मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 451–460
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 451–460
पृष्ठ 451
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] व्यवहारः । प्रतीयते । ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४११ ' पुत्रिका ' के दो भेद-अकृताया अपि दुहितुः पुत्रो मातामहधनभागित्युक्तम् । किं पुनः कृताया इत्येवम् । अन्यशेषत्वात्पुत्रिकाया विधिष्वानर्थक्यप्रसङ्गान्न दौहित्रस्य रिक्थप्राप्त्यर्थः । ननु च स्मृत्यन्तरे दौहित्रमात्रस्य पिण्डदानाधिकारः श्रूयते " मातामहानामप्येवमिति ” ( या ० १।२२८ ) । इहापि प्रकरणं हित्वा श्रुतिवाक्यसामर्थ्येन दौहित्रमात्रविषयतैव प्रति-पत्तुं न्याय्या । दद्यात्पिण्डं हरेद्धनमिति । तथापरमुक्तं “ दौहित्रो ह्यखिलं रिक्थम् ” ( मनु ० ९ ।१३२ ) इत्यादि । अत्रोच्यते । यदुक्तं मातामहानामिति तद्बहुवचनं किं व्यक्त्यपेक्ष्यमुत लक्षणया प्रमातामहाद्यभिप्रायेण । व्यक्तिपक्ष एकस्यैव मातामहस्य पिण्डदानं प्राप्नोति श्राद्धादिवत् । तच्च सपिण्डीकरणे कृते विरुद्धम् । एवं ह्याहुः ' अत ऊर्ध्वं त्रिभ्यो दद्यात् इति । अथापि “ पितुरन्यस्य सपिण्डीकरणमेव न करिष्यत " इत्युच्यते, तदपि न, निषेधाभावात् । लक्षणायाः सन्निकर्षो विशेषाभावाल्लक्षणविशेषपरिज्ञानेऽनवगमत्वमेव श्रुत्वादिबलेन च प्रकरणत्यागस्येति विरोधप्रसङ्गस्तं निवेशो हि पदार्थ: प्रकरणादुत्कृष्यते । द्वादशोपसदो हीनस्येतिवत् । अकृता वेत्यस्य चान्यपरत्वमुक्तम् । तस्मात्पात्रिकेयविषयमेतत् ॥१३६ ॥
लक्ष्यते । किं तर्हि? सम्बन्धिता नियम्यते । य एवंविधः कानीनस्तं वोढुः सम्बन्धिनं वदेदित्येकवाक्यतैव । सम्बन्धिता च पदार्थभेदे चाप्युपाधिभेदाद्भिद्यत एव । रहः प्रकाश-भेदेन । ( चैव मातामहस्य । अन्ये चाहुरिति पदार्थस्तु ) तदा कानीनशब्दस्य शब्दार्थ-सम्बन्धोऽबाधित एवावगन्तव्यः । तेन चापत्यमात्रो कानीनो भवति । भवतु पैतृके कानीने अन्ये तु स्मृतिमेव विशेषनिष्ठामाहुः । न हि कन्यापत्यमात्रे सर्वत्र कानीनशब्दः प्रयुज्यते । किं तर्हि, मानवस्मृतिलक्षिते । एतदप्यनुमन्यामहे ( निश्चिते प्रयोगाभावेऽवशेषस्मरणेऽपि पुण्यसिद्ध्यादितद्विशेषा-वगतिः प्रयोगतो न्याय्यैव ॥ १३५ ॥
हिन्दी — किसी प्रकार ( दुर्भाग्य आदि के कारण से ) विना पुत्र उत्पन्न किये ही ‘ पुत्रिका ’ ( ९ ।१२७ ) आदि मर जाय तो उसके पिता ( श्वसुर ) के धन को ' पुत्रिका ' का पति ही नि: सन्देह होकर ग्रहण करे ॥१३५ ॥
अकृता वा कृता वाऽपि यं विंदेत्सदृशात्सुतम् ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ १३६ ॥
भाष्य — अधस्तनोपरितनवाक्यपर्यालोचनया पुत्रिकापुत्रविषय एवायमतिशयोक्त्या
पृष्ठ 452
पाठ पढ़ें पाठ छिपाएँ
४१२ मनुस्मृतिः [ नवमः हिन्दी— ‘ पुत्रिका ' ( ९ ।१२७ ) की गयी अथवा नहीं की गयी पुत्री के गर्भ से समान जातिवाले पति के द्वारा उत्पन्न पुत्र से ही नाना पुत्रवान् होता है, ( अतएव ) वह ( पुत्र ) ही नाना के लिए पिण्डदान करे तथा पुत्र उसका सब धन प्राप्त करे ॥ १३६ ॥
