मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 391–400

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 391–400

पृष्ठ 391

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 391 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता स्त्रियों का स्वभाव-नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । ३५३ सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥१४ ॥

भाष्य — नायमभिमानो वोढव्यः – सुभगः स्वाकृतिस्तरुणोऽयं मां हित्वा कथ-मन्यं कामयिष्यते । यतो नैता दर्शनीयोऽयं शूराकृतिरयमित्येव विचारयन्ति । पुमानय-मित्येतावतैव भुञ्जते संयुज्यन्ते तेन ॥१४ ॥

हिन्दी —ये ( स्त्रियाँ पुरुष के ) सुन्दर रूप की परीक्षा नहीं करती, युवावस्था आदि में आदर ( विशेष चाहना ) नहीं करतीं, किन्तु ' पुरुष है ' इसी विचार से सुन्दर या कुरूप पुरुष के साथ सम्भोग करती है ॥१४ ॥

पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।

रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ १५ ॥

भाष्य — यस्मिन्कस्मिश्च पुंसि दृष्टे धैर्याच्चलनं— कथमनेन सम्प्रयुज्येयेति – चेतसो विकारः स्त्रीणां — तस्पौंश्चल्यम् । अन्यत्रापि धर्मादौ कार्येऽस्थिरता चलचित्तत्वम् । य एव द्वेष्य: स एव स्पृह्यत इति भ्रातृपुत्रादिर्यो दृष्टस्तस्मा एव कामुकत्वेन स्पृहयन्ति स्नेहो रागस्तृष्णा च भर्तरि पुत्रादौ मानविरुद्धहृदया भवन्ति । एतैर्दोषैर्योगाद्विकुर्वते विक्रियां भर्तृषु गच्छन्ति ॥१५ ॥ तस्मात्—

हिन्दी — व्यभिचारिता ( सम्भोगादि की अतिशय इच्छा होने ) से चित्त की चञ्चलता से और स्वभावत: स्नेह का अभाव होने से यत्नपूर्वक ( पति आदि के द्वारा ) सुरक्षित भी ये ( स्त्रियाँ व्यभिचारादि दोष से ) पतियों में विकृत ( विपरीत प्रकृति वाली ) हो जाती हैं ॥१५ ॥

एवं स्वभावं ज्ञात्वाऽऽसां प्रजापतिनिसर्गजम् ।

परमं यत्रमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ १६ ॥

भाष्य- - प्रजापतिर्हिरण्यगर्भः । तदीये निसर्गे सृष्टिकाले जातम् । शिष्टं स्पष्टम् ॥१६ ॥

हिन्दी - ब्रह्मा की सृष्टि से ही इनका ऐसा स्वभाव जानकर पुरुष इनकी रक्षा के लिए विशेष यत्न करे ॥१६ ॥

शय्यासनमलङ्कार कामं क्रोधमनार्यताम् ।

द्रोग्धृभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ १७ ॥

भाष्य— शय्या शयनं स्वप्नशीलत्वम् । आसनमनभ्युत्थानशीलता । अलङ्कारः शरीरमण्डनम् । कामं पुरुषोपभोगस्पृहा । क्रोधो द्वेषः । अनार्यता स्निग्धेऽपि द्वेषो

पृष्ठ 392

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 392 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५४ मनुस्मृतिः [ नवमः द्विष्टेऽपि स्नेहः, आकारसम्वरणं, निर्द्धर्मता । द्रोग्घृभावः । द्रोग्धृत्वं भर्तृपित्रादेः द्रुहेः कर्त्तरि तृचा भावशब्देन समासः । कुचर्या नीचपुरुसेवनम् । एष स्वभावः स्त्रीणां मनुना सर्गादौ कल्पितः । शय्यासनालङ्कारा द्रोहकुचर्ययोर्दृष्टा-न्तत्वेनोपादीयन्ते । यथैते पदार्थाः स्वभावभूता अविचालिता एवं कुचर्यादयोऽपि ॥ १७ ॥

हिन्दी — शय्या, आसन, आभूषण, काम, क्रोध, कुटिलता, द्रोहभाव और दुरा-चरण- -इनको स्त्रियों के लिए मनु ने सृष्टि के प्रारम्भ में ही बनाया ( अत एव यत्नपूर्वक इनसे स्त्रियों को बचाना चाहिये ) ॥१७ ॥

स्त्रियों की समन्त्र क्रिया का निषेध-नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः ॥ १८ ॥

