मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 411–420

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 411–420

पृष्ठ 411

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 411 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३७१ किन्तु परस्पर में बाँटने का नियम करने पर तो दोनों ही उसको पाने के अधिकारी हाते हैं ।

स्त्री - धर्म-एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।

अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ ५६ ॥

भाष्य — सारं प्रधानम् । फल्ग्वसारम् । उपसंहारः पूर्वप्रकरणस्य । उत्तरार्धेन

वक्ष्यमाणसूचनम् ।

आपत् जीवनस्थितिहेतुभूतभोजनाच्छादनाभाव:, सन्तानविच्छेदश्च ॥५६ ॥

हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि मैंने ) बीज तथा क्षेत्र की प्रधानता और अप्रधानता को तुम लोगों से कहा — इसके बाद आपत्ति में ( सन्तान नहीं होने पर ) स्त्रियों के धर्म को कहूँगा ॥ ५६ ॥

भ्रातृपत्नी- सम्भोग से पतित होना-भ्रातुर्ज्येष्ठस्य भार्या या गुरुपल्यनुजस्य सा । यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ५७ ॥

भाष्य— श्लोकद्वयेन प्राकृतव्यवस्थामनुवदत्यापदि नियोगं विधातुम् । ज्येष्ठोऽग्रे

जात: । अनुजः पश्चाज्जातः कनीयान् । यवीयाननुज एव ॥५७ ॥

हिन्दी — बड़े भाई की स्त्री छोटे भाई की गुरुपत्नी ( के तुल्य ) होती है और छोटे भाई की स्त्री बड़े भाई की स्नुषा ( पुत्र वधू अर्थात् पतोहू के तुल्य ) होती है ॥५७ ॥

ज्येष्ठो यवीयसो भार्यां यवीयान्वाऽग्रजस्त्रियम् ।

पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ५८ ॥

भाष्य — इतरतरभार्यागमने ज्येष्ठानुजयोः पातित्यमनापदि सत्यपि नियोगे ॥५८ ॥

हिन्दी – ( अतएव ) बड़ा भाई छोटे भाई की स्त्री ( भवह ) के साथ तथा छोटा भाई बड़े भाई की स्त्री ( भौजाई ) के साथ आपत्तिकाल के बिना नियुक्त होने पर भी सम्भोग करके पतित हो जाते हैं ॥ ५८ ॥

नियोग प्रकरण-देवराद्वा सपिंडाद्वा स्त्रिया सम्यङ्गियुक्तया ।

प्रजेप्सिताऽधिगन्तव्या संतानस्य परिक्षये ॥ ५ ९ ॥

भाष्य- -सर्वविशेषेण विशिष्टोऽनेन नियोगो विधीयते । संतानस्य परिक्षये नियुक्तया देवरादिभ्यः सम्यक् प्रजोत्पादयितव्येति । तदुक्तं “ योषितां धर्ममापदि ’ ” इति सेयमापत् “ संतानस्य परिक्षयः ” । संतानशब्देन पुत्र उच्यते दुहिता च पुत्रिका । सा हि पितृवंशं

