मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 361–370
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३२३ तो नहीं कटवावे, किन्तु भविष्य में ऐसे प्रसङ्ग को रोकने के लिए उसे २०० पण ( ८।१३६ ) से दण्डित करे || ३६८ ॥
कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ॥ ३६ ९ ॥
भाष्य — बालभावाद्रूपादिद्वेषाद्वा कन्यैव कन्यां नाशयेत्सा द्विशतं दाप्या । शुल्कश्च त्रिगुणः । किंपुनः शुल्कस्य परिमाणम् ।
एषामन्यतमरूपसौन्दर्याद्यपेक्षं सौभाग्यापेक्षं च ।
शिफा रज्जुलताप्रहाराः ॥३६९ ॥
हिन्दी – यदि कोई कन्या ही किसी दूसरी कन्या की योनि में अङ्गुलि डालकर उस कन्या को दूषित करे तो राजा कन्यात्व नष्ट करनेवाली उस कन्या को २०० पण से दण्डित करे, दुगुना ( ४०० पण ) उस दूषित कन्या के पिता के लिए दिलवावे तथा दश कोड़े या बेंत से उसे दण्डित करे ॥ ३६ ९ ॥
या तु कन्यां प्रकुर्यात्स्त्री सद्यो मौण्ड्यमर्हति ।
अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ ३७० ॥
भाष्य — स्त्रियां कन्यानां कन्यालिङ्गं नाशयन्त्यां मौण्ड्यं केशवपनं दण्डोऽङ्गुलि-च्छेदो वा । खरेणोद्वहनं केशच्छेदपक्षे । कन्याजात्यादिभेदान्निग्राह्य भेदात् त्रैवर्णिक-स्त्रीणां ब्राह्मणादिक्रमेणेमं दण्डमिच्छन्ति मुद्राश्च कल्पयन्ति । ते प्रमाणाभावादुपेक्ष-णीयाः ॥३७० ॥
हिन्दी — यदि कोई स्त्री किसी कन्या की योनि में अङ्गुलि डालकर उस कन्या को दूषित करे तो राजा तत्काल उस स्त्री का शिर मुँड़वा दे, अङ्गुलि कटवा ले तथा गधे पर चढ़ाकर उस स्त्री को सड़कों पर घुमवावे ॥ ३७० ॥
व्यभिचारिणी स्त्री को दण्ड-भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ३७१ ॥
भाष्य – ' लङ्घनं ' भर्त्तारमतिक्रम्यान्यत्र गमनम् । तच्चेत् स्त्री करोति । दर्पेण-बहवो मे ज्ञातयो बलिनो द्रविणसम्पन्नाः । स्त्रीगुणो रूपसौभाग्यातिशयसम्पत् । किमनेन शीलरूपेणेत्येव दर्पेण । तां श्वभिः खादयेद्यावन्मृता । संस्थानं देशः । बहवः संस्थिता यत्र जनाश्चत्वरादौ ॥३७१ ॥
हिन्दी - जो स्त्री पिता या बान्धवों के अधिक धनी होने या अपने सौन्दर्य के
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
३२४ मनुस्मृतिः [ अष्टमः अभिमान से परपुरुष के साथ सङ्गति करके अपने पति का अपमान करे, उसे राजा बहुत लोगों से युक्त स्थान में ( सबके सामने ) कुत्तों से कटवावे ॥३७१ ॥
व्यभिचारी पुरुष को दण्ड–
पुमांसं दाहयेत्पापं शयने तप्त आयसे ।
अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥३७२ ॥
भाष्य — योऽसो पल्या जारः स आयसे लोहशयने तप्तेऽग्निसमे कृते दाहयितव्यः । तत्र च शयनस्थितस्य काष्ठानि वध्यघातिनोऽभ्यादध्युरुपरि क्षिपेयुः । यावत्काष्ठ-प्रहारैरग्निज्वालाभिः शयनतापेन च मृतः ॥३७२ ॥
हिन्दी — और उस पापी जार को तपाये हुए लोहे की खाटपर सुलाकर जलावे तथा उस खाट पर लोग लकड़ी डाल दें, जिसमें वह पुरुष जल ( कर मर ) जाय ॥ ३७२ ॥
कलङ्कित पुरुष के पुनः अपराध करने पर दण्ड–