ESTRE भाष्य — केचिदेवं मन्यन्ते — ' सत्यपि प्रमदाव्यभिचारे वैदिकेन जापेन रहस्यप्रायश्चि-त्तादिना शुद्धिमाप्स्यन्ति ततो नास्ति दोष इति ' । तन्न । न हि स्त्रीणां मन्त्रैः क्रिया जपो-ऽप्यस्ति ॥ येन वृत्तव्यतिक्रमेऽप्रख्यातैः स्वत एव वैदुष्याच्छुद्धिमाप्नुवन्ति । तस्माद्यत्नतो रक्ष्या इत्येतच्छेषमेवैतत् । अतो ये केचिदविशेषेण मन्त्रप्रतिषेधोऽयमिति वर्णायन्ति-ततश्च प्रतिषेधं मन्यमाना यत्किञ्चित् स्त्रीसम्बन्धि कर्म येन केनचित् क्रियते तत्र सर्वत्र यत्र स्त्रियः कर्तृतया सम्बध्यन्ते सायंबलिहरणादौ तथा संस्कार्यतया चूडादिषु सम्प्रदानतया श्राद्धादौ, -, —तत्र सर्वत्र मन्त्रप्रतिषेधादमन्त्रकं स्त्रीणां श्राद्धादि कार्यमिति — तेऽयुक्तवादि-नोऽन्यपरत्वादस्य । अर्थवादतया यदस्ति तदालम्बनं न्यायेन विहितप्रतिषेधमन्त्रसम्बन्ध-मन्त्रचूडासंस्कारापेक्षं व्याख्येयमेतत् । अध्ययनाभावाच्च प्रायश्चित्तमन्त्रजपाभावः । निरिन्द्रियाः । ‘ इन्द्रियं ' वीर्यं धैर्यप्रज्ञाबलादि तासां नास्त्यतोऽनिच्छन्त्योऽपि कदा-चित्पापाचारैर्बलेनाक्रम्यन्ते । ततो रक्षितुं युक्ताः । स्त्रियोऽनृतमिति । शीलस्नेहयोरस्थिर-त्वादनृतवचनेन निन्द्यन्ते ॥१८ ॥

हिन्दी — इन ( स्त्रियों ) का जातकर्मादि संस्कार ( वेदोक्त ) मन्त्रों से नहीं होता, यह धर्मशास्त्र की मर्यादा है; धर्मप्रमाण- श्रुति स्मृति से हीन और पापनाशक ( वेदोक्त अघमर्षणादि ) मन्त्रों के जप का अधिकार नहीं होने से पापयुक्त वे ( स्त्रियाँ ) असत्य के समान अपवित्र हैं यह शास्त्र की मर्यादा है ( अतएव इनकी रक्षा यत्नपूर्वक करनी चाहिये ॥ १८ ॥

व्यभिचार - प्रायश्चित्त-तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।

स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ १ ९ ॥

भाष्य - स्वभावतोऽशुद्धहृदया: स्त्रिय इत्यस्मिन्नर्थे वैदिकानि मन्त्रार्थवादरूपाणि

पृष्ठ 393

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 393 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३५५ वाक्यानि साक्षित्वेनोपन्यस्यति । तथा च यथा मयोक्तं ' स्त्रियोऽनृतम् ' इति तथैव निगमेषु वेदेषु श्रुतयः सन्ति । निगमशब्दो वेदपर्यायो दृष्टप्रयोगश्च । निगमो वेदार्थव्याख्यानाङ्ग-वचनोऽप्यस्ति — ‘ निगमनिरुक्तव्याकरणान्यङ्गानीति ' निरुक्ते हि प्रयोगो – ' निगमा इमे भवन्तीति ' । तस्येह श्रुतिग्रहणाद्वा वक्ष्यमाणोदाहरणाच्चासम्भवः । अतो वेदवचनो निगम-शब्द इह गृह्यते । समुदायावयवभेदोच्चाधाराधेयभावः । तेषु निगमेषु श्रुतय एकदेश-भूतानि वाक्यानि निगीता अधीताः संशब्दिताः पठ्यन्त इति यावत् ॥ नित्य प्रवृत्ते च कालाविभागादि निरुक्तम् । पाठान्तरम् ‘ निगदा ' इति । ' निगदा ' मन्त्रविशेषाः । श्रुतयो ब्राह्मणवाक्यानि । मन्त्रेषु ब्राह्मणेषु चायमर्थो दर्शितो यदनृता स्त्रिय इति । बह्वयस्ताः संतीत्यस्मिन्पक्षेऽध्या-हाराः । तासां श्रुतीनां या या निष्कृतिरूपा व्यभिचारप्रायश्चित्तभूतास्ताः शृणुत । किमर्थमुदाह्रियन्त इति चेत्स्वालक्षण्यपरीक्षार्थम् । ' स्वलक्षणं ' नित्यसन्निहितस्वभाव-स्तत्प्रतिपादनार्थम् । अङ्गदकुण्डलादि यत् लक्षणं तत्परिभूतमिदं ' स्वलक्षणं ' स्वभाव इत्यर्थः । एतदासां ‘ स्वलक्षणं ' यदव्यभिचारात्मकम् ॥१९ ॥

