मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 421–430
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 421–430
पृष्ठ 421
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३८१ हिन्दी – जीविका ( भोजन, वस्त्र आदि ) का प्रबन्ध कर पति के परदेश जाने पर स्त्री नियम पालती ( शृङ्गार, परगृहगमन आदि का त्याग करती ) हुई जीए तथा ( भोजन, वस्त्र आदि का ) प्रबन्ध किये विना ही पति के परदेश चले जाने पर स्त्री अनिन्दित शिल्प ( सीना, पिरोना, सूत कातना आदि कार्यों ) से जीए ॥ ७५ ॥
परदेश गये पति की प्रतीक्षा का समय-प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः । विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥७६ ॥
भाष्य— यदुक्तं कार्यवान्प्रवसेदिति तानि कार्याणि दर्शयति I । तद्विशेषेण प्रतीक्षा-कालभेदः । परतस्त्विदं तया कर्तव्यमिति नोक्तम् । तत्र केचिदाहुः — प्रकरणादगर्हितैर्जीवेदिति । तदयुक्तम् । प्रागस्मात्कालादगर्हितैरितीयं किं म्रियताम् । न ह्यस्या आत्मत्याग इष्यते । पुंस इव प्रतिषिद्धत्वात् । तस्मात्प्रागप्यस्मात्प्रतीक्षणविधेरगर्हितैः शिल्पैर-जीवन्ती गर्हितैर्जीवेत् । अन्ये व्यभिचारमिच्छन्ति । तथा च स्मृत्यन्तरे ( नारद ० १२।९ ७ ) " नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ ” अन्येऽप्याहुः । नास्या ज्ञानेन ब्रह्मचर्यमपनेतुं शक्यते । स्त्रीधर्मेषु हि तदस्या विहितं मनुनाऽपि — “ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ' इति ( ५।१५८ ) । मृते भर्तरि नास्ति व्यभिचार:, किमङ्गप्रोषिते । पतिशब्दो हि पालनक्रियानिमित्तकः - ग्रामपतिः सेनायाः पतिरिति । अतश्चास्माद्वचनान्नैषा भर्तृपरतन्त्रा स्यात् । अपि त्वात्मनो जीवनार्थं सैरंध्री-करणादिकर्मभिरन्यमाश्रयेत । तच्च यदा षण्मासभृत्या संवत्सरभृत्या वा कस्मिंश्चिदाश्रिते भर्ता यद्यागच्छेत्तदानीं तां चेद्वशीकर्तुं शक्नुयात् – ' त्यज त्वं भार्यामिति ' यावद्भवति कालो न पूर्णः प्राक् पत्युरेव सा । पञ्चमे चर्वितमन्यत् ( ५।१५६ ) । अन्येऽप्यर्थमिममाहुः । पूर्वे तु पुनर्भूवृत्तमिच्छन्ति । या पत्या वा परित्यक्ता भवति, यस्याः किल पतिरियन्तं कालं विहितवृत्तिको नागच्छति, सा तेन त्यक्तैव भवति । ततश्च यदि सा पुनर्भूधर्मेणान्ये-नोढा भवेत्तदा भर्ताऽभ्यागतो न किञ्चिद् ब्रूयात् । पुनर्भवस्येयं भार्येति । तदयुक्तम् । ' न निष्क्रयविसर्गाभ्याम् ' । इति ( ६/४६ ) तस्य श्लोकस्यार्थवत्त्वं दर्शयिष्यामः । धर्मश्च तत्कार्यं च धर्मकार्यम् । सोऽर्थः प्रयोजनं प्रवासस्येति धर्मकार्यार्थम् |
पृष्ठ 422
पाठ पढ़ें पाठ छिपाएँ