संवत्सरेभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ३७३ ॥
भाष्य — अभिशस्तस्तत्पापकारीत्यभिशब्दितः । यो यस्यां स्त्रियां सङ्गृहीतः सोऽभिशस्तो दण्डितः । स चेत्संवत्सरं प्रतिपाल्यातीते सम्वत्सरे पुनस्तस्यामेव सङ्गृह्यते तदा तस्यैकं वारमभिशस्तस्य सम्वत्सरे गते पुनर्दुष्टस्य द्विगुणो दण्डः । सम्वत्सराभिशस्तस्येति समासपाठे कथञ्चिद्योजना । व्रात्यया सह संवासे तावदेव । “ किं यावदेव पुनर्दुष्टस्य ” । नेति ब्रूमः । तत्राप्युत्तमाधममध्यमानामनेकविधो दण्डः । तत्र कोऽसाविह ' द्विगुणा ' इति न ज्ञायते । किं तर्हि चाण्डाल्या संवासे यावदेव तावदेव व्रात्ययेति । " सहस्रं त्वन्त्यजस्त्रियमिति ” ( ३८५ ) । ‘ व्रात: ’ पूगः सङ्घस्तेन चरन्ती पुंश्चलीति कथञ्चिद् यः कर्तव्यः । अथवा व्रातमर्हति व्रात्येत्यस्तु — यकारो दण्डादिः । “ काच व्रातमर्हति । ” याऽनेकपुरुषोपभोग्या पुंश्चली सा हि पुरुषव्रातमर्हति । अथवाऽनेकपुरुषस्वामिका ग्रामस्य दास्यश्च ‘ व्रात्याः ’ । ये तूद्वाहहीनां व्रात्यां मन्यन्ते - तेषां मतेन मुख्यः शब्दार्थः । अयं हि व्रात्यशब्दः स्मृतिकारैः सावित्रीपतितेषु प्रयुक्तः । न च स्त्रीणां तत्सम्भवः । अथ स्त्रीणां विवाहस्य तदापत्तिवचनादुपनयनं तद्धीनपुरुषवद्व्रात्या, – गौणस्तर्हि न मुख्यः । यदि नामोपनयनशब्दोऽनुपनयने विवाहे प्रयुक्तस्तथाप्युपनयनहीनो व्रात्या इत्युक्तेन विवाहहीन इति प्रतीयते । यथाऽसिंहोऽयं देश इत्युक्ते न सिंहशब्दस्य माणवके प्रयुक्तस्यापि देशस्यामाणवकत्वं प्रतीयते । अस्ति तत्र मुख्य इहासम्भव इति चेन्नासम्भवमात्रनिबन्धना गौणी प्रतीतिः, किं तर्हि, सम्बन्धमपरमपेक्ष्य । भवेदुपनयनशब्दो विवाहे गौणः,
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३२५ व्रात्यशब्दस्तु गौण इति को हेतुः? गौणत्वेऽपि विवाहाभावनिबन्धन इति दुरुपपादम् । व्रात्यजापि — काकाज्जातः काकः श्येनाज्जातः श्येन इति – व्रात्येति शङ्क्यते । व्रात्य-सम्बन्धप्रत्यासत्त्या हि तत्र रूपातिदेशप्रतिपत्तिः । व्रात्यभार्या तु सत्यपि सम्बन्धे न व्रात्यशब्देन शक्याऽभिधातुम् । सोऽयमित्यभिसम्बन्धे हि पुंयोगादाख्यायामिति ( पा ०४ । १।४८ ) तथा भवितव्यम् । तावतश्चायं भेदविवक्षायां तद्धितेनेति । तस्माद्यदि गौणो व्रात्यशब्दो गृहीतव्यस्तज्जाता प्रत्येया । अथशब्दार्थे व्रातमर्हतीति । विवाहभ्रष्टा तु न मुख्या न गौणीति । न च विवाहकालः स्त्रीणां नियतो यत्कालाद्भ्रष्टा व्रात्याः स्युः । यदपि प्रागृतोर्विवाह्याः तदपि स्वयंवरस्य ऋतुमत्या विना तत्परेणाभ्यनुज्ञात एव काममा-मरणं तिष्ठेद्गृहे कन्या ॥३८३ ॥
हिन्दी – परस्त्री - गमन से दूषित ( अदण्डित भी ) पुरुष एकवर्ष के बीतने पर पुनः परस्त्रीगमन रूप अपराध करे तो उसे पूर्वोक्त दण्ड से दुगुना दण्ड होता है; तथा हत्या ( १०।२० ) तथा चाण्डाली ( १०।२६-२७ ) के साथ गमन ( सम्भोग ) करने पर भी उतना ( दुगुना ) ही दण्ड होता है ॥३७३ ॥
