोके यावज्जीवम् – प्रेत्य मृतश्चानुत्तमं स्वर्गाख्यं सुखमश्रुत इति ।
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
३१० प्रकरणोपसंहारोऽयम् ॥३४३ ॥
मनुस्मृतिः [ अष्टमः हिन्दी — इस विधि ( ३०१-३४२ ) से चोर को दण्डित करता हुआ राजा इस लोक में ख्याति तथा मरकर परलोक में अनुत्तम सुख पाता है ॥३४३ ॥
साहसकर्त्ता का निग्रह राजकर्त्तव्य-ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ ३४४ ॥
भाष्य- -'सहो ' बलं, तेन वर्तते साहसिकः । दृष्टादृष्टदोषानपरिगणय्य बल-मात्रमाश्रित्य स्तेयहिंसासंग्रहणादिपरपीडाकरेषु वर्त्तमानः प्रकाशं पुरुषः ' साहसिकः ' । तदुक्तं “ स्यात्साहसमिति ’ ” ( ३३२ ) । न स्तेयादिभ्यः पदार्थान्तरं साहसं, किन्तु ` प्रसह्यकारणात् तान्येव ' साहसानि ' भवन्ति । यदप्यग्निदाहवस्त्रपाटनादि तदपि द्रव्य-नाशात्मकत्वात्सिद्धमेवेति । तस्य निग्रहात् नोपेक्षेत न विलम्बेत क्षणमपि —यदा गृहीतस्तदैव निगृहीतव्यः । इन्द्रस्वामिकं स्थानं स्वर्गाख्यमैन्द्रं तदाभिमुख्येन प्राप्तुमिच्छन् । अथवा स्वमेव राज्यपदमैन्द्रामिवेच्छन्नविचालित्वसामान्यम् । निग्राह्यनिग्रहेण हि प्रतापा-नुग्रहाभ्यां प्रजा अनुप्रवर्तन्ते । तदुक्तं " समुद्रमिव सिन्धव " इति । यशोऽ क्षयमव्ययं च । द्वे विशेष्ये द्वे विशेषणे - स्थानमव्ययं यशोऽक्षयमिति । अथोभयेनापि यशो विशि-ष्यते -क्षयो मात्रापचयः, व्ययो निरन्वयविनाशः । उभयमपि तन्नास्ति । न मलिनी-भवति यशो न कदाचिद्विच्छिद्यते । भूतार्थवादस्तुतिरियम् ॥३४४ ॥
हिन्दी – ऐन्द्र पद ( सबका आधिपत्यरूप सर्वश्रेष्ठ ) अक्षय पद तथा अव्यय यश को चाहनेवाला राजा क्षणमात्र भी साहसिक ( बलात्कार से गृहदाह तथा जन - धन का अपहरण करनेवाले अर्थात् डाकू ) व्यक्ति की उपेक्षा न करे, ( किन्तु तत्काल उन्हें दण्डित करे || ३४४ ॥ वाक्यपारुष्यादि से साहस की अधिक सदोषता-वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ३४५ ॥
भाष्य — अयमपरार्थवादो निग्रहविधिस्तुत्यर्थः । वाचा दुष्टो वाग्दुष्टस्तस्करश्चौर-दण्डेनैव – दण्डपारुष्यकृत् । ' दण्डः ' प्रहरणोपलक्षणार्थः । त्रिभ्य एतेभ्योऽनन्तराति-क्रान्तेभ्यः पापकारिभ्योऽयमतिशयेन पापकृत्तमः || ३४५ ॥ हिन्दी – कटु वचन बोलनेवाला, चोर और डण्डे ( या लाठी या शस्त्रादि ) से मारपीट करनेवाला, इन तीनों की अपेक्षा साहस ( बलात्कारपूर्वक धन - जन का अपहरण ) करनेवाला मनुष्य अधिक पापी होता है ॥ ३४५ ॥
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता साहसिक क्षमा की निन्दा-साहसे वर्तमानं तु यो मर्षयति पार्थिवः । ३११ स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ३४६ ॥
भाष्य — अयमप्यर्थवादः । साहसे स्थितं पुरुषं यो मर्षयति । प्रकृत्यर्थेऽयं णिच् । यो मृष्यति क्षमते । स विनाशं प्राप्नोति द्वेष्यतां च प्रजासु प्राप्नोति द्वेष्यैश्चाभिभूयते ॥ ३४६ ॥