३८२ मनुस्मृतिः [ नवमः “ कुत:? न गृहस्थस्य धर्मार्थो दीर्घकालः प्रवासः । अवश्यं ह्यग्नयस्तेन परिचर-णीयाः । पाञ्चयाज्ञिकमनुष्ठेयम् । कुतो गन्तव्यम् । “ वसन्ते वसन्ते ज्योतिषा यष्टव्य-मिति ’ ’ । तीर्थस्नानादीन्यपि स्मार्तानि च श्रौताविरोधीन्यनुष्ठेयानि । संविधाय प्रोषितस्य वा भवतीति न च येनोच्येत संविधायापि प्रवास आपर्वणः । स्वयं पर्वणि जुहुयादृत्विजामेक-तरकालमित्युक्तम् । अनाहिताग्नेस्तीर्थयात्रायां पाञ्चयाज्ञिकस्य तुल्यत्वेऽपि स्मार्तत्वे भार्या-सहितस्योपपत्तेः न तत्त्यागे तीर्थगमनं युक्तम् । ” उच्यते । गुरुवचनेन । यं गुरवो धर्मार्जने राजोपसेवायां वा स्वकार्याय प्रेषयन्ति स ' धर्मार्थं ' प्रवासः । प्रायश्चित्तं वा- - तपोवनदेश-भ्रमणेन । अथवाऽर्थार्जनार्थमेव धर्मकार्यार्थमभिप्रेतम् । दरिद्रोऽहं कुतश्चिद्धनमर्जयिष्ये । विद्यार्थम् । “ ननु स्नातस्य च भार्याधिगमः । कृतविद्यस्य च स्नानम् । तत्र कुतः कृतविवाहस्य विद्यार्थिता । " दर्शितमेतत् । ईषदवगतवेदार्थो विवाहेऽधिक्रियते । निश्चिते स्नानादौ । “ नैतद्युक्तम् । कृतायां धर्मजिज्ञासायां स्नानं - जिज्ञासा च विचारपूर्वकसंशयच्छेदेन निश्चितार्था । ” सत्यम् । नायं विधिर्विद्यार्थितायाः । तथा च सति धर्मकार्यार्थमित्यनेनैवावगता स्यात् । उत्पन्नेऽप्यधिकारोपयोगिन्यवगमेऽभ्यासातिशयार्थं विशेषार्थं चान्यासु विद्यासु । क्षिप्रं शौर्ययशःख्यापनार्थं बहिः सविशेषविद्वत्वख्यापनार्थं देशान्तरप्रवसने यशो-हेतुः प्रवासः । कामार्थ रूपाजीवानुगमोऽभिप्रेततरां भार्यामुद्वोढुम् । स्मृत्यन्तरे प्रसूताभेदेन च कालभेदः स्मर्यते । तथा च विष्णुः– “ अष्टौ विप्रसूताः षट् राजन्याः चतुरो वैश्या द्विगुणं प्रसूतेति । न शूद्रायाः कालनियमः स्यात् । संवत्सर-मित्येक ” इति ॥७६ ॥।
हिन्दी — स्त्री धर्मकार्यार्थ परदेश गये हुए पति की आठ वर्ष तक, विद्या ( पढ़ने ) या ( विद्यादि गुण - प्रचार के द्वारा ) यश के लिए परदेश गये हुए पति की छ: वर्ष तक और भोग आदि अन्य साधनों के लिए परदेश गये हुए पति की तीन वर्ष तक प्रतीक्षा करे ( इसके बाद वह स्त्री पति के पास चली जावे ) ॥७६ ॥
विमर्श - ' वसिष्ठ ने परदेश गये हुए पति की पाँच वर्षतक प्रतीक्षा करने पर पति के पास जाने का सामान्य वचन कहा है ' ऐसा ' मन्वर्थमुक्तावली'कार कहते हैं । " १. ऊर्ध्वं पतिसन्निधिं गच्छेत् । तदाह वसिष्ठः - ' प्रोषितपत्नी पञ्च वर्षाण्यु-पासीत, ऊर्ध्वं पतिसकाशं गच्छेत् ' इति । ( म ० मु ० )
पृष्ठ 423
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३८३ द्वेषयुक्त स्त्री की प्रतीक्षा का समय-संवत्सरं प्रतीक्षेत द्विषाणां योषितं पतिः । ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ७७ ॥
भाष्य — द्वेष्यः पतिर्यस्यास्तां द्विषाणाम् । एतेन तु न निष्कासनं कुर्यात् । सम्पूर्वस्य वसेरेनामिति च द्वितीयानुपपत्तेः । वासयेदिति निर्भर्त्सयेत् । पातकेऽपि तस्या निष्कासनं नास्ति “ निरुन्ध्यादेकवेश्मनि " इति वचनात् । प्रायश्चित्तेऽप्यस्मिन्निमित्ते विनयाधानार्थों-ऽपहार इष्यते । न सर्वेण सर्व आत्यन्तिक आच्छेदः || ७७ || हिन्दी - पत्नि अपने ( पति के ) साथ द्वेष करने वाली स्त्री की एक वर्ष तक ( उसके सुधार द्वेष त्याग के लिए ) प्रतीक्षा करे, इसके बाद उसके लिए दिये गये भूषण आदि को उससे लेकर उसके साथ सहवास करने का त्याग कर दे, ( किन्तु आभरण लेकर भी उसके भोजन वस्त्र की व्यवस्था तो करे ही ) || ७७ II
