मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 351–360

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 351–360

पृष्ठ 351

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 351 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता आततायी को तत्काल मारना—

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।

आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ३५० ॥

३१३ भाष्य — ‘ आततायी ’ उच्यते यः शरीरधनदारपुत्रनाशे सर्वप्रकारमुद्यतः । तमविचारयन् हन्यात् । गुर्वादिग्रहणमर्थवादः । एतेऽपि हन्तव्याः किमुतान्य इति । एतेषां त्वाततायि-त्वेऽपि वधो नास्ति । “ आचार्यं च प्रवक्तारम् " इत्यनेनापकारिणामपि वधो निषिद्धः ( ४।१६२ ) “ गुरुमाततायिनमिति ” शक्यः सम्बन्धः । तथा सत्याततायिविशेषणमेतत् । ततो गुर्वादि - व्यतिरिक्तस्याततायिनः प्रतिषेधः कुतः स्याद् – वाक्यान्तराभावात् । अथ “ नाततायिवधे दोष ” इत्येतद्वाक्यान्तरं सामान्येनाभ्यनुज्ञापकमिति — तदपि न, विधेर-श्रवणात्, पूर्वशेषतया चार्थवादत्वे प्रकृतवचनत्वात् । इह भवन्तस्त्वाहुः — यद्यपि ' आततायिनमि ' त्येव विधिः, अवशिष्टोऽर्थवादः, तथापि गुर्वादीनां वधानुज्ञानम् । यतोऽन्यदपकारित्वमन्यदाततायित्वम् । यो ह्यन्यां काञ्चन-पीडां करोति न सर्वेण शरीरादिना सोऽपकारी, ततस्त्वन्य आततायी । तथा च पठ्यते— “ उद्यतासिर्विषाग्निभ्यां शापोद्यपकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजतः । भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ’ ’ ॥ “ आयान्तमिति वचनादात्तशस्त्रो हन्तुमभिधानवन्दारान्वा जिहीर्षन्हन्तव्यः । कृते तु दोषे किमन्यत्करिष्यतीत्युपेक्षा " इति ब्रुवते । तदयुक्तम् । यतः “ प्रकाशमप्रकाशं वेति ” वक्ष्यति ( ३५१ ) । समानौ ह्यतौ करिष्यन्कृतवांश्च । तस्मादायान्तमित्यनुवादः-कर्तुमागतं कृत्वा वा गतमिति । आततायित्वाच्चासौ हन्यते । न च कृतवत आततायि-त्वमपैति । नास्यात्मनो रक्षार्थ एव वध आत्मनश्च परित्राण इत्यनेनोक्तम् ॥३५० ॥

हिन्दी – गुरु, बालक, बूढ़ा अथवा बहुश्रुत ब्राह्मण भी आततायी होकर आता हो तो उसे बिना विचारे अर्थात् तत्काल मारना चाहिए ॥३५० ॥

आततायी का लक्षण-[ अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ २३ ॥ ]

[ हिन्दी— ( घर - गल्ला आदि में ) आग लगानेवाला, विष देनेवाला, ( निश्शस्त्र पर ) शस्त्र उठानेवाला, धनापहरण करनेवाला, खेत तथा स्त्री को चुरानेवाला; ये छ: ' आत-तायी ' होते हैं ॥२३ ॥ ]

[ उद्यतासिर्विषाग्निभ्यां शापोद्यतकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ २४ ॥ ]

पृष्ठ 352

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 352 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१४ मनुस्मृतिः [ अष्टमः [ हिन्दी— ( मारने के लिए ) तलवार उठाया हुआ, विष लिया हुआ, आग लिया हुआ, शाप देने के लिए हाथ उठाया हुआ, अथर्व - विधि ( मारणादि तान्त्रिक विधि ) से मारनेवाला, राजा की चुगली करनेवाला || २४ || ] [ भार्यारिक्थापहारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ॥ २५ ॥ ]

[ हिन्दी — स्त्री के धन का अपहरण करनेवाला, छिद्रान्वेषी ( सर्वदा दूसरों का दोष ही ढूँढने मे लगा हुआ ), इत्यादि; इस प्रकार के सभी लोगों को आततायी ही जानना चाहिए ॥२५ ॥ ]

नाततायिवधे दोषो हन्तुर्भवति कश्चन ।

प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ३५१ ॥

भाष्य — न कश्चनेति । नाधर्मो न दण्डो न प्रायश्चित्तमिति । प्रकाशं जनसमक्षम् । अप्रकाशं विषादिदानेन येनकेनचिदुपायेन । मन्युः क्रोधाभिमानिदेवताऽसौ मन्यु मृच्छति । नात्र हन्तृहन्तव्यभावोऽस्ति । पुरुषयोरर्थ आततायिक्रोध इतरेण हन्यत इत्यर्थवादो-ऽयम् । यथा प्रतिग्रहकामः “ को मह्यं ददातु नाहं प्रतिग्रहीता न त्वं दाता ततश्च कुतः प्रतिग्रहदोषो मम ” एवमत्रापि । इह साहसिके दण्डो नाम्नातः । स दण्डपारुष्ये द्रष्टव्यः । इह त्वधिकतरः, यत उक्तं ‘ विज्ञेयः पापकृत्तम ' इति ( ३४५ ) ॥ ३५१ ॥