पृष्ठ 412

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 412 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७२ मनुस्मृतिः [ नवमः संतनोति नान्या । तस्य परिक्षयोऽनुत्पत्तिरुत्पन्ननाशो वा पुत्रिकायाश्चाकरणम् । न हि स्त्रियाः केवलायाः पुत्रिकायामन्यस्मिन्वा पुत्रप्रतिनिधावधिकार इति वक्ष्यामः । नियुक्तोत्पादयेदनुज्ञाता गुरुभिः । “ कुतः पुनः गुरुभिरिति ” । स्मृत्यन्तरनिदर्शनात् । अथवा नियोगशब्दादेव । नियोगो हि गुरुसम्बन्धी लोकेऽ-प्युच्यते । न हि शिष्येण नियुक्तोऽध्यापयतीत्युच्यते । आचार्येण नियुक्तः करोत्येव वदति । ' गुरवश्च ' श्वश्रूश्वशुरदेवरादयो भर्तृसगोत्रा द्रष्टव्याः, न पित्रादयः । एतेनापत्येनापत्यवन्त-स्ते उच्यन्ते येषां चोपकारस्तत्कृत और्ध्वदेहिको भवति । “ यद्येवं मातामहस्यापि दौहित्रोपकारोऽस्ति । ततः पित्रा दुहिता नियोक्तव्येत्यापन्नम् । ” उक्तं — येनापत्यवन्त उच्यन्ते । देवरसपिण्डग्रहणेन तद्गोत्रा एव हृदयमागच्छन्ति । महाभारते च तत्र तत्र नियोक्तृभावो भर्तृपक्षिणामेव दर्शितः । अत एव भ्रातृपुत्रे सति न नियोगः कर्तव्यः । “ ये हि नियुक्तास्तेषामेव सन्तानोपकारः । पुत्रजनिते स्नेहेऽपत्योपकारमर्थयमाना अधिक्रियन्ते । न मृतस्याधिकारोऽस्ति । कथं तर्हि तस्यापत्यमिति व्यपदिश्यते ” । कथंचित्पिण्डदाने स उपकरोति । वचनादिति च ब्रूमः । न ह्यपत्यमुत्पादयितव्यमि-त्येष विधिस्तेनानुष्ठित इति – तथापि तदीये क्षेत्रे नियोगविधिजातेन पिण्डदानादि कर्तव्य-मिति शास्त्रार्थः । ततश्च तस्योपकारकमवगतम् । यथा चैतत्तथा पुरस्तान्निपुणं वक्ष्यामः । देवरः पतिभ्राता । सपिण्डः पत्यन्वयः । स्मृत्यन्तरे जातिमात्राच्चेत्युक्तं भवति सर्म्यागति नियमं वक्ष्यमाणमनुवदति । प्रजेप्सिताधिगन्तव्या विधौ कृत्ये । ईप्सितशब्देन कार्यक्षमतामाह । ततो दुहितर्यन्धबधिरादौ च जाते पुनर्नियोगोऽनुष्ठेयः ॥५ ९ ॥ हिन्दी — सन्तान के अभाव होने पर पति या गुरु से नियुक्त ( आज्ञप्त ) स्त्री को देवर ( पति का छोटा भाई ) या सपिण्ड के साथ ( ९ / ६० ) श्लोक में वर्णित विधि के अनुसार ) सन्तान प्राप्त करना चाहिये ॥ ५ ९ ॥ नियोग - नियम तथा द्वितीय पुत्रोत्पादन का निषेध—

विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।

एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन ॥ ६० ॥

भाष्य - विधवाग्रहणमतन्त्रम् । क्लीबादिरूपे पत्यौ जीवत्यप्येष एव विधिः । यतो वक्ष्यति “ नियुक्तौ यौ विधिंहित्वेति ' ( ६३ ) । एतदेव तस्य प्रयोजनम् । नियमोऽत्र-विषयाणाम्, न नियमानामन्यथा विज्ञाते प्रकृतत्वाद्विधवाया एव स्युः । निशि । प्रदीपाद्या-

पृष्ठ 413

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 413 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३७३ लोकनिवृत्त्यर्थमेतत् । वचनान्तरेण दिवोपगमनप्रतिषेधात् । अन्य त्वाहुः – पुरुषार्थोऽसौ

प्रतिषेधः कर्मार्थस्त्वयम् । तेनाह्नि गमनेन न क्षेत्रजमुत्पादयेत् ।

एकमुत्पादयेत्पुत्रं न द्वितीयम् ॥६० ॥

अस्य प्रतिप्रसवः— हिन्दी — विधवा स्त्री में पति या गुरु से नियुक्त देवर या सपिण्ड पुरुष सम्पूर्ण शरीर में घी लगाकर तथा मौन होकर रात में ( सम्भोग करके, एक पुत्र को उत्पन्न करे, द्वितीय पुत्र को कदापि उत्पन्न नहीं करे ) ॥ ६० ॥

विमर्श - ' यहाँ ' विधवा ' शब्द से सन्तानोत्पादन में समर्थ पति के नहीं होने से ‘ विधवा के समान ’ अर्थ समझना चाहिये ' ऐसा मन्वर्थमुक्तावलीकार का मत है; परन्तु ‘ तत: प्रभृति.......... ( ९ ।६८ ) ' श्लोक में ' प्रमीतपतिकां ' पद से स्पष्टता या मरे हुए पतिवाली अर्थात् अर्थात् ' विधवा ' ही स्त्री विवक्षित है; ऐसा प्रतीत होता है, अथवा उक्त श्लोक में ‘ प्रमीतपतिकां ’ पद से ‘ सन्तानोत्पादन में अशक्त होने से मृत ( मृततुल्य ) पतिवाली ' ऐसा अर्थ करने से उक्त व्याख्याकार से विरोध नहीं होता । मतान्तर से नियोग द्वारा द्वितीयपुत्रोत्पादन का विधान-द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ ६१ ॥