अतिक्रामेत्प्रमत्तं या मत्तं रोगार्त्तमेव वा ।
सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥७८ ॥
भाष्य — अतिक्रमस्तदुपचर्याऽवज्ञानं पथ्यौषधादिष्वतत्परता — न पुरुषान्तरसञ्चारः । मासत्रयं परित्यागश्च सम्भोगस्यैति, पूर्वस्मादेव हेतोः । हारकटकादिभूषणैर्वियुक्ता कर्तव्या । परिच्छदपरिग्रहेण भाण्डकुण्डादिना दासीदासेन च ॥७८ ॥
हिन्दी – जो स्त्री ( जुआरी आदि होने से ) प्रमादयुक्त, ( मदपान आदि से ) मतवाले तथा रोग से पीड़ित पति की उपेक्षा ( सेवा आदि न ) करे, पति उसका भूषण आदि लेकर तीन माह तक त्याग कर दे ( उसके साथ सहवाह न करे ) ॥७८ ॥
उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् ।
न त्यागोऽस्ति द्विषंत्याश्च न च दायापवर्तनम् ॥७९ ॥
भाष्य – क्लीबाबीजशब्दौ नपुंसकमाहतुः । भेदस्तु एको वातरेता, अप्रवृत्ते-न्द्रियोऽपरः । तादृशं या द्वेष्टि तस्या नास्ति निग्रहः पूर्वोक्तः । अपवर्तनमपहारः । प्रोषितप्रतिषिद्धान्नादयः स्मृत्यन्तरनिषिद्धाः ॥७ ९ ॥ हिन्दी – ( वायु आदि के दोष से ) उन्मत्त ( पागल ), पतित ( ११।१७०-१७८ ) नपुंसक, निर्वीर्य ( जिसका वीर्य स्थिर नहीं रहे ) और पापरोगी ( कोढ़ी आदि ) की सेवा नहीं करनेवाली स्त्री का पति न तो त्याग करे और न उसके धन या भूषण आदि का ही ग्रहण करे ॥७९ ॥
पृष्ठ 424
पाठ पढ़ें पाठ छिपाएँ
३८४ मनुस्मृति: वक्ष्यमाण स्त्री के रहते दूसरा विवाह करना —
मद्यपाऽसत्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥ ८० ॥
[ नवमः भाष्य — मद्यपाऽसौ मद्यपानरता । पक्तिसंस्कारगृहकार्यानुष्ठानासमर्था । तत्परि-रक्षणाय सा परिवेदनमर्हति । या तु गुरुभिः प्रतिषिद्धमद्यपाना । तस्या दण्डं वक्ष्यति “ प्रतिषेधे पिवेदिति ” ( ८४ ) । स्वयं नियमस्य त्वन्यनियमव्यतिक्रमवत्प्रायश्चित्तेन प्रत्या-पत्तिर्युक्ता, पुनरधिवेदनं च । तथा च धर्मानुष्ठानप्रजोत्पत्तिगृहकार्योपघातनिमित्तान्यधिवेदननिमित्तानि पठ्यन्ते— प्रतिकूला व्याधितार्थघ्नीति ' । ब्राह्मण्यास्तु शास्त्रेण प्रतिषिद्धमद्यायास्तत्पानप्रायश्चित्तमेव भूयोऽप्रवृत्तौ । पातित्यं— भ्रूणहनि हीनसेवायां स्त्री पततीति परिसंख्यानान्न मद्यपाने पातित्यमिति । तदेकादशे वक्ष्यामः । उक्तं च पञ्चमे ( ५।९ ० ) । असत्यवृत्ताऽसाध्वाचारा — भृत्येष्वसत्परुषवाक्, बलिकर्मणां प्रागेव भुते, दैव-पत्र्ययोर्ब्राह्मणभोजनादौ न श्रद्धावती । अर्थघ्नी अतिव्ययशीला भाण्डोपस्करणं न परि-रक्षति अनल्पमूल्येन क्रीणाति । हिंस्रा नाकुलशङ्कयास्यादेवातिताडनशीला अन्वाहिकस्य
व्ययस्यापहन्त्री ।
अधिवेदनं तस्या उपर्यन्याविवाहः ॥८० ॥