हिन्दी — सबके सामने या एकान्त में ( मारने आदि के लिए उद्यत ) आततायी के वध करने में वधकर्त्ता को दोष नहीं होता है; क्योंकि मारनेवाले अर्थात् आततायी का क्रोध मारे जाते हुए के क्रोध को बढ़ाता है ॥३५१ ॥

परस्त्रीदूषण में दण्ड-परदाराभिमर्शेषु प्रवृत्तान्नृन्महीपतिः ।

उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत् ॥ ३५२ ॥

भाष्य — विवाहसंस्कृतायां स्त्रियां दारशब्दो वर्तते । आत्मनोऽन्यः परः । अभि-मर्शः सम्भोग आलिङ्गनादिः । आलिङ्गनं जनद्वयसमवायः, भोगजन्यायाः प्रीतेः प्रवृत्तिः प्रारम्भस्तन्निवृत्त्यर्थं दूतीसम्प्रेषणादिना प्रोत्साहनम् । अथ च संग्रहणमभिमर्शनं प्रचक्षते । तेनायमर्थः — परभार्यागमने प्रवृत्तं पुरुषं ज्ञात्वोद्वेजनकरैस्तीक्षणायैः शक्तिशूलादिभिरङ्क-यित्वा नासाछेदादिभिर्विवासयेत् । सर्वत्रात्र विशेषदण्डस्योक्तत्वादस्य विषयभावो न सामान्यदण्डोऽयम् । किं तर्हि । पुनः पुनः प्रवृत्तौ । इदं तु युक्तम् । अलभमानस्य

विषयान्तरं प्रवासस्य धनदण्डस्य च कार्यभेदात्समुच्चयः । तथा दर्शयिष्यामः ॥ ३५२ ॥

पृष्ठ 353

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 353 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३१५ हिन्दी — परस्त्री - सम्भोग में प्रवृत्त होनेवाले मनुष्य को राजा व्याकुल करने वाले दण्डों ( नाक, ओष्ठ, कान आदि कटवा लेना ) से दण्डित करके उसे देश से निकाल दे ।

परस्त्रीदूषण में दण्ड-तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः ।

येन मूलहरोऽधर्मः सर्वनाशीय कल्पते ॥ ३५३ ॥

भाष्य - - समुत्थानमुत्पत्तिः । ततः परदारागमनात्सङ्करोऽवान्तरवर्णरूपा जायते । येन जातेनाधर्मो मूलस्य लोकस्य दिवः पतिता वृष्टिस्तां हरत्यधर्मः । धर्मे हि सति “ आदित्याज्जायते वृष्टिः ” । न च सङ्करे सत्यपि कारीरीयागो नापि पात्रे दानमतो दान-यागहोमानां सस्योत्पत्तिहेतुभूतानामभावात्सर्वजगन्नाशयमर्थो भवति । तस्मात्पारदारिकान् ‘ अधर्ममूलं वर्णशङ्करः स्यादिति ' सस्यादिनिष्पत्तिमूलां वा वृष्टिं रक्षन्प्रवासयेत् ॥ ३५३ ॥

हिन्दी — क्योंकि परस्त्री सम्भोग में वर्णशङ्कर ( दोगला ) पुत्र उत्पन्न होता है, जिस वर्णसङ्कर से मूल को नष्ट करनेवाला अधर्म सबके नाश के लिए समर्थ होता है ॥३५३ ॥

विमर्श - परस्त्री - सम्भोग से वर्णशङ्कर पुत्र की उत्पत्ति होगी तो सती स्त्री से उत्पन्न उत्तम यज्ञकर्ता का अभाव हो जायेगा और वैसे उत्तम यज्ञकर्ता का अभाव होने से अग्नि में विधिपूर्वक हवन नहीं हो सकेगा और इस कारण से वर्षा का भी अभाव होने से अन्नाभाव ' होने पर प्रजाओं को नष्ट करनेवाला अधर्म फैल जायेगा, अतएव सब अनर्थों के मूल कारण परस्त्री - सम्भोग को पूर्णतः रोकना राजा का परम कर्त्तव्य है । परस्त्री के साथ एकान्त में भाषण करने पर -परस्य पल्या पुरुषः सम्भाषां योजयन् रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ ३५४ ॥

