मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 481–490

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 481–490

पृष्ठ 481

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 481 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४४१ भाष्य— अर्थिता सम्प्रयोगेच्छा रतिनिमित्तम् । तस्यां सत्यां विवहेत् । तत्रोत्पन्न-सन्तानो नामापत्यं पुत्रो दुहिता वा दायं रिक्थविभागमर्हति । दुहितुर्यावान्भागः प्रागुक्तः । “ वान्तरेतास्तु यः क्लीबस्तस्य भवत्येव मैथुनेच्छा । कुतः पुनस्तस्य तन्तूत्पत्तिः ” । उक्तं च तस्य “ यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य " ( ९ ।१६७ ) इति । रागप्रयुक्तता वाऽनेन श्लोकेन विवाहस्य दर्शिता । धर्मप्रयुक्तत्वे ह्यनधिकृतानां कर्मसु कुतस्तेषां विवाहः । उपनेयता च जात्यन्धपङ्गूनां वातरेतसः क्लीबस्य दर्शिता । उन्मत्तादयस्त्वनुपनेयाः कुतस्तेषां विवाहः । आदिग्रहणं चोक्तविषये चरितार्थम् । यदि हि आदिग्रहणसामर्थ्यात्सर्व एव गृह्ये-` रन्पतितोऽपि गृह्येत । तच्च स्मृतिविरोधान्नेष्टम् । अथवा कृताध्ययनानां कृतविवाहानामुन्मत्तादिरूपे समुपजाते विधिरेष विज्ञेयः । “ ननु च कृतविवाहानां ‘ यद्यार्थिता तु दारैरिति ' नोपपद्यते ” । नैतदेवम् । कृतविवाहानां जायार्थितायाः सम्भवात् । पूर्वैस्तु धर्म्येऽपि विवाहेऽस्य प्रयोजनं दृष्टम् । ततश्च क्लीबस्य स्मार्तेष्वधिकारा-त्तदर्थो विवाहोऽसत्यामप्यर्थितायां युक्त एव । जातपुत्रस्याधानात्क्लीबस्य नाधिकारः । यस्य च प्रयोजकत्वं युक्तं तद्दर्शितम् ॥। २०३ ॥ हिन्दी- -इन नपुंसक, पतित आदि ( ९ ।२०१ ) को किसी प्रकार विवाह करने की इच्छा हो तो ( इनके विवाह होने पर ) उत्पन्न ( नपुंसक की क्षेत्रज तथा पतितादि की औरस ) सन्तान उनके धन पाने की अधिकारिणी होती है ॥२०३ ॥

अविभक्त धन के अधिकारी-यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति ।

भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ २०४ ॥

पितृक्रमागतान्मित्राद्राजामात्यपुरोहितादेर्वा क्षेत्राद्वा चिद्युक्त्याऽधिकोत्पत्तिं जनयेत्तत्सर्वेषांं साधारणम् । नैव मन्तव्यं ‘ मयैत्बुद्ध्या पित्रा प्रागनुपार्जितं मयैतल्लब्धं ममैवैतदिति ' । विद्यानुपालिन इति वचनाद्विद्याजीविनां शिल्पिकारुकप्रभृतीनामेष विधिर्वैद्यनट-“ गायनादीनाम् ॥२०४ ॥

हिन्दी - पिता के मरने के बाद यदि बड़ा भाई अपने पुरुषार्थ से धनोपार्जन करे तो उस धन में पढ़े - लिखे छोटे भाइयों का भाग होता है ( मूर्खों का नहीं ) ॥२०४ ॥

पृष्ठ 482

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 482 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४२ मनुस्मृतिः [ नवमः अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् । कोड समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ २०५ ॥

भाष्य — अविद्या ‘ कृषिवाणिज्यराजोपसेवादि ' तत्र ईषन्यूनाधिकभावो न गण-यितव्यः । तत्रापि यदि केनचिदपि बह्वर्जितं तदाऽस्त्येवऽविभागता । ज्येष्ठस्य तु ज्येष्ठांशनिषेधार्थं वचनम् ।

