मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 381–390
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 381–390
पृष्ठ 381
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३४३ कः तस्माच्छूद्राद् तत् दास्य मपोहत्यपनयति । यथा शूद्रजातिर्न तस्यापनेतुं शक्यैवं दास्यमपि । अर्थवादोऽयम् । यतो वक्ष्यति निमित्तविशेषे शूद्रस्य दास्यान्-मोक्षम् ॥४१४ ॥
हिन्दी — स्वामी के द्वारा छोड़ा गया भी शूद्र दासत्व से छुटकारा नहीं पाता है, क्योंकि वह ( दासत्व ), उसका स्वाभाविक कर्म है, ( अतएव ) उस ( दासत्व कर्म ) से उसको कौन मुक्त कर सकता है? अर्थात् कोई नहीं ॥४१४ ॥
दास के सात प्रकार—
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ ।
पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ ४१५ ॥
भाष्य — ध्वजग्रहणं वाहनोपलक्षणार्थम् । ध्वजिनी सेनोच्यते । तत आहृतः । संग्रामे जितः सन्दासीकृतः । “ किंपुनरिदं क्षत्रियस्य वचनम् – युद्धेजितः क्षत्रियो दासीभवति । ’ ” नेति ब्रूमः । शूद्रस्यैव प्रकृतत्वात् । “ दास्यायैव हि सृष्टोऽसौ ” इति । स्वामिनं जित्वा तदीयो दास आहृतः । आहर्तुर्दास्यं प्रतिपद्यते । “ ननु शूद्रस्याविशेषेणैव दास्यमुक्तं ‘ निसर्गजं तत्तस्य ' इति ” । नैवम् । तथा सत्यव्यवस्था स्यात् — कस्यासौ दास इति न विज्ञायेत । सर्वे हि त्रैवर्णिकास्तस्य दास्याः । स्वधर्ममनुवृत्तस्य चानियमोऽविधित्वात् । अन्ये तु’सर्वे चोत्तरोत्तरं ` परिचरेयुरित क्षत्रियादीनामपि दास्यमस्ति ' ( गौतम १०/६६ ) । तदसत् । अन्यद् ‘ दास्यम् ' अन्या ' परिचर्या ' । निकृष्टकर्मकारित्वमप्यज्ञातस्य “ दास्यम् ', सर्वस्य प्रेषितस्याप्रतिबन्धः । ' परिचर्या ' तु शरीरसंवाहनमर्थदारादिरक्षाधिकारः । न्नारदेन चैतत्प्रपञ्चितम् । भक्तलाभार्थं दास्यं प्रतिपन्नो भक्तदासः । गृहे जातो गृहजः । दास्यामुत्पन्नो गर्भदासः । क्रीतो मूल्येन स्वामिनः सकाशात् । दत्रिमः प्रीत्याऽदृष्टार्थं वा दत्तः । क्रमागतः पैत्रिकः । “ अथ गृहजस्यास्य च को विशेषः ” । गृहजस्तदीयायामेव दास्यां जात इतरस्तु क्रमागतः । दण्डदासो राज्ञे दण्डं दातुमशक्ता दासीक्रियते । “ कर्मणाऽपि समं कुर्यात् ” इत्त्यन्यवर्णस्यापि दास्यमिच्छन्ति । तदयुक्तम् । अन्यद्दास्यमन्यच्च तत्कर्मकारित्वम् । मानु I 24
पृष्ठ 382
पाठ पढ़ें पाठ छिपाएँ
३४४ मनुस्मृतिः' ' [ अष्टमः न चायं दण्डो येनान्तर्भवेत् । न च दासयोनिपुरुषधारणमुक्तं, केवलं कर्मणापीति । तथा दासकर्मा - ऽप्यस्ति । “ ननु च धर्मोपनतोऽपि शूद्रो दास इष्यते । तत्र कथं सप्त दासयोनयः ” । नैष दोषः । न तस्यौत्पत्तिकं दासत्वम् । इच्छाधीनत्वाद्धर्मार्थिनः । न हि तस्य दानाधानक्रिया युज्यते — क्रीतगृहजादिदासवत् । एवं ह्युक्तं ——यथायथा हि सद्वृत्त-मिति ' ( १०।१२८ ) तेनैवं ब्रुवतैतत्प्रदर्शितं भवति — न तस्य नित्यं दास्यं किं तर्हि फलविशेषार्थिनः । ततश्चानिच्छतो न दास्यमस्ति । अतो यदि शूद्रो विद्यमानधनः स्वा-तन्त्र्येण जीवेद्ब्राह्मणाद्यनपाश्रितो न जातु दुष्येत् ॥४१५ ॥
