मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 51–60

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 51–60

पृष्ठ 51

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 51 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २१ इन्द्रियजय—

इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।

जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४४ ॥

भाष्य — इन्द्रियजस्य ब्रह्मचारिधर्मेषु सर्वपुरुषार्थतयोपदिष्टस्य पुनरिहोपदेशो राज-धर्मेषु मुख्योऽयं विनय इति ज्ञापयितुम् । तदिदमाह जितेन्द्रिय इत्यादि । सर्वस्यैतत्-प्रसिद्धं अजितेन्द्रियस्य न प्रजा वशे तिष्ठन्ति ।

योगस्तात्पर्यम् ।

दिवानिशमहोरात्रम् ॥४४ ॥

हिन्दी – ( राजा ) इन्द्रियों को जीतने में सर्वदा प्रयत्नशील रहे; क्योंकि जितेन्द्रिय ( राजा ) प्रजाओं को वश में रखने के लिए समर्थ होता है ॥ ४४ ॥

क्रोधजन्य व्यसनों का त्याग—

दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च ।

व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ४५ ॥

भाष्य — इदमपरमिन्द्रियजयोपदेशस्य प्रयोजनम् । अजितेन्द्रियस्य.दुष्परिहराणि व्यसनानि दुरन्तानि । दुःखकरोऽन्तोऽवसानं येषाम् । प्रथमं प्राप्तिकाले सुखयन्ति व्यसनानि, पश्चात्तु वैरस्यं जनयन्ति । ततो ' दुरन्तानि ' उच्यन्ते । अथवा दुष्प्रापोऽन्त एषाम् । न हि व्यसनिनस्ततो निवर्तितुं शक्नुवन्ति । कामाद्धेतोः समुत्थानं जन्म येषाम् ॥ ४५ ॥ एषा वर्णने प्रयोजनमाह गुरुलघुभावञ्च ।

हिन्दी – ( राजा ) कामजन्य दश तथा क्रोधजन्य आठ, अन्त में दुःखदायी व्यसनों को प्रयत्नपूर्वक त्याग कर दे ॥४५ ॥

व्यसनों में आसक्ति से हानि-कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।

वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ४६ ॥

भाष्य- -अर्थधर्मवियोगेन व्यवहित् आत्मवियोगः ।

क्रोधजेषु सर्वैर्वियुज्यत इति विशेषः ॥४६ ॥

तानीदानीं व्यसनानि स्वनामतो दर्शयति-हिन्दी — क्योंकि कामजन्य व्यसनों ( ७।४७ ) में आसक्त राजा अर्थ तथा धर्म से भ्रष्ट

पृष्ठ 52

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 52 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ मनुस्मृतिः [ सप्तमः हो जाता है और क्रोधजन्य व्यसनों ( ७।४८ ) में आसक्त राजा आत्मा से ही भ्रष्ट ( स्वयं नष्ट ) हो जाता है ॥४६ ॥

कामजन्य दश व्यसनों के नाम-मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।

तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥४७ ॥

भाष्य- -आखेटकार्थो मृगवधो मृगया । अक्षस्तद्विषयक्रीडा । एतयोस्त्वनर्थ-त्वं प्रसिद्धम् । दिवास्वप्नः कर्मानुष्ठानकाले कर्मस्वव्यापारः । न दिवाशब्देनाहरेव विवक्षितम् । तदुक्तं “ जागर्तव्ये प्रसुप्तकेति ” । अथवा मुख्य एव ' दिवास्वप्नः ' । स हि प्रतिषिद्धः सर्वकार्यविघाती । स च दर्शनार्थिनामन्येषां तदसम्पत्तेर्द्वेष्यताजनक: प्रजासु । परिवादः रहसि परदोषावर्जनम् । तेन सर्वाः प्रकृतयो विरज्यन्ति । अपरिवाद्यानां च परिवादेऽधर्मः स्थित एव । स्त्रियो मद इत्येतयोरनर्थरूपता सुप्रतीता । तौर्य्यत्रिकं नृत्यगीतवादित्राणि । वृथाट्या अप्रयोजनमीषत्प्रयोजनं वा इतस्ततश्च परिभ्रमणम् । दश परिमाणो दशकः । कामजः काम इच्छा, ततो जायते । विशिष्टसुखोप-भोगार्थो वा अनुभूतविशेषाद्वा जायमान ' कामजः ' ॥४७ ॥