अन्यासामप्यधिवेदनमाह— हिन्दी— ( निषिद्ध ) मद्यपान करनेवाली, दुराचारवाली ( पति के ) प्रतिकूल रहनेवाली, ( कुष्ठ यक्ष्मा आदि ) रोगवाली, ( दास - दासी आदि को सदा ) मारने या फटकारनेवाली और अधिक धन - व्यय करनेवाली स्त्री हो पति उसके जीवित रहने पर भी दूसरा विवाह कर ले ॥८० ॥
वन्ध्याष्टमेऽधिवेद्याऽब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥८१ ॥
भाष्य - तत्र वन्ध्याऽष्टमेऽब्देऽधिवेद्या दशमे तु मृतप्रजा । नाधिवेदनेऽपत्यो-त्पत्त्यभावाद्धि वन्ध्याया अनुष्ठानपरिपातनं स्यात् अपत्योत्पत्तिविधेराधानविधेश्च । नापुत्रे ह्याधानं श्रूयते । एवं मृतप्रजायाः स्त्रीजनन्याः । अप्रियवादिन्यास्तु दोषाभावेन नाधि-वेदनेन सत्यां क्षमायां श्रमनियम: (? ) || ८१ ॥ हिन्दी – सन्तान - हीन स्त्री की आठवें वर्ष में, मृत - सन्तान स्त्री की दसवें वर्ष में कन्या को ही उत्पादन करने वाली स्त्री की ग्यारहवें वर्ष में और अप्रियवादिनी स्त्री की
पृष्ठ 425
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता तत्काल उपेक्षा करके जीवित रहने पर भी पति दूसरा विवाह कर ले ॥ ८१ ॥
३८५ विमर्श — ‘ अप्रियवादिनी भी सन्तानयुक्त स्त्री की उपेक्षा करके दूसरा विवाह नहीं करना चाहिये ' ऐसा आपस्तम्ब का मत है ।
रोगिणी तथा पतिपरायणा होने पर-या रोगिणी स्यात्तु हिता सम्पन्ना चैव शीलतः ।
साऽनुज्ञाप्याऽधिवेत्तव्या नावमान्या च कर्हिचित् ॥ ८२ ॥
– भर्त्रेहिता परिचर्यापरा । अनुज्ञापनाअवमानयोरिह विधानम्, पूर्वासामेत-भाष्य-द्भावात् । रोगिणीग्रहणं वन्ध्यास्त्रीजनन्यावपि लक्षयति । प्रकृतत्वाविशेषादवमाननिमित्ता-भावाच्च कर्हिचित्कदाचिदवमाननं शिष्ट्यर्थं परिभाषितम् ॥८२ ॥
हिन्दी — जो स्त्री रोगिणी हो परन्तु पति की हिताभिलाषिणी तथा शीलवती हो, पति उससे सम्मति लेकर दूसरा विवाह करे तथा उसका अपमान कदापि न करे ॥ ८२ ॥
दूसरा विवाह करने से स्त्री के कुपित होने पर—
अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् ।
सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥ ८३ ॥
भाष्य- - क्रोधेनाधिवेदनहेतुना निर्गतायास्त्यागसन्निरोधौ विकल्पतो विधीयेते । न तु यथोपपन्नहेतुना भोजनाच्छादनादिना तत्र प्रीत्या क्रोधावमार्जनं श्वश्रूभिः श्वशूरादिभिर्वा परिभाषणम् । संनिरोधो रक्षिपुरुषाधिष्ठानम् । त्यागो व्याख्यातः – असम्भोगः सह-शय्यावर्जनम् । कुलं ज्ञातयः – तत्पितृपक्षा: स्वपक्षाश्च ॥८३ ॥
-हिन्दी – उक्त ( ९।८०-८१ ) अवस्था में पति के दूसरा विवाह करने पर जो स्त्री कुपित होकर घर से निकल जाय ( या निकलना चाहे ) तो पति उसे ( क्रोध शान्त होने तक रस्सी आदि से ) बाँधकर रोके अथवा पिता आदि के पास पहुँचा कर छोड़ दे ॥८३ ॥
स्त्री के मद्यपान करने पर राजदण्ड-प्रतिषेधे पिवेद्या तु
मद्यमभ्युदयेष्वपि ।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ८४ ॥