विमर्श - पहले परस्त्री सम्भोग से दूषित व्यक्ति यदि व्रात्या या चाण्डाली स्त्री के साथ एक वर्ष बीतने पर सम्भोग करे तो वह दुगुना दण्डनीय होता है । इसी प्रकार पूर्व दूषित पुरुष एक वर्ष बीतने पर जब किसी परस्त्री के साथ सम्भोग करे तो वह दुगुना दण्डनीय होता है । यह वचन पहले का ही व्रात्या तथा चाण्डाली के साथ सम्भोग करने पर दण्डनिर्देश के लिए है । अरक्षितादि स्त्री के साथ शूद्रादि को दण्ड–
शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥ ३७४ ॥
भाष्य— शूद्र आचाण्डालात् । गुप्तं वर्णं द्वैजातं द्विजातीनां स्त्रिय आवसन्मैथुनेन गच्छन् रक्षितां भर्त्रादिभिः नियमेन दण्ड्यः । को दण्ड इति चेत् — अगुप्तां चेद्गच्छ-त्यङ्गसर्वस्वी हीयते । अङ्गं च सर्वस्वं तद्वान् । केन हीयते । प्रकृतत्वात्ताभ्यामेवान्यस्या-निर्देशाद्विशेषस्यानुपादानात् । अपराध्येवाङ्गम् । गुप्तं चेद्गच्छति सर्वेण हीयते । नैके-नाङ्गेन यावच्छरीरेणापि । हान्युद्देशेनाङ्गच्छेदनसर्वस्वहरणमरणान्युपदिष्टानि भवन्ति । हानिरस्य कर्तव्येत्यर्थः । तथा च गौतमः ( १२।२-३ ) “ आर्यत्र्यभिगमने लिङ्गोद्धारः
सर्वस्वहरणं च । गुप्तां चेत् ” ॥३७४ ॥
हिन्दी– ( पति या अभिभावक के द्वारा ) सुरक्षित या असुरक्षित द्विज- स्त्री के साथ सम्भोग करनेवाले शूद्र को, असुरक्षित द्विज स्त्री के साथ सम्भोग करने पर उसके लिङ्ग को कटवाकर तथा धन को जप्तकर दण्डित करे तथा सुरक्षित द्विज - स्त्री
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
३२६ मनुस्मृतिः [ अष्टमः के साथ सम्भोग करने पर उसकी सब सम्पत्ति को जप्तकर उसे प्राणदण्ड से दण्डित करे ॥३७४ ॥
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ३७५ ॥
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ३७६ ॥
भाष्य – वैश्यस्य सर्वस्वदण्ड उक्तः । इह तु साहचर्यात्सत्यपि द्विजातित्वे न वैश्यस्य समानजातीयागमे दण्डोऽयं किंतर्हि ब्राह्मणक्षत्रिययोरेव । एवं क्षत्रियस्य ब्राह्मणी-गमने सहस्रं मौण्ड्यं च मूत्रेण । उदकस्थाने गर्दभमूत्रं ग्रहीतव्यम् । अन्ये व्याचक्षते — अन्यस्यानुपादानात्समानजातीय एव संवत्सरनिरोधनेन दण्डा-धिक्यम् । यदि संवत्सरमवरुद्धं करोति ततोऽयं दण्डः । आद्यमेव तु व्याख्यानं न्याय्यम् । न च समहीनोत्तमानां कथं समदण्डत्वमिति वाच्यम् । यत उक्तं “ सर्वेषामेव वर्णानां दारा रक्ष्यतमाः सदा ” इति । अगुप्ता व्याख्याता । भ्रष्टशीलाऽनाथा च । तद्गमने वैश्यं पञ्चशतं कुर्यात् । करोतिः प्रकरणाद्दण्डने वर्तते । दण्डयेदित्यर्थः । पञ्च शतान्यस्येति पञ्चशतः । बहुव्रीहिर्मत्वर्थीयः । तथा कर्तव्यं यथा पञ्च शतान्यस्य भवन्ति । ' किं यदधिकं तत्तस्याप-हर्तव्यमित्यर्थः ” । नेति ब्रूमः । तथा सति यस्य पञ्च वै शतानि धनं वा न्यूनं तस्य दण्डो न कश्चिदुक्तः स्यात् । कस्तर्हयर्थः पञ्चशतं कुर्यादिति । दण्डाधिकाराद् दण्डं पञ्चशत-सम्बन्धिनं कुर्यात् । एवं सहस्रिणं क्षत्रियमिति । सहस्रमस्यास्ति दण्डो, न गृहे धनम् । अङ्गसर्वस्वीति ( ३७४ ) व्याख्येयं — तथा कर्तव्यं यथाङ्गं सर्वस्वं च तस्य दण्डो