-हिन्दी – साहस ( बलात्कार से धन - जनापहरण आदि ) कर्म में तत्पर मनुष्य को जो राजा क्षमा करता है, वह शीघ्र ही नष्ट होता तथा प्रजा का विद्वेषपात्र भी बनता है॥३४६ ॥
साहसिक की अनुपेक्षा-न मित्रकारणाद्राजा विपुलाद्वा धनागमात् ।
समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् ॥ ३४७ ॥
भाष्य – अत आह पार्श्वस्थस्य कस्यचित्स्नेहहेतोरमात्यादिना प्रार्थ्यमानो न मृष्येत् ।
अथवा स एवातिबहुधनं ददातीति नोपेक्षेत । सर्वेषां भूतानां भयमावहन्ति साहसिकाः ।
अयमप्यर्थवादः ॥३४७ ॥
हिन्दी – राजा मित्रता या अधिक धन प्राप्ति के कारण से, सम्पूर्ण प्रजाओं को आतङ्कित करनेवाले साहसिक ( डाकू ) को भी न छोड़े अर्थात् उसे अवश्य दण्डित करे ॥३४७ ॥
द्विज का शस्त्रग्रहणकाल-शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ३४८ ॥
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति ॥ ३४ ९ ॥
भाष्य— “ वैणवीं धारयेद्यष्टिम् ” इति ( ४।३६ ) विधानादनुमितशस्त्रग्रहणाः श्रोत्रियाः । स्वबलाविष्टं भवति च साहसिके बलातिशयधायि शस्त्रम् । अतः साहसिकत्वाशङ्कया शस्त्रग्रहणमप्राप्तं विधीयते । शस्त्रं द्विजातीभिर्ग्राह्यमिति । एतावता वाक्यं विच्छिद्यते । अवशिष्टं तु “ घ्नन्धर्मेण ” इत्यनेनाभिसम्बध्यत इत्यतो द्वे एते वाक्ये । ये त्वेतेष्वेव निमित्तेषु ग्रहणमिच्छन्ति नान्यदेति तेषामतर्कितोपनताततायिमुख-पतितस्याशस्त्रस्य का गतिः । न हि ते शस्त्रग्रहणं तस्य प्रतिपालयन्ति । अथैवं व्याख्यायते— “ धर्मो यत्रोपरुद्ध्यते ” “ विप्ल्वे कालकारिते ' राजनि व्यति-मनु II 22
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
३१० प्रकरणोपसंहारोऽयम् ॥३४३ ॥
मनुस्मृतिः [ अष्टमः हिन्दी — इस विधि ( ३०१-३४२ ) से चोर को दण्डित करता हुआ राजा इस लोक में ख्याति तथा मरकर परलोक में अनुत्तम सुख पाता है ॥३४३ ॥
साहसकर्त्ता का निग्रह राजकर्त्तव्य-ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥३४४ ॥
भाष्य — ‘ सहो ' बलं, तेन वर्तते साहसिकः । दृष्टादृष्टदोषानपरिगणय्य बल-मात्रमाश्रित्य स्तेयहिंसासंग्रहणादिपरपीडाकरेषु वर्त्तमानः प्रकाशं पुरुषः ‘ साहसिकः ’ । तदुक्तं “ स्यात्साहसमिति ” ( ३३२ ) । न स्तेयादिभ्यः पदार्थान्तरं साहसं, किन्तु ` प्रसह्यकारणात् तान्येव ‘ साहसानि ' भवन्ति । यदप्यग्निदाहवस्त्रपाटनादि तदपि द्रव्य-नाशात्मकत्वात्सिद्धमेवेति । तस्य निग्रहात् नोपेक्षेत न विलम्बेत क्षणमपि -यदा गृहीतस्तदैव निगृहीतव्य: । इन्द्रस्वामिकं स्थानं स्वर्गाख्यमैन्द्रं तदाभिमुख्येन प्राप्तुमिच्छन् । अथवा स्वमेव राज्यपदमैन्द्रामिवेच्छन्नविचालित्वसामान्यम् । निग्राह्यनिग्रहेण हि प्रतापा-नुग्रहाभ्यां प्रजा अनुप्रवर्तन्ते । तदुक्तं " समुद्रमिव सिन्धव ” इति । यशोऽ क्षयमव्ययं च । द्वे विशेष्ये द्वे विशेषणे - स्थानमव्ययं यशोऽक्षयमिति । अथोभयेनापि यशो विशि-ष्यते — क्षयो मात्रापचयः, व्ययो निरन्वयविनाशः । उभयमपि तन्नास्ति । न मलिनी-भवति यशो न कदाचिद्विच्छिद्यते । भूतार्थवादस्तुतिरियम् ॥३४४ ॥