विमर्श — गोविन्दराज का मत है कि अपुत्रिका ही कन्या तथा उसका पुत्र भी नाना के धन में पौत्रिकेय ( पुत्रिका के पुत्र ) के समान नाना आदि के वर्तमान रहने पर भी भाग प्राप्त करने का अधिकारी होता है; किन्तु पुत्रि का तो पुत्र- तुल्य होती है और अपुत्रिका तथा उसके पुत्र ( पुत्रतुल्य ) नहीं होते, अतएव उनके पुत्र भी तुल्य नहीं हो सकते, इस कारण वे पौत्रिकेय के समान नाना के वर्तमान रहने पर भी उसके धन का भागी नहीं हो सकते ।
पुत्र तथा पौत्रादि का धन भाग आदि-पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रघ्नस्याप्नोति विष्टपम् ॥ १३७ ॥
= भाष्य – पुत्रेण जातेन तत्कृतेनोपकारेण लोकान्स्वर्गादीन्दश विशोकान् जयति प्राप्नोति । तत्रोत्पद्यत इति यावत् । एवं पौत्रेणानन्त्यं तेष्वेव चिरन्तनकालमवस्थानं लभते । पौत्रस्य पुत्रेण ब्रघ्नस्य विष्टपमादित्यलोकं प्राप्नोति । प्राकाश्यमश्नुते न केनचित्त-मसा व्रियते ॥१३७ ॥
हिन्दी— ( पिता ) पुत्र से स्वर्ग आदि उत्तम लोकों को प्राप्त करता है, पौत्र ( पुत्र के पुत्र — पोते ) से उन लोकों में अनन्तकाल तक निवास करता है तथा प्रपौत्र ( पुत्र के पौत्र — परपोते ) से सूर्य लोक को प्राप्त करता है ॥१३७ ॥
विमर्श - ' स्त्री आदि के रहने पर भी पिता के धन में पुत्र का और उस ( पुत्र ) के अभाव में पौत्र ( तथा प्रपौत्र ) का भाग होता है ' यह निर्देश करने के लिए दाय भाग के प्रकरण में यह वचन कहा गया
' पुत्र ' शब्द का अर्थ-पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयं भुवा ॥ १३८ ॥
भाष्य — अपत्योत्पादनविधिशेषोऽयमर्थवादः पुंनामनरकं चतुर्विधभूतोत्पत्तिः पृथिव्यां व्यपदिश्यते । ततस्त्रायते पुत्रो जात:
देवयोनौ जायत इत्यर्थः ।
तस्माद्धेतोः पुत्र इति व्यपदिश्यते ॥१३८ ॥
पृष्ठ 453
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४१३ हिन्दी — जिस कारण पुत्र " पु " नामक नरक से पिता की रक्षा करता है, उस कारण से स्वयं ब्रह्मा ने उसे ‘ पुत्र ' कहा है ॥१३८ ॥
पौत्र तथा पौत्रिकेय की समानता-पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ १३ ९ ॥
भाष्य — अत्रापि दौहित्रः पुत्रिकापुत्र एवं विज्ञेयः । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् । अयमप्यर्थवाद एव । विहितत्वादर्थस्य । एतयोर्विशेषो नास्ति । एकस्य माताऽन्यकुलीनाऽपरस्य पिता । तस्माद्दोहित्रोऽ-प्यमुत्र लोक एनं प्रेतं सन्तं सततं संतारयति नरकात्पूर्वस्मात् ॥१३९ ॥
हिन्दी — संसार में पौत्र ( पोता - पुत्र के पुत्र ) तथा दौहित्र ( धेवता - पुत्री के पुत्र ) में भेद नहीं सिद्ध होता; क्योंकि दौहित्र भी पौत्र के समान ही इस ( नाना ) का परलोक में उद्धार कर देता है ॥१३९ ॥
विमर्श - यह वचन पौत्र तथा दौहित्र में समानता का प्रदर्शक है और उनमें समानता सिद्ध होने पर पौत्र के समान ही दौहित्र को भी नाना के धन में भाग पाने का अधिकार बतलाने के लिए है । पौत्रिकेय ( दौहित्र ) कृत श्राद्ध करने में—