हिन्दी – ( १ ) युद्ध में स्वामी के पास से जीता गया, ( २ ) भोजन करने आदि के लोभ से आया हुआ, ( ३ ) दासी- पुत्र, ( ४ ) मूल्य देकर खरीदा गया, ( ५ ) किसी के देने से प्राप्त हुआ, ( ६ ) पिता की परम्परा से चला आता हुआ, ( ७ ) दण्ड ( ऋण आदि ) को चुकाने के लिए स्वीकृत किया गया, दासों की ये सात योनियाँ ( कारण ) हैं ॥४१५ ॥
भार्या, दासादि के अपने धन का अभाव-भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ४१६ ॥
भाष्य – एते त्रयोऽर्जितधना अप्यधनाः । स्वामिनो धनम् । यत्किञ्चिते धनमर्ज-यन्ति तद्धनं तस्य स्वं यस्य ते स्वत्वमापन्नाः । भार्याधनं भर्तुः, पितुः पुत्रस्य, स्वामिनो दासस्य । “ ननु च यद्येते निर्धनाः कथमेषां कर्मभिरधिकारः । तत्रेदं नोपपद्यते — ‘ पुत्रौ चेदाहिताग्नी स्यातां येभ्यः पिता दद्यात्तेभ्यः पुत्र ' इति । दम्पत्योरपि सहधर्मश्चरितव्य: । “ धर्मे चार्थे च कामे च नातिचरितव्या त्वयेति " । यदि च निर्धनाः कोऽन्योर्थेऽनतिचारः । शूद्रस्यापि ‘ पाकयज्ञैः स्वयं यजेतेति ' निर्धनत्वे विरुध्यते । स्वच्छन्दशूद्रविषयत्वेन विरोधो न भवेत् । अस्ति तावद्दासानां स्वधने स्वाम्यं, यदा स्वधनमिति व्यपदिश्यते । न ह्यसति सम्बन्धे व्यपदेशः । अर्जनं च स्वत्वं नापादयतीति विप्रतिषिद्धम् । तस्माद्विरुद्ध-मिदं यत्ते समधिगच्छन्ति न तत्तेषां स्वमिति । यथा कश्चिद्ब्रूयाद्यस्या अहं पुत्रः सा न मम जननीति तादृगेतत् । असति वा स्त्रीणां स्वाम्ये पत्न्यै वा तदनुमतं क्रियते । “ पत्नी वै पारिणाह्यस्येष्टे ” इत्यादि श्रुतयो निरालम्बनाः स्युः ” । अत्रोच्यते । पारतन्त्र्यविधानमेतत् । असत्यां भर्तुरनुज्ञायां न स्त्रीभिः स्वातन्त्र्येण यत्रक्वचिद्धनं विनियोक्तव्यम् । एवं पुत्रदासयोरपि द्रष्टव्यम् । अन्ये तु मन्यन्ते — भार्यापुत्रग्रहणं दासार्थम् । तस्य चैतद्वचनमुत्तरार्थम् । आपदि
पृष्ठ 383
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] तथा हि— विस्रब्धं ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३४५
ब्राह्मणः शूद्राद्द्रव्योपादानमाचरेत् ।
न हि तस्यास्ति किञ्चित्स्वं भर्तृहार्यधनो हि सः ॥४१७ ॥
अत्र कश्चिदाह — ‘ “ धर्मोपगतशूद्रविषयमिदम् ” । तदयुक्तं, विशेषे प्रमाणाभावात् । तस्मात्सर्वस्य दासः शूद्रस्तस्यैव प्रतिग्राह्यत्वमुच्यते । विस्रब्धं निःशङ्कम् । शूद्रधनं कथं प्रतिगृह्णीयात्प्रतिषिद्धं हि तदित्येषा शङ्का न कर्त्तव्या । यतो न तस्य किञ्चिदर्थो यस्य निचयः स्यादित्युक्तं भवति । स्वामी न ह्रियते धनस्य एतदेवार्जने तस्य प्रयोजनं स्वामी हीयते । अतो विश्रब्धं द्रव्योपदानं द्रव्य-ग्रहणं कुर्यात् । तेनोपनीयमानमपि स्वगृहस्थमिव विनियुञ्जीत । सति प्रयोजन एतद्युक्तं भवति — अविद्यमानधनस्य दासाच्छूद्रात्प्रतिगृह्णतो न दोषः ॥४१७ ॥