ईषदाधिक्ये तु सर्वेषां समांशकल्पना ।

अपित्र्य इति हेतुवचनादनपत्यधनस्याप्येष एव विधिः ॥२०५ ॥

हिन्दी — बिना पढ़े लिखे सब भाइयों के प्रयत्न ( खेती, व्यापार आदि ) से यदि धन प्राप्त हो तब पितृ - धन को छोड़कर उस प्रयत्नोपार्जित धन में से ज्येष्ठ भाई का उद्धार ( अतिरिक्त भाग ) नहीं होता, ( किन्तु पिता के धन में से ही वह उद्धार भाग होता है ) ऐसा शास्त्रीय निर्णय है ॥२०५ ॥

विद्यादि प्राप्त धन की अविभाज्यता-विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् ।

मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥ २०६ ॥

भाष्य — ‘ विद्यया ’ अध्यापनादिना शिल्पकौशलेन वा । तथा मित्रात् । अर्जितम् । औद्वाहिकं चैव माधुपर्किकमार्त्विज्येन । यद्यप्येतदपि विद्याधनं भवति तथापि याजनेन

निमित्तेनोपादीयमानत्वाद्भेदेन व्यपदिश्यते ।

श्वसुरगृहलब्धमौद्वाहिकम् । अपने उद्वाहनिमित्तेन यद्धनं लभ्यते ॥२०६ ॥

हिन्दी — विद्या से, मित्र से, विवाह में और मधुपर्क के समय पूज्यता के कारण जिसको जो धन प्राप्त हो; वह धन उसी का होता है ॥२०६ ॥

विमर्श- - कात्यायन ने ' विद्याधन ' के निम्नलिखित भेद कहे हैं — दूसरे से भोजन पाकर पढ़ी हुई विद्या के द्वारा उपार्जित धन; पणपूर्वक विद्या के द्वारा उपार्जित धन; शिष्य से यज्ञ में ऋत्विक् कार्य कराने से, दान से, सन्दिग्ध प्रश्न के निर्णय से उपार्जित धन, अपने ज्ञान से, वाद से तथा बहुत धन में प्राप्त हुआ धन । ' अतएव मेधातिथि का १. तदुक्तं कात्यायनेन—

' परभक्तप्रदानेन प्राप्ता विद्या यदाऽन्यतः ।

तथा प्राप्तं च विधिना विद्याप्राप्तं तदुच्यते ॥

उपन्यस्ते च यल्लब्धं विद्यया पणपूर्वकम् ।

विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥

शिष्यादात्विज्यतः प्रश्नात्सन्दिग्धप्रश्ननिर्णयात् । विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ॥ ' इति । ( म ० मु ० )

पृष्ठ 483

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 483 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

उअध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४४३ म्माधुपर्किक धन को ऋत्विक् कार्य कराने से प्राप्त धन कहना ठीक नहीं; क्योंकि उसकी ग्गणना विद्याधन में ही हो जाती है । सशक्त भाई के भागग्रहण में उपेक्षा करने पर—

भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा ।

स निर्भाज्यः स्वकादंशात्किञ्चिद्दत्वोपजीवनम् ॥ २०७ ॥

भाष्य- - ये भ्रातरः सह वसन्ति विद्यमानपितृधनाश्च कृष्यादिना व्यवहरन्ति तेषां य्यद्येको न व्यवहरेत्तस्येयं निर्भाज्यता पठ्यते स निर्भाज्यः स्वकादंशादिति । भागान्ने-त्तव्योऽपसारयितव्यः | स्वाकादंशाद्यावदधिकं तदीयाद्धनाद्व्यवहारेणोत्पन्नं तत्तस्य न व्दातव्यं, न तु मूलधनस्य पैतृकस्य निषेधः तत्रापि न सर्वेण सर्वं निर्भाज्यं, किञ्चिदन्योप-ज्जीवनं क्लेशफलमात्मनो गृहीत्वा शिष्टमस्मै दातव्यम् । अथवा निर्भाज्यः पृथक्कार्यः सह वस्तुं न देयम् । कदाचिदुत्तरकालशक्तिसाधा-ग्रण्येन धनेनार्जितत्वात्समांशता । तत्र भागकल्पना नारदेन दर्शिता । तत्र वचनेनोद्गतस्य निर्गतस्य भूयान्भागो गृह्यतेऽनुक्तस्य स्वल्प इति ॥२०७ ॥