हिन्दी — मृगया ( शिकार ), जुआ, दिन में सोना, पराये की निन्दा, स्त्री में अत्यासक्ति, मद ( नशा - मद्यपान आदि ), नाच - गाने में अत्यासक्ति और व्यर्थ ( निष्प्रयोजन ) भ्रमण; ये दश कामजन्य व्यसन हैं ॥४७ ॥

क्रोधजन्य आठ व्यसनों के नाम-पैशुन्यं साहसं द्रोह इर्ष्याऽसूयाऽर्थदूषणम् ॥ वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥४८ ॥

भाष्य— अमात्यादितो ये सुकृतबान्धवास्तत्र यन्त्रिगोपनीयं तस्य प्रकाशनं पैशुन्यम् । साहसं ज्यायसो नीचकर्मणि विनियोगः । स्वल्पेनैवापराधेन कराधानं कारा-वरोधो वा । द्रोह उपांशुवधः । तत्रोपघातो वा जीवत एवेर्ष्या । सर्वसाधारणस्य विषयस्य साधारण्यव्यावृत्तिः, असहनं वा गुणिनाम्, गुणेषु

पृष्ठ 53

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 53 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २३ दोषाविष्करणं, असूया । अर्थदूषणं अर्थानामदानं हरणं वा ।

वाग्दण्डपारुष्ये प्रसिद्धे ।

क्रोधो द्वेषः । तत्प्रधाना एतत्कुर्वन्ति ॥४८ ॥

हिन्दी— चुगलखोरी, दुस्साहस, द्रोह, ईर्ष्या ( दूसरे के गुण को न सहना ), असूया ( दूसरों के गुणों में दोष बतलाना ), अर्थदोष ( धनापहरण या धरोहर आदि को वापस नहीं करना ), कठोर वचन और कठोरदण्ड; ये आठ क्रोधजन्य व्यसन हैं ।

लोभ का त्याग -द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।

तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ४ ९ ॥

भाष्य— “ उक्तं तावत्कामस्य व्यसनवर्गस्य लोभो मूलम् । विषयोपभोगस्पृहा काम:, इच्छा अभिलाषो लोभः इत्यनर्थान्तरं यतः । क्रोधजस्य कथं लोभो मूलं येनो-च्यते तज्जावेतावुभौ गणाविति ” । उच्यते । नात्र लोभकारणता तयोर्वर्गयोरभिप्रेता । किं तर्हि । वर्गद्वयतुल्यता लोभस्य । यमेतानि सर्वाणि व्यसनान्यनर्थमुपजनयन्ति तमेवैको लोभो व्यसनहीनस्यापि । तदुक्तं “ लोभः सर्वगुणानिव ” इति । अत उपचारत एतदुक्तं तज्जावेताविति । यदि लोभो न जायेत कथं समानफलानि स्युः । कारणदोषो हि कार्यदोषं भासयति । अतस्तत्कार्यत्वा-द्व्यसनेषु चेद्दोषः, ध्रुवं कारणस्याप्यसौ दोष उक्तो भवति । अथवा लुब्ध एव पैशुनादिबहिष्कार्येष्वभिष्वङ्गं गच्छति । इतरस्तु स्वल्पके विषये अनुनयेन वोपशाम्यति । सेयमुपचाराल्लोभमूलता व्यसनवर्गद्वयस्योच्यते ॥४९ ॥

हिन्दी — सब विद्वान् लोग इन दोनों ( कागज व्यसन - समुदाय तथा क्रोधज व्यसन-समुदाय, दे ० ७।४७-४८ ) की जड़ जिसको जानते हैं, उस लोभ को यत्नपूर्वक जीतें अर्थात् छोड़ दें; क्योंकि ये दोनों ( कामजन्य तथा क्रोधजन्य व्यसन - समुदाय ) उस ( लोभ ) से उत्पन्न होनेवाले हैं ॥४९ ॥

अतिकष्टदायक व्यसन—

पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।

एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ ५० ॥

भाष्य — दिवा स्वप्नादिभ्योऽस्य चतुष्कस्य गणस्य बहुदोषतरत्वं प्रसिद्धमेव॥५० ॥

हिन्दी- - कामजन्य व्यसन - समुदाय में ( ७।४७ ) में मद्यपान, जूआ, स्त्रियाँ, और मनु II 4