भाष्य — द्वितीयः पुत्र इत्येकेषां मतम् । तद्विदः क्षेत्रजोत्पत्तिविधिज्ञाः । अनिर्वृत्तं नियोगार्थं पश्यन्तः । नियुक्ताया प्रजोत्पादयितव्येत्यस्य विधेरेकस्योत्पादनेनासम्पत्ति मन्यन्ते । “ कस्तेषामभिप्रायः । ” एकवचनमविवक्षितं मन्यन्ते । द्रव्यप्रधानत्वात् कर्मणो गुणभावादविवक्षा— ग्रहैकत्ववत् । ननु चानुपात्तोपदेशे सत्यपि द्वितीयया द्रव्यप्राधान्यावगमे संख्यादिविशेषेण विवक्षा स्थितैव । “ उद्वहेत द्विजो भार्याम् " इति लिङ्गादपत्यविधावेकत्वसंख्यातिक्रमो “ दशास्यां पुत्रानाधेहीति ” ( ऋग्वेदे ९ १०।८ ) यद्येवं न द्वित्व एवावस्थानम् । अस्यामेवाशङ्कायां द्वितीयमिति वचनं अन्यनिवृत्त्यर्थम् । अर्थवत्ता तस्याप्ययमभि-प्रायः । औरस लिङ्गम् — विवाहप्रकरणे मन्त्रपाठात् । इह त्वेकत्वातिक्रमः । ' अपुत्र एक-पुत्र ' इति शिष्टप्रवादात् । अथवाऽस्या एव स्मृतेर्द्वितीयपुत्रस्तुतिकल्पनात् । धर्मतः शिष्टाचारतः ॥६१ ॥

पृष्ठ 414

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 414 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७४ मनुस्मृतिः [ नवमः हिन्दी — नियोग से पुत्रोत्पादन विधि के ज्ञाता कुछ आचार्य ( ' अपुत्र एकपुत्रः ' अर्थात् ‘ एक पुत्र वाला पुत्रहीन है ' इस शिष्ट वचन के अनुसार ) एक पुत्र की उत्पत्ति होने से नियोग के उद्देश्य की पूर्णता नहीं मानकर दूसरे पुत्र को उत्पन्न करने के लिए भी उन्हें ( देवर या सपिण्ड के पुरुष को ) अनुमति देते हैं ॥६१ ॥

विधवायां नियोगार्थे निवृत्ते तु यथाविधि ।

गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ॥ ६२ ॥

भाष्य — इह तु नियोगविषयो यत्र नियुज्यते । स च सम्प्रयोगाभिमर्दपर्यवसान उप-| ज्येष्ठस्य गमनलक्षणः तस्मिन्निवृत्ते पूर्वैव वृत्तिः । गुरुवत्स्नुषावत् । भार्यायां गुरुवद्य-वीयस: स्नुषावत् । परस्परग्रहणात् स्नुषावद्वर्तेत स्त्री पुरुषे ज्येष्ठे, देवरे गुरुवत् || ६२ ॥। हिन्दी — विधवा ( ९ ।६० का विमर्श देखें ) में नियोग के उद्देश्य ( गर्भधारण आदि ) के विधिवत् पूरा हो जाने पर ( बड़े भाई तथा छोटे भाई की स्त्री से क्रमशः ) गुरु तथा स्नुषा ( पुत्रवधू ) के समान परस्पर बर्ताव करे ॥ ६२ ॥

नियोग में कामवासना से सम्भोग की निन्दा—

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।

तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ६३ ॥

भाष्य – विधिं “ घृताक्त ” इत्यादिः । तदतिक्रमे पातित्यम् । नियुक्तो ज्येष्ठः, स्नुषागः पुमान्, गुरुतल्पगः कनीयान् ॥ ६३ ॥

हिन्दी — जो नियुक्त छोटो या बड़ा भाई परस्पर की स्त्री के साथ विधि ( ९ ।६० में वर्णित समस्त अङ्गों में घृतलेपन, मौन तथा रात्रिकाल ) को छोड़कर कामवशीभूत हो सम्भोग करते हैं, वे दोनों ( बड़ा भाई तथा छोटा भाई क्रमशः ) स्नुषासम्भोग तथा गुरुपत्नी-सम्भोग के पापभागी होकर पतित हो जाते हैं ॥६३ ॥