भाष्य - प्रतिषेधे गुरुसम्बन्धिभिः । अयं दण्डः क्षत्रियादिस्त्रीणाम् । न शास्त्रीयो ब्राह्मणीनाम् । न हि तत्र दण्डमात्रेण मोक्षः । किं तर्हि महता । न च तत्राभ्युदयेषु पाना-शङ्का । अप्रतिषिद्धमद्यानां तु नियमेनोत्सवसमागतानामादरवती प्रवृत्तिर्दृश्यते । यां सम्यङ्निषेधत्यभ्युदयेष्वपीति । दण्डश्चायं भर्त्रा दीयते । सत्यपि राजवृत्तित्वे
पृष्ठ 426
पाठ पढ़ें पाठ छिपाएँ
३८६ मनुस्मृतिः [ नवमः “ स्त्रीणां भर्ता प्रभुः ” इति विज्ञायते । अन्येषामपि परिग्रहवतां भृत्यादिविषये कियति दण्डे स्वातन्त्र्यम् । अभ्युदयः पुत्रजन्मविवाहादय उत्सवाः । प्रेक्षा नटादिदर्शनम् । समाजो नितान्त-मपि जनसमूहः । तत्र कुतूहलिन्या अयं दण्डः || ८४ ॥ हिन्दी – जो ( क्षत्रिया आदि ) स्त्री ( पति आदि स्वजनों के ) मना करने पर भी विवाहादि उत्सवों में भी ( निषिद्ध मद्य का पान करे अथवा सबके सामने नाचने गाने आदि में सम्मिलित हो ) तब राजा उसे ६ कृष्णल ( रत्ती ) सुवर्ण से दण्डित करे ॥ ८४ ॥
वर्णानुसार स्त्रियों का दाय - विभाजनादि-यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः । तासां वर्णक्रमेण स्याज्ज्यैष्ठ्यं पूजा च वेश्म च ॥ ८५ ॥
भाष्य — कामतः प्रवृत्ता यदि समानजातीया असमानजातीयाश्च विन्देरन्विवाहयेयु-स्तासां वर्णक्रमेण जात्यनुरूपं ज्यैष्ठ्यं - न वयस्तो न च विवाहक्रमतः । फले हि दाननिमित्ते पूजा । प्रथमं ब्राह्मण्यास्ततः क्षत्रियावैश्ययोरित्येष वर्णक्रमः । वेश्म प्रधानं गृहम् । तद्ब्राह्मण्याः सवर्णानां विवाहक्रमो निश्चयः स्मृतः ॥८५ ॥
हिन्दी – यदि द्विज सजातीय ( समान जातिवाली ) तथा विजातीय ( भिन्न जाति-वाली ) स्त्रियों के साथ विवाह कर ले तो उनके वर्ण - क्रम के अनुसार भाषणं, दान, ( भाग हिस्सा ), वस्त्राभूषणादि से सत्कार तथा ( निवास के लिए ) घर होते हैं अर्थात् उच्च वर्ण वाली पत्नी के लिए श्रेष्ठ तथा हीनवर्ण वाली पत्नी के लिए उसकी अपेक्षा हीन वे सब प्राप्त होते हैं ॥८५ ॥
सजातीया स्त्री के साथ धर्म कार्य का विधान-भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा स्वैव कुर्यात्सर्वेषां नास्वजातिः कथञ्चन ॥८६ ॥
भाष्य - शरीरशुश्रूषा भर्तुरुपयोगिपाकादिलक्षणा दानभोजनप्रतिजागरणं स्वा स्वैव कुर्यात् । पृष्ठपादसंवाहननिर्णेजनादौ त्वनियमः । युगपत्सन्निधौ तु शरीरावयवक्रमो वर्ण-क्रमेण 1 । नैत्यकं धर्मकार्यं “ सायं त्वन्नस्येत्यादि " अग्निशरणोपलेपनाचमनोदकतर्पण-दानांदि ॥८६ ॥
अस्या निन्दार्थवादः-हिन्दी - उन ( सजातीय तथा विजातीय स्त्रियों ) में भोजन आदि देकर पतिक सेवा तथा नित्य ( भिक्षादान, अतिथिभोजन, अग्निहोत्रकर्म आदि ) धर्म कार्य सजातीय ( समान जातिवाली ही ) स्त्री करे, अन्य जातिवाली स्त्री कदापि न करे ॥ ८६ ॥
पृष्ठ 427
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता यस्तु तत्कारयेन्मोहात्सजात्या स्थितयाऽन्यया । ३८७ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥८७ ॥