पृष्ठ 54

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 54 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ मनुस्मृतिः शिकार ( आखेट ) इन चारों को क्रमशः अत्यन्त कष्टदायक जाने ॥ ५० ॥

दंडस्य पातनं चैव वाक्पारुष्यार्थदूषणे । [ सप्तमः क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥ ५१ ॥ ।

भाष्य — अयमपि त्रिकः पैशुनादिभ्यः पापीयानिति सुप्रतीतम् ॥५१ ॥

हिन्दी — क्रोधजन्य व्यसन - समुदाय ( ७।४८ ) में दण्ड - प्रयोग, कटुवचन और अर्थदूषण ( अन्याय से दूसरों की सम्पत्ति हड़प लेना ); इन तीनों को क्रमश: सर्वदा अतिकष्टदायक जाने ॥५१ ॥

उक्त सात व्यसनों में पूर्व - पूर्व का अतिकष्टदायकत्व-सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ५२ ॥

भाष्य — पानद्यू तयोः पानं गरीयः । तत्र हि संज्ञाप्रणाशः, अनुन्मत्तस्योन्मत्तत्वम्, अप्रेतस्य प्रेतत्वम्, कौपीनप्रकाशनम्, श्रुतप्रज्ञाप्रहाणम्, मित्रहानि:, सद्भिर्वियोग:, असद्भिश्च सम्प्रयोगः, गीतादिष्वर्थघ्नेषु प्रसङ्गः, रतमन्त्रप्रकाशनं च मानिनोऽप्युपहा-स्यता, गम्भीरप्रकृतेरपि यत्किञ्चनवादिता मदवेगेनेति, पानदोषाः । द्यूते तु जितमेवाक्ष-विदुषा, अनक्षज्ञस्यापि पाक्षिकः पराजयः । स्त्रीद्यूतव्प्सनयोर्द्यूतव्यसनं गरीयः । येन तदेव जितं द्रव्यं तस्यापि विषं भवति । तथा च तन्निमित्तो वैरानुबन्धो जयः, साधारणः केवलं पराजयः, भुक्तनाश: । मूत्र-पुरीषवेगधारणाच्च शरीरे शैथिल्यं व्याधिनिदानमेव । तेन क्षुद्रादिभिः स्वपीडातिशयात् । मातर्यपि च मृतायां दीव्यत्येव । कृतकृत्येषु च न सुहृद्भिरपि कृष्यते । तप्तायस-पिण्डवत् परद्रव्याणि परिहरतो न प्रत्ययते च । क्षुधिते दुर्गतेऽन्नाद्युपपत्त्युपेक्षा विषयता सर्वगुणसम्पन्नस्यापि तृणवदवज्ञायेत । इति द्यूतदोषाः । स्त्रीव्यसने त्वपत्योत्पत्तिः प्रतिकर्म-भोजनभूयिष्ठानुभवनं धर्मार्थपरिग्रहः । शक्या च स्त्री राजहिते नियोक्तुमपवाहयितुं वा । स्त्रीमृगयाव्यसनयोः स्त्रीव्यसनं गरीयः । अदर्शनं कार्याणाम्, स्त्रीव्यसनसंगेन राजकार्येषु च निर्वेदः, कालातिपातनम्, धर्मलोपः, पानदोषानुबन्धः, अर्थघ्नेषु चानृ-तादिषु प्रसङ्ग इति । मृगयायां तु व्यायामः पित्तश्लेष्मबन्धः, मेदादिनाशः, चले स्थिरे वा काये लक्ष्यपरिचयः, प्रहरणे वैशारद्योपजननं ग्राम्यजनपरिजश्चेति । एवं कामजस्य चतुष्कस्य वर्गस्य स्ववर्गे पूर्वं पूर्वं पापीयः । क्रोधजस्यापि च दण्डपातदोषानुबन्धः अर्थघ्नेष्वेवानृतादिषु संगः । दण्डपातवाक्पारुष्ययोर्दण्डपातनं गरीयः । दण्डपातने हि शरीरविनाशादशक्यं