नियोग - निन्दा-नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः ।

अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ ६४ ॥

भाष्य - पूर्वेण विहितस्य नियोगस्य प्रतिषेधोऽयम् । तत्र केचित् — ‘ विधवाग्रहणान्मृतभतृकायाः प्रतिषेधः क्लीबेन तु पत्या नियोक्त-व्येति विधिप्रतिषेधौ विभक्तविषयाविति ' प्रतिपन्नाः । अन्ये तु – विधिवाक्ये सन्तानविच्छेदस्य निमित्तश्रवणात्तस्य च क्लीबव्याधि-तयोर्मृतस्याप्युपपत्तिः । तथा च विधिवत् प्रतिषेधोऽप्यविशिष्ट एव । अपेतधवसम्बन्धा विधवेत्युच्यते । तत्तुल्यमुभयत्रापि ।

पृष्ठ 415

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 415 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३७५ अवश्यं चैतदेवं विज्ञेयम् । इतरथा घृताभ्यक्तादिनियमोऽपि क्लीबेन नियुज्यमानाया न स्यात् । तत्रापि ह्यामनन्ति “ विधवायां नियुक्तश्च घृताक्त " इति । तस्माद्विहितस्याविशेषेण प्रतिषेधोऽप्यविशिष्टः । अतश्च विषयसमत्वे विधिनिषेधयोर्विकल्पः अयं च नित्योऽपत्यो-त्पादनविधिर्विकल्प एव कल्पते ग्रहणाग्रहणवत् । यदा तु “ पुत्रेण जयति ” इत्येवमादिफलोत्पादनविधिस्तदाऽसत्यपत्ये तत्कार्यस्यौ-र्ध्वदेहिकस्योपकारस्याभावाद्भिन्नफलयोः कुतो विकल्पः । समानविषयौ विधिनिषेधावेकार्थे विकल्प्येते । षोडशीग्रहणाग्रहणयोरिति केचित् । उक्तमङ्गभूयस्त्वे फलभूयस्त्वम् । प्रधानकार्यसिद्धौ त्वविशेषः । तस्मादस्मिन्पक्षे पुत्रोपकाराभावमाह । उपकारविशेषर्थेनास्य प्रवृत्तौ प्रतिषेधातिक्रमेण श्येनतुल्यता । इदं त्वत्र निरूप्यम् । योऽसौ नियुज्यते स किमिति प्रवर्तते । न हि तस्य विधिरस्ति । ‘ नियुक्तेन गन्तव्यम् ' इति । स्त्रिया पुनर्विद्यते “ सम्यक् स्त्रिया नियुक्तयेति ” । न च— “ देवरादिषु प्रवर्तमानेषु स्त्रिया नियोगसिद्धिरित्यर्थः । तेषामपि प्रवृत्तिस्तद्विधिना । क्षेत्रज ईप्सित ” इति वाच्यम् । यतो रागतः प्रवृत्तिरुपपद्यते । " घृताक्तादिनियमविधानमनर्थक-मिति ” चेन्नानर्थकम् । तथानियमैरुत्पन्ने क्षेत्रजव्यपदेशो नान्य इति । -यदपि गुरुवचनं कर्तव्यमिति केचित्प्रवृत्तिनिबन्धनमाहुः — एवं सति सुरापानादि-ष्वपि गुर्विच्छया प्रवृत्तिः प्राप्नोति । न चासौ गुरुरकार्ये यः प्रवर्तयति । “ गुरोरप्यवलिप्तस्य कार्याकार्यमजानत: । उत्पथप्रतिपन्नस्य परित्यागो विधीयत ॥ ” इति स्मरणात् । परित्यागश्च गुरुकार्यान्निवृत्तिः । एतेनैतदपि प्रत्युक्तं— “ यन्नियमातिक्रमपातित्यवचनं नियमपूर्विकां वृत्तिमनुजानाति-— “ तावुभौ पतितौ स्याताम् ' इति । इतरथा सर्वप्रकारं गच्छतः पातित्यमिति विशेषपातित्य-म्मनुपपन्नम् ” ॥ यतस्तत्र केवलस्य पुंसः श्रूयते किं तर्हि स्त्रिया इति । तस्याश्च पुत्रार्थिन्या नियोगो विहितः । तदपेक्षं हि व्यतिक्रमे पतितवचनं “ तावुभौ पतितौ स्यातामिति ” असति व्यतिक्रम एकः पतितः पुमानेव, अतिक्रमे तु द्वावपीत्येवमपि लिङ्गान्निर्गच्छत्येव । त्तस्माद्देवरादिविधिलक्षणा प्रवृत्तिः कथमिति वक्तव्यम् । उच्यते । व्यासादिदर्शनेनापत्यपिण्डदान इव क्षेत्रजोत्पत्त्यर्थं सपिण्डानां गुरुनियोगा-फेक्षा । तदा नोपगमने च्युतिरस्तीत्यनुमन्तव्यम् । न हि महात्मनां रागलक्षणप्रवृत्तिरभ्युप-गान्तुं न्याय्या । यच्चोक्तं नियमातिक्रमे पतितत्ववचनं लिङ्गमिति - तदयुक्तम् । यताः पुंसः पतितत्वे पतितोत्पन्नस्याधिकाराभावादुत्पादनमनर्थकम् । तस्मादस्ति देवरादिविधेरा-भ्मासोऽयम् ॥६४ ॥