हिन्दी – भाइयों में से अपने उद्योग में समर्थ जो भाई पिता के धन से भाग लेना नहीं चाहे, तब सब भाई पिता के धन में से कुछ भाग देकर उसे अलग कर दें ॥ २०७ ॥

विमर्श - ऐसा करने से उसके पुत्र पितामह के धन में से भाग लेने के लिए विवाद नहीं कर सकते ।

अविभाज्य धन-अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् ।

स्व्यमीहितलब्धं तन्नाकामो दातुमर्हति ॥ २०८ ॥

भाष्य— विद्यानिमित्तस्य स्वयमर्जितस्यादानमुक्तम् । अनेन व्यतिरिक्तस्य कृष्यादि-लब्धस्यादातव्यतोच्यते । " ननु चायमेव श्लोको वक्तव्य: - - ' ' स्वयमीहितेन स्वयं चेष्टया यल्लब्धं तन्ना-कामो दातुमर्हतीति ' किं विद्याधनादिश्लोकेन ” | उच्यते । मैत्रे विवाहादौ न सर्वस्य स्वयमीहोपपत्तिरिति भेदेन व्यपदेशः ॥ २०८ ॥

हिन्दी - पिता के धन को नष्ट नहीं करता हुआ यदि कोई पुत्र केवल अपने पुरुषार्थ ( व्यापार आदि ) से उपार्जित धन में से किसी के लिए कुछ नहीं देना चाहे तो वह ( अपने पुरुषार्थ से उपार्जित धन में से ) किसी को कुछ नहीं देवे ॥२०८ ॥

पृष्ठ 484

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 484 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः [ नवमः

पितामह के अप्राप्त धन का अविभाजन -पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।

न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ २० ९ ॥

भाष्य — ग्रहणादन्यदर्थयन्पित्रा स्वयमर्जितं तदाकामो न विभजनीयोऽधिकार-प्राप्तौरपि पुत्रैः । “ कः पुनर्जीवति पितरि पुत्राणां विभागकालः ” । उच्यते । यदा तावत्स्वयं पिता पुत्रान्विभजते । तदुक्तम् — “ निवृत्ते रजसि मातु-र्जीवति वेच्छतीति ” ( गौ ० २८।२ ) तथा " मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणे पितर्युपरतस्पृहे ” ( नारद १३।३ ) इति । अन्यथा तु यदैव प्राप्ताःपुत्रा भवन्ति तदैव ते पितामहधनस्येशते । तथा चोक्तं— “ भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः || ” ( या ० व ० स्मृ ० २।१२१ ) इति ॥ सत्यपि च पुत्रस्य स्वाम्ये यावदप्राप्तास्तावत् सर्वथा विशेषाभावात्सर्वे पितामह-धनमाजः स्वत्वपूर्वकत्वाद्विभागस्य । बन्धक्रयादिक्रियासु पितृधनं जातपुत्रेण न नियोक्त-व्यम् । योगकुटुम्बभरणादौ तु विनियोगो दर्शितः । आचारेण सत्यपि चास्यामवस्थायां पुत्राणां स्वाम्ये ‘ पित्रा चाकामेन विभक्तानिति ' निन्दादर्शनाद्वलाद्विभाजयन्तः पापा इत्य-नुमीयते । यथाऽसकृत्प्रतिग्रहेण भवति स्वाम्यं दोषस्तु पुरुषस्य । तेनान्वयागतमितीदृश-मशुद्धमेव । अतः सम्भवत्युपायान्तरे न पिताऽर्थनीयः I । अधर्मो हि तथा स्यात् । स्वयमर्जितमपि धनमधिकारप्राप्तान्गुणवतः पुत्रान् ज्ञात्वा विभक्तव्यमेव । उक्तं च— “ वयसि स्थितः पिता पुत्रान्विभजेत् ज्येष्ठं श्रेष्ठांशेनेतरान्समैरंशैः ” इति । न चैतत्पितामह-धनविषयम् । न हि तत्र पिता ज्येष्ठस्याधिकांशदानाय प्रभवति । तुल्यत्वादुभयोः स्वाम्यस्य । यत्त्विदं “ न्यूनाधिकविभक्तानां धर्म्य: पितृकृतः स्मृतः ” ( या ० व ० स्मृ ० २।११६ ) इति तत्पितामहेऽपि स्वल्पया मात्रयेच्छन्ति । यत्र न परिपूर्णं भागद्वयं गृहीतं स्वयमर्जित-विषये ह्यपवाद एव स्यात् ॥२० ९ ॥ हिन्दी — पिता अपनी असामर्थ्य के कारण उपेक्षित जिस पैतृक धन को नहीं पा सका है, उस ( पैतामहिक ) धन को यदि पुत्र अपने पुरुषार्थ से प्राप्त कर ले और उसमें से दूसरे भाइयों को भाग नहीं देना चाहे तो न देवे ॥ २० ९ ॥

