मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 371–380
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 371–380
पृष्ठ 371
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३३३ शास्त्रार्थत्यागो न भवतीत्यर्थः । गृहस्थानां चाश्रमित्वेऽपि यथोक्त एव निर्णयप्रकारः । कार्यं
धर्मसंशयात्मकविवादपदम् । आश्रमग्रहणाच्च विशिष्टविषयता व्याख्यायते ॥ ३ ९ ० ॥।
हिन्दी – ( गार्हस्थ्यादि ) आश्रम - सम्बन्धी धार्मिक विषयों में ( ' शास्त्र का ऐसा अभिप्राय है, तुम्हारे कहने के अनुसार नहीं है ' इत्यादि रूप में ) परस्पर विवाद करते हुए द्विजातीयों के कार्य में अपना हित चाहनेवाला राजा ' इस प्रकार धर्म ( शास्त्रवचन ) है ' ऐसा कोई निर्णय न करे ॥ ३ ९ ० ॥
यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सन्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ३ ९ १ ॥
भाष्य — यथा तत्कर्तव्यं तथेदानीमाह । यो यादृशीं जामर्हति गुणानुरूपेण तं तथैवाभ्यर्च्य ब्राह्मणैर्मन्त्रिपुरोहितादिभिः । अर्चायां साहित्यं धर्मप्रवचने वा । तदा च ब्राह्मणाः सत्या विज्ञेयाः । तैः सह स्वधर्मं न्याय्यमर्थं बोधयेत् । सिद्धे सहत्वे सभ्येभ्य उपदेशः प्राधान्यार्थः । तान्पुरस्कुर्यात् तथाहि । न राज्ञः क्रुध्यन्ति शास्त्रेण । प्रीतिस्तुतिवचनैः प्रथमं प्रशमय्य व्यपनीतक्रोधान्कृत्वा ब्रूयात् ॥ ३ ९ १ ॥ हिन्दी- - राजा यथोचित पूजा ( आदर - सत्कार ) कर ब्राह्मणों के साथ सान्त्व ( शम-प्रधान ) वचनों से उन्हें शान्त करके इनका अपना जो धर्म है, उसे समझावे ॥३९ १ ॥ सामाजिक भोजन के विषय में दण्डविधान—
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।
अर्हावभोजयन्विप्रो दण्डमर्हति माषकम् ॥ ३ ९ २ ॥
भाष्य — विशन्त्यस्मिन्निति ' वेशो ' निवास: - तत्प्रतिगतः ‘ प्रतिवेशः ’ गृहाभिमुखं, ` तत्र भव: प्रतिवेश्यः । आदिदीर्घपाठे स्वार्थिकोऽण् । एवमनुवेश्यः पृष्ठतो वसन्नुच्यते । तौ चेन्न भोजयेत् । यदि स्वगृहमानीय कल्याणे विवाहाद्युत्सवे विंशतिमात्रा यत्र द्विजा अन्ये भोज्यन्ते । तदा माषकं सुवर्णं दण्डं दाप्यः । हिरण्यमित्युत्तरत्र विशेषणादिहापि 1 विज्ञायते । अहौं — यदि तौ प्रतिवेश्यानुवेश्यौ योग्यौ भवतः, न द्विषन्तौ नात्यन्त-।निर्गुणौ ॥३ ९ २ ॥ हिन्दी — किसी शुभ कार्य में बीस ब्राह्मणों को भोजन कराना हो तो प्रतिवेशी और अनुवेशी योग्य ब्राह्मणों को नहीं भोजन कराने वाला ब्राह्मण एक मासे चाँदी से दण्डनीय होता है ॥३ ९ २ ॥ विमर्श - बिलकुल सटे हुए मकानों में रहनेवाला ' प्रतिवेशी ’ तथा एक मकान छोड़कर दूसरे मकान में रहनेवाला ' अनुवेशी ' कहा जाता है ॥
पृष्ठ 372
पाठ पढ़ें पाठ छिपाएँ
३३४ मनुस्मृतिः [ अष्टमः शिक
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् ।
तदन्नं द्विगुणं दाप्यो हैरण्यं चैव माषकम् ॥ ३ ९ ३ ॥