हिन्दी – ऐन्द्र पद ( सबका आधिपत्यरूप सर्वश्रेष्ठ ) अक्षय पद तथा अव्यय यश को चाहनेवाला राजा क्षणमात्र भी साहसिक ( बलात्कार से गृहदाह तथा जन - धन का अपहरण करनेवाले अर्थात् डाकू ) व्यक्ति की उपेक्षा न करे, ( किन्तु तत्काल उन्हें दण्डित करे || ३४४ || वाक्यपारुष्यादि से साहस की अधिक सदोषता-वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥३४५ ॥
भाष्य — अयमपरार्थवादो निग्रहविधिस्तुत्यर्थः । वाचा दुष्टो वाग्दुष्टस्तस्करश्चौर-दण्डेनैव — दण्डपारुष्यकृत् । ' दण्डः ' प्रहरणोपलक्षणार्थः । त्रिभ्य एतेभ्योऽनन्तराति-क्रान्तेभ्यः पापकारिभ्योऽयमतिशयेन पापकृत्तमः || ३४५ ॥ हिन्दी – कटु वचन बोलनेवाला, चोर और डण्डे ( या लाठी या शस्त्रादि ) से मारपीट करनेवाला, इन तीनों की अपेक्षा साहस ( बलात्कारपूर्वक धन - जन का अपहरण ) करनेवाला मनुष्य अधिक पापी होता है ॥ ३४५ ॥
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३११ साहसिक क्षमा की निन्दा-साहसे वर्तमानं तु यो मर्षयति पार्थिवः । शिकार स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ३४६ ॥
भाष्य — अयमप्यर्थवादः । साहसे स्थितं पुरुषं यो मर्षयति । प्रकृत्यर्थेऽयं णिच् । यो मृष्यति क्षमते । स विनाशं प्राप्नोति द्वेष्यतां च प्रजासु प्राप्नोति द्वेष्यैश्चाभिभूयते ॥ ३४६ ॥
हिन्दी- - साहस ( बलात्कार से धन - जनापहरण आदि ) कर्म में तत्पर मनुष्य को जो राजा क्षमा करता है, वह शीघ्र ही नष्ट होता तथा प्रजा का विद्वेषपात्र भी बनता है ॥३४६ ॥
साहसिक की अनुपेक्षा-न मित्रकारणाद्राजा विपुलाद्वा धनागमात् ।
समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् ॥३४७ ॥
भाष्य - अत आह पार्श्वस्थस्य कस्यचित्स्नेहहेतोरमात्यादिना प्रार्थ्यमानो न मृष्येत् ।
अथवा स एवातिबहुधनं ददातीति नोपेक्षेत । सर्वेषां भूतानां भयमावहन्ति साहसिकाः ।
अयमप्यर्थवादः ॥३४७ ॥
-हिन्दी – राजा मित्रता या अधिक धन प्राप्ति के कारण से, सम्पूर्ण प्रजाओं को आतङ्कित करनेवाले साहसिक ( डाकू ) को भी न छोड़े अर्थात् उसे अवश्य दण्डित करे ॥३४७ ॥
द्विज का शस्त्रग्रहणकाल-शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ३४८ ॥
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति ॥ ३४ ९ ॥
भाष्य— “ वैणवीं धारयेद्यष्टिम् ” इति ( ४।३६ ) विधानादनुमितशस्त्रग्रहणाः श्रोत्रियाः । स्वबलाविष्टं भवति च साहसिके बलातिशयधायि शस्त्रम् । अतः साहसिकत्वाशङ्कया शस्त्रग्रहणमप्राप्तं विधीयते 1 । शस्त्रं द्विजातीभिर्ब्राह्यमिति । एतावता वाक्यं विच्छिद्यते । अवशिष्टं तु “ घ्नन्धर्मेण " इत्यनेनाभिसम्बध्यत इत्यतो द्वे एते वाक्ये । ये त्वेतेष्वेव निमित्तेषु ग्रहणमिच्छन्ति नान्यदेति तेषामतर्कितोपनताततायिमुख-पतितस्याशस्त्रस्य का गतिः । न हि ते शस्त्रग्रहणं तस्य प्रतिपालयन्ति । अथैवं व्याख्यायते— “ धर्मो यत्रोपरुद्ध्यते ” “ विप्ल्वे कालकारिते ” राजनि व्यति-मनु.II 22