हिन्दी – ब्राह्मण बिना विकल्प किये ( दास ) शूद्र से धन को ले लेवे, क्योंकि उस ( दास शूद्र ) का निजी धन कुछ नहीं है और वह ( दास शूद्र ) स्वामी से ग्रहण करने योग्य धनवाला है अर्थात् उस शूद्र के धन को ग्रहण का अधिकार उसके स्वामी को है ॥४१७ ॥
विमर्श — इस वचन के अनुसार आपत्तिकाल में शूद्र से बलात्कारपूर्वक धन ग्रहण करनेवाला ब्राह्मण दण्डनीय नहीं होता है । वैश्य तथा शूद्र से अपना - अपना कर्म कराना—
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥४१८ ॥
भाष्य — कर्म व्यतिक्रामन्तः क्षीभयेयुराकुलीकुर्युर्जगत् । अतस्ते प्रयत्नेन स्व-कर्मभ्यश्चयावयितुं न लभेरन् । अनल्प एवातिक्रामे भूयसा दण्डेन योजनीया वैश्या अपि । बन्धनं नास्त्यपि, धनशक्यः स्वधर्मः ॥ ४१८ ॥
हिन्दी — राजा वैश्य तथा शूद्र से यत्नपूर्वक अपने - अपने कर्मों ( वैश्य से व्यापार, पशु पालन और खेती आदि तथा शूद्र से द्विजसेवा ) को करवाता रहे, क्योंकि अपने-अपने कर्म से भ्रष्ट ये दोनों ( वैश्य तथा शूद्र, अन्यायोपार्जित धनादि के अभिमान से ) इस संसार को क्षुभित कर देंगे ॥४१८ ॥
तेषां धनग्रहणे न विचिकित्सितव्यं - भर्तुरेव हि तत्स्वम् ॥४१६ ॥
हिन्दी - स्त्री, पुत्र तथा दास - इन तीनों को ( मनु आदि महर्षियों ने ) निर्धन ही कहा है, ये जो कुछ उपार्जन करते हैं, वह उसका होता है जिसके वे ( भार्या, पुत्र या दास ) हैं ॥४१६ ॥
पृष्ठ 384
पाठ पढ़ें पाठ छिपाएँ
३४६ मनुस्मृतिः प्रतिदिन आय - व्यय का निरीक्षण-अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च । [ अष्टमः आयव्ययौ च नियतावाकरान्कोशमेव च ॥ ४१ ९ ॥ भाष्य — राजधर्माणामनुसन्धानार्थम् । कर्मान्ताः कृषिशुल्कस्थानादयः । वाहनम्
हस्त्यादि । आयव्ययौ - इदमस्य प्रविष्टमिदं निर्यातमित्येव सततं गवेषणीयम् ।
आकरा घातवः सुवर्णाद्यूत्पादे भवन्ति भूमयः । कोशो द्रव्यनिचयस्थानम् ॥ ४१ ९ ॥
हिन्दी - राजा प्रतिदिन ( उन - उन विभागीय अधिकारियों के द्वारा ) आरम्भ किये गये कार्यों की समाप्ति, हाथी - घोड़ा आदि वाहन, आय, व्यय, ( कोयला, अभ्रक, लोहा सोना आदि की ) खान और कोष — अनेक कार्य में फँसे रहने पर भी सदैव देखता रहे ॥ ४१ ९ ॥
व्यवहार को यथावत् देखने का फल-एवं सर्वानिमान्त्राजा व्यवहारान्समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ४२० ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां राजधर्मे व्यवहारि-निर्णये सामान्यव्यवहारो नाम अष्टमोऽध्यायः ॥८ ॥