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ १४० ॥
भाष्य — ‘ स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च ' ( मनु ० ९ ।१३२ ) इत्यत्र पुत्रिकापुत्रपिण्डदानं मातामहप्रक्रममुक्तम् । तस्मादयमपरः क्रमः पुत्रिकापुत्रपिण्डदानस्य । मातुः प्रथमतः पिण्डं निर्वपेदित्येवमादि । द्वितीयं तु तस्या एव पितुरित्यनुमन्तव्यम् । ये तु पठन्ति ‘ पितुस्तस्येति ’ ' तत्प्रथमं पुत्रिकायै निरुप्य जनकाय निर्वपन्ति । तत्पितुः पितुरिति च जनकस्यैव पित्रे तृतीयम् । अस्मिंस्तु पक्षे मातामहाय पिण्डदानं नो स्यात् ॥१४० ॥
हिन्दी — पुत्रिका - पुत्र ( नाती - धेवता अर्थात् पुत्रिका - पुत्र, श्राद्ध करते समय ) पहला पिण्ड माता के लिए, दूसरा पिण्ड उसके पिता ( अपने नाना ) के लिए और तीसरा पिण्ड माता के पितामह ( अपने परनाना ) के लिए दे ॥१४० ॥
पृष्ठ 454
पाठ पढ़ें पाठ छिपाएँ
४१४ मनुस्मृतिः दत्तक पुत्र को भाग का अधिकार—
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव तद्रिक्थं सम्प्राप्तोऽप्यन्यगोत्रतः ॥ १४१ ॥
[ नवमः भाष्य - " न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः " ( मनु ० ९ ।१८५ ) इति सर्वपुत्राणां रिक्थहरत्वमुक्तम् । सति त्वौरसे प्रजीवनमात्रभाक्त्वं क्षेत्रजादीनाम् । “ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनमिति ' ॥ ( मनु ० ९ ।१६३ ) । अतोऽस्ति सिद्धमेव दत्रिमस्य रिक्थहरत्वम् । इदं तु वचनं सत्येवौरसे प्राप्त्यर्थ-मन्यथा न किञ्चिदनेन क्रियते । कियांस्तु तस्य भाग इति । विशेषादेशाभावात्सम औरसेनेति केचित् । तदयुक्तम् । साम्ये ह्यभिधीयमाने यथैव पुत्रिकाप्रकरणे पठितमेवमत्राप्यपठिष्यत् “ समस्तत्र विभागः स्यात् ” ( मनु ० ९ ।१३४ ) इति । तस्मात्क्षेत्रजवत्षष्ठपञ्चमादिभाग-कल्पना कार्येत्युच्यते । अत्राप्यस्ति वक्तव्यम् । यथैव भागविशेष उक्तः क्षेत्रजस्य “ षष्ठं तु क्षेत्रजस्यांशम् ” ( मनु ० ९ ।१६४ ) इति तथैव दत्रिमे वक्ष्यति । तस्मात्पुनर्वचने प्रयोजनं चिन्त्यम् । अत्राप्यस्ति वक्तव्यम् । यथैव भागविशेष उक्तः क्षेत्रजस्य " षष्ठं तु क्षेत्रजस्यां-शम् ” ( मनु ९ ।१६४ ) इति तथैव दत्रिमे वक्ष्यति । तस्मात्पुनर्वचने प्रयोजनं चिन्त्यम् । उपाध्यायस्त्वाह — पुनर्वचनाद्विशेषनिर्देशाभावाच्च क्षेत्रजान्यूना कल्पना युक्ता, न त्वभागता, नापि समभागता, न क्षेत्रजतुल्यतेति ॥ १४१ ॥
हिन्दी — जिसका दत्तक पुत्र सब गुणों से युक्त हो, परन्तु अन्य गोत्र से आया हो, तथापि वह पिता के धन को पाता ही है ॥ १४१ ॥
विमर्श — आगे ‘ पुत्रा रिक्थहराः पितुः ' ( ९ ।१८५ ) वचन से १२ प्रकार के पुत्रों का पितृधन में भाग लेना कहेंगे तथा ' दशापरे तु क्रमश: ' ( ९ ।१६५ ) इस वचन से औरस पुत्र के अभाव में दत्तकपुत्र का पितृ - धन में भाग स्वतः प्राप्त है; अतएव औरस पुत्र के विद्यमान होने पर विद्यादि गुणोंवाले दत्तकपुत्र को पितृधन में भाग - प्राप्ति का विधान करने के लिए यह ( ९ ।१४१ ) वचन कहा गया है और इस वचन के अनुसार अन्य गोत्र से आया हुआ भी दत्तकपुत्र पितृ - धन का भागी होता ही है । विशेष यह है कि ' एक एवौरसः पुत्रः...... ' ( ९ ।१६३ ) वचन के अनुसार औरसपुत्र का स्थान सर्वश्रेष्ठ होने से दत्तकपुत्र औरस के समान ( बराबर ) भाग को नहीं पाता, अपितु क्षेत्रजपुत्र के समान षष्ठांश हो पाता है । गोविन्दराज का मत है कि यह वचन ' औरसपुत्र के अभाव में सर्वगुणसम्पन्न दत्तकपुत्र