पृष्ठ 55

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 55 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५ प्रतिसंधानम् । वाक्यारुष्ये त्वमर्षजः क्रोधाग्निः शक्यते दानमानाम्भोभिः शमयितुम् । वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः । तेजस्विनो हि पारुष्यवचनचित्तसंक्षोभे भयं नासादयन्ति । तथा च प्रवाद: -— “ स्थिरं साध्वसितं काण्डं भित्वा वाऽस्थिप्रवेशितम् । विशल्यमङ्गं कुर्वन्ति न वाचो हृदयादपि ॥ ” “ रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सेन्न संरोहति वाक्क्षतम् ॥ ' ”

भाग्यायत्तत्वादर्थस्येति न तेजस्विनोऽर्थदूषणं गणयन्ति ।

एवमेतयोर्वर्गयोः पूर्वस्य पूर्वस्य गरीयस्त्वं निदर्शितम् ॥५२ ॥

हिन्दी – सम्पूर्ण राजमण्डल में रहनेवाले इन सात व्यसन - समुदाय ( चार काम-जन्य व्यसन समुदाय - दे ० ७।५० और तीन क्रोधजन्य व्यसन - समुदाय दे ० ७।५१ ) में से पूर्व - पूर्व ( अगले की अपेक्षा पहलेवाले ) को जितेन्द्रियपुरुष गुरुतर अधिक कष्टदायक समझे ॥५२ ॥

विमर्श — कामजन्य १० व्यसनसमुदाय पहले ( ७।४७ ) कह चुके हैं, उनमें भी चार को अधिक कष्टदायक ( ७।५० ) कहा है; किन्तु इन चारों ( मद्यपान, जूआ, स्त्री - सेवन और आखेट ) में भी आगे वाले की अपेक्षा पहले वाला भारी अनिष्ट कारक है अर्थात् आखेट की अपेक्षा स्त्री - सेवन, स्त्री - सेवन की अपेक्षा, जूआ, जूए की अपेक्षा मद्यपान अतिकष्टदायक है । इसी प्रकार क्रोधजन्य आठ व्यसनसमुदाय पहले ( ७।४८ ) कह चुके हैं, उनमें भी तीन को अधिक कष्टदायक ( ७।५१ ) कहा है, किन्तु इन तीनों ( दण्ड प्रयोग, कटुवचन और अर्थदूषण ) में भी आगेवाले की अपेक्षा पहलेवाला अधिक अनिष्ट-कारक है अर्थात् अर्थदूषण की अपेक्षा कटुवचन तथा कटुवचन की अपेक्षा दण्डप्रयोग अधिक कष्टदायक है । इसका विशेष स्पष्टीकरण ' मन्वर्थमुक्तावली ' में देखना चाहिये । मृत्यु से भी व्यसन का अधिक कष्टदायकत्व—

व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।

व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनो मृतः ॥ ५३ ॥

भाष्य — यद्यपि मृत्युव्यसने सर्वं हरेताम् तथाप्येवं विशेषः । मृत्युरस्मिंल्लोके सर्वहरः । व्यसनं पुनरिह चामुत्र च । तदिदमाह । व्यसन्यधोऽधो व्रजति नरकं गच्छतीत्यर्थः । ‘ व्यसनि ' शब्देन अत्यन्तोऽभ्यास एतद्वर्गविषय उच्यते । अतश्चाभ्यास, प्रति-षिध्यते । न त्वीषदासेवनम् । व्यसनभूता ह्येते धर्मार्थकामप्राणहरा भवन्त्यन्यस्यापि

पृष्ठ 56

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 56 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६ मनुस्मृतिः [ सप्तमः पुरुषस्य, किं पुना राज्ञः । किं च असेवनमप्ययुक्तं पानादीनामशक्यं वेति । यतोऽ-भ्यासप्रतिषेधः ॥५३ ॥

हिन्दी – ( व्यसन तथा मृत्यु- दोनों के कष्टकारक होने पर भी ) मृत्यु की अपेक्षा व्यसन अधिक कष्टकारक है; क्योंकि मरा हुआ व्यसनी पुरुष नरकों में ( एक के बाद दूसरे नरक में ) जाता है और मरा हुआ व्यसन रहित पुरुष स्वर्गं में जाता ॥५३ ॥