भाष्य — सम्भाषः सम्भाषणं - तमालापं योजयन् कुर्वन्सङ्ग्रहणादिदोषैः तत्स्त्री-प्रार्थनादिभिः पूर्वमाक्षारितोऽभिशस्तः – ' अयमेनामुपजपती'त्यमुत्र दृष्टदोषः शङ्क्यमान-दोषो वा चपलः । रहः उद्वातादौ – निषिद्धसम्भाषण केचित् । कारणादप्यन्यपत्न्या सम्भाषणं कुर्वन्प्रथमसाहसं दण्डं प्राप्नुयाद्दापयितव्य इत्यर्थः ॥३५४ ॥

हिन्दी — पहले परस्त्री - सम्भोग - विषयक निन्दा से युक्त जो पुरुष एकान्त में परस्त्री से बातचीत करता हो, उसे प्रथम साहस ( ८ । १३८ अर्थात् २५० पण ) से दण्डित करना चाहिए ॥३५४ ॥

१. ' एज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसम्भव: । ' इति ।

पृष्ठ 354

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 354 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१६ मनुस्मृतिः

यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् ।

न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः ॥ ३५५ ॥

[ अष्टमः भाष्य- - पूर्वस्य प्रत्युदाहरणमेतत् । अनाक्षारितोऽप्यकारणात्सम्भाषयन्मिश्र-यन्पूर्वदण्डभाक् ॥३५५ । हिन्दी — पहले कभी भी परस्त्री- सम्भोग के विषय में अनिन्दित पुरुष किसी कारण से परस्त्री के साथ एकान्त में बातचीत करे तो वह कुछ दोषी नहीं होता है, क्योंकि उसका कोई अपराध नहीं है ॥३५५ ॥

उक्त विधान का अपवाद-परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।

नदीनां वाऽपि सम्भेदे स सङ्ग्रहणमाप्नुयात् ॥ ३५६ ॥

भाष्य — ‘ परस्य पत्न्येति ’ प्रकृते पुनः परस्त्रीग्रहणं मातृभगिनीगुरुपत्न्यादी-नामप्रतिषेधार्थम् । न हि ताः सत्यपि परसम्बन्धित्वे परस्त्रीव्यपदेश्याः । तीर्थमुच्यते येन मार्गेण नदीतडागादिभ्यो जलमानेतुमवतरन्ति । स हि विजनप्रायो भवति । नानुदकार्थेन तत्र सन्निधीयते । सङ्केतस्थानं तादृशमत्र कल्पितायामवश्यमेव गन्तव्यमहमपि सन्निधीयमानो नाशङ्क्यो भविष्यामीति उदकार्थी दिवा शौचाचारं वा करिष्यन्प्रतिपालयन्निति जना मंस्यन्ते । प्रदेशान्तरं तु किमत्रायं प्रतिपालयतीति शङ्का स्यात् । अतस्तीर्थे प्रतिषेधः । अरण्यं हि ग्रामाद्विजनो देशो गुल्मवृक्षलतादिगहनः । वने वृक्षसंततौ । नदीनां सम्भेदः समागमः । सोऽपि हि सङ्केतस्थानम् । स सङ्ग्रहणं प्राप्नुयात् । परस्त्रीकामत्वं ' सङ्ग्रहणम् ' । अतश्च यस्तत्र दण्डः सोऽस्य स्यादित्युक्तं भवति । अनाक्षारितस्यापि सत्यपि कारणेऽयं प्रतिषेधः । यत्त्वापस्तम्बेनोक्तं “ नासम्भाष्य स्त्रियमतिव्रजेदिति ” तदन्येषु सन्निहितेष्वेतच्छास्त्रज्ञेषु प्रकाश्ये – ' भगिनि नमस्ते ' इत्याद्यभिवादनमविलम्बमानेन कर्त्तव्यम् ॥ ३५६ ॥

हिन्दी — पहले परस्त्री - सम्भोग के विषय में अनिन्दित भी जो पुरुष नदी के किनारे ( लता गुल्म आदि से घिरे हुए ), अरण्य में, घने वृक्ष आदि से युक्त वन में, अथवा नदियों के सङ्गम स्थान अर्थात् एकान्त में परस्त्री के साथ बातचीत करता है; वह पुरुष ' स्त्री-संग्रहण ' ( ८।३५७ ) के दण्ड ( १००० पण ) से दण्डनीय है ॥३५६ ॥