हिन्दी – ( स्त्री - स्वभाव को व्यभिचारशील बतलाकर अब उसमें प्रमाण कहते हैं— ) और शास्त्रों में बहुत - सी श्रुतियाँ ( ' न चैतद्विद्यो ब्राह्मणाः स्मोऽब्राह्मणा वा ’ इत्यादि वेदवाक्य ) व्यभिचार की परीक्षा के लिए पढ़ी गयी हैं, उनमें से ( प्रायश्चित्तरूप ) एक श्रुति को ( आप लोग ) सुनें ॥१९ ॥

यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।

तन्मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥ २० ॥

भाष्य-इतिकरणान्तेन पादत्रयेण मन्त्त्रैकदेशोऽनुकृतः । यन्मे माता अपतिव्रता— ' पत्युरन्यपुरुषे न कामश्चेतसापीति ' यस्या ' व्रतं नियम: सा ‘ पतिव्रता ’ । तद्विपरीताऽपतिव्रता । विचरन्ती परगृहान्गच्छन्ती । तत्रोज्वलवेषं दृष्ट्वा प्रलुलुभे । लोभं स्पृहामन्यपुरुषं प्रति कृतवती । तत्पापं ममोत्पत्त्या मत्पितुः सम्बन्धि यद्रेतः शुक्रं तद्वृङ्क्तामपनुदतु । तद्रेतसा स दोषोऽपमृज्यताम् । पितेति षष्ठी स्थाने प्रथमा व्यत्ययेन । अथवा रेत एव पितृत्वेन परिकल्प्यते । अपरित्यक्तस्वलिङ्ग एव रेतसा सामानाधिकरण्यमनुभवति । “ द्यौर्मे पितेति ” ( ऋग्वेदे २।३।२० ) यथा । अथवा मातृ-बीजमप्युच्यते ' रेतः ' । तद्रेतः पिता जनको वृङ्तां शोधयताम् । पितृजबीजप्रभावेन मातृदोषोऽपनुद्यतामित्यर्थः । अस्य व्यभिचारात्मकस्यैतन्निदर्शनं दृष्टान्तः । सर्वे जपमाना एतं मन्त्रमुच्चार-यन्ति । यदि च सर्वाः स्त्रियो दुष्टस्वभावास्ततो मन्त्रस्य नित्यवत्प्रयोगोपपत्तिः । इतरथा

पृष्ठ 394

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 394 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५६ मनुस्मृतिः [ नवमः पाक्षिकः स्यात् । चातुर्मास्येष्वयं मन्त्रो विनियुक्तः ( आपस्तम्ब श्रौत ० १ । ९९ ) पाद्यानु-मन्त्रणे च श्राद्धे ( शांखायन गृह्य ० ३ | १३ | ५ ) ॥२० ॥

हिन्दी — ' दूसरे के घर में विचरण करती ( जाती ) हुई मेरी माता अपतिव्रता होती हुई परपुरुष के प्रति लोभयुक्त अर्थात् आकृष्ट हुई, उस ( परपुरुष सङ्कल्प ) से दूषित माता के रजोरूप वीर्य को मेरे पिता शुद्ध करें ' यही पादत्रय स्त्री के व्यभिचार का उदाहरण है || २० || विमर्श — मानसिक, वाचिक या कायिक इच्छामात्र से भी परपुरुष - सम्भोग पाति-व्रत्य धर्म को नष्ट करता है, इस सिद्धान्त से दूसरे पुरुष के लिए मानसिक पाप करने-वाली माता को जानकर उसका पुत्र इस मन्त्र द्वारा उसकी शुद्धि की कामना करता है, ऐसा समझना चाहिए ।

ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा ।

तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ २१ ॥

भाष्य – पाणिग्रहो भर्त्ता । तस्य चेतसा यदनिष्टमप्रियं परपुरुषसम्पर्कादिकं स्त्री चिन्तयति तस्या मानसस्य व्यभिचारस्य निह्नवः शुद्धिरनेन मन्त्रेण कर्मणि नियुक्तेनो-च्यते । प्रसङ्गान्मन्त्रप्रयोजनं दर्शितम् । यद्यपि कर्मगुणतैव कर्माङ्गमन्त्रप्रयोजनं तथापि जपादौ विनियोगान्मानसव्यभिचारनिवृत्त्यर्थताऽप्युच्यते ॥२१ ॥

