मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 531–540

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 531–540

पृष्ठ 531

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 531 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४ ९ १ संस्कारस्य च विशेषो नियमोऽभिप्रेतः, स्नातकव्रतानि च ' विशेषो ' हृदयङ्गमा-भिरित्यादेरुपनयनादेर्वा बालस्यैव विधानात् । क्षत्रियवैश्ययोस्त्वतीतशैशवयोरेका-दशद्वादशयोः । अतो हेतोर्वर्णानां ब्राह्मणः प्रभुः शासिता ॥ ३ ॥

के पुनरमी वर्णा नाम मनुष्यजातिवचनोः वर्णशब्दो नेत्याह हिन्दी — जाति की विशिष्टता से, उत्पत्ति - स्थान ( ब्रह्मा के मुख ) की श्रेष्ठता से, ( अध्ययन, अध्यापन एवं व्याख्यान आदि के द्वारा ) नियम ( श्रुति स्मृति विहित आचरण ) के धारण करने से और यज्ञोपवीत संस्कार आदि की श्रेष्ठता से सब वर्णों में ब्राह्मण ही वर्णों का स्वामी है ॥ ३ ॥

द्विजवर्ण कथन-ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।

चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥४ ॥

भाष्य — चत्वारो वर्णा ब्राह्मणाद्याः शूद्रपर्यन्ताः । अन्ये तु बर्बरकैवर्तादयः संकीर्णयोनयो यथा वक्ष्यन्ते । तत्र चतुर्णां त्रयो द्विजातयः, उपनयनस्य तेषां विहित-त्वात् । एकजातिः शूद्रो, न हि तस्योपनयनमस्ति । उपनयनविधौ ब्राह्मणादिवर्ण-विशेषसंयोगात् । “ अष्टमे ब्राह्मणमुपनयोतैकादशे राजन्यं द्वादशे वैश्यम् ” इति । न कस्मिंश्चित्काले शूद्रं पठन्ति । “ ननु कालविशेषानुपादानादनियतकालं शूद्रोपनयनमस्तु । ” भवेद्यद्यसंयुक्ता सामान्येनोपनयनस्योत्पत्तिः स्यात् । एताश्च वर्णकालविशेषयुक्ता निमित्तार्थाः स्तुतयः स्युः । न तु पृथगुत्पत्तिरस्यास्ति । तत्कस्य प्रमाणस्य सामर्थ्येना-स्योपनयनमनियतकालं क्रियताम् । “ यद्येवं किं तर्ह्यनेन चतुर्थ एकजातिरिति " सत्यम् । आशङ्कामात्रनिवारणार्थम् । ' मन्त्रवर्जं तदुच्यत ' इति अमन्त्रकस्या-नियतकालस्य प्राप्तिराशङ्कयेपत । “ ननु च पाकयज्ञविधावेतद्वाक्यं तत्सन्निधौ श्रवणात्तत्र कृतार्थं नान्यत्र भवितु-मर्हति ” ।

अत एवाशङ्कामात्रमित्युक्तम् । परमार्थतस्तु व्यवहारनियमार्थपरः श्लोकः ॥४ ॥

हिन्दी - ब्राह्मण, क्षत्रिय और वैश्य ये तीन वर्ण ' द्विजाति ' ( या ' द्विज ' ) हैं, और चौथा एक वर्ण शूद्र है, पाँचवाँ ( वर्ण कोई भी ) नहीं है ॥४ ॥

पृष्ठ 532

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 532 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ २ मनुस्मृतिः सजातीय कथन — चिड़ि सर्ववर्णेषु तुल्यासु