भाष्य — अप्रातिवेश्यार्थोऽयमारम्भः । सब्रह्मचारिणामयं नियमः । श्रोत्रियस्तादृश-मेव श्रोत्रियं गुणवन्तं भूतिकृत्येषु । भूतिर्विभवस्तन्निमित्तेषु कार्येषु — विभवे धनसम्पत्तौ सत्यां यानि क्रियन्ते गोष्ठीभोजनादीनि । अथवा भूतिग्रहणं कृत्यविशेषणम् । भूति-मन्ति यानि कृत्यानि प्राचुर्येण प्रभूततया विवाहादीनि क्रियन्ते - यत्र विंशतेरधिकनरा भोज्यन्ते । तादृशेषूत्सवेषु अभोजयंस्तदर्थमन्नं यावत् भूतिकृत्येषु भोक्तव्यं तावद्विगुणं तस्मै दापयेत् । राज्ञे वा दातव्यं हैरण्यं माषकम् ॥ ३ ९ ३ ॥ हिन्दी — प्रतिवेशी या अनुवेशी सज्जन श्रोत्रिय को विवाहादि शुभ कार्यों में नहीं भोजन करानेवाले श्रोत्रिय से ( राजा ) उस ( भोजन नहीं कराये गये ) श्रोत्रिय के लिए दुगुना अन्न तथा एक मासा सोना दण्ड स्वरूप दिलवावे ॥ ३ ९ ३ ॥
करग्रह से मुक्त करने योग्य व्यक्ति-अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ।
श्रोत्रियेषूपकुर्वंश्च न दाप्याः केनचित्करम् ॥ ३ ९ ४ ॥
भाष्य – सप्तत्या स्थविरः । प्रकृत्या विरूप इतिवत्तृतीया । सप्ततिर्वर्षाणि यस्य जातस्य स एवमुच्यते । श्रोत्रियेषु वेदाध्यायिषूपकुर्वन्पादशुश्रूषादिना कारुकर्मणा वा । एते न केनचित्‘शिल्पिनो मासिमासीत्यादि ' ( मनु ७।१३८ ) दाप्याः । क्षीणकोशेनापि न दाप्या इति केनचिद्ग्रहणम् ॥३९ ४ ॥ हिन्दी – अन्धा, जड़, पङ्गु, सत्तर वर्ष से अधिक बूढ़ा और अन्न आदि से श्रोत्रियों का उपकार करते रहनेवाला, इन लोगों से कोई ( क्षीणकोषवाला भी ) राजा कर ( टैक्स ) नहीं लेवे ॥ ३ ९ ४ ॥
श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।
महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ ३ ९ ५ ॥
भाष्य — सम्पूजनमनुग्रहः । अनेकार्थत्वाद्धातूनाम् । न हि बालादीनामन्या पूजोप-पद्यते । श्रोत्रियोऽत्र ब्राह्मण एवेति स्मरन्ति । आर्त्तः प्रियवियोगादिना । अकिञ्चनो दुर्गतः । महाकुलीनः । ख्यातिधनविद्याशौर्यादिगुणे कुले जातो ' महाकुलीनः ' । आर्य
ऋजुप्रकृतिरवक्रः । एतेषां दानमानादिभिरनुग्रहः कर्त्तव्यः ।
केचिदकिञ्चनं महाकुलीनविशेषणं व्याचक्षते ॥३९ ५ ॥
हिन्दी — श्रोत्रिय ( विद्वान् तथा आचारवान् ब्राह्मण ) रोगी, ( पुत्रादि के विरह से ) दु: खी, बालक, बृद्ध, दरिद्र, श्रेष्ठ कुल में उत्पन्न और उत्तम चरत्रिवाले की राजा सदैव
पृष्ठ 373
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य’मणिप्रभा ' हिन्दीटीकासहिता पूजा ( दान, मान आदि हिताचरण से सत्कार ) करता रहे ॥३९ ५ ॥ धोबी को कपड़ा धोने का विधान-शाल्मलीफलके श्लक्ष्णे - नेनिज्यान्नेजकः शनैः । ३३५ न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ३ ९ ६ ॥ शाल्मली नाम वृक्षस्तद्विकारे फलके । स हि प्रकृत्यैव श्लक्षणो भवति । न च वाससोऽपि पातैरवयवा अस्य च्यवन्ते । ते हि च्युता वास: पाटयेयुः । न चायं जाति-नियमोऽदृष्टाय 1 । तेनान्यदपि यत्कष्ठमेवंस्वभावं तत्फलके न दोषः । श्लक्ष्णेऽपरुषे च । वासांस्यन्यदीयान्यन्यदीयैर्वासोभिन निर्हरेत् । बद्ध्वोपरिवेष्ट्य तीर्थे प्रक्षालयितुं न नयेत् । बन्धनाद्वाससां विनाशो माऽभूत् । अधिकं हि तानि पीडितानि भवन्ति । न च वासयेत् । अन्यदीयानि वासांस्यन्यस्मै न प्रयच्छेत् । मूल्येन वसनार्थं न दद्यात् । एतद्धि ' वासनं ' – वस्तेऽपरः, तं रजको वासयति । अश्रुतत्वाद्दण्डस्य प्रकृतमाषक-योजना कर्त्तव्या ॥ ३ ९ ६ ॥ हिन्दी — धोबी सेमल की लकड़ी के बने हुए चिकने पाढ ( मोटे तख्ते ) पर धीरे-धीरे कपड़ों को धोवे, किसी के कपड़े को दूसरों के कपड़ों में नहीं मिलावे और दूसरे को पहनने के लिए नहीं देवे । ( यदि वह ऐसा नहीं करे तो राजा के द्वारा दण्डनीय होता है ) ॥३९ ६ ॥ सूत को बुनकर कपड़ा देने का विधान—
तन्तुवायो दशपलं दद्यादेकपलाधिकम् ।
अतोऽन्यथा वर्तमानो दाप्यो- द्वादशक दमम् ॥ ३ ९ ७ ॥
भाष्य — तन्तून्वयति तन्तुवायः कुविन्दः । शाटकादेः पटस्य कर्त्ता । स सूत्र-पलानि दश गृहीत्वा शाटकं वयन् एकपालाधिकं वस्त्रं दद्यात् । अनया वृद्ध्या सर्वं दद्यात् । स्थूलसूक्ष्मादिवाससां रोमवतां च कल्पना कर्त्तव्या । अन्यथा द्वादश-पणो दण्डः । वृद्ध्यदानेऽयं दण्डः । मूलच्छेदे तु गणोक्तः । एवं विंशतिपलं यदि न ददाति वृद्धिं द्विगुणो दण्डः । एवं कल्पना कार्या— त्रिगुणश्चतुर्गुण इत्यादि । अन्ये तु दण्डं राजभागमित्याहुः ॥३९ ७ ॥ हिन्दी – कपड़ा बुननेवाला ( जुलाहा आदि ) दश पल सूत के बदले में ( माँड़ी आदि लगने में बढ़ जोने के कारण ) ग्यारह पल कपड़ा दे, इसके विपरीत करने ( कम कपड़ा देने ) वाले को राजा बारह पण ( ८।१३६ ) दण्ड दिलवावे ( तथा स्वामी अर्थात् सूत के बदले में कपड़ा लेनेवाले को उचित कपड़ा दिलवाकर सन्तुष्ट करे ) ॥३ ९ ७ ॥
पृष्ठ 374
पाठ पढ़ें पाठ छिपाएँ
३३६ मनुस्मृतिः
विक्रेय वस्तु के कर ग्रहण का प्रमाण-शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ३ ९ ८ ॥
[ अष्टमः भाष्य— येषु प्रदेशेषु शुल्कमादीयते तानि शुल्कस्थानानि राजभिर्वणिकग्भिः स्वप्रतिदेशनियतानि कल्पितानि । तेषु स्थानेषु ये कुशलाः शौल्किकाः – ये धूर्तेर्न शक्यन्ते वञ्चयितुं - तथा सर्वेषां पण्यानामागमक्रयविक्रयक्षयव्ययसारासारादिविधिज्ञा विचक्षणाः । ते भाण्डस्यागतस्य देशान्तरान्नीयमानस्य वाऽर्यं कुर्युः । ततो विंशति-भागं राजा गृह्णीयात् । “ किंपुनरर्घकरणेन । एतावदेव वक्तव्यं पण्यानां विंशतिभागमिति ' । सत्यम् । यदा स्वरूपेण द्रव्यं राजा गृह्णाति । स्वरूपकान्युपयुज्यन्ते साटकादीनि – तत्र विंशतिभागः न पाटनमन्तरेणोपपद्यत इत्येवमर्थमर्घकरणम् | अविक्रेयाणामात्मोपयोगिनां नास्ति शुल्क इति ज्ञापितुं यथापण्यम् । एवं कालानुरूप्येण । न सर्वपण्यं सर्वदा विक्रियत एकरूपेणार्घेण । अतो देशकालापेक्षया पण्यानामर्घव्यवस्था, न नियतोऽर्घ इति ॥३ ९ ८ ॥ हिन्दी — स्थल तथा जल के मार्ग से व्यापार करने में चतुर और बाजार के सौदों के मूल्य लगाने में निपुण व्यक्ति बाजार के अनुसार जिस वस्तु का जो मूल्य निश्चित करे, उसके लाभ में से राजा बीसवाँ भाग कर रूप में ग्रहण करे ॥ ३ ९ ८ ॥ प्रतिषिद्ध वस्तु का निर्यात करने पर दण्ड-राज्ञः प्रख्यात भाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ ३ ९९ ॥ भाष्य - राज्ञः सम्बन्धितया प्रख्यातानि यानि भाण्डानि राजोपयोगितया— यथा हस्तिनः, काश्मीरेषु कुङ्कुमम्, प्राच्येषु पट्टोर्णादीनि, प्रतीच्येष्वश्वाः, दाक्षिणात्येषु मणिमुक्तादीनि । यद्यस्य राज्ञो विषये सुलभमन्यत्र दुर्लभं तत्र तस्य ' प्रख्यापनं ' भवति । तेन हि राजान इतरेतरं संदधते । प्रतिषिद्धानि यानि राज्ञा मदीयाद्देशान्नैतदन्यत्र नेयम् अत्रैव वा विक्रेयं यथा दुर्भिक्षे धान्यमित्येवमादीनि । लोभान्निर्हरतो देशान्तरं नयतो
विक्रीणानस्य वा सर्वहारं हरेत्सर्वहरणं ' सर्वहार: ' । अयं धनलोभान्नयतो दण्डः ।
राजान्तरोपायनार्थं त्वधिकतरः शारीरोऽपि दुर्गावरोधादिः ॥३९९ ॥
हिन्दी - राजा से सम्बद्ध विक्री करने योग्य विख्यात ( बर्तन या रोजोपयोगी हाथी, घोड़ा, गाड़ी आदि ) सामान तथा निर्यात ( निकासी ) के लिए मना किये गये पदार्थ ( यथा-दुर्भिक्ष के कारण अन्नादि, पशून्नति आदि के लिए गाय, भैंस, बैल आदि या इसी प्रकार अन्याय पदार्थ ) को लोभ ( अधिक लाभ होने की आशा ) से दूसरे देश ( या स्थान ) में ले जानेवाले व्यापारी की सम्पूर्ण सम्पत्ति को राजा हरण ( जप्त ) कर ले ॥ ३ ९९ ॥
पृष्ठ 375
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३३७
असमय में विक्रयादि करने पर दण्ड-शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ४०० ॥
भाष्य- क्रयविक्रयी वाणिजक उच्यते । शुल्कस्थानं परिहरन्नुत्पथेन गच्छन् । अकाले वा रात्रौ शुल्काध्यक्षेषु गतेषु । संख्याने मिथ्यावादी नयूनं कथयति गणना-याम् । उपलक्षणं चैतत्संख्यानम् । तेन प्रच्छादनेऽप्येष एव विधिः । दाप्योऽष्टगुणमत्ययं दण्डः । यावदपह्नुते तावदष्टगुणम्, यावान्वा तस्यापह्नु तस्योचितः शुल्कस्तमष्टगुणं दाप्यः । आद्यमेव युक्तम् । ' अत्यय ' शब्दो हि तत्र समञ्जसः तद्धेतुत्वाद्द्रव्ये | अन्ये त्वकाले क्रयविक्रयी इति सम्बन्धं कुर्वन्ति । अकालश्चागृहीते शुल्के रहसि वा प्रतिषेधोऽयम् ॥४०० ॥
हिन्दी — शुल्क ( चुङ्गी - कस्टम ) से बचने के लिए चुङ्गीघर का रास्ता छोड़कर दूसरे रास्ता से सौदा ले जानेवाला, असमय ( रात्रि आदि में गुप्त रूप से ) विक्रय करनेवाला; ( चुङ्गी कम लगने के लिए ) तौल, माप या मूल्य को झूठ ( कम ) बतलानेवाला व्यापारी चुङ्गी के वास्वविक मूल्य के अठगुने द्रव्य से दण्डनीय होता है ॥
विदेश में विक्रय करने का मूल्य निर्णय-आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ४०१ ॥
भाष्य - आपणभूमौ ये विक्रेतारस्ते न स्वेच्छया मूल्यं कर्तुं लभेरन्नापि राजा क्रीणीयात् स्वरुचिकृतेन मूल्येन । कथं तर्हि । इदमिदं निरूप्यम् । आगमम् —किं प्रत्यागच्छति देशान्तरादुत न, तथेयतो दूरादागच्छति । एवं निर्गमस्थाने । कि सम्प्र-त्येव विक्रियत उत तिष्ठति । सम्प्रति निष्क्रामतो द्रव्यस्य स्वल्पोऽपि लाभो महाफलस्त-दुत्थितेन मूल्येन द्रव्यान्तराविषयेण क्रयविक्रयेण पुनर्लाभ: । स्थानात् वृद्धिक्षयौ । कियत्यस्य वृद्धिस्तिष्ठति कीदृशो वा क्षय: - इत्येतत्सर्वं परीक्ष्य स्वदेशे क्रयविक्रयौ कारयेत् । यथा न वणिजां पीडा भवति नापि क्रेतॄणां तथाऽर्घं व्यवस्थापयेत् ॥४०१ ॥