भवति ।
क्षत्रियस्याधिको दण्डो रक्षाधिकृतो रक्षति तत्पुनः स एवापराध्यति ॥३७६ ॥
हिन्दी – ( पति आदि से सुरक्षित ब्राह्मणी के साथ सम्भोग करने पर ) वैश्य को १ वर्ष तक जेल में रखने के बाद सर्वस्व हरण का दण्ड ( जुर्माना ) देना चाहिए और क्षत्रिय को १००० पण का दण्ड देना चाहिए एवं उसका सिर गधे के मूत्र से मुँडवा देना चाहिए ( पति या अभिभावकादि के द्वारा असुरक्षित ) ब्राह्मण - स्त्री के साथ यदि वैश्य सम्भोग करे तो राजा उस पर ५०० पण तथा यदि क्षत्रिय गमन करे तो उसपर १००० पण दण्ड ( जुर्माना ) करे ॥३७५-३७६ ॥ विमर्श - जातिमात्रोपजीवनी ब्राह्मणी के साथ शूद्री के भ्रम से गमन करनेवाले
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३२७ वैश्य के लिए यह दण्ड - विधान है, किन्तु उससे भिन्न ब्राह्मणी के साथ गमन करनेवाले वैश्य भी १००० पण से ही दण्डनीय होता है ।
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद्दण्ड्यो दग्धव्यौ वा कटाग्निना ॥ ३७७ ॥
भाष्य - तावेव क्षत्रियवैश्यौ गुप्ता ब्राह्मण्या विप्लुतौ कृतमैथुनौ मैथुनप्रवृत्ता-व्वेव शूद्रवद्दण्ड्यौ — ' गुप्तं सर्वेण हीयत ' इति ( ३७४ ) । दग्धव्यौ वा कटा-ीग्निा । वा शब्दो वधप्रकारविकल्पे न वधविकल्पे । न हि शूद्रस्यागुप्ते वधादन्यो दण्ड आम्नातः ॥३७७ ॥
हिन्दी— ( पति आदि से सुरक्षित तथा ) गुणवती ब्राह्मणी के साथ यदि वे दोनों ( ( वैश्य तथा क्षत्रिय ) मैथुन करें तो वे शूद्र के समान ( ८।३७४ ) दण्डनीय हैं या तृणाग्नि में जलाने योग्य हैं ॥३७७ ॥
विमर्श - ' वसिष्ठके वैश्यं लोहितदर्भैः क्षत्रियं शरपत्त्रैर्वावेष्ट्य ' इस वचन के उअनुसार उक्तापराध करनेवाले को जलते हुए लाल कुशाओं से तथा क्षत्रिय को शरपत्तों रंसे वेष्टितकर जलाना चाहिए । प्रकृत वचन का गुणवती ब्राह्मणी विषयक होने से प्पूर्ववचन ( ८।३७५ ) के साथ विरोध नहीं होता है ॥ ब्राह्मणों के साथ सम्भोग करनेवाले ब्राह्मण को दण्ड-सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ ३७८ ॥
भाष्य — गुप्ता भ्रष्टशीलाऽपि यदि केनचिद्रक्ष्यते पित्रा भ्रात्रा बन्धुभिर्वा तां हठा-{ द्गच्छन् सहस्रं ब्राह्मणो दाप्यः । गुप्ता शीलवती चेत्प्रवासनाङ्कनेऽधिके । अथापि ' शीलवत्यपि गुप्तशब्देनोच्यते – तथापि सहस्रमात्राद्ब्राह्मणो मुच्यते । अङ्कनप्रवासने सर्वत्र मुखीक्रियेते परदाराभिमर्शे ॥३७८ ॥
हिन्दी– ( पति या अभिभावक के द्वारा ) सुरक्षित ब्राह्मणी के साथ बलात्कारपूर्वक सम्भोग करनेवाला ब्राह्मण १००० पण से तथा सम्भोग की इच्छा करनेवाली ब्राह्मणी
के साथ सम्भोग करनेवाला ब्राह्मण ५०० पण ( ८।१३६ ) से दण्डनीय होता है ॥३७८ ॥
मुण्डनमात्र ही ब्राह्मण का प्राणदण्ड-मौण्ड्यं प्राणान्तको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तो भवेत् ॥ ३७ ९ ॥ भाष्य — यत्र क्षत्रियादीनां वध उक्तस्यत्र ब्राह्मणस्य मौण्ड्यम् । यथाऽब्राह्मणः सङ्ग्रहणात्प्राणान्तं दण्डमर्हति — तथा तु पुमांसं दाहयेदिति । प्राणानामन्तं गच्छति मनु II 23