हिन्दी —स्त्री परपुरुष - गमनरूप जो पति का अहित मन से सोचती है, उसी मानसिक व्यभिचार को शुद्ध करने वाला यह मन्त्र मनु आदि महर्षियों ने कहा है । विमर्श — ‘ अन्ये माता... , ( ९ / २० ) में ' माता ' शब्द के कहने से यह प्रायश्चित मन्त्र पुत्र के लिए ही है, माता के लिए नहीं ।

पतिगुणानुकूल स्त्री गुण होना-यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।

तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ २२ ॥

भाष्य- -भार्यासंरक्षणकामेन दौ: शील्यादात्मा रक्षितव्यः । नाप्येतयैव केवलया । यतो दुःशीलस्य भार्याऽपि तथाविधैव भवति, गुणवतः शीलवती । यथा समुद्रेण निम्नगा नदी संयुज्यमाना क्षारोदका भवति मधुररसापि सती ॥२२ ॥

हिन्दी - स्त्री जैसे गुण वाले ( सद्गुणी या दुर्गुणी ) पति के साथ विधिवत् विवाहित होती है, वह समुद्र में मिली हुई नदी के समान वैसे ही गुणवाली ( सद्गुणी पति के साथ सद्गुणवती और दुर्गुणी पति के साथ दुर्गुणवती ) हो जाती है ॥२२ ॥

पृष्ठ 395

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 395 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता पतिसंसर्ग से स्त्री के श्रेष्ठ होने का दृष्टान्त—

अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा ।

शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ २३ ॥

३५७ भाष्य --- हीनजातीयाऽप्यक्षमाला वसिष्ठभार्या तत्संयोगादभ्यर्हणीयतां प्राप्ता । शारङ्गी तिर्यग्जाति: चटका मन्दपालेन मुनिना संयुक्ता तथैव पूज्या । अतो हीनजातीयाः

कनीयस्योऽपि भूयो भर्तृवत्पूज्याः । तथा चोक्तं “ वयसि स्त्रिय ’ ” इति ॥२३ ॥

हिन्दी — नीच योनि में उत्पन्न हुई ' अक्षमाला ' नामक स्त्री वसिष्ठ से तथा ' शारङ्गी ' नाम की स्त्री ‘ मन्दपाल ' ऋषि से विवाहित होकर पूज्यता को प्राप्त हुई ॥ २३ ॥

एताश्चान्याश्च लोकेऽस्मिन्नकृष्टप्रसूतयः ।

उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥ २४ ॥

भाष्य - अवकृष्टा निकृष्टा प्रसूतिरुत्पत्तिर्यासां ता अवकृष्टप्रसूतयः । अन्याश्च गङ्गाकालीप्रभृतयः । द्वयोः प्रकृतत्वादेता इति बहुवचनं चशब्देन तृतीयामाक्षिप्य । द्विर्वचनं वा ‘ एते च ’ ॥२४ ॥

हिन्दी- -इन ( पूर्व श्लोकोक्त ' अक्षमाला ' तथा ' शारङ्गी ' ) और दूसरी ( ‘ सत्यवती ' आदि ) नीच कुलोत्पन्न स्त्रियों ने अपने - अपने पति के शुभ गुणों से श्रेष्ठता को प्राप्त किया है ॥२४ ॥

प्रजाधर्म - कथन-एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।

प्रेत्येह च सुखोदर्कान्प्रजाधर्मान्निबोधत ॥ २५ ॥

भाष्य — लोकयात्रा लोकवृत्तं लोकाचारः । लोकसिद्धमेतत् । नायं विधिलक्षणोऽर्थो यदेवं शक्यते रक्षितुं नान्यथेति – अपरिरक्षिताभिश्च ताभिः प्रसूत्यादिदोषो भवतीति ।

इदानीं प्रजाधर्मान्निबोधत । कस्य प्रजा बीजिनो वा क्षेत्रिणो वेति ।

उदर्क आगामीकाल: -नैवमिति प्रशंसा ॥२५ ॥

: -स सुखो येषाम् । सर्वे हि वस्त्ववसाने विरमन्ते — ते तु “ ननु च का सुखोदर्कता प्रजाधर्मस्य । या च प्रजाऽस्याधीना स्त्रियश्च बहुभि-र्दोषैरावृतत्वत्यागार्हाः को हि गृहे सर्वान्बिभृयात् ” – इत्येतन्निवृत्त्यर्थमाह— हिन्दी— ( महर्षि भृगुजी ऋषियों से कहते है कि मैंने ) स्त्री - पुरुषों का सदा शुभ यह लोकाचार कहा, अब इस लोक में तथा परलोक में सुखदायक सन्तानों के धर्मों को ( कहूँगा, उन्हें ) आप लोग सुनें ॥२५ ॥