हिन्दी – ( राजा ) आयात - निर्यात की दूरी, स्थान, कितने दिनों तक रखे रहने से कितना लाभ होगा, कितना बढ़ेगा, कर्मचारियों या अन्य कुली आदि तथा कीड़े आदि के कारण कितना माल घटेगा; इत्यादि सब बातों का विचारकर बाजार में बेचने योग्य सब सौदों ( अन्न, वस्त्र, शस्त्र, काष्ठ आदि सामान ) का मूल्य निश्चित कर उनका क्रय-विक्रय ( खरीद, बेची ) करावे ॥४०१ ॥
पृष्ठ 376
पाठ पढ़ें पाठ छिपाएँ
३३८ मनुस्मृतिः मूल्य निर्धारण-पञ्चरात्रे पञ्जरात्रे पक्षे पक्षेऽथवा गते ॥। कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ ४०२ ॥
भाष्य — आगमनिर्गमनादेर्द्रव्यस्यानित्यत्वादुपचयापचयावर्घस्यानेकरूपौ [ अष्टमः । ततोऽर्घ-संस्थापनं पञ्चरात्रे पञ्चरात्रे प्रत्यक्षीकार्यं, न सकृत्कृतं मन्तव्यं, नापि वणिजो विश्वसि-तव्याः । किंतर्हि स्वयं प्रतिजागरणीयम् । यद्द्रव्यं चिरेण निष्क्रामति तत्र पक्षेऽर्घगवेषण-मन्यत्र पाञ्चरात्रिकम् ॥४०२ ॥
हिन्दी – राजा पाँच - पाँच या पन्द्रह - पन्द्रह दिनों के बाद मुख्य व्यापारियों के सामने ( उनसे विचार विनिमय करके सौदों के ) मूल्य का निर्धारण करता रहे ॥ ४०२ ॥
तराजू, बाट आदि की जाँच-तुला मानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् ।
षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ४०३ ॥
भाष्य— तुला प्रसिद्धा । मानं प्रस्थो द्रोण इत्यादि । प्रतीमानं सुवर्णादीनां परिच्छेदार्थं यत्क्रियते । सर्वतोभागे तत्सुलक्षितं राजचिह्नैरङ्कितं कार्यम् । स्वयं प्रत्यक्षेण परिच्छिद्य स्वमुद्रया । परीक्षयेत् षट्सु षट्सु मासेषु पुनः परीक्षां कारयेदाप्तैरधिकारि-भिर्यथा न विचालयन्ति केचित् ॥४०३ ॥
हिन्दी – तुलामान, प्रतीमान और तराजू की राजा अच्छी तरह जाँचकर परीक्षा करे तथा प्रति छः मासपर उनकी जाँच कराता रहे ॥ ४०३ ॥
विमर्श - सोना, चाँदी आदि बहुमूल्य वस्तु तौलने के बाँट ( तोला, मासा, रत्ती आदि बटखरों ) को ‘ तुलामान ' तथा अन्न आदि तौलने के बाँट ( सेर, पसेरी, मन आदि बड़े बटखरों ) को ' प्रतिमान ' कहते हैं । इसी प्रकार राजा कपड़े नापने का गज, पैमाना आदि की भी जाँच कराता रहे ।
नाव का भाड़ा-पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।
पादे पशुश्च योषिच्च पदार्धं रिक्तकः पुमान् ॥४०४ ॥
भाष्य — नदीतीरे यानं गन्त्री शकटादितरेण पणं दाप्यम् । भाण्डपूर्णानामुत्तरत्रो-पदेशाद्रिक्तभाण्डानां यानानां यानद्रव्यानयनार्थमुत्तार्थमाणानामयं राजभागः । पौरुषवाह्यो भारो द्रव्यानयनार्थमानीयमानोऽर्धपणं दाप्यः । पशुर्गोमहिष्यादिः पादम् । स्त्री च । रिक्तको न किञ्चित् । यो गृहीतवान्भारं स पुमान्पादार्थं दाप्यः । रिक्तस्य पुंसो नदीलङ्घनसामर्थ्य-
पृष्ठ 377
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३३ ९ सम्भावनया लाघवादल्पमादानम् । स्त्री अशक्तत्वात्स्वयं तरणे बहु दाप्यते । तरे तर-निमित्तम् ॥४०४ ॥