भाष्य – यस्त्वेतत्कर्माऽन्ययाऽसमानजातीयया कारयेत्सजातीयायां स्थितायां ब्राह्मण एव स चण्डालः पूर्वस्माद्दृष्टः ॥ ८७ ॥
हिन्दी – जो पति सजातीय ( समान जातिवाली ) स्त्री के सन्निहित रहने पर मोहवश विजातीय ( दूसरी जातिवाली ) स्त्री द्वारा शरीर - सेवादि कार्य करवाता है, वह ब्राह्मण चाण्डाल ( ब्राह्मणी स्त्री में शूद्र पति से उत्पन्न पुत्र के तुल्य ) प्राचीन प्रार्च ऋषियों द्वारा देखा ( माना जाता है || ८७ ॥
गुणी वर के लिए कन्यादान विधान-उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ८८ ॥
भाष्य- - उत्कृष्टायाभिरूपायेति विशेषविशेष्यभावः । उत्कृष्टायाभिरूपतराय इत्यर्थः । अथवोत्कृष्टाय जात्यादिभिरभिरूपायेति पृथग्विशेषणम् । रूपमाकृतिमाभिमुख्येन प्राप्तो-ऽ‘भिरूपः ' । स्वभाववचनो वा । सुस्वभावो विद्वानप्यभिरूप उच्यते । सदृशाय जात्या-दिभिः । वरो वोढा जामाता । अप्राप्तामप्ययोग्यामपि कामावशत्वेन बालामप्राप्तां कौमारं वयः । स्मृत्यन्तरे नग्निकेत्युच्यते । कामः स्पृहा यस्या नोत्पन्ना सा चाष्टवर्षा षड्वर्षा वा, न त्वत्यन्तबालैव । तथाहि लिङ्गम् " अष्टवर्षामिति ’ ” । इदमेव लिङ्गं धर्मप्रयुक्ततायामपि विवाहस्येति । अन्यथा रागस्यैव प्रयोजकत्वे कुतोऽप्राप्ताया विवाह इत्याहुः । तदयुक्तम् । धनार्थिनोऽपि बालां विवाहयन्ति । न शास्त्रीयैव सर्वा प्रयुक्तिस्तृतीये निरूपिता ॥ ८८ ॥
हिन्दी— ( कुल तथा आचार में ) श्रेष्ठ, सुन्दर और योग्य वर मिल जाय तो ( पिता या अन्य अभिभावक आदि ) कन्या की अवस्था ( आयु ) विवाह योग्न न होने पर भी अर्थात् ' दक्ष ' के वचनानुसार आठ वर्ष से कम आयु रहने पर भी उस कन्या को उस वर के लिए ब्राह्मविधि ( ३।३७ ) से दान ( विवाहित ) कर दे ॥८८ ॥
[ प्रयच्छेन्नग्निकां ' कन्यामृतुकालभयान्वितः । ऋतुमत्यां हि तिष्ठन्त्यामेनो दातारमृच्छति ॥ २ ॥ ]
[ हिन्दी — ऋतुमती होने के समय के भय से युक्त ( पिता आदि कन्या के अभिभावक १. अमरकोष... गौरी तु नग्निकाऽनागतार्तवाः ' ( ३।६।८ ) इत्यस्य व्याख्याने ' अष्टवर्षा भेवद्गौरी नवमे नग्निका भवेत् ' इति स्मार्तो विशेषो नादृत इति क्षीरस्वामी आह ।
पृष्ठ 428
पाठ पढ़ें पाठ छिपाएँ
३८८ मनुस्मृतिः [ नवमः जन ) ‘ नग्निका ’ ( नव या दश वर्ष से कम अवस्थावाली ) कन्या को ( वर के लिए ) दे, ऋतुमती कन्या के हो जाने पर दान करनेवाले को उसका पाप प्राय होता है || २ || ]
• निर्गुणी वर के लिए कन्यादान का निषेध-काममा मरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि ।
न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥ ८ ९ ॥
भाष्य — प्रागृतोः कन्याया दानम् । ऋतुदर्शनेपि न दद्याद्यावद्गुणवान्वरो न प्राप्तः । गुणो विद्याशौर्यातिशयः शोभनाकृतिर्वयोमहत्वोपेतता लोकशास्त्रनिषिद्धपरिवर्जनं कन्या-यामनुराग इत्यादिः ॥८९ ॥
हिन्दी – ऋतुमती भी कन्या जीवनपर्यन्त पिता घर में भले ही रह जाय, ( किन्तु पिता आदि अभिभावक ) इसे ( ऋतुमती भी कन्या को ) गुणहीन वर के लिए कदापि न देवे ॥८९ ॥