म्मनु II 26

पृष्ठ 416

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 416 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७६ मनुस्मृतिः ' [ नवमः हिन्दी — ब्राह्मणादि ( गुरु या पति आदि ) विधवा ( ९ ।६० का विमर्श देखें ) को दूसरे ( देवर या सपिण्ड पुरुष ) में नियुक्त न करे अर्थात् सन्तान न होने पर भी सन्तानोत्पादन करने की देवर आदि को आज्ञा न दे; क्योंकि दूसरे ( देवर या सपिण्ड पुरुष ) में स्त्री को नियुक्त करते हुए ( वे ब्राह्मणादि ) सनातन धर्म को नष्ट करते हैं ॥६४ ॥

वर्णसङ्कर काल-नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।

न विवाहविधावुक्तं विधवावेदनं पुनः ॥ ६५ ॥

भाष्य — उद्वाहनं कर्म – तत्र ये मन्त्राः प्रयुज्यन्ते “ अर्यमणं नु देवं कन्या अग्निम-’ इत्यादयः । तथान्येऽपि तत्सम्बन्धाः “ मया पत्या जरदष्टिः " इति, “ मया पत्या यक्षत प्रजावतीति ” –तत्र सर्वत्र वाढुर्वरयितुः स्वापत्यं भवतीत्याहुः । न तत्र श्रूयते ' मया यत्र नियुज्यसे ततो जनयेति ' । मन्त्रग्रहणेनैतद्दर्शयति मन्त्रार्थवादा अपि नैवंविधाः सन्ति । दूरत एव तद्दर्शयति न विवाहविधावुक्तं विधवावेदनं पुनः । ' आवेदनं ' गमनमभिप्रेतमत्र । अथ – ' - " विवाह एवेयं वा संयुज्यते । विवाहयिष्यति देवरो भ्रातृजायाम् । ततोऽयं नियोगो विवाहो विहित एव । ” न त्वत्र विवाहविधिरिति पूर्वशेषोऽयमर्थवादः ॥६५ ॥

हिन्दी - विवाह सम्बन्धी किन्हीं मन्त्रों में किसी भी शाखा में नियोग को नहीं कहा गया है और न विवाह की विधि में विधवा को पुनः देने ( दूसरे पुरुष के साथ पुनर्विवाह करने ) को ही कहा गया है है ॥ ६५ ॥

अयं द्विजैरविद्वद्भिः पशुधर्मो विगर्हितः ।

मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ ६६ ॥

भाष्य — अयमप्यर्थवाद एव नियोगप्रतिषेधशेषः । येऽविद्वांसः सम्यक् शास्त्रं न जानते तत्र व्यवहारिणो लिङ्गाद्यन्यपरत्वं च न जानते तैरयं पशुधर्म:: - - स चात्यन्त-गर्हितो मनुष्याणमपि प्रोक्तः प्रवर्तितः । स चेदानींतनो न, आदि वेने राज्ञि प्रशासति राष्ट्रं पालयति । " ननु च लिङ्गानि नैव सन्तीत्युक्तम् । ” नैवम् । उद्वाहकेषु मन्त्रेषु न सन्तीत्युक्तम् । अन्यत्र तु दृश्यते । “ को वा स पुत्रो विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ” इत्यादि । यथा विधवा स्त्री देवरपतिं मनुष्यं कुरुते समानशयन एवं को वा मनस्विनौ कुरुते येन नागच्छतः । को विशेषो विवाहमन्त्रेषु । स किलापत्योत्पत्तिविध्यनुक्रमरूप इत्यभिप्रायः । अन्यैर्विद्वद्भिरिति पठितम् । गर्हितो मनुष्याणां प्रोक्तः । पशूनामेष धर्मो भ्रातृ-

पृष्ठ 417

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 417 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता स्त्रीगमनं नाम । स च प्रवृत्तो वेनस्य राज्ये ॥ ६६ ॥