हिन्दी – ( नदी आदि को ) नाव से पार करने में मनुष्य गाड़ी का एक पण, एक आदमी के बोझ ( लगभग एक मन ) का आधा पण, गौ आदि पशु तथा स्त्री का चौथाई पण तथा खाली ( बोझ रहित ) मनुष्य का अष्टमांश पण ( ८।१३६ ) नाव का भाड़ा ( खेवाई ) देवे ॥४०४ ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किञ्चित्पुमांसश्चापरिच्छदाः ॥ ४०५ ॥
भाष्य - भाण्डं द्रव्यं वस्त्रव्रीह्यादि - तेन पूर्णानि यानानि सारतस्तार्यं तारार्थं दाप्यानि । यदि महार्घं वस्त्रादि तत्र बह्वारोपितं तदा बहु दाप्यानि, अथ व्रीह्यादिना नातिभारेण तदाल्पम् । एवं नद्याः सुतरदुस्तरत्वेन कल्पना कर्त्तव्या । रिक्तभाण्डानि यानानि यत्किञ्चित् — पणपादानि । भाण्डशब्दोऽत्र धनवचनः । ये चापरिच्छदाः ते न पादार्थमपि तु यत्किञ्चित्ततोऽधिकं न्यूनं वा । अत्र न शक्यो नियमोऽतः कल्पनैव शास्त्रार्थः ॥४०५ ॥
हिन्दी — सामान से भरी हुई गाड़ी या ठेले आदि की खेवाई उनके हलकापन तथा भारीपन के अनुसार देवे तथा खाली बर्तन और दरिद्र मनुष्य का भाड़ा जो भी कुछ अर्थात् अत्यन्त थोड़ा देवे ॥ ४०५ ॥
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥४०६ ॥
भाष्य- - पारावारोत्तारणे पूर्वं दानम् । अयं नावा ग्रामान्तरगमने । दीर्घाध्वनि योजनादिपरिमाणेन गन्तव्ये । यथादेशं – यस्मिन्देशे यत्तरिदानं नाविकैः स्थापितं तदेव । यथाकालं — कालो वर्षादिबहूदकस्तत्रान्यन्मूल्यम् । स्वल्पोदकायां सरिति चिरेण ग्राम-प्राप्तौ नाविकानामधिकतरायासवतामधिकमूल्यम् । तरमूल्ये कारणे कार्यशब्दस्तरो भवे-दिति । यावद्यावद्दीर्घो देशस्तावत्तावत्तरपणो वर्धते । एतच्च नदीतीरेषु विद्यात् । समुद्रे सागरे नास्ति तरलक्षणम् । न शक्यते लक्षयितुं कति योजननानि नौर्व्यूढा येन तदनु-सारेण मूल्यं कल्प्ये । नदनदीषु शक्यते ज्ञातुमयं पन्था योजनमात्रो द्वियोजन इति । तत्र हि तत्र ग्रामाः परिमाणचिह्नम् । तत्रैकयोजनेऽध्वनि यन्मूल्यं द्विगुणं तद्द्द्वियोजने । समुद्रे तु बहुवाह्या नौः, न च सुष्टु शक्यते योजनादिपरिच्छेदः कर्तुम् । अत एवोक्तं समुद्रे नास्ति लक्षणमिति ॥ ४०६ ॥
हिन्दी - दूर तक जाने के लिए नदी की प्रबलता ( तेज बहाव ), स्थिरता, गर्मी तथा
पृष्ठ 378
पाठ पढ़ें पाठ छिपाएँ
३४० मनुस्मृतिः [ अष्टमः वर्षा आदि के समय के अनुसार नावभाड़ा ( खेवाई ) होता है; इसको नदी - तट के लिए समझना चाहिए । समुद्र में नदी से भिन्न स्थिति होने से यह नियम ( ८ ४०४-४०५ ) नहीं है ( अतएव उसका भाड़ा उचित ही लेना चाहिये ) ॥४०६ ॥
गर्भिणी आदि नाव भाड़ा से मुक्त-गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मण लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥४०७ ॥
भाष्य — द्वाभ्यां मासाभ्यामृतुदर्शनस्य व्यक्तगर्भा स्त्री भवति तस्या अनुग्राह्यत्वात्तर-पणो न ग्राह्य: । प्रव्रजितश्चतुर्थाश्रमी । मुनिस्तापसः । ब्राह्मणा लिङ्गिनो ब्रह्मचारिणः । ब्राह्मणग्रहणं विशेषणम् । तेन बाह्यप्रव्रज्यालिङ्गधारिणां नैष विधिः । तरप्रयोजनं तारिकं
पणादि तरनिमित्तं न दाप्याः । वृत्तानुरोधात् तारिकमिति सिद्धे तरग्रहणम् ॥ ४०७ ॥