पृष्ठ 455
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ४१५ पितृ - धन का भागी होता है ' इसका प्रतिपादन करता है, किन्तु कृत्रिमादि निर्गुण पुत्रों को पितृ - धन का भागी होना तथा उसके प्रथम पठित दत्तक का सर्वगुणसम्पन्न होने पर ही पितृ - धन का भागी होना न्यायसङ्गत नहीं है । अतएव गोविन्दराज का मत युक्तिविरुद्ध होने से उपेक्ष्य है । दत्तकपुत्र को पूर्व पिता के धन पाने का अधिकाराभाव—
गोत्ररिक्ये जनयितुर्न हरेद्दत्रिमः क्वचित् ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ १४२ ॥
भाष्य — इतश्च भागहरत्वं दत्रिमस्य तूक्तम् । यतो जनयितुः सकाशाद्गोत्रं धनं च न हरति, वंशादपेतत्वात् । गोत्ररिक्थग्रहणाभावे च पिण्डमपि जनयित्रे न ददाति । गोत्र-रिक्थानुगो हि पिण्डो गोत्ररिक्थेऽनुगच्छति । यदीये गोत्ररिक्थे गृह्येते तस्मै पिण्डोदक-दानाद्यौर्ध्वदेहिकं क्रियते । व्यपैति तस्मान्निवर्तते । स्वधाकरसाधनं पिण्डश्राद्धादि लक्ष्यते । तदेतत् योऽन्य-स्मै स्वपुत्रं ददाति तस्मान्निवर्तते । न तस्य कर्तव्यमित्यर्थः । एष एव न्यायः कृत्रिमादीनां सहोढापविद्धद्व्यामुष्यायणानामुभयोपकारकत्वम् । अन्ये तु न हरेन्न हारयेदित्यन्तर्भावितण्यर्थं व्याचक्षते । तेनोभयस्यापि द्वया-मुष्यायणवदुपकर्तव्यमित्याहुः । उत्तरस्तूपकारोपक्रमः । तमेवं गमयन्ति । यदि गोत्ररिक्थे न हरेत्पुत्रस्तदा तु व्याख्येयम् । न चैतद्युक्तम् । न ह्यर्थान्तरभावे प्रमाणं वक्तव्यम् ॥१४२ ॥
हिन्दी — दत्तक पुत्र अपने पिता ( जिससे उसका जन्म हुआ है ) के गोत्र तथा धन कहीं भी नहीं प्राप्त करता है, इसलिए पुत्र को दूसरे के लिए देते हुए ( उत्पन्न करनेवाले ) पिता के गोत्र तथा धन सम्बन्धी स्वधा ( श्रद्धादि - कर्माधिकार ) नष्ट हो जाते हैं || १४२ ॥ कामजादि पुत्र को पितृ - धनभाग प्राप्ति का अधिकार-अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नार्हतो भागं जारजातककामजौ ॥ १४३ ॥
भाष्य — अपुत्रे भर्तरि मृते पुत्रोत्पादने स्त्रिया गुरुनियोगोऽपेक्षितव्य इत्युक्तम् । तस्यवायमनुवादः । या गुरुभिरनियुक्ता पुत्रार्थिनी पुत्रमुत्पादयेत् — ' क्षेत्रं किलाहं भर्तुः, क्षेत्रजश्च पुत्रस्त-र्थहर ' इत्यनया भ्रान्त्या — स तस्यां समुत्पन्नो न रिक्थहरः । यतः क्षेत्रजादिविशिष्टेन विधिनोत्पन्नस्य शास्त्रे क्षेत्रजव्यपदेशात् । तेनैव चास्य क्षेत्रजस्य रिक्थंहरत्वमत्र वार्यते । पिण्डदानं तु न निषिध्यते । यद्यपि पतितोत्पन्नो भवति ।
पृष्ठ 456
पाठ पढ़ें पाठ छिपाएँ
४१६ नारदस्तु विशेषं स्मरति— मनुस्मृतिः
“ जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा ।