३७७ हिन्दी – राजा वेन के शासनकाल में मनुष्यों के लिए भी कहे गये इस पशु धर्म की विद्वान् द्विजों ने निन्दा की है ॥ ६६ ॥

विमर्श - उक्त वचन के अनुसार यह नियोग द्वारा आपत्ति काल में सन्तानोत्पादन का विधान वेन के शासनकाल से चलाये जाने के कारण सादि है, किन्तु सनातन नहीं है अतएव अमान्य है ।

स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।

वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥ ६७ ॥

भाष्य — भुञ्जन्पालयन् । “ कथं पुनर्वर्णसङ्करं प्रवर्तयन् राजर्षीणां प्रवर इत्यु-क्तम् । " महीमखिलां भुनक्ति यः महाराजत्वात् । कामेन रागादिलक्षणेनोपहता नाशिता चेतसा चित्तस्थैर्यं यस्य सः ॥६७ ॥

हिन्दी- - समस्त पृथ्वी का पालन करते हुए राजर्षिप्रवर वेन ने काम से नष्ट बुद्धि होकर मनुष्यों को ) भाई की स्त्री के साथ सम्भोग का नियम चालूकर ) वर्ण सङ्कर बनाया || ६७ || विमर्श - यहाँ पर धर्म - विरुद्ध कार्य करनेवाले राजा ' वेन ' को ' राजर्षिप्रवर ' केवल समस्त पृथ्वी का शासक होने से ही कहा गया है, धर्मप्रवर्तक या धर्म संरक्षक होने से नहीं ।

ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ।

नियोजयत्पत्यार्थं तं विगर्हन्ति साधवः ॥६८ ॥

भाष्य – स्पष्टार्थोऽर्थवादः ॥ ६८ ॥

हिन्दी – तब ( ‘ वेन ’ - शासन काल ) से जो मनुष्य मृतपतिवाली विधवा स्त्री को रसन्तान के लिए ( देवर आदि के साथ ) मोहवश नियुक्त करता है; उसकी सज्जन लोग निन्दा करते हैं || ६८ ॥ विमर्श - मनु भगवान् ने स्वयं ' नियोग ' के द्वारा सन्तानोत्पादन का पहले ( ९ ।५ ९-६६२ ) विधानकर जो इस श्लोक से उसका निषेध किया है, वह कलियुगविषयक है, जैसा कि बृहस्पति ने कहा है — ‘ मनु ने ' नियोग ' का विधानकर स्वयं निषेध किया है; क्योंकि वह युगक्रम से दूसरे लोगों से विधिवत् नहीं हो सकता; मनुष्य सत्य, त्रेता तथा द्वापर ट्युग में, तप तथा ज्ञान से युक्त होते थे ( अतएव वे मनुक्त नियमानुसार नियोग से स्सन्तानोत्पादन करने में समर्थ होते थे, किन्तु ) कलियुग में वे शक्तिहीन होते हैं ( अतएव म्मनूक्त नियमानुसार नियोग से सन्तानोत्पादन में समर्थं नहीं होते ' – इसी बात को स्पष्ट

पृष्ठ 418

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 418 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७८ मनुस्मृतिः [ नवमः करते हुए बृहस्पति आगे कहते हैं कि ) ' प्राचीन ऋषियों ने अनेक प्रकार से पुत्रों को उत्पन्न किया, किन्तु शक्तिहीन आज - कल के मनुष्य इस समय ऐसा नहीं कर सकते ' । इस कारण से गोविन्दराज का ‘ युगव्यवस्था को नहीं समझकर सन्तान के अभाव में नियोग पक्ष से अनियोगपक्ष श्रेष्ठ है ' ऐसा करना मुनिव्याख्या विरुद्ध होने से मान्य नहीं है ऐसा ‘ मन्वर्थमुक्तावलीकार ' का मत है । वाग्दत्त कन्या के पति के मरने पर —

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।

तामनेन विधानेन निजो विन्देत देवरः ॥ ६ ९ ॥

भाष्य — नियोगरूपत्वात्कन्यागतोऽयं धर्म उच्यते । वाचा सत्ये कृते वाग्दाने निवृत्ते एकेन दत्ताऽपरेण प्रतिगृहीता । तामनेन वक्ष्यमाणेन विधानेन निजः सोदरो देवरः विन्देत विवाहयेत् ॥६९ ॥

हिन्दी- - वाग्दान करने के बाद जिस कन्या का पति मर जाय, उस कन्या के साथ उसका अपना देवर ( उसी मृत पति का छोटा सहोदर भाई ) इसके आगे ( ९ ।७० ) कथित विधि से विवाह ( उस कन्या को प्राप्त ) करे ॥। ६ ९ ॥ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ ॥७० ॥