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
३१२ मनुस्मृतिः [ अष्टमः क्रान्तेऽसंस्थायां प्रवृत्तायां शस्त्रं ग्राह्यम् । अन्यदा तु सौराज्ये “ राजैव रक्षतीति ” ' - न हि प्रसार्य हस्तौ राजा प्रतिपुरुषमासितुं शक्नोति । भवन्ति केचिद्दुरात्मानो ये राजपुरुषानपि शूरतमाभियुक्तान्बाधन्ते शस्त्रवतस्तु बिभ्यतीति सार्वकालिकं शस्त्रधारणं युक्तम् । किं पुनर्ग्रहणमात्रं बिभीषिकाजननमात्रम्? नेत्याह । घ्रन्धर्मेण न दुष्यतीति । हिंसापर्यन्तोऽयमुपदेशः । यत्त्वापस्तम्बेनोक्तं ( १।१०।६ ) “ न ब्राह्मण: परीक्षार्थमपि शस्त्रमाददीतेति ” – असति यथाभिहिते निमित्तं आकर्षणस्य प्रतिषेधो न ग्रहणस्य । विकोशा हि परीक्ष्यन्ते । धर्मस्योपरोधो यदा यज्ञादीनां विनाशः कैश्चित्क्रियते । वर्णानां विप्ल्वोऽव्यव-स्थानं वर्णसङ्करादि । कालकारिते राजमरणादौ । तत्र स्वधनकृटुम्बरक्षार्थं शस्त्रं ग्राह्यम् । अन्ये तु परार्थमप्यस्मिन्नवसरे । तथा च गौतमः ( २१।१ ९ ) “ दुर्बलहिंसायां च विमोचने शक्तश्चेदिति ” । उक्तं यज्ञविनाशसङ्करनिवृत्त्यर्थं शस्त्रग्रहणम् । निमित्तान्तरमाह आत्मनश्च परि-त्राणे । परिः सर्वतोभावे शरीरभार्याधनपुत्ररक्षार्थं घ्रन्धर्मेण न दुष्यति । दक्षिणानां च सङ्गरोऽवरोधः । यदि यज्ञार्थं कल्पिता दक्षिणाः कैश्चिदपहियेरंस्तदा तन्निमित्तं योद्धव्यम् । अन्ये त्वेवमभिसम्बध्नन्ति – दक्षिणानां हेतोः सङ्गरे – यद्युः परोधः प्रवृत्तो धर्मेऽप्रवृत्ते ‘ दक्षिणसङ्गर ' इति । स्त्रीविप्राणामभ्यवपत्तिः परिभवः । यत्र स्त्रियः साध्व्यो हठात्केनचिदुपगम्यन्ते हन्यन्ते वा । एवं ब्राह्मणाः केनचिद्धन्यन्ते । तत्र प्रन्खङ्गादिना न दुष्यति । हिंसाप्रतिषे-धातिक्रमो न कृतो भवतीत्यर्थः । असति प्रतिषेधे कामचारप्राप्तौ विध्यन्तरपर्यालोचनया गौतमवचनमनुध्यायमानेन “ दुर्बलहिंसायां विमोचने शक्तश्चेत् ” ( २१।१ ९ ) इत्यवश्यं
हनने प्रवर्तितव्यम् ।
अथ प्रतिहारशङ्का भवति तदा सर्वत एवात्मानं गोपायेदित्युपेक्षा ॥३४८-३४९ ॥
II II I आत्मपरित्राणार्थमविचारेण योद्धव्यम् । तदनुदर्शयति— हिन्दी – साहसी ( डाकू ) मनुष्यों के कारण द्विजों तथा ब्रह्मचर्य आदि आश्रम-वासियों के धर्म का अवरोध होने में, समय - प्रभाव से राज्य के अराजक हो जाने के कारण युद्ध आदि की सम्भावना में, आत्मरक्षा में, दक्षिणा- द्रव्य ( गौ आदि ) के अप-हरण - सम्बन्धी युद्ध में तथा स्त्रियों और ब्राह्मणों की रक्षा में द्विजातियों को शस्त्र-ग्रहण करना चाहिए, क्योंकि धर्मपूर्वक अपराधी को मारता हुआ मनुष्य पापी नहीं होता है ॥३४८-३४९ ॥