पुनः सम्मिलित किये धन का अविभाजन-विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि ।

समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ २१० ॥

पृष्ठ 485

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 485 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अअध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता भाष्य – स्पष्टार्थः श्लोकः । ४४५ विभागधर्मे विभागस्योद्धारप्रत्याशङ्कानिवृत्त्यर्थं, “ अपित्र्य इति धारणेति ” ( ९ ।२०५ ) क्वचनात् । पित्र्यस्य सर्वधनस्योद्धारः । इह तु भूतपूर्वगत्या पित्र्यं नास्तीत्याशङ्कया ववचनम् ॥२१० ॥

हिन्दी — पहले कभी अलग हुए भाई पुनः सम्मिलित होकर एकत्र रहने लगें और प्फिर कभी अलग होना चाहें तो उस समय तक भाइयों का समान भाग होता है, बड़े भाई क्का ‘ उद्धार ' ( ९।११२-११५ ) अर्थात् अतिरिक्त भाग नहीं मिलता है । २१० ॥

विदेशादिगत भाई के भाग का लोपाभाव-येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।

म्रियेनान्यतरो वापि तस्य भागो न लुप्यते ॥ २११ ॥

भाष्य- - येषां भ्रातॄणां ज्येष्ठः कनिष्ठो वा भ्रातांशप्रदानाद्धीयते । ‘ अंशप्रदानं’-विभागकाल: । ‘ हीयते ’ पातित्याद्यविभागार्थं च हेतुमासादयेत् । म्रियेत वा । तस्य भागो

न्न लुप्यते । तस्येयं प्रतिपत्तिः ॥२११ ॥

हिन्दी — जिन भाइयों में से बड़ा या छोटा भाई ( विदेश जाने या संन्यासी होने आदि बॅंके कारण ) भाग से रहित हो जाय अर्थात् अपना भाग नहीं पावे या मर जाय तो उसके * भाग का लोप ( नाश ) नहीं होता है ॥ २११ ॥

सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।

भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ २१२ ॥

भाष्य - सोदर्या भ्रातरो येषां संसृष्टोर्थे, ते गृह्णीयुः । भगिन्यश्च सनाभयः । सोदर्या अप्रत्तास्ता हि सनाभिव्यपदेश्याः । प्रत्ताः पुनः पतिगोत्रभावन्तीति न भ्रातॄणां ' सनाभयः ' ये च संसृष्टा इति चशब्दो भगिनीं समुच्चिनोति । न त्वियमाशङ्का कर्तव्या-“ सोदर्या गृह्णीयुर्ये च भ्रातरः संसृष्टा ” इति । तथा सत्यसोदर्याणामपि संसृष्टानां भाग: प्रसज्येत । सन्त्येव सोदर्या असंसृष्टा: संसृष्टाश्च । संसृष्टा असंसृष्टाश्च सोदर्या यत्र सन्ति, तत्रोभयोरपि विभागेन विभागं गृह्णीयुः । न चेदं विरुध्येत ।

“ अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् ।

असंसृष्टोऽपि वा दद्यात्सोदर्यो नान्यमात्रिकः ॥ ” ( याज्ञ ० २।१३ ९ ) ॥

अस्यायमर्थः । सापत्नो भ्राता सत्यपि संसृष्टित्वे न गृह्णाति । यदा सोदर्योऽसंसृष्टो-

पृष्ठ 486

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 486 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४६ मनुस्मृतिः [ नवमः ऽपि विद्यते सोदर्याणां मध्याद्येन संसृष्टः स एव नान्यः, सत्यपि सोदर्यत्वे । तदुक्तं— “ संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः ” ( याज्ञ ० २।१३४ ) इति । यदा तु सोदरा नैव सन्ति तदायैरेव सापत्नैः संसृष्टस्य एव गृह्णीयुर्न त्वितरे । सोदर्यविभक्तानां सह वसतां महा-निकटमावसत्यपि सान्निध्यं विशेषकार्यं सामान्योत्थं विभक्तानामपि विज्ञायत इत्याहुः । तेन विभक्तानामप्यन्यतरप्रमेये सोदर्य एव गृह्णीयान्नास्य भागः परिलुप्यते । न चैतच्चोदनीयं “ नैवास्य तदानीं भाग उत्थितः परलोको वा चिन्त्यते । ” यत उक्तम्— “ समुत्पन्नो वाच्यः स्वामीति ” । “ अनोशास्ते हि जीवतो: ” ( ९ ।१०४ ) इति तत्र पितुरूर्ध्वं समनन्तरमेव पुत्राणां स्वाम्यं दर्शयति ॥ ११२ ॥

हिन्दी— ( किन्तु उसके पिता, माता, स्त्री या पुत्र नहीं हों तो ) सब सहोदर भाई और बहनें तथा सपत्नी - पुत्रों ( सौतेले भाइयों ) में से जो सम्मिलत रहते हों, सभी मिलकर उसके भाग में से समान - समान भाग परस्पर में बाँट लें ॥२१२ ॥

वञ्चक ज्येष्ठ भाई का उद्धाराभाव-यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातृन्यवीयसः ।

सोऽज्येष्ठः स्यादभागश्च नियंतव्यश्च राजभिः ॥ २१३ ॥

भाष्य - विनिकारो राजपूजादिष्ववज्ञा परे धनेन वचनम् । अज्येष्ठो बन्धुवत्पूज्य इत्युक्तम् । न सर्वेण सर्वे ज्येष्ठवृत्तिनिषेधः । अभागकत्वं च ज्येष्ठांशानर्हत्वम् । नियन्तव्यम् । अविशेषोपदेशात् । वाग्दण्डधिग्दण्डाभ्यां धनं चार्थानुरूपेऽ-पराधे ॥२१३ ॥

• हिन्दी – जो ज्येष्ठ भाई लोभ से छोटे भाइयों को ठगे ( पिता के धन में से उन्हें उचित भाग न दे या कम दे ), वह ज्येष्ठ भाई के आदर को नहीं पाता, उसका ' उद्धार ' ( अतिरिक्त भाग — ९।११२-११५ ) भी नहीं मिलता तथा वह राजा के द्वारा दण्डनीय होता है ॥२१३ ॥

विकर्मियों को भाग की अप्राप्ति-सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।

न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ २१४ ॥

भाष्य - विकर्मस्थाः प्रतिषिद्धाचरणाः । कुटुम्बार्थे चानुतिष्ठमानानां तेषामन्येषां भ्रातॄणां सम्बन्ध्युपविष्टं स्थापयेद्य — दा ते वक्ष्यन्ते कुतस्तद्धनमिति तदा मूलं दर्शयिष्यामीति ' तादृशं वृद्धिसहितमपि सर्वेषामपि दापयेत् । यदि तु तस्मिन्नेव काले भ्रातॄणां दर्शयेदिदमधिकं दृश्यते तद्यथांशं गृह्णीताहमपि