मन्त्रियों की नियुक्ति-मौलाञ्छास्त्रविदः शूराँल्लब्धलक्षान्कुलोद्गतान् ।

सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥ ५४ ॥

भाष्य – पितृपितामहान्वयागता बहुसुतधनबान्धवाः प्रकटगोभूमिधनास्तद्देश-वासिनो मौलाः । ‘ मूलं ’ प्रतिष्ठा, तत्र भवा ' मौलाः ’ शास्त्रविदः । ‘ शास्त्रं शासनं भृत्यविज्ञानम् । तेनान्येऽपि गुणा गृह्यन्ते । तद्यथा । प्राज्ञः दृढकारी धारयिष्णुर्दक्षः वाग्मी प्रबल: प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशसहः शुचिर्दानशीलः योग्यसत्वयुक्तः स्तम्भचापलहीनः प्रियो वैरिणामकर्तेति । शूरशब्देन राजकार्ये शरीरकलत्रापत्यधनादिष्वपि निरपेक्ष उच्यते । तथा मरणेऽ-भीरुः । युद्धोत्साही । एक एव परिभवभयाद्बहुभिर्विरुध्यते । दृढप्रहारी बलवान् । लब्धलक्षाः । परिदृष्टकर्मतामनेनाह । दृष्टखङ्गव्यापाराः कृतार्थाधिकाराः अनु-भूतमन्त्रिभूमयः । कुलोद्गतान् कुलांकुशनिगृहीता ह्यकार्ये न वर्तन्ते । सचिवान् सहायान् । नित्यमेते राज्ञः पार्श्ववर्त्तिनो भवेयुः । सप्त वाऽष्टौ वा । नियमोऽयं येन चाल्प एकचित्ता भवन्ति । ततश्च राजमन्त्र उद्घाटितः स्यात् । बहूनामपि मन्त्रभेदः । तस्मादेतावन्त एव कर्त्तव्याः । सुपरीक्षितान् धर्मार्थकामभयोपधाभिः । सेयं परीक्षोच्यते । पुरोहितः– स्वकार्ये राज्ञा व्याजेनाधिक्षिप्तः बहुनाऽर्थसम्प्रदानेनाप्तपुरुषैरेकैकममात्यमुपजपेत् राजविना-शाय- ‘ एतच्च सर्वमन्त्रिभ्यो रोचते, अथ कथं भवते ' इति प्रत्याख्याने ' धर्मोपधा-शुद्धः ' सेनापतिः केनचिदपदेशेन पूर्ववदधिक्षिप्तः बहुना च सम्प्रदानेनाप्तपुरुषै-रेकैकममात्यमुपजपेत् राजविनाशाय - ' एतच्च सर्वमन्त्रिभ्यो रोचते, अथ कथं भवते ’ इति प्रत्याख्याने ‘ धर्मोपधाशुद्ध: ' । सेनापतिः केनचिदपदेशेन पूर्ववदधिक्षिप्तः बहुना च सम्प्रदानेनाप्तपुरुषैरेकैकममात्यमुपजपेत् राजविनाशाय— ‘ एतच्च सर्वमन्त्रिभ्यो

पृष्ठ 57

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 57 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २७ रोचते, अथ कथं भवते इति प्रत्याख्याने ' अर्थोपधाशुद्धः ' परिव्राजिका अन्तःपुरे लब्धविश्वासा एकैकममात्यमुपजपेत् — ' सा राजमहिषी भवन्तं कामयते कृतसमागमो-पायेति ’ प्रत्याख्याने ‘ कामोपधाशुद्धः ' । राजप्रयुक्ता एव केचित्पुरुषाः प्रवादमाविष्कुर्युः, ‘ कृतसमयैरमात्यै राजा हन्यत ' इति । उपलब्धप्रवादः पुरोहितस्याप्तः कश्चिदमात्येषु मन्त्रं श्रावयेत्– ‘ इमं प्रवादमुपश्रुत्य भवतां निग्रहो राज्ञा क्रियत ' इति । तेषामेव चान्यतमः पूर्वमेव कृतसंवित्कः प्रत्येकं राजामात्येषूत्साहयेत् । तत्र ये प्रत्याचक्षते ते ' भयोपधाशुद्धाः ' । अथवा मौलांस्तावत्कुर्यादर्थप्रमादकर्तृ संनिधातृन् । ये अर्थं ग्रामेभ्यः समा-हरन्ति समाहृतं च रक्षन्ति विनियुञ्जते च । सर्वथाऽर्थव्यवहारिणो ' मौलाः ' कर्त्तव्या इत्युक्तं भवति । शास्त्रविदो बुद्धिसचिवा मन्त्रिणः । शूरान् बलाध्यक्षान् । लब्धलक्षानित्यादि सर्वेषां विशेषणमेकैकस्य । समुदितपरीक्षा च योक्ता राजविषया राजामात्येषूत्साहनमिति, सा न युक्तेति मन्यन्ते । एष एव हि शुद्धिभेदो भवेदमात्यानाम् । तस्मादन्या काचित्स्त्री साध्वी प्रयोज्या अन्यश्च विनाशविषय उदाहार्यः ॥ ५४ ॥