अरिक्थभाजस्ते सर्वे बीजिनामेव तेसुताः ॥
“ दद्युस्ते बीजने पिण्डं माता चेच्छुल्कतो हृता । अशुल्कोपनतायां तु पिण्डदा वोदुरेव ते ॥ ” नवमः ( अ ० १३ श्लो ० १ ९ -२० ) ॥ इति सुतवचनात्कृत्रिमादिवदुत्पत्तिविध्यभावात्पुत्रमध्ये चापरिगणितत्वात् त्रैवर्णिकानां च बीजजाः प्रजीवनमात्रभागा, न रिक्थहराः । यतोऽविशेषेण सर्वपुत्राणां भर्तरि प्रेते स्मर्यते— ‘ ऊर्ध्वमपि पितुः ’ पुत्रोपकर्तव्यशिष्टस्य धनस्य विभाज्यत्वाल्लभेरन्नेव प्रजीवनम् । एव-मेवौरसादिपुत्रस्य सपिण्डबीजकाः प्रजीवनमात्रभागाः कर्तव्याः । रिक्थहरत्वं तु नास्ति । परिगणितपुत्रविशेषोद्देशेन रिक्थहरत्वस्य श्रवणात् । उक्तं चैतत् उक्तानां “ यद्येकरिक्थिनौ स्यातामिति ” ( मनु ० ९ ।१६२ ) । अत्रानेन च दर्शनेनानियुक्तासुतादय इतरत्रानंशत्वाद्वीजिनो रिक्थं लभेरन्निति । रिक्थं प्रजीवनपर्याप्तमेतद्विज्ञेयम् । उक्तत्वादस्या भागार्थ एव दासीव भण्यते । या “ सप्तैता दासयोनय ” ( मनु ० ८।४१५ ) इति निरूपिता यासां प्रयोगार्थमवगन्तव्यं क्रियते । तस्यां जातो न दासः सुतव्यपदेशाभावः शूद्रस्यापि तज्जा ब्राह्मणादिवत्प्रजीवनभाजः । अन्यस्त्वाह — नियतकर्मकरा अपि दासा भवन्ति । यथा स्नापकः प्रसाधकः पाचकः इति । एवं कामतोऽप्यवरुद्धा भक्ताच्छादनेन पोष्यमाणा दास्यो भवन्ति । एवं पुत्रिण्या-विद्यमाने पुत्रे आप्तो देवरान्नियुक्तयाऽपि । कथं पुनः पुत्रवत्या नियोगः । देवर एव कामार्थं नियुक्तिः । पुत्रोत्पादनव्यपदेशेनेत्यभिप्रायः । ‘ जारजातकत्व’मुभयो:, ‘ कामजत्वं ' तु पुत्रवत्यां जातस्य । आद्यार्थायां पुत्रार्थैव प्रवृत्तिर्न कामतो लोभेन ॥१४३ ॥
हिन्दी — अनियोग ( ९ ।५ ९ -६१ ) से उत्पन्न अथवा पुत्रवती स्त्री में नियोग ( गुरु आदि की आज्ञा से देवरादि से ) उत्पन्न पुत्र क्रमश: जार तथा कामवासना से उम्पन्न होने से पितृ धन के भागी नहीं होते हैं ॥१४३ ॥
नियुक्तायामपि पुत्रान्नार्याञ्जातोऽविधानतः ।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ १४४ ॥
भाष्य- अविधानतः शुक्लवस्त्रादिनियमत्यागो ' विधानाभावः । स नार्हति रिक्थं, नासौ क्षेत्रज इत्यर्थः । नियमत्यागेन देवरभ्रातृजाययोः पुत्रोत्पादने प्रवर्तमानयोर्युक्तं पति-तत्वम् । शास्त्रेण नियमितयोर्गमनानुज्ञानात् ॥१४४ ॥
पृष्ठ 457
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ४१७ हिन्दी - नियुक्त ( गुरु आदि की आज्ञा प्राप्त की हुई ) स्त्री में भी विधिहीन ( ९ ।५ ९-६१ के अनुसार घृताक्त आदि न होकर ) उत्पन्न किया गया पुत्र पितृ - धन का भागी नहीं
होता है; क्योंकि वह ( ९ ।६३ के अनुसार ) पतित से उत्पन्न हुआ है ॥ १४४ ॥
क्षेत्र पुत्र को पितृ - धन प्राप्ति का अधिकार-हरेत्तत्र नियुक्तायाञ्जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः ॥ १४५ ॥