पृष्ठ 396

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 396 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५८ मनुस्मृतिः स्त्री- प्रशंसा-प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । [ नवमः स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ २६ ॥

भाष्य — शक्यप्रतिविधानत्वाद्दोषाणां पूजार्हाः । यदेतद्दोषपञ्चनं तन्नावज्ञानार्थं परि-वर्जनार्थं वाऽभिशस्तपतितादिवत् । किं तर्हि — रक्षार्थं दोषाणाम् । न हि भिक्षुकाः सन्तीति स्थाली नाधिश्रियते । न च मृगाः सन्तीति यवा नोप्यन्त इति । प्रजनं गर्भग्रहणात्प्रभृत्यपत्यपरिपोषणपर्यन्तो व्यापारोऽभिप्रेतः । तथा च वक्ष्यति ‘ “ उत्पादनमपत्यस्य जातस्य परिपालनम् ' इति ( २७ ) । गृहे दीप्तय इव । न हि गृहे सेवा स्त्रीभिर्विना काचिदस्तीति सुप्रसिद्धमेतत् । सत्यपि श्रीविभवे भार्यायामसत्यां सुहृत्-स्वजनादिष्वागतेषु न गृहस्था: प्रतिपुरुषं भोजनादिभिरावर्जयितुं समर्थाः । यथा दरिद्रे न भवति शक्तिः अतः स्त्रियः श्रियश्च न विशेषो गेहेष्विति ॥ २६ ॥

हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि ) हे महाभाग ( मुनियों )! सन्तानोत्पादन के लिए वस्त्राभूषण से आदर - सत्कार के योग्य घर की शोभारूपिणी ये स्त्रियाँ और लक्ष्मी ( या - लक्ष्मियाँ = शोभाएँ ) घरों में समान हैं ( जिस प्रकार शोभा के बिना घर सुन्दर नहीं लगता उसी प्रकार स्त्री के बिना भी घर सुन्दर नहीं लगता, अतः श्री तथा स्त्री में कोई भेद नहीं ॥२६ ॥

उत्पादनमपत्यस्य जातस्य परिपालनम् ।

प्रत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥१७ ॥

भाष्य - स्त्री निबन्धनम् निमित्तम् । अपत्योत्पादनादौ प्रत्यक्षमेतत् । लोकयात्रा गृहा-गतानामन्नादिदानेनावर्जनमामन्त्रणनिमन्त्रणादि । अस्य प्रत्यर्थं सर्वस्मिन्नर्थे स्त्री निबन्धनम् ।

प्रत्यहमिति पाठः ।

प्रत्यक्षशब्दोऽन्तरङ्गवचन: । अन्तरङ्गमित्यर्थः ॥ २७ ॥

हिन्दी — सन्तानोत्पादन, उत्पन्न हुई सन्तान की रक्षा ( पालन - पोषण ) और प्रतिदिन के लोक - व्यवहार ( अतिथि मित्रादि – भोजनादिरूप गृहप्रबन्ध ) का मुख्य कारण स्त्रियाँ ही हैं ॥२७ ॥

-अपत्यं धर्मकार्याणि श्रुश्रूषा रतिरुत्तमा ।

दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ २८ ॥

भाष्य – प्राग्दर्शितार्थोऽयं श्लोकः ॥२८ ॥

हिन्दी-— सन्तान ( को उत्पन्न करना ), धर्मकृत्य ( अग्निहोत्री यज्ञादि कार्य ), शुश्रूषा

पृष्ठ 397

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 397 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३५ ९ ( पति, सास - श्वसुरादि गुरुजनों की सेवा ) श्रेष्ठ रति और पितरों का तथा अपना ( सन्तानोत्पादनादि द्वारा ) स्वर्ग- ये सब स्त्रियों के अधीन हैं ॥ २८ ॥

अव्यभिचार का सत्फल—

पतिं या नाभिचरति मनोवाग्देहसंयता ।

सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ २ ९ ॥

हिन्दी – जो ( स्त्री ) मन, वचन तथा काय ( शरीर ) को संयत रखती हुई पति का उल्लङ्घन ( अनादर या परपुरुष - सम्भोग ) नहीं करती; वह ( मर कर ) पतिलोकों को पाती है तथा ( जीती हुई ) इस लोक में सज्जनों से पतिव्रता कही जाती है ॥२९ ॥