' स्त्री - संग्रहण ' का लक्षण-उपकारक्रियाकेलिः स्पर्शो भूषणवाससाम् ।

सह खट्वासनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥ ३५७ ॥

भाष्य — या न केनचित्सम्बन्धेन सम्बन्धिनी तस्या वस्त्रमाल्यादिदानेन उपकार-

पृष्ठ 355

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 355 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३१७ करणम् । तथा भोजनपानादिना । केलिः परिहासो वक्रभणितादिना । स्पर्शो भूषण-वाससाम् । भूषणं हारकटकादि तदङ्गलग्नं— तदीयमेतद्वेति ज्ञात्वा विनाप्रयोजने-नान्यगृहीतमपि स्पृश्यते । एकस्यां खट्वायामसंसक्ताङ्गयोरपि सहासनम् । सर्वमेत-तुल्यदण्डम् ॥३५७ ॥

हिन्दी — परस्त्री के पास सुगन्धित तेल- फुलेल, इत्र - माला आदि भेजना, केलि ( हंसी - मजाक आदि ) करना, उसके भूषण तथा वस्त्रों का स्पर्श करना और साथ में एक खाट पर बैठना ( यहाँ सर्वत्र निर्जन अर्थात् बिलकुल एकान्त स्थान से तात्पर्य है ) ये सब कार्य मनु आदि ऋषियों के द्वारा ' संग्रहण ' कहा गया है ॥३५७ ॥

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।

परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥ ३५८ ॥

भाष्य – अदेशस्पर्शस्य — यत्र विनैव तत्स्पर्शनं गमनागमनादि संसिध्यति । महाजनसङ्कुले न दोषः । तथा शरीरावयवोऽपि ' देश: ' । तत्र हस्तस्कंधधृतभाण्डावरोपणे तत्स्पर्शे न दोषः 1 । ओष्ठचिबुकस्तनादिषु दोषः । तथा वा स्तनादिस्पर्शेनोत्पीडितो यदि तत्सहते ‘ मा कार्षी’रित्यादिना न प्रतिषेधति । परस्परस्यानुमते मतिपूर्वमेतस्मिन्कृते दोषोऽयम् । न पुनः कर्मादौ । स्खलन्ती पुरुषं कण्ठेऽवलम्बते — पुरुषो वा स्तनान्तरे स्त्रियं तद्धस्तगृहीतद्रव्यादानप्रवृत्तौ — शुष्के पतिष्यामीति कर्द्दमे पततीतिवत्तावपि न दुष्येताम् ॥३५८ ॥

हिन्दी — यदि पुरुष परस्त्री के अस्पृश्य अङ्ग ( जङ्घा, स्तन, गाल आदि अङ्ग ) का स्पर्श करे, या उसके द्वारा अपने अङ्ग से स्पर्श करने पर सहन करे ( रुष्ट नहीं होवे ), ये सब कार्य परस्पर में अनुमति ( राजीखुशी ) से हो तो ये ' संग्रहण ' कहे गये हैं || ३५८ ॥ स्वयं पुरुष के पास स्त्री के आने पर-[ कामाभिपातिनी या तु नरं स्वयमुपव्रजेत् । राज्ञा दास्येनियोज्या सा कृत्वा तद्दोषघोषणम् ॥ २६ ॥ ]

[ हिन्दी — यदि काम के वशीभूत होकर स्त्री पुरुष के पास स्वयं जावे तो राजा उसके दोष को घोषित ( सर्वप्रत्यक्ष ) कर इसे दासी के कर्म में नियुक्त कर ले || २६ || ]

स्त्रीसंग्रहणकर्त्ता शूद्र को दण्ड-अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति ।

चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ३५ ९ ॥

भाष्य — उक्तं सङ्ग्रहणस्वरूपम् । दण्ड इदानीमत्रोच्यते । अब्राह्मणः क्षत्रियादिः सङ्ग्रहणे कृते चतुर्णामपि वर्णानां हीनोत्तमजातिभेदमनपेक्ष्य प्राणान्तं प्राणत्याजने