भाष्य — यथौरस इत्येतदत्र विधीयते ज्येष्ठांशप्राप्र्त्यमन्यदा नोच्यते I । अनेन विधानेन ज्येष्ठांश उद्धारः क्षेत्रजस्य प्राप्यते ज्येष्ठभार्याजातस्य । अतश्च यत्पुत्रसमांशभाक्त्व ' मुप-सर्जनं प्रधानस्य'त्यनेन तस्यायमपवादः । उभयस्य च प्रामाण्यात् विकल्पितस्य च गुणापेक्षया व्यवस्था । न ह्यन्यदस्य श्लोकस्य प्रयोजनमस्ति, प्रागुक्तत्वात् सर्वस्य । क्षेत्रिकस्य क्षेत्रस्वामिनस्तद्बीजं तत्कार्यकरत्वात् प्रशंसयैवमुच्यते । अत एवाह धर्मतः धर्मेण शास्त्रीयया व्यवस्थया । तत्र प्रमाणान्तरं दृश्येन रूपेण प्रसवः अपत्यम् । अर्थवादः श्लोकः ॥ १४५ ॥
हिन्दी – नियुक्त ( ९ ।५ ९ -६१ ) स्त्री से उत्पन्न पुत्र औरस पुत्र के समान पिता के धन का भागी होता है; क्योंकि वह क्षेत्रज ( स्त्री का बीज ) है और धर्मानुसार सन्तान भी है । १४५ ॥ विमर्श - पहले ( ९ ।१२० ) क्षेत्रज पुत्र को पितामह के धन में पितृव्य ( चाचा, काका आदि ) के बराबर भाग पाने का अधिकार कह चुके हैं, अब श्रेष्ठगुणयुक्त पुत्र को औरस पुत्र के समान ही ' उद्धार ' ( ९।११२-११४ ) भाग पाने का अधिकार प्रतिपादन करने के लिए यह वचन कहा गया है ।
धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव च ।
सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ १४६ ॥
भाष्य — विभक्तधनस्य भ्रातुरभावे विधिरयमुच्यते । पूर्वस्तु सह वसतः । एतावान्पूर्वो-त्तरयोर्विध्योर्विशेषः । सोपत्यं भ्रातुरुत्पाद्य नियोगधर्मेणेति व्याख्येयम् । दद्यात्तस्यैव न पुनस्तदीयायै च मात्रे । अनेनैव च दर्शनेन स्त्रियो भरणार्हाः । न तु पतिधनैश्वर्य इति । अन्यथैव रक्ष्यमाण-त्वात् । तस्य तद्धनम् | ' तस्य ' विभक्तधनस्य ' धनं ' दद्यादिति ॥१४६ ॥
हिन्दी - नि: सन्तान मरे हुए ( बड़े ) भाई के धन तथा स्त्री की जो भाई रक्षा करे, वह ( छोटा भाई अर्थात् उस स्त्री का देवर ) नियोग ( ९ ।५ ९ -६० ) धर्म से स्त्री में सन्तान उत्पन्न करके मृत भाई का सब धन उसी पुत्र को दे देवे ॥१४६ ॥
पृष्ठ 458
पाठ पढ़ें पाठ छिपाएँ
४१८ मनुस्मृतिः
याऽनियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् ।
तं कामजमरिक्थीयं मिथ्योत्पन्नं प्रचक्षते ॥ १४७ ॥
[ नवमः भाष्य — अनियुक्तेति प्रश्लेषो द्रष्टव्यः । पूर्वोक्तेन च विरोधो यतः तथा सत्यनर्थक इति चेदुक्तः पौनरुक्त्यपरिहारः तत्र तत्र । पूर्वे तु न तमिच्छन्ति । ततश्चेयं व्याख्या । नियुक्तायामपि जातः पैतृकं रिक्थं नार्हति । कामजमिति । यत्तु उत्तर उच्यते । यद्यपि नियोगात्प्रवर्तते न कामात्तथापि तत्र कामोऽवश्यम्भावी अत उच्यते । तं कामजमिति । मिथ्योत्पन्नं यदर्थमुत्पादितस्तत्कार्यानर्हत्वादेवमुच्यते । एवं च पूर्वोक्तस्य भागार्हत्वस्य प्रतिषेधोऽयमतश्च विकल्पितम् । अनियुक्तेति पाठे पुनः पाठान्न सङ्गच्छेतेतरामित्युपाध्यायः ॥१४७ ॥
हिन्दी — कामवशीभूत जो स्त्री नियोग ( ९ ।५ ९ -६१ ) से दूसरे ( सपिण्ड व्यक्ति ) या देवर से पुत्र प्राप्त करे, उस पुत्र को मनु आदि महर्षि कामजन्य, पितृधन का अनधिकारी और वृथोत्पन्न बतलाते हैं ॥ १४७ ॥
विमर्श — मुख से ( चुम्बनादि के लिए ) मुख का, शरीर ( हाथ आदि ) से ( स्तनादि का ) स्पर्श बचाते हुए तदवशिष्ट कुल में सन्तान के लिए ( सम्भोग कर ) पुत्रोत्पादन करे, काम ( वासना ) से न करे — इस नारद वचन के अनुसार पुत्रोत्पत्ति नहीं करने पर वह पुत्र कामजन्य कहा जाता है और वह पितृधन का भागी नहीं होता ।