भाष्य- -उक्तेन प्रकारेण व्यवहारानृणादीन्समापयन्निर्णयावसानं कुर्वन्यत्किञ्चि-त्तत्सर्वमविज्ञातदोषं तत्सर्वं व्यपोह्यापनुद्य पापं - परमां गतिमभिप्रेतां स्वर्गापवर्गभूमिं प्राप्नोति लभते ॥ ४२० ॥
इति श्री भट्टमेधातिथिविरचिते मनुभाष्ये अष्टमोऽध्यायः ॥ हिन्दी — इस प्रकार सब व्यवहारों को समाप्त ( पूरा ) करता हुआ राजा सब पापों को दूरकर उत्तम गति को प्राप्त करता है ॥४२० ॥
मानवे धर्मशास्त्रेऽस्मिन् व्यवहारादिनिर्णयः ।
‘ लोकनाथ ' कृपादृष्ट्या ह्यष्टमे पूर्णतां गतः ॥ ८ ॥
O
पृष्ठ 385
पाठ पढ़ें पाठ छिपाएँ
॥ अथ नवमोध्यायः ॥
स्त्री - पुरुष के धर्म-पुरुषस्य स्त्रियाश्चैव धर्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥ १ ॥
भाष्य — स्त्रीसङ्ग्रहणानन्तरं विवादपदनिर्देशः “ स्त्रीपुंधर्मो विभागश्चेति ’ । ( ८-७ ) तदिदानीमुच्यते अत्यन्त + + + + + + + + + + + +++ भर्त्रा कथञ्चिदपि बाध्यमानया तेन सह राजनि विवदितव्यमिति -+ द्युपसृष्टेन +++++ + + + + + + + + + + + + + विध एव न्यायानुवर्तिनि न द्वेषमत्सरादिमतिभार्यायां तथा च विशील + + + +++ ++ + + + + + + + + + + + + ति तथाविधस्य पत्युरुप-चर्योक्ता । न भार्यां प्रति प्रभुत्वम् । उपचारश्च भृत्यच्छुश्रूषा पादसम्वाहनादि + + + + + ++++++ स्त्रीपुरुषशब्दौ च यद्यपि लिङ्गविशेषावच्छिन्नमनुष्यजातिवचनौ तथापीह सम्बन्धिनि + ++ + + जायापत्या + + + + ‘ “ अस्त्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वै-र्दिवानिशमिति ” ( श्लो ० २ ) स्वग्रहणेन सम्बन्धितां लक्षयति । वर्तमानप्रतिज्ञावचन + प्रयोजन ++++++ भर्तृः स्त्रियाश्च जायायाः संयोगे एकत्र सन्निधाने तथा विप्रयोगे प्रवासप्रयाणे + + + + धर्मे या वृत्तिः प्रसाधनं शरीररक्षा हि + + +++++++ +++++ ++++++++ तान्वक्ष्यामि । शाश्वतग्रहणं स्तुतिः । धर्म्ये वर्त्मनि
तिष्ठतोः – अनुवादोऽयम् । न्याय्यो धर्मशास्त्राचारनिरूढो मार्गः ॥१ ॥
हिन्दी – ( महर्षि भृगुजी ऋषियों से कहते हैं कि अब मैं धर्म मार्ग में रहते हुए स्त्री-पुरुष के संयोग और वियोग होने ( साथ और अलग रहने ) पर नित्य ( सनातन ) धर्म को कहूँगा ॥१ ॥ )
स्त्री- -रक्षा-अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ २ ॥
भाष्य- -स्वेच्छया स्त्रीणां धर्मार्थकामेषु व्यवहर्तुं न देयम् । यत्किञ्चन धनं धर्मादौ विनियुज्यते तत्र यथावयः स्वपुरुषाः पत्यादयोऽनुज्ञापनीयाः । ‘ स्वपुरुषाः ’ रक्षाधि-गता: ‘ “ पिता रक्षती ’ ” त्यादिनिर्दिष्टाः । विषयेषु हि गीतादिषु सज्जन्त्यः प्रसङ्गं कुर्वन्त्य
पृष्ठ 386
पाठ पढ़ें पाठ छिपाएँ