पृष्ठ 356

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 356 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१८ मारणे पर्यवसितं दण्डमर्हति । मनुस्मृति: कथं पुनर्ब्राह्मण्यां शूद्रायां च सङ्गृहीतस्य समो दण्ड: । [ अष्टमः अत्र हेतुस्वरूपमर्थमहा दारा रक्ष्यतमाः सदा । सर्वस्य कस्यचिद्राज्ञा दारा धनशरीरेभ्योऽतिशयेन रक्ष्याः । तुल्ये हि सङ्करे शूद्रस्यापि कुलनाशः । एतदुक्तं भवति । वाचनिकोऽयमर्थोऽत्र हेतुर्वक्तव्यः, उक्तीऽसौ । अत्र — पूर्वे व्याचख्युः- -न सर्वस्मिन्सङ्ग्रहणे प्रागुक्तदण्डोऽयम् । किं तर्हि मुख्ये स्पर्शविशेषे जन्यप्रीतिविशेषात्मके गमने । कथं हि तीर्थादिष्वभिवदनं गमनं च समदण्डा-वुपपद्येयाताम् । तस्मादब्राह्मणः शूद्रो द्विजातिस्त्रीगमने प्राणच्छेदार्हो नान्यः । न हि विषमसमीकरणं न्याय्यम् । अतश्च प्रागुक्तेषु सङ्ग्रहणेष्वनुबन्धाद्यपेक्षया दण्डः कल्प्यः । अत्रैवं निश्चितं गमनार्थ एवायमुपकारक्रियादिरुपक्रमस्तत्र मुख्यदण्ड एव युक्तः । न ह्यत्र वैषम्यमस्ति । दृष्टं चैतदुभयत्रापीति । यच्चेदमुत्तं— “ यद्यत्रायं दण्डो मुख्ये सङ्ग्रहणे किं करिष्यतीति ’ – नैवान्यन्मुख्यसङ्ग्रहणमस्ति । न ह्यस्य लौकिकः पदार्थोऽवधृतो येन परदारोपकारादौ प्रयुक्त इत्येवमस्यैव । यं च भवान् मुख्यं सङ्ग्रहणं मन्यते तत्र महान्दण्डः । प्रतिषिद्धं परस्त्रीगमनं शास्त्रं पर्यनुयोज्यमिति चेत् उपकारादावपि प्रतिषेधं विद्धि । प्रतिषेधवद्धि प्रायश्चित्तमपि तुल्यं प्रसक्तमिति चेत्का नामेयमनिष्टापत्तिः । किन्तु प्रसज्यत यदा सङ्ग्रहणशब्देन तदुच्येत । सिक्ते हि रेतसि गमनाद्यभिधानम् । यत्र यादृशो दण्डस्तत्र तत्समानं दुःखं प्राप्तम् । अतोऽस्मिन्विपर्यये रेतः सेकनिमित्तं प्रायश्चित्तं तच्छब्देनाभिधानात् उपकारादौ कल्प्यम् । यदि च संलापादौ स्वल्पो दण्डः स्यात्तदा प्रवर्तेरन् । ततश्च परस्त्रीसंलापादिभूतेनान्येनाभिभवता व्यादीपितमन्मथाः स्मरशराकृष्य-माणाः शरीरनिरपेक्षा राजनिग्रहं न गणयेयुः । आद्यायामेव तु प्रवृत्तौ गृह्यमाणेष्वप्रबन्ध-वृत्तौ रागे शक्यं निराकरणम् । तस्मात्परस्त्रीमुपजपतामेव महादण्डो युक्तः । इह त्वन्तग्रहणादादिभूतेनान्येन दण्डेन भवितव्यम् । न ह्यसत्यादावन्तो भवन्ति । प्राणोऽन्तो यस्य प्राणान्तस्तावत्पातयितव्यो यावत्प्राणेषु पतति । तेन सर्वस्वग्रहणा-ङ्गच्छेदाद्यप्युक्तं भवति । एकैकस्य च दण्डत्वमन्यत्र ज्ञातं न समुदाये दंड्यते इति बहु-दण्डेष्वाम्नातेषु स महान् यो द्विजातिस्त्रीसंग्रहणेऽब्राह्मणस्य । अतो युक्तैव मारणकल्पना सर्वत्र । तत्र कुलस्त्रीभिरनिच्छन्तीभिर्भर्तृमतीभिः संगृह्यमाणस्य प्राणपहरणं हीनजातीया-भिरपि ॥३५९ ॥

हिन्दी - अब्राह्मण अर्थात् शूद्र पुरुष यदि सम्भोगादि की इच्छा नहीं करनेवाली ब्राह्मणी का ‘ संग्रहण ' ( ८।३५७-३५८ ) करे तो वह प्राणदण्ड ( फाँसी देने ) के योग्य होता है; क्योंकि चारों वर्णों की स्त्रियाँ सर्वदा रक्षणीय हैं ॥३५९ ॥

पृष्ठ 357

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 357 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३१ ९ विमर्श — यहाँ पर कठोर दण्ड विधान होने से ' अब्राह्मण ' शब्द को मन्वर्थमुक्तावली कार ने शूद्रार्थक माना है । चारों वर्णों की स्त्रियों को रक्षणीय कहने से ऐसे प्रसङ्ग को रोकने के लिए सब वर्णों की स्त्रियों ( के सतीत्व ) की रक्षा राजा को सर्वदा करनी चाहिये । भिक्षुकादि के परस्त्री - भाषण की अनिन्दनीयता-भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । सम्भाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ३६० ॥

भाष्य- - भिक्षुकाभिक्षाजीविनो भिक्षायाचनारूपं सम्भाषणमवारिताः कुर्युर्यदि स्वामिना न निषिद्धाः । अथवा नैते वारयितव्याः । बन्दिनः स्तावका: । दीक्षिता यज्ञे भृतिवचनार्थं सम्भाषेरन् । कारवः सूपकारादयः । एते तीर्थादिष्वपि न निवार्याः ॥ ३६० ॥