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु ।
बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ १४८ ॥
- एकयोनिषु एकजातीयजानां सर्वहरत्वमेव । भाष्य -1 नानास्त्रीषु नानाजातीयास्विदानीं व्याचक्षते । बह्वीष्वित्यनुवादः । अन्ये तु विवक्षितं मन्यन्ते । नानाजातीयासु बह्वीषु जातानां वक्ष्यमाणा ‘ चतुरो-शान्हरेदि ' ( मनु ० ९ ।१५३ ) त्यादि भागव्यवस्था । एकस्यां तु विजातीयायां कदापि न प्रयुज्यते तस्येहासम्भवादग्रहणम् ॥१४८ ॥
हिन्दी - ( भृगुमुनि ऋषियों से कहते हैं कि ) समान जातिवाली स्त्रियों में एक पति से उत्पन्न पुत्रों का यह ( ९ ।१०३ - १४७ ) विभाग- विधान ( बटवारे का नियम ) जानना चाहिये । जब अनेक जातियों वाली बहुत - सी स्त्रियों में उत्पन्न पुत्रों के विभाग ( हिस्से ) को ( आपलोग ) ज्ञात करें ॥१४८ ॥।
अनेकजातीय माताओं में उत्पन्न पुत्रों का भाग-ब्राह्मणस्यानुपूर्व्येण चतस्त्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ १४ ९ ॥
पृष्ठ 459
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा’हिन्दीटीकासहिता ४१ ९ भाष्य- - अनुपूर्वग्रहणं तृतीये दर्शितस्य क्रमस्यानुवादः । अयमपि वक्ष्यमाण-संक्षेपप्रतिज्ञानार्थः ॥ १४ ९ ॥ हिन्दी – यदि ब्राह्मण ( पति ) की ब्राह्मणी आदि चारों वर्णों ( ब्राह्मणी, क्षत्रिया, वैश्या तथा शूद्रा ) की स्त्रियाँ हों तो उनमें उत्पन्न पुत्रों का यह ( ९ ।१५० - १५५ ) में कहा जानेवाला ) विभाग का विधान है ॥१४ ९ ॥
कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।
विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ १५० ॥
भाष्य- —कीनाशो वाहः । तथा च मन्त्रः “ इन्द्र आसीत्सीरपतिः, कीनाशा आसन्मरुतः, यथा सुतं कीनाशा अभियंतु वाहैरिति ” । यानं गन्त्र्यादिः । अलङ्कारः पितृधृताङ्गुलीय-कादिः! वेश्म प्रधानम् । एकांशश्च यावन्तोंऽशास्तत एक: प्रधानभूतस्तस्य दातव्यः । ज्येष्ठस्य एतन्मध्यकादुद्धृत्य शिष्टं वक्ष्यमाणकल्पनया विभजनीयम् ॥१५० ॥
हिन्दी— ब्राह्मणी में उत्पन्न पुत्र के लिए खेती करने योग्य एक बैल, ( या हल तथा बैल ), सवारी ( घोड़ा आदि ), भूषण, घर, इनमें से जो श्रेष्ठ हो, उनको सब भागों में से एक भाग देना चाहिये ॥ १५० ॥
त्र्यंशं दायाद्धरेद्विप्रो द्वावंशी क्षत्रियासुतः ।
वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ १५१ ॥
भाष्य — सत्यप्येकत्वश्रवणो द्विबहुष्वपि समांशेष्वेषैव कल्पना दर्शिता । विषम-संख्येषु तु कल्पना ॥ १५१ ॥
हिन्दी – ( पूर्व ( ९ -१५० ) वचनानुसार ' उद्धार ' भाग करने के बाद बचे हुए पितृ धन में से ) तीन भाग ब्राह्मणी का पुत्र, दो भाग क्षत्रिय का पुत्र, डेढ़ भाग वैश्या का पुत्र और एक भाग शूद्रा का पुत्र पाता ॥१५१ ॥