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
३२८ मनुस्मृतिः [ अष्टमः प्राणान्तं वा करोति प्राणान्तकः । “ अन्येष्वपि दृश्यते " ( पा ० सू ० ३।२।१०१ ) इति ण्वुल् । अन्ये तु प्राणान्तिक इति पाठान्तरम् । प्राणान्ते भवः प्राणान्तिकः– अध्यात्मादित्वाट्ठञ् । इतरेषां ब्राह्मणादन्येषां क्षत्रियादीनां वर्णानां प्राणान्तिक एव श्रुतं मारणादि पूर्वमेव । तदनन्तरमिदमुच्यते । उच्यमानं मौण्ड्यं तच्छेषतया सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा ब्राह्मणस्य प्राणान्तदण्डाविधानात्कः प्रसङ्गो ब्राह्मणस्य येनैव-मुच्यते ‘ मौण्ड्यं प्राणान्तिक ’ इति । पुमांसं दाहयेदिति सामान्यविधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं स्यात्तथा हि स्फुटं तद्विषयत्वं प्रतीयेत ॥ ३७ ९ ॥ हिन्दी — ब्राह्मण को प्राणदण्ड होने पर उसका मुण्डन करा देना ही उसका प्राणदण्ड होता है तथा अन्य वर्णों ( क्षत्रिय, वैश्य और शूद्र ) का प्राणनाश करना ही प्राणदण्ड होता है ॥३७९ ॥
ब्राह्मणवध का निषेण-न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ३८० ॥
भाष्य — सर्वपापेष्विति प्रकरणविधौ न केवलं सङ्ग्रहणे ब्राह्मणो न हन्यते याव-दन्येष्वप्यपराधेषु । अपिशब्दो युगपत्सर्वपापकार्यपि ब्राह्मणो न जातु कदाचिद्धन्तव्य: । किं तर्हि तस्य पापकारिणः कर्त्तव्यम् । राष्ट्रादेनं विषयाद्ब्राह्मणं बहिःकुर्यान्निर्वासयेत् । समग्रधनं सर्वस्वसहितम् । अक्षतमक्षतशरीरम् । धनमप्यस्य नापहर्तव्यम् । कथं तर्हि दण्डो ब्राह्मणस्य । केचिदाहुर्निर्वासने त्वाधीयमानं सधनं निर्वास्य धनदण्डं प्रति-षेधति । अन्ये तु समग्रधनं हृतसर्वस्वं कृत्वा निर्वास्यत इति मन्यन्ते ॥३८० ॥
हिन्दी- - राजा समस्त पाप करनेवाले भी ब्राह्मण का वध कभी न करे; किन्तु सम्पूर्ण धन के साथ अक्षत शरीर वाले उस ( ब्राह्मण ) को राज्य से निर्वासित कर दे ॥ ३८० ॥
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।
तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ ३८१ ॥
भाष्य— पूर्वशेषोऽयमर्थवादः । न ब्राह्मणवधादन्यो बहुतरोऽधर्मो दुःखफलो-ऽस्ति । अन्यशब्दाध्याहारेण पञ्चमी । तस्माद्धेतोरस्य ब्राह्मणस्य राजा मारणमङ्गच्छेदं वा मनसाऽपि नेच्छेत् ॥३८१ ॥
हिन्दी — ब्राह्मण वध के समान पृथ्वी पर दूसरा कोई बड़ा पाप नहीं है, अतएव राजा मन से भी ब्राह्मण के वध करने का विचार न करे ॥ ३८१ ॥
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥८२ ॥
३२ ९ भाष्य — अगुप्ताया ब्राह्मण्या गमने वैश्यं पञ्चशतं कुर्यात्क्षत्रियं सहस्रिणमिति ( ३७६ ) । तत्र वैश्यस्य पञ्चशतम् । य एव परिपालयति स एव चेन्नाशयति युक्तं तस्य दण्डमहत्त्वम् ॥३८२ ॥
हिन्दी– ( पति आदि के द्वारा सुरक्षित ) क्षत्रिया के साथ वैश्य तथा वैश्या के साथ क्षत्रिय सम्भोग करे तो वे अरक्षित ब्राह्मणी के साथ सम्भोग करने पर कहे गये दण्ड से ( ८।३७६ के अनुसार वैश्य ५०० पण तथा क्षत्रिय १००० पण ) दण्डनीय है ॥ ३८२ ॥