हिन्दी — भिक्षुक, वन्दी ( चारण, भाट आदि ) दीक्षित ( यज्ञ के लिए दीक्षा ग्रहण किया हुआ । रसोइया ( पाचक ) परस्त्री के साथ अनिवारितरूप में बातचीत करे अर्थात् इनका बातचीत करना ' संग्रहण ' नहीं है अतएव परस्त्री के साथ बातचीत करने पर ये दण्डनीय भी नहीं है ॥३६० ॥

निषेध करने पर परस्त्री- भाषणकर्त्ता को दण्ड–

न सम्भाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।

निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ ३६१ ॥

भाष्य — केचिद्भिक्षुकादीनां निवारितानां सम्भाषणे दण्डोऽयमिति मन्यन्ते । तदसत् । नैव ते निवार्या इत्युक्तम् । कुतश्च भिक्षुकाणां सुवर्णो दण्डः । तस्मात्कोऽपि प्रकाश-मनाक्षारितोऽपि कथचिन्निषिद्धः स्वामिना समाचरन्सुवर्णं दण्ड्यः ॥३६१ ॥

हिन्दी— ( स्वामी, स्त्री का पति या अन्य अभिभावक के ) मना करने पर पुरुष परस्त्री के साथ बातचीत न करे, मना करने पर ( परस्त्री के साथ ) बातचीत करता हुआ पुरुष सौ सुवर्ण ( ८।१३५ ) से दण्डनीय होता है ॥ ३६१ ॥

नटादि की स्त्री के साथ भाषण निर्दोष -नैष चारणदारेषु विधिर्नात्मोपजीविषु ।

सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ ३६२ ॥

भाष्य — यः सम्भाषणप्रतिषेध उपकारक्रियाप्रतिषेधश्च नैष चारणदारेषु स्यात् । चारणा नटगायनाद्या: प्रेक्षणकारिणः । तथा आत्मोपजीविषु वेषेण जीवत्सु ये दाराः । अथवाऽऽत्मजायैव “ अर्धो ह वा एष आत्मेति " तां य उपजीवन्ति उपपतिक्षमकाः । सज्जयन्ति संश्लेषयन्ति ते चारणाः परपुरुषेण । निगूढाः प्रच्छन्नम् । आपणभूमौ न तिष्ठन्ति । गृहवेषत्वादेव ताः प्रसिद्धवेश्याभ्यो भिद्यन्ते । चारयन्ति च ता मैथुनं

पृष्ठ 358

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 358 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः ३२० कन्या- सम्भोग करने पर -[ अष्टमः एकभक्ता एक एकेनावरुद्धा: ।

योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।

सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ ३६४ ॥

भाष्य – प्रासङ्गिकमिदम् । तुल्यः समानजातीयः । सोऽनिच्छन्तीं कुमारीं दूष-प्रवर्तयन्ति नेत्रभ्रूविलासपरिहासादिभिः पुरुषानाकर्षयन्ति । तदनुज्ञानं ‘ सज्जनं ’, ‘ चारणं ’ संप्रयोग एव । अथवा स्वा नारी: ' सज्जयन्ति ' योजयन्ति, अन्याश्च स्वस्त्रीभि — श्चारयन्ति ’ प्रवर्तयन्ति वेश्यात्वं कुट्टनीत्वं च स्वदाराणां कारयन्तीत्यर्थः ॥ ३६२ ॥

हिन्दी — स्त्रियों के साथ बातचीत करने के निषेध का यह ( ८।३५४-३६१ ) विधान नट तथा गायकों की स्त्रियों के साथ बातचीत करने में नहीं है; क्योंकि वे ( नट, गायक आदि ) अपनी स्त्रियों को ( शृङ्गार आदि के द्वारा ) सुसज्जित कर दूसरों से मिलाते तथा छिपकर स्त्रियों के साथ सम्भोग करते हुए परपुरुष को देखते हैं ॥ ३६२ ॥