स्वयंवरण का समय-त्रीणि वर्षाण्युदीक्षेत कुमारृतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ९ ० ॥
भाष्य — रेतोऋतुकालं — तद्वत्यपि त्रीणि वर्षाणि तद्गृहे आसीत । अत: परम-मुत्कृष्टाभावे सदृशं समानजातीयं स्वयं वृणुयात् ॥ ९ ० ॥ हिन्दी – कन्या ऋतुमती होने पर तीन वर्ष तक ( पिता आदि के योग्यतर पति के लिए दान करने की ) प्रतीक्षा करे, इसके बाद ( योग्यतर पति नहीं मिलने पर ) समान योग्यता वाले भी पति को स्वयं वरण कर ले ॥ ९ ० ॥ स्वयंवरण में पति - पत्नि की निर्दोषता —
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साऽधिगच्छति ॥ ९ १ ॥
भाष्य — वर्षत्रयादूर्ध्वमदीयमाना यं भर्तारं वृणुते तस्य दोषो न । कन्यायाः
पूर्वेणैव दोषाभाव उक्ते व्रियमाणस्य दोषार्थमिदम् ।
ऋतुदर्शनं च द्वादशवर्षाणामिति स्मर्यते ॥९ १ ॥
परमभिधानचिन्तामणौ .गौरी तु नग्निकाऽरजाः ' ( ३।१७४ ) इत्यस्य व्याख्याने ‘ अष्टवर्षा भवेद्गौरी दशमे नग्निका भवेत् । इति पाठान्तरं हेमचन्द्राचार्योक्तमुपलभ्यते । आसां विविधाः संज्ञास्तु मत्कृते ' समणिप्रभानुवादामरकोषस्य ’ ‘ अमरकौमुदी ' टिप्पण्यां द्रष्टव्या जिज्ञासुभिरिति ।
पृष्ठ 429
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३८ ९ हिन्दी— ( पिता आदि के द्वारा किसी योग्यतर ) वर के लिए नहीं दान करने पर जो ( ऋतुमती कन्या ऋतुकाल से तीन वर्ष तक प्रतीक्षा कर अपनी समान योग्यतावाले ) पति का स्वयं वरणकर लेती है तो वह कन्या तथा पति थोड़ा भी दोषभागी नहीं होते हैं ॥९ १ ॥ स्वयंवरणावस्था में पितादि के भूषण आदि का त्याग-अलङ्कारं नाददीत पित्र्यं कन्या स्वयम्वरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९ २ ॥ भाष्य – भ्रात्रादिभिर्यदादौ दत्तं स्वयंवरणाभिप्रायं तस्या अजानद्भिस्तदलङ्करणं तेषामेव प्रत्यर्पयेत् । यदि तु तथाविधाया एव ददाति तदा न त्यागः । तेनास्मै न वयमेनां दास्याम इत्येवमभिप्रायं यद्भूषणं न तस्मिन्नन्यथात्वमापन्ने युक्तम् । “ स्तेनः स्यादिति ” पुंल्लिङ्गेन पाठान्तरम् । वरस्य चौरत्वमाहुः । तस्मात्तेनऽलङ्का-रस्त्याजयितव्यः ॥९ २ ॥ हिन्दी — उक्त नियम ( ९।९ ० ) के अनुसार पति का स्वयं वरण करनेवाली कन्या पिता, भाई, माता ( या अन्य किसी अभिभावक ) के दिये हुए अलङ्कारों को न लेवे, ( किन्तु उन्हें वापस लौटा दे ), यदि वह ( पिता आदि के दिये हुए अलङ्कार को ) लेती है तो चोर होती है ॥९ २ ॥ ऋतुमती - विवाह में कन्या- पिता के लिए द्रव्य देने का निषेध-पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन् । स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥ ९ ३ ॥ भाष्य – शुल्कदेयाया ऋतुमत्याः शुल्कनिषेधोऽयम् । तत्र हेतुः — स च स्वाम्या-दतिक्रामेत् । “ बाल्ये पितुर्वशे तिष्ठेत् " इत्युक्तम् । वयोन्तरप्राप्तौ चाददतः पितुः स्वाम्यं नास्ति । शुल्कादेयाया अपि हेतोः समानत्वात्पितुः स्वाम्यनिवृत्तिः । ‘ अपक्रमणं ’