विमर्श – यहाँ पर गुणहीना तथा जातिमात्रोपजीविनी असुरक्षित क्षत्रिया को शूद्रा समझकर उसके साथ सम्भोग करनेवाले गुणवान् वैश्य के लिए क्षत्रिय से कम अर्थात् आधा ( ५०० पण ) दण्ड कहा गया है, किन्तु उसे क्षत्रिया जानकर सम्भोग करनेवाला वैश्य भी १००० पण से दण्डनीय होता है तथा सुरक्षित वैश्या को वैश्या जानकर भी सम्भोग करनेवाले क्षत्रिय पर १००० पण दण्ड करना उचित है ही । [ क्षत्रियां चैव वैश्यां च गुप्तां तु ब्राह्मणो व्रजन् । न मूत्रमुण्डः कर्त्तव्यो दाप्यस्तूत्तमसाहसम् ॥ २७ ॥ ]
[ हिन्दी– ( पति या अभिभावकादि से सुरक्षित ) क्षत्रिया अथवा वैश्या के साथ गमन ( सम्भोग ) करनेवाले ब्राह्मण पर मूत्रमुण्ड ( गधे के मूत्र से शिर मुंडवाने का दण्ड करना चाहिये नहीं , किन्तु तु एक उत्तम साहस ( ८।१३८ ) अर्थात् १००० पण ) का दण्ड करना चाहिये ॥२७ ॥ ]
सहस्त्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्राया क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥ ३८३ ॥
भाष्य – गुप्ते क्षत्रियावैश्ये गच्छन्ब्राह्मणः सहस्रं दण्ड्यः । प्रवासनाङ्कने स्थिते 1 एव । शूद्राया गमने क्षत्रियवैश्ययोः साहस्त्रो दण्डः । सहस्रमेव साहस्रम् । | स्वार्थिकोऽण् । सहस्रं वा यस्मिन् दण्डेऽस्ति साहस्रो दण्डोऽत्र पदार्थः । मत्वर्थी-योऽण् ॥३८३ ॥ हिन्दी - ( पति | सम्भोग या अभिभावकादि से सुरक्षित ) क्षत्रिया या वैश्या के साथ में करनेवाला | सम्भोग ब्राह्मण १००० पण से दण्डनीय है तथा सुरक्षित शूद्रा साथ करनेवाले क्षत्रिय और वैश्य भी १०००-१००० पण ( ८।१३६ ) से ही दण्डनीय होतेहैं ॥ ३८३॥
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
३३० मनुस्मृतिः असुरक्षित क्षत्रिया के साथ सम्भोग करनेवाले वैश्य को दण्ड-क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ३८४ ॥
[ अष्टमः भाष्य — वैश्यस्य पञ्च शतानि दण्डः, अगुप्तां चेत् क्षत्रियां गच्छति । क्षत्रियस्य स एव । यदि वा मौण्ड्यं मुण्डनमृच्छेत्प्राप्नुयाद्गर्दभमूत्रेण । एष एव वैश्यागमन-उभयोर्दण्डः ॥३८४ ॥
हिन्दी - ( पति आदि से ) अरक्षित क्षत्रिया के साथ सम्भोग करनेवाले वैश्य को ५०० पण दण्ड होता है और क्षत्रिय को गधे के मूत्र से शिर मुंडवाने का या ५०० पण का दण्ड होता है ॥३८४ ॥
असुरक्षित क्षत्रिया आदि के साथ सम्भोग करनेवाले ब्राह्मण को दण्ड–
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात्सहस्त्रं त्वन्त्यजस्त्रियम् ॥ ३८५ ॥
भाष्य – ब्राह्मणस्य क्षत्रियाद्यगुप्तास्त्रीगमन उभयोर्दण्डः । अन्त्यजश्चण्डा-लश्वपचादि: । तत्र सहस्रम् । तत्रायं सहस्रपणदण्डसङ्ग्रहः । ब्राह्मणस्य चतुर्ष्वपि वर्णेषु गुप्तागमने सहस्रम् । श्रोत्रियदारेषु प्रवासनाङ्कने । अन्यत्र प्रवासनमेव । श्रोत्रियदारेषु प्रायश्चित्तमहत्त्वादेव कल्प्यते । अगुप्तागमने पञ्चशतानि प्रवासनाङ्कने । यद्यप्यगुप्ता परदाराव्यपदेश्या भवति विवाहसंस्कारे सति , तथापि स्वैरिणी भर्तृस्वतामतिक्रान्ता । अब्राह्मणस्य प्राणान्तो गुप्तागमने दण्डो बलात् । सकामागमने साहस्रो दण्डः प्रवासनाङ्कने च । गुप्तागमने ‘ वैश्यं पञ्चशतं कुर्यात्क्षत्रियं सहस्रिणमिति ' ( ३७६ ) ॥३८५ ॥