भाष्य — यथाविधि यथाशास्त्रं वैवाह्यो विधिस्तथा विवाह्य । वाचनिकोऽयं विवाहः । पुनर्भूश्च तथोच्यते । नवा व्यूढाऽपि सती भार्या भवति । केवलं परार्थोऽस्या वाचनिको विवाहः । यथा च दर्शयति ( ७१ ) “ न दत्वा कस्य चित्कन्यां पुनरन्यस्य दीयत ” इति ।

नासौ देवराय दीयत इत्यर्थः । अदत्ता चास्वभूता कथमिव भार्या भवेत् ।

शुक्लवस्त्राम् । नियमो गमने । अन्यस्मिन्नपि नियोगे धर्मोऽयमिष्यते ॥ ७० ॥

हिन्दी - वह देवर ( वाग्दत्त कन्या के मृत पति का सहोदर छोटा भाई ) विधिपूर्वक इसे स्वीकारकर ( कायिक, वाचिक और मानसिक ) शुद्धिवाली उस ( वाग्दत्ता मृतपति कन्या ) के साथ प्रत्येक ऋतुकाल में १-१ बार गर्भ धारण होने तक सम्भोग करे ॥७० ॥

विमर्श - इस प्रकार कन्या के ' नियोग ' का विधान होने से तथा विवाह के स्वीकार्य नहीं होने से जिसके लिए उस कन्या का वाग्दान किया गया है, उसी मृत पति के उक्त देवर से उत्पन्न वह सन्तान होगी ।

उक्त कन्या के पुनर्दान का निषेध-न दत्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः ।

दत्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥७१ ॥

पृष्ठ 419

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 419 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३७ ९ “ तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पद ” इति ( ८।२२७ ) प्राग्विवाहान्मृते वरे दत्तायामपि पुनर्दानाशङ्कायां प्रतिषेधोऽयम् । विशिष्टे तु पुनर्वचनम् – तथाविधा पुन-र्भूरुक्ता । नान्यस्मै दत्वा तस्मिन्मृतेऽन्यस्मै दद्यात् । तथा कुर्वन्प्राप्नोति पुरुषानृतम् । मनुष्यहरणे यत्पापं तत् तस्य भवति ॥७१ ॥

हिन्दी - चतुर ( शास्त्रज्ञानी मनुष्य ) कन्या का किसी के लिए वाग्दानकर उस पति के मर जाने पर पुन: उस कन्या के लिए दे; क्योंकि उक्त कन्या को दूसरे पति के लिए देता हुआ वह ‘ पुरुषानृत ’ दोष को प्राप्त करता है और ' सहस्रं त्वेव चोत्तम: ' ( ८।१३८ ) में कथित दण्ड का भागी होता है ॥ ७१ ॥

सप्तपदी के पूर्व दोषवती कन्या का त्याग —

विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ।

व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ ७२ ॥

भाष्य — विधिः शास्त्रं तदर्हतीति विधिवत् । यादृश: शास्त्रेण विधिरुक्तः “ अद्भिरेव द्विजाग्र्याणाम् ” इति ( ३।३५ ) । स च कैश्चिदुदकाधिकारः कन्याविषये स्मर्यते I । तेन प्रतिगृह्यापि त्यजेत्कन्यां प्राग्विवाहात् । विगर्हितां दुर्लक्षणाम् । पूर्वं प्रतिगृहीतामक्षत-योनिमपि । तथा निर्लज्जां बहुपुरुषभाषिणीम् । व्याधितां क्षयव्याधिगृहीताम् । विप्रदुष्टां रोगिण्यादिशब्दितामन्यगतभावां च त्यजेत् । अन्ये क्षतयोनिं विप्रदुष्टां व्याचक्षते । न ते सम्यङ्मन्यन्ते । यदि तावत्पुरुषानुपभुक्ता स्त्रीकन्यादिविकृता तदा नैव दुष्यति । अथ पुरुषसंयुक्ता तदा कन्यैव न भवति । तत्र “ त्यजेत्कन्यामिति ” सामानाधिकरण्या-नुपपत्तिः । उक्तश्च तस्यास्त्यागः । छद्मना चोपपादिताम् । न्यूनाधिकाङ्गीम् । यतो हेतु-रुक्तोऽकथितेषु स्वल्पेष्वपि दोषेषु कृतवरणाऽपि त्याज्यैव ॥७२ ॥