हिन्दी – ( राजा ) वंशक्रमागत, शास्त्रज्ञाता, शूरवीर, निशाना मारनेवाले ( शस्त्र चलाने में निपुण ), उत्तम वंश में उत्पन्न और परीक्षित ( शपथ ग्रहण आदि से परीक्षा किये गये ) सात या आठ मन्त्रियों को नियुक्त करे ॥५४ ॥

मन्त्रियों को नियुक्त करने में कारण-अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।

विशेषतोऽसहायेन किं न राज्यं महोदयम् ॥ ५५ ॥

भाष्य — यत्सामान्यं गृहस्थस्य गृहकृत्यं गोऽश्वादिपालनं सुकरमिति स्थितम् । स एव गां पालयति स एव दोग्धि । न शक्यमेतदेकेन कर्तुम् । तदप्येकेन दुष्करं विशेषतोऽसहायेन दुष्करमशक्तेन न शक्यं कर्तुम् । कथं ह्येको गां चारयति कथं च भार्यां रक्षतु । राज्यं तु प्रतिमहारंभमुदयकर्म, तद्योगः फलवांश्च । अपेक्षमाणस्य महत्फल-मुदेति । न चैकेन षाड्गुण्यं वेदितुं शक्यम् । तस्मादात्मसमाः परीक्षिताः सहायास्तेषु तेषु कार्येषु कर्तव्याः ॥ ५५ ॥

हिन्दी – जो कार्य सरल है, वह भी एक आदमी के लिए कठिन होता है । विशेषकर महान् फल को देनेवाला राज्य असहाय ( अकेले राजा ) से कैसे सुसाध्य हो सकता है? ( कदापि नहीं हो सकता अतः राजा को पूर्व श्लोक में वर्णित गुणोंवाले मन्त्रियों को नियुक्त करना चाहिए ) ॥५५ ॥

पृष्ठ 58

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 58 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८ मनुस्मृतिः सन्धिविग्रहादि - विचार— तैः सार्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । [ सप्तमः स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ५६ ॥

भाष्य — तैर्बुद्धिसचिवैर्मुख्यैश्चार्थाधिकारिभिः सह सामान्यं, यन्नातिरहस्यं तच्चि-न्तयेत्सन्धिविग्रहम् । ‘ किं सन्धिः सम्प्रति युक्तोऽथ विग्रह: ' - उभयत्र गुणदोषान्विचार-येत् । इदं कर्त्तव्यावधारणं तु स्वबुद्ध्या कुर्याद्यथाऽस्य परप्रयोज्यता न भवति । इदं चापरं चिन्तयेत्— स्थानम् । तच्चतुर्विधम्, दण्डकोशपुरराष्ट्राणि । तत्र दण्डो हस्त्यश्वररथपदातयः । तेषां प्रतिकर्म पोषणरक्षणादि चिन्त्यम् । न ह्यसमाधानं प्रधानम् । तथा कोशस्य हेमरूप्यबाहुल्यं प्रचुररूप्यताआयव्ययलक्षणं च । कोशस्य यानि न्याय-स्थानानि तानि न व्ययितव्यानि न विलम्बनीयानि भृत्यानाम् । तथा राष्ट्रस्य देश-पर्यायस्य स्वाजीव आत्मसंधारणं परसंधारणेन नदीवृक्षाः पशवः शत्रुद्वेषाक्रान्त-प्रायः गुप्तिगोचरः पशुमान् अदेवमातृकः आपदि च दण्डकरग्रह इत्येवमादि । पुरस्य वक्ष्यति “ तत्स्यादायुधसम्पन्नमिति ” ( ७.७५ ) अथवा स्थानं स्वदेशाच्चाप्रच्यवनम् । एवं समुदयोऽपि चिन्त्यः । तत्र कृषिर्व्रजगुल्मस्थानानि वाणिज्यशुल्कदण्ड इत्ये-वमादि । गुप्तिं स्वराष्ट्रगतां वक्ष्यति । लब्धप्रशमनं च देवताश्रमविद्यावतां धार्मिकाणां च मानदानत्यागायोगः उदितानां चाभ्यनुज्ञानं सर्वबन्धनमोक्षः । अनुग्रहो दीनव्याधितानाम् । उत्सवानां चापूर्वाणां प्रवर्त्तनम् । III II I II I I I I I प्रवृत्तानामनुवृत्तिः ॥। उत्सव यच्च कोशदण्डोपाधिकमधार्मिकचरित्रं तदपनीय धर्मव्यवहारान् स्थापयेत् । अधर्मचारित्रमकृतमन्यस्य कृतं वाऽन्यैः प्रवर्त्तयेत् । न वा धर्मकृतं चान्यैर्निवर्तयेदिति । एवं स्थानादीनि चिन्त्यानि ॥५६ ॥