किञ्चिदेव तु दाप्यः स्यात्सम्भाषां ताभिराचरन् ।

प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ३६३ ॥

भाष्य — रहोऽप्रकाशं विजने देशे चारणनारीभिः सम्भाषां कुर्वन् किञ्चित्सुवर्णाद्य-त्यन्ताल्पं सत्रिंशद्भागिकं जातिप्रतिष्ठाने अपेक्ष्य दण्ड्यः । यतो न परिपूर्णं तासु वेश्यात्वम् । भर्तृभिरनुज्ञाता हि ताः पत्न्यायन्ते । तत्र भर्तृविज्ञानार्थं दूतीमुखेन व्यवहर्तव्यम् । न तु साक्षात्ताभिरस्वतन्त्रत्वात् । प्रकाशं तु नृत्यन्तीनां गायन्तीनां वाऽभिनयतालादिनिरूपणा-वसरे कीदृशमेतदित्यादिप्रश्नद्वारं सम्भाषणमनिषिद्धम् । प्रेष्या दास्यः सप्तभिर्दासयोनिभिरुपनताः । एकं भजन्ते तत्रान्योऽप्यस्ति दण्डलेशः । “ किंपुनरयं दासीशब्दः सम्बन्धिशब्दो य एव यस्याः स्वामी तस्यैव दासी— उत सूपकारादिशब्दवत् कर्ममूलकः ” । इह तावदाद्या एव स्थितिः । विशेषणोपादानेऽसामर्थ्यात् । या यस्य दासी वेश्याव-च्चान्यैः संसृज्यते, राजदासीव दासी वा, सा निगृह्यते । सा चेन्नावरुद्धा न दोषः संग्रहणे । अवरुद्धायामनेन दण्ड उक्तः । रिक्थविभागे चैतन्निपुणं वक्ष्यामः । प्रव्रजिताः

अरक्षकाः शीलमित्रादयः । ता हि कामुक इव लिङ्गप्रच्छन्नाः ॥३६३ ॥

हिन्दी – ( तथापि चरणादि की स्त्रियों, दासियों, बौद्धमतावलम्बिनी स्त्रियों, ब्रह्म-चारिणियों से एकान्त में बातचीत करते हुए मनुष्यों को राजा साधारणतम दण्डित करे, ( क्योंकि ये सब भी परस्त्री ही हैं, अतएव उनके साथ एकान्त में बातचीत करने से दोष लगता ही है ) || ३६३ ॥

पृष्ठ 359

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 359 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३२१ येत्कौमार्यादपच्यावयेत्स्त्रीपुरुषसम्भोगेन – सद्यस्तस्मिन्नेवाहन्यविलम्बं हन्तव्यः । सका-माया दूषणे नास्ति वधप्राप्तिः । यच्चात्र भविष्यति तद्वक्ष्यामः । यद्यपि तुल्य इत्येवात्र श्रुतं वधोऽपि जात्यपेक्षायामवश्यंभाविन्यां प्रत्यासत्त्या सम्बध्यते ॥३६४ ॥

हिन्दी – समानजातीय कोई पुरुष सम्भोग की इच्छा नहीं करती हुई कन्या को सम्भोग के द्वारा दूषित करे तो वह ( ब्राह्मणेतर जाति का होने पर ) शीघ्र ही लिङ्गच्छेदन आदि रूप वध से दण्डनीय होता है और सम्भोग की इच्छा करती हुई कन्या को दूषित करनेवाला समाजातीय पुरुष ( उक्त लिङ्गच्छेदनादि ) वध से दण्डनीय नहीं होता ( क्योंकि

उक्त कार्य गान्धर्व विवाह ( ३।३२ ) माना जाता है ) ॥३६४ ॥

कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत् ।

जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥ ३६५ ॥

भाष्य – जातिधनशीलविद्यानामन्यतमेनापि पितृकुलादुत्कृष्टं भजन्तीं प्रवर्तित-मैथुनां न किञ्चिद्दण्डयेत् । कन्यायाः स्वातन्त्र्याभावात्तद्रक्षाधिकृतानां पित्रादीनां दण्डे प्राप्ते प्रतिषेधः । जघन्यं जात्यादिभिर्हीनं सेवमानां मैथुनायोत्कलयन्तो संयतां निवृत्त-क्रीडाविाहारां कञ्चुकिमिरधिष्ठितां पितृगृह एव वासयेद्यावन्निवृत्ताभिलाषा सञ्जाता । अथ हीनजातीये निर्वृत्तप्रतीतिविशेषा तदा आऽन्त्योच्छ्वासात्संयतैव तिष्ठेत् ॥३६५ ॥

हिन्दी – अपने से श्रेष्ठ जाति वाले पुरुष के साथ सम्भोग करती हुई कन्या को ( राजा ) थोड़ा भी दण्डित न करे, किन्तु अपने से हीन जाति वाले पुरुष का सेवन करती हुई कन्या को यत्नपूर्वक घर में रोक रक्खे ( जिससे उसकी कामेच्छा निवृत्त हो जाय ) ॥३६५ ॥