पृष्ठ 487

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 487 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य'मणिप्रभा ' हिन्दीटीकासहिता ४४७ स्वतस्तत्पृथक्कृत्य वृद्धिं नेष्यामीति ' तदा नास्ति तेषां भागः । तस्यैव तद्यौतकम्॥२१४ ॥

हिन्दी– ( पतित नहीं होने पर भी ) शास्त्रविरुद्ध ( जुआ खेलना, मद्य पीना, वेश्या-गमन करना आदि ) करनेवाले सभी भाई पिता के धन के भागी ( हकदार ) नहीं होते हैं तथा ज्येष्ठ भाई छोटे भाइयों के भाग को बिना पृथक् किये अपने लिए कुछ भी धन ( पिता के धन में से ) नहीं लेवे ॥। २१४ ॥ पिता के जीवित रहने पर उपार्जित धन का समभाग-भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथञ्चन ॥ २१५ ॥

भाष्य- — यदुक्तं— “ न्यूनाधिकविभक्तानां धर्म्य: पितृकृतः स्मृतः ” ( याज्ञवल्क्य २।११६ ) इति तस्यास्मिन्विषये प्रतिषेधः । सहोत्थानं सर्व एव धनमर्जयन्तीत्यर्थः । कश्चित्कृष्यादिना कश्चित्प्रतिग्रहेण कश्चि-त्सेवया कश्चिद्यथाहृतं परिरक्षति यथोपयोगमसन्निहितेषु विनियुंक्ते । तत्सर्वमेकीकृत्य समं विभजनीयम् । न स्नेहादिना कस्मैचित्पत्राऽधिकं देयम् ॥२१५ ॥

हिन्दी – यदि सम्मिलित रहते हुये सब भाई साथ में ही धनोपार्जन करें तो पिता किसी प्रकार भी किसी पुत्र को अधिक भाग को कदापि न देवे ॥२१५ ॥

पितृधन विभाजन होने के बाद पुत्रोत्पन्न होने पर-ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ २१६ ॥

भाष्य— विभागोत्तरकालं पित्रा यद्विभागे भागद्वयं गृहीतं " द्वावंशौ प्रतिपद्येते ” इति तदेव सत्यां पितुरिच्छायां ग्रहीतव्यम् । पितुरूर्ध्वं वा । न तत्र भ्रातृभिर्वाच्यं “ किमित्ययं द्वावंशौ गृह्णातीति ' । अथ च नास्ति पितुरिच्छा, तदा समं च स्वसमोऽस्य भाग उद्धर्तव्यः । ये पितुरूर्ध्वं संसृष्टास्तेषामेव स पैतृकोंऽशः । तदुत्थं दद्यात् । अपरेषां स्वांशं “ जातस्य च मृतस्य च ' इति । जातस्य संसृष्टिन एव दद्युः । पितुरूर्ध्वं तदीयमंशं च तत एव । ‘ विभक्ताः सह ' ( ९ ।२१० ) इत्यनया बुद्ध्या । “ भगिन्या आ प्रसवान्नैव विभागोऽस्ति ” इति वसिष्ठेन दर्शितम् ॥ २१६ ॥

हिन्दी — पिता के जीवित रहते ही उन पुत्रों की इच्छा से उनमें धन का विभाजन ( बँटवारा ) होने पर यदि कोई पुत्र उत्पन्न हो तो वह पुत्र पिता के मरने पर उसके धन का भागी होता है तथा यदि कुछ भाई विभाजन होने पर भी पिता के साथ मिलकर रहने लगें तोबाद में उत्पन्न पुत्र पिता के मरने पर उसके साथ मिलकर रहनेवाले भाइयों के साथ

पृष्ठ 488

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 488 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४८ मनुस्मृतिः सभी धन में से समान भाग प्राप्त करता है ॥ २१६ ॥

सन्तानहीन पुत्र के धन का अधिकारी-अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।

मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ २१७ ॥

भाष्य — व्याख्यातोऽयं श्लोकः ॥ २१७ ॥

हिन्दी – सन्तानहीन ( दादी ) लेवे ॥२१७ ॥

पुत्र के धन को माता [ नवमः लेवे तथा मर गयी हो तो पिता की माता विमर्श — पहले ( ९ ।१८५ ) पुत्रहीन पुत्र के धन का अधिकार पिता के लिए कह चुके हैं और इस वचन द्वारा माता को अधिकार कहा गया है, अतएव महर्षि याज्ञवल्क्य ( २।२३५ ) तथा विष्णु के वचनानुसार ' माता तथा पिता — दोनों ही पुत्रहीन पुत्र के धन को समान भाग में प्राप्त करते हैं । उत्तरार्द्ध का आशय यह है कि यदि माता मर गयी और पुत्रहीन उसके पुत्र, स्त्री, पिता, भाई और भतीजे नहीं हों तो उसके धन को उसकी पितामही ( दादी ) को मिलता है । ऋण तथा धन का समान विभाग —

ऋणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि ।

पश्चाद् दृश्येत यत्किञ्चित्तत्सर्वं समतां नयेत् ॥ २१८ ॥

-भाष्य — अविज्ञानान्न्यूनमधिकं वा विभक्तं परतो ज्ञातं समांशकीकर्तव्यम् । किञ्च विभागोत्तरकालं लब्धे नास्ति ज्येष्ठस्योद्धार इति ॥२१८ ॥

हिन्दी — पिता के धन तथा ऋण का विधिपूर्वक विभाजन ( बँटवारा ) करने के बाद यदि पिता का कोई धन या उसके द्वारा लिया हुआ ऋण शेष रह गया हो तो उसको सब भाई बराबर - बराबर बाँट लें ( उस धन में से ज्येष्ठ भाई को ‘ उद्धार ' अर्थात् अतिरिक्त ( ९।११२-११५ ) नहीं मिलेगा ॥२१८ ॥

अविभाज्य वस्तु-वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ।

योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ २१ ९ ॥

भाष्य- –वस्त्रपत्रालङ्कारकृतान्नोदकानामेकत्वं विवक्षितम् । पत्रं वाहनं गन्त्रीशकटादि । अलङ्कारोऽङ्गुलीयकादि । वस्त्रं सममूल्यं, न तु १. विष्णुना च — ' अपुत्रस्य धनं पल्यमभिगामि तदभावे दुहितृगामि तद मा दे पितृमायि ’ इत्येकशेषस्य कृतत्त्वात् ' इति ( म ० मु ० )

पृष्ठ 489

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 489 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४४ ९ महार्घम् । उदकं कूपवाप्यादि । स्त्रियो दास्यः । योगक्षेमं यतो योगे क्षेमो भवति, मन्त्रिपुरोहितामात्यवृद्धाः वास्तु च । चौरादिभ्यस्ततो रक्षा भवति । स्मृत्यन्तरे च पठ्यते— ' वास्तुनि विभागो न विद्यते ' । प्रचारं यंत्र गावश्चरन्ति । प्रवेत्रे (? ) त्याह । तेन यत्पैतृकेनोक्तं ‘ न ह्यत्र धर्मातिक्रमः कश्चिदस्तीति ' तदनुपपन्नं दर्शयति । अदृष्टासु

हि ते प्रतिषेधाः । तदतिक्रमादधर्मो न स्यात् ॥२१९ ॥

हिन्दी - वस्त्र, वाहन, आभूषण, पक्वान्न, जल ( कूप आदि सार्वजनिक जलस्थान स्त्रियाँ ( दासियाँ ), मन्त्री, पुरोहित आदि योगक्षेमसाधक मार्ग इनको ( मनु आदि महर्षि ) विभाज्य मानते हैं ॥२१९ ॥