हिन्दी – ( राजा ) उन मन्त्रियों के साथ में सन्धि - विग्रह ( षड्गुण ), स्थान, समुदय, गुप्ति और मिले हुए का उपयोग, इनका चिन्तन ( सलाह- मसविरा अर्थात् परामर्श ) करे ॥५६ ॥

विमर्श - सन्धि आदि ६ ' गुण ' ( ७।१६० ) हैं । दण्ड, कोश ( खजाना ), नगर और राज्य; ये ४ ‘ स्थान ' हैं, यहाँ पर हाथी - घोड़ा, रथ एवं पैदल यह चतुरङ्गिणी सेना का पालन - पोषण ‘ दण्ड ' चिन्ता, कोष के आय - व्यय का विचार ' कोश ' चिन्ता ' नगर ( राजधानी ) की रक्षा ‘ पुर ' चिन्ता और राज्य के निवासी प्रजा एवं पशु आदि का चिन्तन

पृष्ठ 59

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 59 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २ ९ ‘ राज्य ’ चिन्ता है । धान्य ( विविध प्रकार के धान, गेहूँ, चना आदि अन्न ) तथा सुवर्ण चाँदी आदि खनिजों की उत्पत्ति का स्थान ' समुदय ' है । आत्मरक्षा ( ७।२१ ९ ) तथा राष्ट्ररक्षा ( ७।११३ ) ' गुप्ति ' है । प्राप्त हुए धन - धान्य का सत्कार्य में व्यय तथा रक्षण ‘ लब्ध-प्रशमन ' है । इन सबका विचार राजा को मन्त्रियों के साथ करना चाहिये । अपने हितकर कार्य का अनुष्ठान—

तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् ।

समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७ ॥

भाष्य — तेषां पृथक्पृथगेकैकस्य रहस्यभिप्रायं हृदयनिहितं भावमुपलभ्य सम-स्तानां संहतानाम् । यत्कारणं कश्चित्पुरुषः परिषदि अप्रतिभानवान्भवति, रहसि प्रगल्भः, कश्चित्परिषद्यासादितप्रज्ञः । ततश्च तान्समस्तान्पृच्छेत् । ततः स्वयं यद्युक्ततरं हितमात्मने तद्व्यवस्येद्विदध्यात् । तत्प्रामाण्यं तेषामेवा-न्यतमेनोपदिष्टं वा यदप्रत्यनीकं निर्दोषं च ॥५७ ॥

हिन्दी – ( राजा ) उन ( मन्त्रियों ) के अभिप्राय को ( एकान्त में ) अलग - अलग तथा सबों के अभिप्राय को इकट्ठा जानकर अपना हितकारी कार्य करे ॥ ५७ ॥