हिन्दी – दो मास से अधिक गर्भवाली स्त्री, संन्यासी, ब्राह्मण और ब्रह्मचारी से नदी के पार जाने में कोई नावभाड़ा नहीं लेना चाहिये ॥ ४०७ ॥
मल्लाह के दोष से सामान नष्ट होने पर -यन्नावि किञ्चिद्दाशानां विशीर्येतापराधतः ।
तद्दाशैरेव दातव्यं समागम्य स्वतोंऽशतः ॥४०८ ॥
भाष्य — नाव्यारोपितभाण्डं तरणिकायां यदि दशानां नाविकानामपराधादावर्त-मानजलेन प्रदेशेन नयतां वा तत्स्थानं ज्ञात्वा दृढबन्धेन जलप्रवेशमकुर्वतां वद्ध्यादिनह-नीभिरयोमयोभिश्चर्मबन्धैः सूत्रबन्धैर्वा शिथिलीकृतवतां – यदि भाण्डं विशीर्येत विन-श्येत तदा तैरेव दातव्यं स्वतोंऽशतः स्वभागाद्भाण्डस्वामिने । समागम्य यावन्तो नाव्यारूढा दाशाः ॥४०८ ॥
हिन्दी - मल्लाहों की मल्लाहों की गलती से जो सामान नाव में नष्ट हो जाय, उसकी पूर्ति सब मल्लाहों को मिलाकर अपने - अपने हिस्से में से करनी चाहिये ॥ ४०८ ॥
एष नौयायिनामुक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ ४० ९ ॥
क भाष्य - नौभिर्यान्ति तच्छीला नौयायिनस्तेषामेष विधिरुक्तो यदा दाशापरा-धाद्यद्भ्रष्टमुदके तद्दद्युः 1 दैविके दोष उत्पाते वातादिना नौभङ्गे नास्ति नाविकानां द्रव्यनाशे निग्रहः । एष स्थले भाण्डवाहकानां भारिकाणां वा न्यायः । यद्यप्रमादेन प्रक्रामति भारिको गृहीतदण्डावलम्बनो दृढबन्धोपरिभागोऽकस्माद् वृष्ट्या पथि कर्दमीकृते पतितस्य भाण्डं
पृष्ठ 379
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता नश्येन्न भारिकस्य दोषः स्यात् ॥४० ९ ॥ ३४१ हिन्दी – ( भृगुजी ऋषियों से कहते हैं कि ) नाव से पार जानेवालों के लिए यह निर्णय कहा गया है | नाविकों ( नाव पर काम करनेवाले ) मल्लाहों की असावधानी से नष्ट हुए सामान के देनदार नाविक होते हैं, किन्तु दैवी उपद्रव ( आँधी - तूफान आदि ) से सामान के नष्ट होने पर उसके देनदार नाविक नहीं होते, वह हानि नष्ट हुए सामान के स्वामी को ही भोगनी पड़ती है ॥४० ९ ॥
वैश्यादि से व्यापारादि कराना-वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च ।
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ४१० ॥
भाष्य — इह केचिद्व्याचक्षते —– अनिच्छन्तावपि वैश्यशूद्रौ बलादेव तानि कर्माणि कारयितव्यौ यत एतयोः स्वधर्मोऽयम् । सत्यपि दृष्टार्थत्वेऽदृष्टार्थता विद्यते नियमविधि-त्वात् । एवं च सति ब्राह्मणोऽपि हठात्प्रतिग्राहयितव्य इत्यापतति । पक्ष एव दोषत्वेनाय-मुक्त इति चेदत्राप्येष एव पक्षः । तदयुक्तम् । सत्यां धनार्थितायां शास्त्रतो नियमः । न तु विधिनिबन्धनैव प्रवृत्तिः । यत्र स्वयं प्रयोजकमस्ति तत्र न विधेः प्रयोक्तृत्वम् । नियमांशे तु विधेर्व्यापारः । स चेदृशो नियमः । वैश्यमेव कारयेद्वाणिज्यम् – अन्यं कुर्वाणमसत्यामापदि दण्डयेत् । एवं ब्राह्मणमेव प्रतिग्रहम् । तथा च प्रतिग्रहसमर्थोऽपि सन्तोषपरश्च स्यादित्यापद्यते । यदपि श्रूयते — ‘ अनिच्छतोपीति ' । ( ४१२ ) सोऽर्थवादः । शूद्रमेव दास्यमित्येवं सर्वत्र नियमरूपता द्रष्टव्या ॥४१० ॥