३४८ मनुस्मृतिः [ नवमः आत्मनो वशे स्थाप्याः ततो निवारणीयाः । यद्यप्यस्वतन्त्रा इत्यनेनैव सर्वक्रियाविषया स्वातन्त्र्यनिवृत्तिरुपदिष्टा भवति तथापि पुनर्विषयव्यावृत्तिवचनं यत्नतः परिहारार्थम् । मा विज्ञायि यत्तेभ्य एव परपुरुषसम्पर्कादिभ्यो निवारणीयाः गृहावस्थितास्तु मद्यपानादि-सक्ता न दुष्यन्ति । चशब्देन तावदयं धर्मः पुरुषाणामुक्तः - स्वातन्त्र्यं स्त्रीणां तावन्न देयम्, अर्थात्तु ताभिरपि स्वतन्त्राभिर्न भवितव्यमित्युक्तं भवति । एवं च “ पुरुषस्य स्त्रियाश्चैवेति ” च-शब्द इतरेतरविषययोर्ये स्त्रीपुंसयोर्धर्मास्त एवोच्यन्ते । न तु यागादय इति समन्वयो । भवति ॥२ ॥
हिन्दी - पति आदि आत्मीय जनों को चाहिये कि वे रात - दिन स्त्रियों को स्वाधीन रखें ( उनकी देख - भाल किया करें - उन्हें स्वतन्त्र न रहने दें ), अनिषिद्ध ( रूप - रस आदि ) विषयों में आसक्त होती हुई उन्हें अपने वश में करें ॥२ ॥
अवस्थानुसार स्त्री - रक्षा के अधिकारी-पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ३ ॥
भाष्य — ‘ रक्षा ’ नामानर्थप्रतीघातः । अनर्थस्त्वनाचारवृत्तातिक्रमेणाप्रवृत्तिपरेण चान्या-यतो धनहरणादिना परिभवः । तस्य प्रतीघातो निवारणम् । तत्पित्रादिभिः कर्तव्यम् । रक्षतीति भवन्तिर्लिङर्थे छान्दसत्वात् । ततो रक्षेदितिविधेयप्रत्ययः । वयोविभाग-श्रवणं चाधिकतरदोषार्थम् । सर्व एव तु सर्वदा रक्षार्थमधिक्रियन्ते । कौमारग्रहणं दानात्पूर्व-कालोपलक्षणार्थम् । एवं यौवनं जीवद्भर्तृकायाः प्रदर्शनम् । अतश्च नित्यानुवाद एवायम् । यदा यदा यदधीना तदा तदा तेनावश्यं रक्षितव्या । तथा च जीवत्यपि भर्तरि पितुः पुत्रस्य चाधिकारः । तथा दर्शितं मानवे । सर्व एते सर्वदा तत्संरक्षणं कुर्युः । कथ्यमानं तु ग्रन्थगौरवं करोति । “ ननु च ' बालया वा युवत्या वे'त्यनेनोक्तमेवैतत् ” । मैवम् । अन्यदेवास्वातन्त्र्यमन्या च रक्षा । तत्र चास्वातन्त्र्यमुदिष्टम्, इह तु रक्षोच्यते । अन्यतन्त्राया अपि शक्योऽनर्थः प्रतिहन्तुम् । “ ननु चेहापि पठ्यते ‘ न स्त्री स्वातन्त्र्यमर्हतीति ' । ” उच्यते । नानेन सर्वक्रियाविषयमस्वातन्त्र्यं विधीयते, किंतर्हि, नास्वतन्त्राऽन्य-मनस्का स्वात्मसंरक्षणाय प्रभवति शक्तिविकलत्वात्स्वतः । पञ्चमे तु वचनमस्वातन्त्र्यार्थ-मर्थान्तरस्य तत्रोक्तत्वात् ॥३ ॥
हिन्दी — स्त्री की रक्षा बचपन में पिता करता है, युवावस्था में पति करता है और
पृष्ठ 387
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३४ ९ वृद्धावस्था में पुत्र करते हैं; स्त्री स्वतन्त्र रहने के योग्य नहीं है । ( पति - पुत्रहीन स्त्री की रक्षा युवावस्था में पिता आदि स्वजन भी कर सकते हैं, अतएव युवावस्था में पति का रक्षा करना प्रायिक समझना चाहिये ) ॥ ३ ॥
पिता - पत्यादि के निन्दनीय होने का कारण—
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।
मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥४ ॥
भाष्य- दानकाले प्राप्ते यदि पिता न ददाति + + + + + + + + + यः । कः पुनः कन्याया दानकालः । ' अष्टमाद्वर्षात्प्रभृति प्रागृतोरिति ' स्मर्यते । इहापि लिङ्ग-मस्ति+ + + + + + + + + + + + + + + + तिः । अनुपयन्नगच्छन्नरमयन्भार्याभि-र्निघ्नः । उपगमने कालश्च ऋतुः सद्व्रतस्य पर्ववर्ज्यमित्युक्तः ॥४ ॥
हिन्दी – समय पर ( ऋतुमती होने के पूर्व ) नहीं देने ( विवाह नहीं करने ) वाला पिता निन्दनीय है, समय पर ( ऋतुमती होने पर शुद्धि के बाद ) सम्भोग नहीं करने वाला पति निन्दनीय होता है और पति के मर जाने पर माता की रक्षा नहीं करने वाला पुत्र निन्दनीय होता है ॥४ ॥
अरक्षित स्त्रियों से हानि-सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रिया रक्ष्या विशेषतः । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥५ ॥
भाष्य – प्रसङ्गः कुसंपर्क: । यया कदाचिदविज्ञातशीलया + + + + + + + ण बालेन वा गृहद्वारावस्थानादिनोज्वलवेषपुरुषदर्शनशीलयेत्येवामादय उच्यन्ते । अर्थाच्चित्त-चलने- ++ + + + + । न हि साक्षात्स्त्री-+ + क्ष्यत्वं चैषाम् । नैते किल साक्षाद्दोषरूपाः सम्पर्कः स्त्रियो दोषरूपाः + + ++ + + ++ ++++ सूक्ष्यमादित्युच्यते । ततो रक्ष्याः निवारणीयाः । विशेषतः प्रयत्नेन निवारणे दारदः + + + + + + + +++ + + + + + + तश्च । सर्वैस्तत्कुलीनैर्भ्रातृपितृव्यदेवराद्यै रक्षितव्या इति सिद्धं भवति । न तत्रा + + + ++ + + ++ ++ + 11411 हिन्दी – साधारणतम प्रसङ्गों, ( दुःशीलता - सम्पादक अवसरों ) से स्त्रियों को विशेष रूप से बचाना चाहिये; क्योंकि अरक्षित स्त्रियाँ दोनों ( पिता तथा पति के ) कुलों को सन्तप्त करती हैं ॥५ ॥
स्त्री- रक्षा से आत्मा की रक्षा-[ भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ १ ॥ ]
पृष्ठ 388
पाठ पढ़ें पाठ छिपाएँ
३५० मनुस्मृतिः [ नवमः [ हिन्दी — स्त्री की रक्षा करने पर सन्तान सुरक्षित होती है तथा सन्तान के सुरक्षित होने पर आत्मा सुरक्षित होता है ॥१ ॥ ]
भाष्य-दुर्बल पत्यादि को भी स्त्री - रक्षा करना आवश्यक–
इमं हि सर्ववणानां पश्यन्तो धर्ममुत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ ६ ॥
- चातुर्वर्ण्यस्य एष उत्तमो + +++++++ पश्यन्तो जानानाः दुर्बला अपि भर्तारो भार्यां रक्षितं यतेरन्प्रयत्नं कुर्युः । लिङर्थे भवन्ती ++ । यत + + + + • वस्त्वनिजगुप्तीतमतरेयत्तत्र मणा-परिवृत्तं बहिराविरोद्भिजातं वधूवपुरहोरतयेऽतिरागात् । अ + + + + + + + + + + क्षाभाय कियञ्चिन्नियमेनवतिद्युमानाराजकुलमाश्रयादिना रक्षितव्या ॥६ ॥
हिन्दी— ( ब्राह्मण - क्षत्रियादि ) समस्त वर्णों के इस उत्तम धर्म को देखते हुए दुर्बल ( अन्धे, लंगड़े, रोगी, निर्धन आदि ) पति भी स्त्री की रक्षा करने के लिए यत्न करते हैं ॥६ ॥
स्त्री - रक्षा से सन्तानादि की रक्षा-स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन्हि रक्षति ॥७ ॥