व्यभिचार का कु- फल—

व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निंद्यताम् ।

शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ ३० ॥

भाष्य – पञ्चमे श्लोकाविमौ व्याख्यातौ ( ५।१६४–१६५ ) ॥२९ -३० ॥

हिन्दी — स्त्री परपुरुष के संसर्ग से इस लोक में निन्दित होती है, ( मरकर ) शृगाल की योनि पाती ( स्यारिन होती ) है और ( कुष्ठ आदि ) पाप रोगों से पीड़ित होती है ॥३० ॥

पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।

विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ३१ ॥

भाष्य — उपन्यासो विचार्यवस्तुप्रक्षेपः । विचारो वा । तं निबोधत । पुत्रं प्रति पुत्रमधिकृत्योदितमुक्तम् । सद्भिर्विद्वद्भिमहर्षिभिश्च । विश्वजन्यं सर्वेभ्यो जनेभ्यो हितम् । पुण्यं कल्याणकरम् । स्त्रीस्तुत्या व्यवधानात् ‘ प्रजाधर्मं निबोधत ' इत्यस्यार्थस्यापि पुनरादरार्थमुपन्यासः उपन्यासं निबोधतेति ॥ ३१ ॥

हिन्दी— ( महर्षियों से भृगुजी कहते हैं कि ) श्रेष्ठ ( मनु आदि ) तथा प्राचीन महर्षियों ने पुत्र के विषय में सर्वहितकारी एवं पवित्र जो विचार कहा है, उसे ( आप लोग ) सुनें॥३१ ॥

बीज तथा क्षेत्र का बलाबल—

भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ।

आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥ ३२ ॥

भाष्य- भर्ता उद्वोढा । विवाहसंस्कारेण संस्कृता येन या नारी तस्यां यस्तस्मा-देव जातस्तं पुत्रं तस्य विजानन्त्यभ्युपगच्छन्ति सर्व एव विद्वांसः । नात्र विप्रति-पत्तिः । सिद्धान्तोऽयम् । मनु II 25

पृष्ठ 398

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 398 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६० मनुस्मृतिः [ नवमः श्रुतिद्वैधं तु कर्तरि । यः कर्तेव केवलमुत्पादयिताऽन्यदीयक्षेत्रे न तूद्बोढा – तत्र श्रुतिंद्वैधं मतभेदः, तं दर्शयति । आहुरुत्पादकमपत्यवन्तं केचित् । अपरे क्षेत्रिणम् –

यस्य सा भार्या तस्यामनुत्पादकमपि ।

एवमाचार्यविप्रतिपत्तेः संशयमुपन्यस्य कारणकथनेन तमेव समर्थयते ॥३२ ॥

हिन्दी – पुत्र पति ( भर्ता ) का होता है ( ऐसा मुनि लोग ) मानते हैं, पति के विषय में दो प्रकार की श्रुति है ( उनमें से पहली श्रुति यह है कि ) कुछ मुनि पुत्रोत्पादक अविवाहित पति को भी उस पुत्र से पुत्री ( पुत्रवाला ) मानते हैं ( तथा दूसरी श्रुति यह है कि ) अन्य ( मुनि लोग ) विवाहकर्त्ता ( परन्तु स्वयं पुत्रोत्पादन नहीं करनेवाले पति ) को ( अन्य पुरुषोत्पादित ) पुत्र से पुत्री ( पुत्रवाला ) मानते हैं ॥ ३२ ॥

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात्सम्भवः सर्वदेहिनाम् ॥ ३३ ॥

भाष्य — क्षेत्रमिव क्षेत्रभूता नारी । व्रीह्यादेरुत्पत्तिस्थानं भूमिभागः क्षेत्रं, तत्तुल्या नारी । यथा क्षेत्रे बीजमुप्तं तत्र विघ्रियमाणं जायते एवं नार्यामपि निषिक्तं रेतः । बीजभूत एव पुमान् । अत्रापि भूतशब्द उपमायाम् । तदीयं रेतो ' बीजं ' न साक्षात्पुमान् —तदधि-करणत्त्वात्तु तथावद्व्यपदिश्यते । समायोगः सम्बन्ध आधाराधेयलक्षणः । ततः सम्भव उत्पत्तिः सर्वदेहिनां शरीरिणाम् । चतुर्विधस्य भूतग्रामस्य । स्वेदजानामप्याकाशः क्षेत्रं, बीजं स्वेदः । अतो युक्तः संशयः । उभयमन्तरेण सम्भवानुपपत्तेः । अपत्योत्पत्तौ उभयो-र्व्यापारः । विनिगमनाय च हेत्वभावात्कस्य तत् — उभयोः अथान्यतरस्येति संदेहः । सर्वस्य च प्रकरणस्यायमर्थो नानुमा रिच्छेद्योऽपत्यापत्यवद्भावः । तथा च विभाग-श्लोकें वक्ष्यामः ॥ ३३ ॥