हिन्दी– ( पति आदि से असुरक्षित ) क्षत्रिया, वैश्या अथवा शूद्रा के साथ सम्भोग करनेवाला ब्राह्मण ५०० पण से तथा अन्त्यज स्त्री ( चाण्डाली आदि सर्वाधम स्त्री ) के साथ सम्भोग करनेवाला ( ब्राह्मण ) १००० पण से दण्डनीय होता है ॥ [ शूद्रादि के धन को कोष में रखने का निषेध – ]
[ शूद्रोत्पन्नांशपापीयान्न वै मुञ्चेत किल्बिषात् ।
तेभ्यो दण्डाहृतं द्रव्यं न कोशे सम्प्रवेशयेत् ॥ २८ ॥
अयाजिकं तु तद्राजा दद्याद् मृतकवेतनम् ।
यथादण्डगतं वित्तं ब्राह्मणेभ्यस्तु लम्भयेत् ॥ २ ९ ॥
भार्यापुरोहितस्तेना ये चान्ये तद्विधा जनाः ॥३० ॥ ]
[ हिन्दी — राजा शूद्रोत्पन्न पाप सम्बन्धी दोष से नहीं मुक्त होता है, अतएव उनसे प्राप्त दण्ड - द्रव्य को खजाने में नहीं जमा करावे ॥२८ ॥ ]
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता चौरादिहीन राज्यवाले राजा की प्रशंसा-यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ३८६ ॥
३३१ भाष्य – यस्य राज्ञः पुरे देशे राष्ट्रे स्तेनश्चौरो नास्ति स शक्रस्येन्द्रस्य लोकं स्थानं भजते स्वर्गं प्राप्नोति । नान्यस्त्रीगमनम् — अन्यस्य या स्त्री भार्याऽवरुद्धा पुनर्भूर्वा । स्त्री-ग्रहणमभार्याया अप्यसम्बन्धिन्याः प्रतिषेधार्थम् । दुष्टवाक् त्रिविधस्याक्रोशस्य कर्ता ।
साहसिक उक्तः । दण्डेन हन्ति दण्डपारुष्यकृत् । शक्रलोकभागिति सर्वत्रानुषङ्गः ।
स्तेनादीनां स्त्रीसङ्ग्रहशेषोऽयमर्थवादः ॥ ३८६ ॥
हिन्दी - जिस ( राजा ) के राज्य में चोर, परस्त्री - सम्भोग करनेवाला, कठोर वचन बोलनेवाला, गृहदाह आदि साहस कार्य करनेवाला तथा कठोर दण्ड ( ताडनमारण आदि दण्ड पारुष्य ) करनेवाला पुरुष: नहीं है, वह ( राजा ) स्वर्गगमन करता है ।
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत्सजात्येषु लोके चैव यशस्करः ॥ ३८७ ॥
भाष्य — साम्राज्यं परप्राणयिता । स्वातन्त्र्यम् । सजात्येषु । समानस्पर्द्धिनो राजानः ‘ सजात्या ’ अभिप्रेताः । तेषु मूर्द्धन्यधितिष्ठति, तस्याज्ञाकराः भवन्तीत्यर्थः । लोके च यशस्करः कीर्तिमुत्पादयति । उभयत्रापि निग्रह एव कर्त्ता हेतुत्वम् । जनमारकोऽयं क्रोधन इति वदन्त्यपि तु स्तुवन्ति ॥३८७ ॥
-हिन्दी – इन पाँचों ( चोर, परस्त्री सम्भोगकर्ता, कटुभाषणकर्त्ता, साहसकर्मकर्त्ता और दण्डपारुष्यकर्त्ता ) का अपने राज्य में निग्रह करनेवाला राजा समानजातीय राजाओं में साम्राज्य करनेवाला तथा इस लोक में यशस्वी होता है ॥ ३८७ ॥
पुरोहित तथा यजमान का करने पर दण्ड-ऋत्विजं यस्त्यजेद्याज्यो याज्यं चर्त्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ३८८ ॥