ब्राह्मण मन्त्री-सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।

मंत्रयेत्परमं मन्त्रं राजा षाङ्गुण्यसंयुतम् ॥ ५८ ॥

भाष्य - विपश्चिता विदुषा अर्थशास्त्रज्ञेन । परं मन्त्रमत्यन्तं गोपनीयं मन्त्रयेत् । षाङ्गुण्ययुक्तम् । अधिकतरप्रज्ञो हि ब्राह्मणः, धार्मिकत्वाच्च विश्वसनीयः ॥५८ ॥

हिन्दी — राजा उन मन्त्रियों में से विद्वान् धर्मादि युक्त विशिष्ट एक ब्राह्मण के साथ षड्गुण ( ७।१६० ) से युक्त श्रेष्ठ मन्त्र ( गुप्त विचार ) की मन्त्रणा ( विचार - विनि-मय ) करे ॥५८ ॥

नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।

तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ५ ९ ॥

भाष्य — तादृशि ब्राह्मणे सर्वराष्ट्रमण्डलं निक्षिप्य विश्वस्तो राज्यसुखं भुञ्जीत च । तेन सह विनिश्चित्य यानासनादि कर्म व्यवहारसंग्रहादि समाचरेत् ॥५ ९ ॥ हिन्दी- - राजा उस ( विद्वान् तथा धर्मात्मा ब्राह्मण ) पर पूर्ण विश्वास कर ( उसे ) सब काम सौंप दे, तथा उसके साथ निश्चय कर बाद में कार्य का आरम्भ करे ॥५६ ॥

पृष्ठ 60

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 60 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३० मनुस्मृतिः अन्य मंत्रियों की नियुक्ति-॥

अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् ।

सम्यगर्थसमाहर्तॄनमात्यान्सुपरीक्षितान् ॥६० ॥

भाष्य- - यदुक्तं ' सप्त चाष्टौ वेति ' तस्यायमपवादः ।

अर्थसमाहर्तृन्संनिधार्तृन्सुपरीक्षितानुपधाभिः कुर्यात् ॥६० ॥

[ सप्तमः हिन्दी— ( राजा इसके अलावे ) दूसरे भी शुद्ध ( वंशपरम्परा से शुद्ध या घूस आदि न लेने से शुद्ध हृदयवाले ), बुद्धिमान्, स्थिरचित्त ( आपत्ति - काल में भी नही घबड़ानेवाले या किसी के दबाव या लोभ होने पर भी राज - हित में ही दृढ़ रहनेवाले ), सब प्रकार न्यायपूर्वक धन - धान्य उत्पन्न करनेवाले सुपरीक्षित मन्त्रियों को नियुक्त करे — ॥६० ॥

निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।

तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥ ६१ ॥

भाष्य – सर्व एते मन्त्रज्ञा विचक्षणाः विद्वांसश्चाधिकारिकाः कर्त्तव्याः । दक्षान् भयसंनिधानेऽप्यवसादहेतावत्युत्साहवन्तः । अतन्द्रितान् अनलसान् । उक्तं चाध्यक्षप्रचारे

“ बुद्धिमाननुरक्तश्च युक्ता धर्मार्थकोविदः ।

शुचिर्दक्षः कुलीनश्च मन्त्री यस्य स राज्यभाक् ॥

तस्मिन्निक्षिप्य कार्याणि भोगसंगी न नश्यति ।

राजवश्यविधिस्तेन दानानुग्रहणैरिति ’ ” ॥६१ ॥

हिन्दी — इस ( राजा ) का कार्य जितने मनुष्यों से पूरा हो; आलस्य रहित, कार्य करने में उत्साही और काम के जानकार उतने ही मनुष्यों को ( मन्त्री पद पर ) नियुक्त करे ॥६१ ॥

कोश तथा रनिवास के कार्य करनेवाले—

तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् ।

शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ ६२ ॥

भाष्य — अर्थे आयव्ययव्यवहारे । शुचीनर्थेष्वस्पृहान्नियुञ्जीत । तान्यर्थस्थानान्युदाहरणेन दर्शयति । आकरकर्मान्त इति । ‘ आकरा: ’ सुवर्णरू-प्याद्युत्पत्तिसंस्कारस्थानानि, ' कर्मान्ता ' भक्ष्यकार्पासावापादयः । अंतर्निवेशने— अन्तःपुरभोजनशय्यास्त्रीगृहाणि । भीरवस्तत्र नियोज्याः ।