हिन्दी — स्त्री क्षेत्ररूप ( धान्य बोने के खेततुल्य ) है और पुरुष बीजरूप ( धान्यादि के बीजतुल्य ) है । क्षेत्र तथा बीज ( स्त्री - पुरुष ) के संसर्ग से सब प्राणियों की उत्पत्ति होती है॥३३ ॥

विमर्श - यहाँ पर क्षेत्र तथा बीज दोनों का कारणत्व विवक्षित होने से उक्त युक्ति उचित ही है; क्योंकि जिसका खेत होता है; वही किसी दूसरे के द्वारा बोए गये बीज से भी उत्पन्न धान्यादि का स्वामी होता है, अथवा दूसरे के खेत में जो बीज बोता है, वह उस बीज से उत्पन्न धान्यादि का स्वामी होता है । इसी प्रकार क्षेत्ररूपा स्त्री तथा बीजरूप पुरुष से उत्पन्न धान्यरूप पुत्र का स्वामी होने के विषय में भी जानना चाहिये यद्यपि पुरुष का वीर्य ( शुक्र ) है पुरुष नहीं, तथापि वीर्याधिकरण होने से पुरुष को बीज कहा गया है ।

पृष्ठ 399

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 399 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

विशिष्टं कुत्रचिद्बीजं स्त्रीयोनिस्त्वेव कुत्रचित् ।

उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ३४ ॥

३६१ भाष्य – बीजस्य वैशिष्ट्यं व्यासऋष्यशृङ्गादीनां महर्षीणां दृष्टम् । स्त्रीयोनिस्त्वेव क्षेत्रजादिपुत्रेषु धृतराष्ट्रादिषु । ब्राह्मणाज्जाता अपि मातृजातयः क्षत्रियास्ते । उभयं तु समं एकस्वामिकमेकजातीयं समम् । सा प्रसूतिः प्रशस्यते विप्रतिपत्त्यभावात् तदुक्त-मेतत्— “ भर्तुः पुत्रं विजानन्तीति ” ॥३४ ॥

हिन्दी - कहीं पर बीज प्रधान है और कहीं पर क्षेत्र प्रधान है । जहाँ पर बीज तथा क्षेत्र ( पुरुष तथा स्त्री - दोनों समान हैं अर्थात् उन दोनों के मध्य में तीसरा कोई नहीं है । वह सन्तान श्रेष्ठ मानी जाती है ॥ ३४ ॥

विमर्श — बृहस्पति की स्त्री ' तारा ' में चन्द्रमा से उत्पन्न ' बुध ' चन्द्रमा के पुत्र हैं तथा व्यास और ऋष्यशृङ्ग भी दूसरे की स्त्री में उत्पन्न होकर भी उत्पन्न करनेवाले पिता के ही पुत्र माने जाते हैं; अतएव ऐसे स्थलों में बीज को प्रधान समझना चाहिये । इसके विपरित विचित्रवीर्य की स्त्री में ब्राह्मण ( द्वैपायन - व्यासजी ) से उत्पन्न धृतराष्ट्र तथा पाण्डु क्षेत्र स्वामी ( विचित्रवीर्य ) के ही माने जाते हैं, अतएव ऐसे स्थलों में क्षेत्र को प्रधान समझना चाहिये ।

बीज- प्राधान्य-बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।

सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ ३५ ॥

भाष्य — एवमुपपादिते संशये बीजप्राधान्यपक्षं पूर्वं परिगृह्णाति । तत्प्राधान्याद्यस्य बीजं तस्यापत्यम् । तस्य च प्राधान्यं व्रीह्यादेर्द्रव्यस्य क्षित्याद्यनेककारणत्वेऽपि तद्धर्मानु-विधानदर्शनात् । अतश्च स्फुटमदृष्टबीजानुविधानस्यापत्यस्य कार्यत्वाद् व्रीह्यादीनामिव तद्धर्मानुविधायित्वं युक्तमभ्यपगंतुम् । तथाहि सर्वत्र कार्य ऐक्यरूप्यं न त्यक्तं भवति । तथा च बीजे प्राधान्यं तद्दर्शयति सर्वभूतप्रसूतिर्हि । सर्वेषां भूतानां प्रसूतिरुत्पत्ति-बजलक्षणलक्षिता । बीजस्य यल्लक्षणं रूपवर्णसंस्थानादि तेन लक्षिता चिह्निता तद्रूपा-नुविधायिनीति यावत् ॥३५ ॥।