भाष्य — न केवलं शास्त्रोपदेशादेव स्त्रीरक्षा कर्तव्या, यावदिमानि बहूनि प्रयो-जनानि । प्रसूतिरपत्यं पुत्रदुहितृलक्षणाम् । सङ्करो न भवतीत्यर्थः । चरित्रं शिष्टा-समाचारः । कुलं पूर्वोक्तम् । कस्यापि सत्कुलस्य भ्रष्टशीलायां भार्यायां दोषः सर्वं कुलमुप-तिष्ठतीति — न साध्व्यः स्त्रिय एतेषामिति । अथवा पितृपितामहादीनां संततिशुद्ध्यभावा-दौर्ध्वदैहिकस्यानिवृत्ते रक्षा स्यात् । आत्मानम् | प्रसिद्धमुपपतिनाऽवश्यं हन्यते भार्ययैव वा विषादिना । स्वं च धर्मम् । व्यभिचारिण्या धर्मानधिकारात् । अतो जायां रक्षिता सर्वमेतद्रक्षति ॥ ७ ॥
हिन्दी – ( प्रयत्नपूर्वक ) स्त्री की रक्षा करता हुआ मनुष्य अपनी सन्तान, आचरण, कुल, आत्मा और धर्म - इनकी रक्षा करता है; ( इस कारण स्त्रियों की रक्षा के लिए यत्न करना चाहिये || ७ ||
' जाया ' शब्द का अर्थ-पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥८ ॥
– अर्थवादोऽयम् । न च पत्या पत्न्या उदरे प्रवेशदर्शनम् । अतः शरीर-भाष्य-
पृष्ठ 389
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३५१ सारभूतशुक्रद्वारेण गुणवादतः प्रवेशोऽयमुच्यते । “ आत्मा वै पुत्रनामासीति ” – एतदेव जायाशब्दस्य भार्यावचनत्वे प्रवृत्तिनिमित्तम् I । यतोऽस्यां पतिर्जायते । अपत्यजन्मनिमित्ते जायाशब्दे जारस्यापि जायोच्यते ॥८ ॥
हिन्दी - पति वीर्यरूप से स्त्री में प्रवेशकर गर्भ होकर पुत्ररूप से उत्पन्न होता है, जाया ( स्त्री ) का वही जायात्व ( स्त्रीपन ) है; जो इस ( स्त्री ) में ( पुत्र रूप से पति ) पुन: उत्पन्न होता है ॥८ ॥
पत्यनुकूल सन्तानोत्पत्ति—
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥ ९ ॥
भाष्य – “ स्वां प्रसूतिमिति ” ( श्लो ० ७ ) यदुक्तं तद्दर्शयति । न चैवं मन्तव्यं— यादृशं ‘ द्वितीयं पुरुषं सेवेत सुतं सूते पुत्रं जनयति तथाविधजातीयम् ' । नापि गुणसादृश्य-मभिप्रेतम् । यतः शुद्रादिजातस्य चण्डालादिजातित्वम् । समानजातीयजातस्यापि नैव तज्जातीयत्वं— “ पत्नीष्वक्षतयोनिष्विति " वचनात् । गुणसादृश्येऽपि विशीलदरिद्रपति-काया उत्कृष्टपुरुषगमनमनुज्ञां स्यात् । यदा त्वयमर्थवादस्तदा यादृशं तथाविधमित्यकुला-नुरूपमिति नीयते ॥९ ॥
हिन्दी — स्त्री जिस प्रकार के ( शास्त्रानुकूल या शास्त्रप्रतिकूल ) पति का सेवन ( सम्भोग ) करती है, उसी प्रकार के ( श्रेष्ठ या नीच ) सन्तान को उत्पन्न करती है, अतएव स्त्री की यत्नपूर्वक रक्षा करनी चाहिये ॥९ ॥
बलात्कार से स्त्री- रक्षा की असम्भवता -न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ १० ॥
भाष्य — वक्ष्यमाणोपायप्रशंसार्थः श्लोकः । प्रसह्य बलेनावष्टभ्य शुद्धान्तावरो-धादिना परपुरुषादिनिष्कासनादिना न शक्या रक्षितुम् । किंत्वेतैरुपाययोगैः शक्याः ।