पत्नीष्वक्षतयोनिषु ।

आनुलोभ्येन सम्भूता जात्या ज्ञेयास्त एव ते ॥५ ॥

[ दशमः भाष्य — के पुनरमी ब्राह्मणादयो नाम । न ह्येषां परस्परो भेदः शक्योऽवसातुम् । व्यक्त्यधीनाधिगमा हि जातयो न च व्यक्तयः स्वावयवसन्निवेशविशेषावगमशून्याः शक्नुवन्ति तासां भेदमावेदयितुम् । न च ब्राह्मणक्षत्रियादीनां गवाश्वस्येव वाऽऽकारभेदो-ऽस्ति, येन रूपिसमवायाच्चक्षुष्यः स्युः । नापि विलीनघृततैलगन्धरसादिभेदेन क्रिया-न्तरगोचरा: । नापि शौचाचारपिङ्गलकेशत्वादिभिर्धर्मैः शक्यभेदावसानाः, तेषां सर्वत्र संकरोपलब्धेः । व्यवहारश्च पुरुषाधीनो, विप्रलम्भभूयिष्ठत्वाच्च पुरुषाणां नान्ततो वस्तु-सिद्धिः । इत्यतो जातिलक्षणमुच्यते । सर्ववर्णेष्वेतल्लक्षणं जातेर्यत्तुल्यासु समानजातीयासु सम्भूतासु पत्नीषूढासु जाता-स्त एव जात्या ज्ञेयाः । प्रायेण मातापित्रोर्या जातिः सैवापत्यस्योढायां जातस्य वेदितव्या । सम्बन्धिशब्दत्वात्पत्नीग्रहणास्यातो वोढा ' पिता ' लभ्यते 1 । तेन येनैवोढा तत एव यस्तस्यामेव जातस्तदा तज्जातीयो भवति । अक्षतयोनिग्रहणं पुनर्विवाहसंस्कारेण पत्नीत्वमाशङ्कमानं निवर्तयति । सहो-ढकानीनमातॄणां च । “ ननु च नैवैतासां विवाहसंस्कारोऽस्ति, " पाणिग्रहणिका मन्त्राः कन्यासु ” ( ८।२२६ ) इति वचनात् । यदपि “ वोढुः सगर्भो भवति ” ( ९ ।१७३ ) इति विवाहश्रवणेन शास्त्रीय-संस्कारप्रतिपत्तिः, प्राप्तिमात्रवचनत्वात्तस्य न विहितवचनीयं प्रत्यभिज्ञानमस्ति । तस्मात्-स्वीकारमात्रे धातुर्वर्तते स्वीकर्तुरित्यर्थः । पित्रादीन् वंचयित्वा येनैव स्वीकृत । तस्यैव सा भवति; ततः पुत्रश्चेति तस्यार्थः । पुनर्भसंस्काराभावात् । सा चेदक्षतयोनिः स्यात् ” ( ९ ।१७६ ) इति पठ्यते । गतप्रत्यागतायामपि पुनः शब्दप्रत्यभिज्ञानाद्भर्तुरुक्ताः । न च ताभिः सहाभिः सहाधिकारोऽस्ति । यज्ञसंयोगेऽस्ति पत्नीशब्दः । अतोऽक्षतयोनि'-शब्दोऽतिरिच्यते । अत्र पूर्वे पत्नीशब्दपर्यायेण नारीष्विति पठन्ति तदपि न किंचित् केवले ह्यक्षतयोनिशब्दे त्वसंस्कृतास्वपि जातास्तज्जातीयाः स्युः । पत्नीशब्दपाठेन शास्त्रीयेण विधिना या संस्कृता भार्यात्वमापादिता सा गृह्यते । यास्तु कुमार्य एवोप-गम्यन्ते भवन्ति ता ‘ अक्षतयोनयो ' न तु ' पत्न्यः ' । तस्मादक्षतयोनिशब्दस्य प्रयोजनं वाच्यम् ” । उच्यते । यत्तावदुक्तं ‘ न ताः ' पत्न्यो ' यज्ञसंयोगाभावादिति ' यदि विवाह्येरन् स एव यंज्ञः स्यात् । तत्रापि पूषवरुणार्यम्णामस्त्येव यागः । समानार्थौ च यागयज्ञशब्दौ ।