विमर्श - वस्त्र, वाहन, भूषण आदि का उपभोग विभाजन के पूर्व जो करता हो, वह उसी का होता है, उसका विभाजन नहीं किया जाता; किन्तु यदि वे बहुमूल्य हों और उसके मूल्य में बहुत अधिक अन्तर हो तो उनको बेचकर या उसका मूल्य लगाकर उनका विभाजन करना चाहिये । इसी प्रकार पक्वान्न सत्तू आदि का भी विभाजन मूल्य में सामान्य अन्तर रहने पर नहीं होता, किन्तु बहुत अधिक मूल्य होने पर कच्चे अन्न से बदलकर उनका विभाजन होता ही है तथा सामान्य कार्य करनेवाली दासियों का भी विभाजन नहीं होता, किन्तु उनसे सामान्य कार्य करवाना चाहिये ।

द्यूतकर्म-अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः ।

क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ २२० ॥

हिन्दी – ( महर्षि भृगुजी मुनियों से कहते हैं कि मैंने ) आप लोगों से वह विभाजन का विधान तथा ( क्षेत्रज आदि ) पुत्रों के भाग ( हिस्से ) का प्रकार क्रमश: कहा, अब आप लोग द्यूतकर्म को सुनिये ॥।२२० ॥

द्यूतादि का निषेध-द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् ।

राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ २२१ ॥

हिन्दी- - राजा के अपने राज्य से द्यूत तथा समाह्वय ( ९ ।२२३ ) को दूर करना चाहिये; क्योंकि ये दोनों दोष राजा के राज्य को नष्ट करने वाले हैं ॥ २२१ ॥

प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ ।

तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत् ॥ २२२ ॥

हिन्दी - द्यूत तथा समाह्वय ( ९ ।२१३ ) ये दोनों ही प्रत्यक्ष में चोरी करना ( डाका

पृष्ठ 490

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 490 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५० मनुस्मृतिः [ नवमः डालना ) है अतएव उनको रोकने में राजा को सर्वदा प्रयत्नशील रहना चाहिये ॥२२२ ॥

द्यूत तथा समाह्वय के लक्षण-अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।

प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ २२३ ॥

हिन्दी — बिना प्राणी ( कौड़ी, पाशा, तास, तीर आदि की निशानेबाजी तथा सट्टा आदि ).के द्वारा बाजी लगाकर खेलना ' द्यूत ' ( जुआ ) तथा प्राणियों ( मुर्गा, तीतर, बटेर आदि पक्षिय एवं भेड़ा आदि को लड़ाकर तथा कुत्ता, घोड़ा आदि दौड़ाकर - कुत्तारेस, घोड़ारेस आदि ) के द्वारा बाजी लगाकर खेलना ' समाह्वय ' कहलाता है ॥२२३ ॥

द्यूतादि करने वालों को दण्ड-द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ।

तान्सर्वान्घातयेद्राजा शूदांश्च द्विजलिङ्गिनः ॥ २२४ ॥

हिन्दी - जो मनुष्य द्यूत तथा समाह्वय ( ९ ।२२३ ) खेलें या खेलावें, उनको तथा यज्ञोपवीत आदि ब्राह्मण के चिह्नों को धारण करने वाले शूद्रों को ( राजा ) हाथ आदि कटवाकर दण्डित करे ॥२२४ ॥

कितवादि का देशनिर्वासन—

कितवान्कुशीलवान्क्रूरान्पाषण्डस्थांश्च मानवान् ।

विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ २२५ ॥

हिन्दी – जुआरियों ( जुआ खेलने या खेलानेवाले ), कुशीलवों ( नाचने गानेवाले ), वेद - शास्त्र के विरोधियों, पाखण्डियों ( श्रुति - स्मृति में अकथित व्रतादि धारण करनेवाले ), आपत्तिकाल नहीं होने पर भी दूसरों की जीविका करनेवाले और मद्य बनानेवाले मनुष्यों को राजा राज्य से शीघ्र ही बाहर निकाल दे ॥ २२५ ॥

कितवादि को राज्यनिर्वासन में कारण-एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ २२६ ॥

हिन्दी - राज्य में रहने वाले गुप्त और चौर – ये ( पूर्व श्लोकोक्त कितव आदि ) विरुद्धाचरण से सज्जन प्रजाओं को पीड़ित करते रहते हैं ॥२२६ ॥

उपहासार्थ भी द्यूत का निषेध-द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् ।

तस्माद्द्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ २२७ ॥