हिन्दी — विधि ( ३।३५ ) के अनुसार कन्या को ग्रहणकर भी विधवा के लक्षणों से युक्त, रोगिणी, क्षतयोनि ( या शापादि ) दोष से युक्त अथवा ( अधिकाङ्गी या हीनाङ्गी होने पर भी उस दोष को छिपाकर ) कपटपूर्वक दी गयी कन्या को द्विज सप्तपदी होने के पहले छोड़ दे ॥६२ ॥

विमर्श — ‘ उक्त अवस्थावाली कन्या को सप्तपदी के पूर्व छोड़ देने पर पति दोषी नहीं होता ' इस अभिप्राय से यह वचन कहा गया है ' उसका छोड़ना आवश्यक विधि है ' ऐसे अभिप्राय से यह वचन नहीं कहा गया है । अतः उक्त अवस्था में पति उस कन्या को स्वीकार कर ले तो उसका वह कार्य विधान विरुद्ध नहीं माना जायेगा ।

पृष्ठ 420

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 420 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८० मनुस्मृतिः

दोषवती कन्या को देने पर त्याग-यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् ।

तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥ ७३ ॥

[ नवमः भाष्य — कन्यादोषा उक्ताः । ताननाख्यायानुक्त्वा प्रयच्छति ददाति तस्य दद्दानं वितथं निष्फलं कुर्यात्प्रत्यर्पणेन । उक्त एवायमर्थः पूर्वश्लोकेनातिस्पष्टीकृत: ॥७३ ॥

हिन्दी — जो ( कन्या का पिता, भ्राता या अन्य अभिभावक आदि ) दोषयुक्त कन्या को ( उसका दोष नहीं कहकर ) दान करता है, कन्या - दान करनेवाले उस दुरात्मा के दान को ( वर ) व्यर्थ कर दे अर्थात् वैसी कन्या को ग्रहण करना अस्वीकार कर दे ॥ ७३ ॥

स्त्री - वृत्ति की व्यवस्था कर परदेश गमन-विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः । अवृत्तिकर्षिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥ ७४ ॥

भाष्य — यदा प्रवसेत्तदा भार्याया वृत्तिं विधाय प्रवसेदिति विधिं विधायेत्येवमर्थं द्रष्टव्यम् — प्रवसन्भार्याया वृत्तिं विदधीतेति । तथा कुर्याद्यथाऽस्या यावत्प्रवासं वृत्ति-र्भवति । शरीरस्थितिहेतुभोजनाच्छादनगृह्योपकरणादि । तां विधाय प्रवसेत्स्वदेशाद्देशान्तरं गच्छेत् । कार्यवान् कार्यं पुरुषार्थों दृष्टोऽदृष्टश्च । अदृष्टो धर्मो दृष्टावर्थकामौ | यथा वक्ष्यति ( ७६ ) “ प्रोषितो धर्मकार्यार्थम् " इत्यादिना । अन्तरेणैतानि निमित्तानि भार्यां हित्वा प्रवासो निषिध्यते । अवृत्तिकर्शिता हि । दृष्टदोषप्रदर्शनमर्थवादः । अवृत्त्या दारिद्रेण कर्शिता पीडिता प्रदुष्येत् पुरुषान्तरसम्पर्कादिना । स्थितिमत्यपि । स्थितिः कुला-चारस्तत्सम्पन्ना क्षुधावसरे दीना दोषमवाप्नुयादन्यं भर्तारमाश्रित्य जीवतीति सम्भाव्यत एतत् । सम्भावनायां लिङ् ॥ ७४ ॥

हिन्दी – आवश्यक कार्य वाला मनुष्य स्त्री को जीविका ( भोजन, वस्त्र आदि ) का प्रबन्ध कर प्रवास करे ( दूसरे देश या नगर आदि को जाय ); क्योंकि जीविका के अभाव से पीड़ित शीलवती भी स्त्री ( परपुरुष - संसर्ग आदि से ) दूषित हो जाती है ॥ ७४ ॥

पति के परदेश जाने पर स्त्री का कर्त्तव्य-विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता । प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः ॥७५ ॥

भाष्य- - ' नियमो ' यथा सन्निहिते भर्तरि परगृहप्रयाणादिनिषेध एवं प्रोषितेऽपि आस्थिता आश्रिता गृहीतवती । अकृत्वा तु वृत्तिं प्रोषिते शिल्पैर्जीवेदिति । कर्तन-जालिकाकरणादिना । गर्हितानि वस्तूनि विजनादीनि । एष एव विधवादीनां निजश्रम-जन्यो वृत्त्युपायः ॥७५ ॥