निवृत्ति: । प्रतिरोधनं प्रतिरोधोऽपत्योत्पत्तिकार्ये ।
केचिदाहुः अमानवोऽयं श्लोकः ॥९ ३ ॥
हिन्दी – ऋतुमती कन्या को ग्रहण ( उसके साथ विवाह ) करनेवाला पति ( कन्या के ) पिता के लिए धन न देवे; क्योंकि वह पिता ऋतु ( के कार्यरूप सन्तानोत्पादन ) के रोकने से ( उस कन्या के ) स्वामित्व से हीन हो जाता है ॥९ ३ ॥ कन्या - वर की आयु का नियम—
त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ ९ ४ ॥
पृष्ठ 430
पाठ पढ़ें पाठ छिपाएँ
३ ९ ० मनुस्मृतिः [ नवमः भाष्य — इयता कालेन यवीयसी कन्या वोढव्या न पुनरेतावद्वयस एव विवाह इत्युपदेशार्थः । अथापि न यथाश्रुतवर्षसंख्यैव । किं तर्हि । बहुना कालेन यवीयसी वोढव्या । न ह्येतद्विवाहप्रकरणम श्रुतम् । येन संस्कार्यविशेषणत्वेन तदङ्गं कालो दशादि-वर्षां पञ्चविंशत्यादिवर्षं च निवर्तयेत् । “ ननु च वाक्यान्तरस्थस्याप्यङ्गविधिर्भवत्येव ” । सत्यमिह प्रकरणोत्कर्षेण पाठादाचार्यस्याभिप्रायान्तरमनुमीयते । तथा शिष्टसमाचार: । सुतस्य च पुनर्दारक्रियायां नैष कालः सम्भवतीति " पुनर्दारक्रियां कुर्यात् ” इति नोपपद्यते ॥९ ४ ॥ हिन्दी - तीस वर्ष की अवस्था वाला पति बारह वर्ष की अवस्था वाली सुन्दरी कन्या के साथ विवाह करे, अथवा ( गार्हस्थ्य धर्म के सङ्कटावस्था में रहने के कारण से ) शीघ्रता करने वाला चौबीस वर्ष की अवस्था वाला पति आठ वर्ष की कन्या के साथ विवाह करे ॥९ ४ ॥ विमर्श — यह वचन योग्य समय का प्रदर्शकमात्र है, नियामक नहीं है, प्राय: इतनी अवस्था में मनुष्य वेदों का अध्ययन कर लेता है तथा युवक पति के तृतीयांश आयु वाली कन्या योग्य समझी जाती है, अतः यदि वेदाध्ययन पूरा कर लिया हो तो चौबीस वर्ष की आयु वाला युवक गृहस्थाश्रम में प्रवेश कर ले ।
विवाह की आवश्यकता-देवदत्तां पतिभार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ ९ ५ ॥
भाष्य — साध्वी भार्या प्रातिकूल्याप्रियवादादिदोषयुक्ताऽपि भर्त्रा न त्याज्येति श्लोकार्थः । अवशिष्टा प्रशंसा । यत् तु ‘ निरुध्यादेकवेश्मनी’त्यसाध्व्या अपि विहितं तत्सकृद्व्यभिचारे । अभ्यासे तु त्याग एव । नान्यथा तां साध्वीं बिभृयादित्यनेन किञ्चित्कृतं स्यात् । यद्यपि “ हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासये द्व्यभिचारिणीम् ॥ ’ ” ( याज्ञ ० १।७० ) – तच्च सत्यां शक्तौ पत्युरिच्छा सा । अनिच्छायां तु त्याग एव । यच्चेदं पतितास्वपि ‘ वस्त्रान्नदानं देयं चे ' त्यादि वक्ष्यति तद्ब्रह्महत्यादिषु प्राय-श्चित्तेषु भैक्ष्यभोजनारम्भे निर्वास प्राप्तौ प्रतिषेधवचनमिति वक्ष्यामः । सर्वथा तु पुनर्व्यभि-चारिण्या भरणं नास्ति । न चात्र त्यागः श्रुतो येन सम्भोगविषयतया कल्प्येत । ‘ “ सोमोऽददत् ” इत्यादिमन्त्रार्थवादेभ्यो ( ऋग्वेद १०।८५।४१ ) देवतानां दातृत्वं प्रतीयते । अथवा विवाहे देवताया भार्या भवत्यत उच्यते - देवदत्तामिति ।