विमर्श - यदि केवल ब्राह्मणी तथा क्षत्रिया के ही पुत्र हों तो उस प्रकार से ' उद्धार ' भाग निकालने के बाद बचे हुए पितृ - धन का पाँच भागकर उनमें से तीन भाग ब्राह्मणी के पुत्र का तथा दो भाग क्षत्रिय के पुत्र का होता है । इसी प्रकार ब्राह्मणी तथा वैश्या के ही पुत्र हों तो उद्धार से बचे हुए पितृधन में से साढ़े चार भाग करके तीन भाग ब्राह्मणी के पुत्र का तथा डेढ़ भाग वैश्या के पुत्र का होता है, इसी प्रकार तीनों वर्णवाली स्त्रियों में किसी एक या दो स्त्री को पुत्र न होने पर कल्पना कर विभाजन करना चाहिये ।
सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च ।
धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ १५२ ॥
पृष्ठ 460
पाठ पढ़ें पाठ छिपाएँ
४२० मनुस्मृतिः । [ नवमः भाष्य — रिक्थजातं धनरूपम् । धर्मप्रवचनाद्धर्म्यम् । पूर्वोक्तं नानुमन्यते, वक्ष्य-माणप्रतिज्ञाश्लोकात् ॥१५२ ॥
हिन्दी – अथवा सम्पूर्ण ( पूर्व ( ९ / १५० ) के अनुसार ' उद्धार ' भाग निकालने पर ( बचे हुए ) पितृ धन के दश भागकर धर्मज्ञाता पुरुष ( ९ / १५३ ) इस प्रकार से विभाजन करे॥१५२ ॥
चतुरोंऽशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः 1 वैश्यापुत्रो हरेत् द्व्यंशमंशं शूद्रासुतो हरेत् ॥ १५३ ॥
भाष्य — इह विशेषेणापि क्षत्रियादिपुत्राणां भागश्रवणे स्मृत्यन्तरे विशिष्टयोरागमयो-रन्यो भागविशेषः श्रूयते— न प्रतिग्रहभूर्देया क्षत्रियायाः सुताय वै यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥ ( बृहस्पतिस्मृति ) इति । प्रतिग्रहोपात्ता ‘ प्रतिग्रहभूः ’ । क्रयाद्युपात्ताया न निषेधः । तथाऽन्यत्र पठ्यते— " शूद्रायां तु द्विजाज्जातो न भूमेर्भागमर्हति ' इति भूमिमात्रस्य शूद्रापुत्रे निषेधः । एतच्च यत्रान्यद्धनमस्ति तद्विषयं द्रष्टव्यम् । अन्यथा दशमांशवचनमुपतिष्ठेत । धनान्तराभावे च जीविंकैव न स्यात् । अहं तु ब्रुवे भागदानं तु निषिध्यते, प्रजीवनार्थत्वं चोपकल्पनमनिवारितमेव । को विशे इति चेत् — भागपक्षे सर्वेण सर्वत्र स्वत्वोत्पत्तौ दानविक्रयादिष्वपि युज्यते । इतरत्र तूपजीवनं तदुत्पन्नस्य । व्रीह्योदनं च प्रजीवनं ब्राह्मणीपुत्रादेव शूद्रो लभते, किं भूमि-भागकल्पनया । तथा चोक्तं— “ लभते तद्वृत्तिमूलमंतेवासिविधिनेति ’ ” ( गौ ० २८।३ ९ ) । सत्यम् । पितृधननिमित्तं तु तस्य प्रजीवनं कल्पयितव्यम् । भागकाले च यदि न कल्प्येत, तदा द्विजातयो भ्रातरः कदाचिदसद्वृत्तयो निमित्तान्तरतो वा दानविक्रयादि-नाऽपहरेयुः । उच्छिद्येत तदाऽस्य जीवनम् । विकल्पिते तु तदीयामनुज्ञामन्तरेण न लभन्तेऽन्यत्र नियोक्तुम् ॥१५३ ॥
हिन्दी – पूर्वोक्त वचनानुसार दश भाग किये गये पितृ - धन में से चार भाग ब्राह्मणी का पुत्र, तीन भाग क्षत्रिय का पुत्र, दो भाग वैश्य का पुत्र और एक भाग शूद्रा का पुत्र लेवे ॥१५३ ॥
विमर्श - यहाँ भी इस वचन के अनुसार विभाग करने के पक्ष में यदि ब्राह्मणी तथा क्षत्रियों के ही पुत्र हों तो उक्त ( ९ ।१५० ) ' उद्धार ' भाग निकालने के बाद बचे हुए पितृधन के सात भागकर उनमें से चार भाग ब्राह्मणी का पुत्र तथा तीन भाग क्षत्रिया का पुत्र प्राप्त