हिन्दी — बीज तथा क्षेत्र में बीज ही श्रेष्ठ कहा जाता है । अतएव सब जीवों की सन्तान बीज के लक्षणों से युक्त ही उत्पन्न होती है ॥ ३५ ॥

बीज प्राधान्य में दृष्टान्त-यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।

तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः ॥ ३६ ॥

भाष्य — अनन्तरस्यैवार्थविस्तरत्वेन श्लोकोऽयं वक्रान्वयप्रदर्शनेन । यादृशं शब्द-

पृष्ठ 400

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 400 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६२ मनुस्मृतिः [ नवमः स्यार्थं व्याख्यास्यति ( ३ ९ ) ' ब्रीह्यः शालय ' इत्यादिना । कालोपपादिते- काले वर्षादौ वपनकाले उपपादिते कृष्टसमीकरणादिना संस्कृते । ताद्वग्रोहति जायते । स्वैर्गुणैर्वर्ण-संस्थानरसवीर्यादिभिर्गुणैः व्यञ्जितं परिदृश्यरूपम् || ३६ || हिन्दी – समय पर जोते तथा सींचे गये खेत में जैसा ( जिस जातिवाला ) बीज बोया जाता है, अपने गुणों से वह बीज उस खेत में वैसा ( अपनी जाति के समान ) ही उत्पन्न होता है ॥३६ ॥

क्षेत्र के अप्राधान्य में दृष्टान्त—

इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।

न च योनिगुणान्कांश्चिद्बीजं पुष्यति पुष्टिषु ॥ ३७ ॥

भाष्य — बीजगुणानुवृत्तिः पूर्वेणोक्ता । अनेन क्षेत्रगुणानामभावमाह । एषा भूमि-र्भूतानां स्थावराणामोषधीतृणगुल्मलतानां योनिः क्षेत्रमुच्यते । न च तद्गुणास्तेषु भूतेषु केचन दृश्यन्ते । न मृदः । पांसवो वा तत्रोपलभ्यन्ते । बीजं पुष्यति पुष्टिषु । बीजशब्दोऽत्राङ्कुरनिर्गतव्रीह्यादिवचनो न मूलवचनः । तदपि हि पुनरुपभुक्तशेषमुप्यमानमपरस्मिन्वत्सरे भवत्येव बीजम् । तन्न पुष्यति नानुवर्तते । पुष्ट्यङ्गभूतायामनुवृतौ पुष्यतिर्वर्तमानः । सकर्मकत्वं द्वितीयानिमित्तम् । योनिगुणान्-प्राप्नोति वा भजते । पुष्टिषु तदवयवेषु । यदि पुष्ट्यङ्गाऽनुवृतिराख्यातेनोच्यते पुष्टिष्वित्य-नर्थकम् । तस्मादनेकार्थत्वाद्धातूनामन्यवचनमात्र एवाख्यातेनानुव्याख्येयः ।

श्लोकपूरणार्थं वा पुष्टिष्विति । कथञ्चित्पौनरुक्तयं परिहार्यम् । सामान्यविशेषभावेन

वाऽन्वयो वक्तव्यः । ‘ स्वपोषं पुष्ट ' इति यथा ॥ ३७ ॥

हिन्दी – यह भूमि भूत ( क द्वारा आरब्ध वृक्ष, लता, गुल्म आदि ) की नित्य ( अनादि कालगत ) क्षेत्ररूप कारण कही गयी है, किन्तु कोई बीज योनि ( क्षेत्र अर्थात् खेत ) के किन्हीं गुणों को अपने अङ्कुर आदि में धारण नहीं करता; ( अतएव योनि ( क्षेत्र अर्थात् खेत ) के गुणका बीज के द्वारा अनुवर्तन नहीं होने से क्षेत्र की प्रधानता नहीं होती है ) || ३७ ||

भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।

नानारूपाणि जायन्ते वीजानीह स्वभावतः ॥ ३८ ॥

भाष्य — अनन्तरोक्तोऽर्थ उदाहरणेन व्याक्रियते । एककेदारे— ' अपि’रत्र योजनीयः । एकस्मिन्नपि क्षेत्रे भूमेः । काले । यस्य बीजस्य यो वैकः कालस्तस्मिन् उप्तानि कर्षकैः भिन्नरूपाणि जायन्ते बीजानि स्वभावानुविधानादित्यर्थः । यदि च क्षेत्रे प्राधान्यं स्यात्क्षेत्र-स्येकत्वात्सर्वाण्येकरूपाणि स्युः || ३८ || हिन्दी — भूमि में किसानों के द्वारा एक खेत में भी समय - समय पर बोये गये