‘ योगा ’ प्रयोगाः । ‘ उपायैः ’ प्रयुज्यमानैरित्यर्थः ॥१० ॥
हिन्दी – कोई ( पिता, पति, पुत्रादि ) बलात्कार कर स्त्री की रक्षा नहीं कर सकता, किन्तु इन ( आगे कहे जाने वाले ) उपायों से उन ( स्त्रियों ) की रक्षा की जा सकती है ॥१० ॥
स्त्री - रक्षा के उपाय —–
अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ ११ ॥
पृष्ठ 390
पाठ पढ़ें पाठ छिपाएँ
३५२ मनुस्मृतिः [ नवमः भाग्य – अर्थो धनम् । तस्य संग्रहः संख्यादिना परिच्छिद्य रक्षार्थं वेश्मनि निधानं रज्ज्वायसबन्धादिना संयम्य स्थापनं मुद्राङ्कमित्येवमादि । व्ययो विसर्गस्तस्यैव – इद-मेतावद्भक्तार्थमिदं च सूपार्थमेतावच्छाकार्थमिति । शौचं दर्विपिठरादिशुद्धिर्भूमिलेप-नादिश्च । धर्म आचमनोदकतर्पणादिदानं स्त्रीवासगृहकादौ बलिकुसुमविकारैर्देवार्चनम् । अन्नपक्तिः प्रसिद्धा । पाणिणाह्यं विस्यासंदीखट्वादि । तत्प्रत्यवेक्षणेनियोक्तव्या ॥११ ॥
हिन्दी— ( पिता, पति या पुत्रादि अभिभावक ) उस ( स्त्री ) को धन के संग्रह, व्यय, वस्तु तथा पदार्थों की शुद्धि, पति तथा अग्नि की सेवा ( पति एवं गुरुजन की शुश्रूषा तथा अग्निहोत्र कर्म ), घर तथा घर के वर्तन आदि की सफाई में नियुक्त करे ॥ ११ ॥
धर्मज्ञान द्वारा स्त्री - रक्षा-अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ १२ ॥
भाष्य — आप्तं प्राप्तं काले कुर्वन्त्याप्तकारिणोऽवधानवन्त उच्यन्ते शुद्धान्ताधि-कारिणः । कञ्चुकिनः । तैः स्वे गृहे रुद्धाश्चास्वतन्त्रीकृता यथेष्टविहारनिषेधेन रक्ष्यमाणा न रक्षिता भवन्ति । किंत्वात्मनाऽऽत्मानं रक्षन्ति । “ ताः कथं रक्षन्ति ” । यद्येतेषु कार्येषु
नियुज्यन्ते ।
उक्तोपायप्रशंसा नोपायान्तरनिषेधः ॥१२ ॥
हिन्दी— ( यदि स्त्रियाँ धर्मविरुद्ध बुद्धि होने से अपनी रक्षा स्वयं नहीं करती तो ) आप्त एवं आज्ञाकारी पुरुषों से घर में रोकी गयी भी वे स्त्रियाँ अरक्षित हैं, जो स्त्रियाँ धर्मानुकूल बुद्धि होने से अपनी रक्षा स्वयं करती हैं, वे ही सुरक्षित हैं ( अतः पति आदि अभिभावकों को चाहिये कि धर्म का सत्फल बतलाकर उन्हें संयम में रहने का उपदेश दें ) ॥ १२ ॥
स्त्रियों के छः दोष-पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च नारीसन्दूषणानि षट् ॥ १३ ॥
भाष्य-: -अटनमापणभूमिषु अन्नशाकादिक्रयार्थम् । देवतायतनेषु च । ज्ञातिकुले बहूनि दिनान्यवस्थानम् अन्यगेहवासः । नारीसन्दूषणानि । स्त्रीणामेते चित्तसंज्ञोभ-हेतवः । एता हि श्वशुरादिभयं जनापवादभयं च त्यजन्ति ॥१३ ॥
हिन्दी – ( मद्यादि मादक द्रव्यों का ) पीना ( या प्रकारान्तर से सेवन करना ), दुष्टों का संसर्ग, पति के साथ विरह, इधर - उधर घूमना, ( असमय में ) सोना और दूसरे के घर में निवास करना — ये स्त्रियों के छः दोष हैं ( अतएव इनसे इन स्त्रियों को बचाना चाहिये ) ॥१३ ॥