उत्तमां सेवमानस्तु जपन्यो वधमर्हति ।

शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि ॥ ३६६ ॥

भाष्य — अकामायाः कन्याया दूषणे ब्राह्मणवजमविशेषेण हीनोत्तमानां वध एव दण्ड इत्युक्तम् । सकामाया दूषणे त्विदमाहुः । उत्तमां रूपयौवनजात्यादिभिः । जघन्योऽ -त्यन्तनिकृष्टः । नातिसाम्येऽपि गुणैर्वध्यः । समां तु गच्छन्सकामां स शुल्कमासुर-विवाह इव पित्रे दद्यात् । न चेदिच्छति पिता तदा राज्ञे दण्डं तावन्तम् । “ ननु च गान्धर्वोऽयं विवाह ' इच्छयाऽन्योन्यसंयोग ' इति । तत्र न युक्तो दण्डः । ” केनोक्तं गान्धर्वे नास्ति दण्डः । अत एव नायं सतीधर्मः, न चायं विवाहः, अग्निसंस्काराभावात् । यदपि शाकुन्तले व्यासवचनममन्त्रकमनग्निकमिति तद्दुष्यन्तेन कामपीडितेनैवं कृतम् । न चेच्छासंयोगमात्रं विवाहः । स्वीकरणोपायभेदादष्टौ विवाहाः, न पुनर्विवाहभेदात् । वृत्तवरणं तत्र पुनः कर्तव्यमेवमिति । अथवा ऋतुदर्शनोत्तरकालं

पृष्ठ 360

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 360 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२२ गान्धर्वः । प्रागृतोः शुल्को दण्डो वा । मनुस्मृतिः [ अष्टमः ‘ “ अथ कन्यायाः काप्रतिपत्तिः? ” तस्मा एव देया । निवृत्ताभिलाषा चेत्काममन्यत्र प्रतिपाद्या । शुल्कग्रहणं चात्रापि सकृदुपभोगनिष्कृत्यर्थमस्त्येव । वरश्चेन्निवृत्ताभिलाषो हठाद्ग्राहयितव्यः ॥३६६ ॥

हिन्दी — हीनजातीय पुरुष अपने से श्रेष्ठ जातिवाली ( सम्भोग की इच्छा करती हुई या नहीं करती हुई ) कन्या के साथ सम्भोग करे तो वह ( जात्यनुसार लिङ्गच्छेदन, ताडन या मारण आदि ) वध के योग्य है तथा समान जातिवाली कन्या के साथ सम्भोग करे और उस कन्या का पिता उस कर्म को स्वीकार करे तो उसे उचित मात्रा में धन देवे ( तथा उस कन्या के साथ विवाह कर ले ) ॥ ३६६ ॥

अङ्गुलिक्षेपण से कन्या को दूषित करने पर दण्ड-अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कर्त्या अङ्गुल्यो दण्डं चार्हति षट्शतम् ॥ ३६७ ॥

भाष्य — यद्यपि सकामा कन्या पित्रादयस्तु तस्याः सन्निहितास्ताननिच्छतोऽभिष-ह्याभिभूय दर्पेण बलेन — कः किं कर्तुं मे शक्तः – कन्यानुरागमात्राश्रितः कन्यां कुर्याद्वि-कुर्याद्दूषयेत् । अनेकार्थः करोति: । तस्याशु कर्त्याः छेत्तव्या अर्धाङ्गुलयः । षट्शतानि वा दण्ड्यः । अन्ये तु योऽकामां दूषयेदित्यस्यैव वध्यर्थस्योपसंहारोऽयम् । ताडनात्प्रभृतिमारणं यावद्वध्यर्थः । तत्रेमां निकृष्टजातीयां च दूषयन्न मार्यतेऽपि त्वङ्गुली अस्य च्छिद्येत ॥३६७ ॥।

हिन्दी — जो पुरुष समानजाति वाली कन्या के साथ सम्भोग न करके बलात्कार-पूर्वक उसकी योनि ( मूत्रमार्ग ) में अङ्गुलि डालकर उसे दूषित करे, राजा उसकी अङ्गुलि

को शीघ्र कटवा ले तथा उसे ६०० पण ( ८।१६६ ) दण्डित करे ॥ ३६७ ॥

सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ।

द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ३६८ ॥

भाष्य – सकामामित्यनुवादः । पूर्वस्यापि सकामविषयात् । अभिषह्य करणे पूर्वं दण्डः, अप्रकाशं चौर्यवद्विशतोऽङ्गुलीच्छेदवर्जितः । अथ कस्मिंश्चित्पुरुषेऽनुरागवती कन्या तेन संयुज्यमाना कन्यात्वनिवृत्तौ सकामा येन विकृतीक्रियते तस्यायं दण्ड: । अथवा हस्तस्पर्शमात्रमिह दूषणम् । प्रार्थनीयायाः कन्याया हस्तस्पर्शः - मया स्पृष्टां ज्ञात्वा नान्य एतामर्थयिष्यतेऽन्यस्मिन्ननुरागिणीं मन्यमानः ॥३६८ ॥

हिन्दी – समान जातिवाली कामवासनायुक्त कन्या के साथ सम्भोग न करके उसकी योनि में अङ्गुलि डालकर जो पुरुष उस कन्या को दूषित करे; राजा उस पुरुष की अङ्गुलि