हिन्दी — राजा वैश्यों से व्यापार, व्याज ( सूद ) की जीविका, खेती तथा पशु - पालन और शूद्रों से द्विजों की सेवा करावे ॥४१० ॥
क्षत्रिय - वैश्य के दासकर्म का निषेध-क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । बिभृतादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ ४११ ॥
भाष्य - वृत्त्या कर्शितौ ब्राह्मणो बिभृयाद्भक्तादानादिना क्षत्रियवैश्ययोर्भरणं कुर्यात् । आनृशंस्येनानुकम्पया स्वानि कर्माणि कारयेत् । ब्राह्मणस्य वानि स्वानि समित्कुशोदकुम्भाहरणादीनि । अथवा क्षत्रियवैश्ययोर्यानि स्वानि । क्षत्रियो ग्राम-रक्षादौ नियोक्तव्यो वैश्यः स्वकृषिपशुपाल्यादौ । महाधनो यो ब्राह्मणो महापरिच्छदश्च सामर्थ्यात्तस्यैष विधिः । स्वानि कर्माणीति वचनात् दास्यं न कारयितव्यौ गर्हितोच्छिष्ट-मार्जनादि॥४११ ॥
पृष्ठ 380
पाठ पढ़ें पाठ छिपाएँ
३४२ मनुस्मृतिः [ अष्टमः हिन्दी — जीविका ( के अभाव ) से दुःखित क्षत्रिय तथा वैश्य को, उनसे अपनी जाति के अनुसार रक्षण तथा खेती आदि करवाता हुआ धनवान् ब्राह्मण करुणापूर्वक पालन करे || ४११ ॥ विमर्श - इस वचन से यह बात प्रकरण द्वारा सिद्ध होती है कि यदि धनवान् ब्राह्मण जीविका के अभाव से दुःखित क्षत्रिय तथा वैश्य को उक्त प्रकार से पालन न करे तो वह राजदण्डनीय होता है ।
दास्यं तु कारयँल्लोभाद्ब्राह्मणः संस्कृताद्विजान् ।
अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ४१२ ॥
भाष्य — संस्कृता उपनीताः । यद्यपि द्विजग्रहणादेवैतल्लभ्यते तथापि त्रैवर्णिक-जात्युपलक्षणार्थं न विज्ञायीति । यो ब्राह्मणः समानजातीयान्दास्यं पादधावनोच्छिष्टाव-करणसम्मार्जनादिरूपमनिच्छतः । प्रभवतो वाचः प्राभवत्यं प्रभुत्वम् । शक्त्यतिशयोगतो बलादिना य: कारयति स षट्शतानि दण्ड्यः । लोभादेतद्, द्वेषादिभिस्त्वधिको दण्ड्यः । शत्रन्तस्य भवतेर्भावप्रत्यये प्राभवत्यादिति रूपम् । प्रभुत्वेनेति वचनाद्गुरोर्न दोषः । अनिच्छत इति वचनादिच्छतामल्पो दण्डः ॥।४१२ ॥ • हिन्दी - सम्पत्तिशाली होने के कारण यदि ब्राह्मण लोभ से यज्ञोपवीत संस्कार युक्त द्विज से उसकी इच्छा के बिना दासकर्म करावे तो वह ब्राह्मण राजा के द्वारा ६०० पण ( ८।१३६ ) से दण्डनीय होता है ॥ ४१२ ॥
शूद्र से दासकर्म कराने का विधान-शूदं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा ।
दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ४१३ ॥
भाष्य — क्रीतमक्रीतं भक्ताद्युपनतम् । वक्ष्यमाणस्य विधेरनुवादोऽयम् । दास्यायै-वेत्यर्थवादः ॥४१३ ॥
हिन्दी — किन्तु बेतन देकर या नहीं देकर ( जैसा वे चाहें वैसा करके ) शूद्र से दास कर्म को करावे; क्योंकि ब्रह्मा ने ब्राह्मणों की सेवा के लिए शूद्रों की सृष्टि की है ॥ ४१३ ॥
दासत्व से शूद्र की अमुक्ति-न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते ।
निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ ४१४ ॥
भाष्य — यमाश्रितः सप्तमिर्दासयोनिभिस्तेन निसृष्टोऽपि तन्मुक्तोऽपि । न स्वा-मिना निसृष्टोऽपि दास्याद् विमुच्यते । किंतु निसर्गजं सहजं जातिसहभावि