भाष्य - यज्ञे कर्मकर ऋत्विग् होतोद्गात्रादिः । यद्यपि वरणोत्तरकालमाप्रयोग-समाप्तेस्तद्व्यपदेशस्तथाप्यत्र प्रारब्धकर्मणोरितरेतरत्यागे न विधिरयं किं तर्हि प्राग्वरणात् । भूतपूर्वगत्या ऋत्विग्व्यवहारः । यः प्रयोगान्तरे वृतः स एव शक्तः प्रयोगान्तरेऽपि वरितव्यः । न केवलं पूर्ववृतस्यायमत्यागः किं तर्हि तत्पित्रादिभिरपि । तथाहि ' पूर्वो जुष्टः स्वयंवृत ' इति नारदः । न चायमैकपुरुषिको नियमः । किं तर्हि कुलधर्मोऽयम् । तथा च महाभारते संवर्त्तमरुत्तीयेषु प्रपञ्चितम् । तेन यत्कुलाः पित्रादिभिर्ऋत्विजो वृतास्त एव वरीतव्याः ।
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
३३२ मनुस्मृतिः ' श्री ' [ अष्टमः याजनकानामप्येष एव विधिः । तैरपि ते याजनीयाः । ऋत्विजं कृतार्त्विज्यं तत्कुलीनं वाऽन्यं यो न वृणीत यियक्षुः, अपि त्वन्यं याजकमर्थयेत् । शक्तं कर्मणि यज्ञे प्रयोगज्ञ - मदुष्टमभिशंसनाङ्गवैकल्यादिभिर्दोषैरयुक्तम् । एवमीदृश एवर्त्विगर्थ्यमानो यदि नाङ्गीकुर्याद्याजनकत्वं अदुष्टमेभिरेव दोषैरनाक्रान्तं याज्यं शक्तं विद्वत्तया च । तादृशे त्यागे तयोः शतं दण्डः । ऋत्विक् शतं दाप्यो याज्यं त्यजन्, याज्य ऋत्विजम् । न केवलमयमृत्विग्याजकधर्मः, शिष्याचार्ययोरपि । तथाच गौतम: - ( १२।१२- १३ )
“ अथायाजकावृत्विगाचार्यौ पतनीयसेवायां च हेयावन्यत्र हानात्पतति ” इति ।
दातृसम्प्रदानयोरपि प्रतिग्रहे केचिद्धर्ममिममिच्छन्ति ॥ ३८८ ॥
हिन्दी – जो यजमान ( कर्मानुष्ठान में समर्थ ) पुरोहित का और पुरोहित ( अधार्मिक पातकादि दोषवर्जित ) यजमान का त्याग करे, वह ( त्यागकर्त्ता यजमान या पुरोहित ) १००-१०० पण से दण्डनीय होता है ॥ ३८८ ॥
माता आदि का त्याग करने पर दण्ड-न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति ।
त्यजन्नपतितानेतान्तराज्ञा दण्डयः शतानि षट् ॥ ३८ ९ ॥
भाष्य — माता न त्यागमर्हति । न त्याज्या | ' त्याग: ' स्वगृहान्निष्कासनं मातृवृत्तेः स्खलितायाः, उपकारस्योपक्रियायामुदितायामकारणे । एवं पित्रादीनामपि व्याख्येयम् । सम्बन्धसाहचर्यात्स्त्री भार्यैवाभिप्रेता । अपतितानामेषां त्यागो नास्ति । मातुस्तु “ न माता पुत्रं प्रतिपततीत्येक इति ” शातातपः । भार्यायाश्चापि ' त्यागः ' असम्भोगो गृहकार्यनिषेधः । भक्तवस्त्रादिदानं तु न निषिध्यते । “ योषित्सु पतितास्वपि - वस्त्रान्नपानं देयं च वसेयुः स्वगृहान्तिके ” इति पठ्यते ॥३८ ९ ॥ -हिन्दी – माता, पिता, स्त्री और पुत्र त्याग के योग्य नहीं हैं, ( अतएव अपतित ) इनमें से किसी का त्याग करनेवाले को राजा ६०० पण से दण्डित करे ॥३८ ९ ॥ ब्राह्मणों के शास्त्रीय विवाद में राजा के हस्तक्षेप का निषेध-आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्मं चिकीर्षह्नितमात्मनः ॥ ३ ९ ० ॥ भाष्य — वानप्रस्थादीनामरण्याश्रमवासिनामाश्रमेषु कार्यं धर्मं सङ्कटरूपम् — अयं शास्त्रार्थो नायमिति — इतरेतरं विवदमानानां न धर्मव्यवस्थां सहसा विब्रूयात्प्रभुतया 'निर्णय-मन्येषामिव न कुर्यात् । कथं तर्हि? वक्ष्यमाणेन प्रकारेण । एवमात्मने हितं कृतं भवति—