पृष्ठ 533

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 533 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ॰तस्मात्स्युरेव पत्न्यः । अकन्यात्वादविवाह्यतयैव न पत्न्य इति युक्तम् । ४ ९ ३ अतश्चानर्थक्येऽक्षतयोनिशब्दस्य प्रयोजनमुच्यते । दृश्यते लक्षणयाऽसत्यपि यज्ञ-• संयोगे पत्नीशब्दः प्रयुज्यमानो लोके रजकस्य पत्नी । यथाऽन्यत्रावरुद्धासु स्त्रीषु गृहिणी-ःशब्दः सोऽपि भार्यावचन एव केनचिद्धर्मसाम्येन तत्रापि प्रयुज्यते । यद्यपि सति मुख्ये ग्लक्षणा न न्याय्या, तथापि मन्दधियां सुहृद्भूत्वा आशङ्कामात्रं निवर्तयति । किंनाम • नाशङ्क्यते मूढमतिभिः । आनुलोम्यग्रहणमुत्तरार्थम् । येऽपि ‘ त एव त ' इति पठन्ति तेषामपि स एवार्थस्तज्जातीया इति । अत्रोच्यते । “ किं प्रमाणमूलमेतस्मृतिकाराणां स्मरणम् । अमकार्यरूपत्वान्न धर्मा-` धर्मोपदेशतुल्यम् । प्रमाणान्तरञ्च नास्तीत्युक्तम् । स्मृत्यन्तरमूलत्वेऽन्धपरम्पराप्रसङ्गः · प्रमाण - श्लोके दर्शितः ” । उच्यते । वृद्धव्यवहार एव मूलं साधुत्वस्मृतिवत् । ननु च सापराधाऽसावित्युक्तम् । अत एव नियामिकाः स्मृतयः फलवत्यः । अभियुक्तस्मरणमन्यथेति न शक्यते वक्तुम् । शास्त्रस्थाः प्रसिद्धाः प्रमाणतराः । सम्भवति च तेषामनादिव्यवहारो मूलम् । एतत्स्मृतिसंस्कृतानां वावगताभिजनजातीयानां प्रत्यक्षमप्युपपद्यत इति केषाञ्चि-द्दर्शनम् । एतत्स्मृतिविवेके प्रपञ्चितम् । ननु च स्मृत्यन्तरे नायं विशेषोऽस्ति “ सवर्णेभ्यः सवर्णासु जायन्ते हि सजातय: । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः || ” ( याज्ञ ० ११ ९ ० ) इति । आद्येनार्धन जाति-र्लक्ष्यते । उत्तरेण हि ब्राह्मादिविवाहजातानां संतानवर्धनत्वम् । तत्र सवर्णेभ्यः सवर्णा-स्विति नात्र पत्नीशब्दोऽस्ति । कथं नास्ति । यावता “ विन्नास्वेष विधिः स्मृत ” ( याज्ञ ० १।९ २ ) इति । मा वा भूत् । अविशेषस्मृतेर्विशेषस्मृतिर्बलीयसी । अदर्शनाद्दर्शनं बलीयः । यत एकेन विशेषो न दृष्टोऽपरेण दृष्ट सम्भवत्येतत् । अतोऽभियुक्तस्मरणं सम्भवन्मूलतया प्रमाणम् । “ ननु चाव्याप्तेरलक्षणमेतत् । न हि सहोढकानीनपौनर्भवादीनामनेन ब्राह्मण्यं भवति । ‘ कुण्डगोलकयोः क्षेत्रजस्य च अनभिप्रेतमेव तत्तेषामिति ' चेत् का तर्हि तेषां जाति: । कुण्डगोलकयोश्च असति ब्राह्मण्ये श्राद्धे प्राप्त्यभावादनर्थको निषेधः स्यात् । स्मृत्यन्तरविरोधश्च । “ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः " ( या ० व ० व्य ० १३३ )

पृष्ठ 534

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 534 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ४ मनुस्मृतिः [ दशमः इति । किं च यदेव लक्षणं तदेव लक्ष्यम् । अनि लक्ष्यं भवति । निर्ज्ञातं लक्षणम् । यथा को देवदत्त इति संशयेऽङ्गदी कुण्डली व्यूढोरस्को वृत्तबाहुः । इह तु यथा कश्चित् ब्रूयात्कः काक इत्युक्ते काकाज्जात इत्युत्तरं तादृगेव ' को ब्राह्मणो ' यो ब्राह्मणाज्जात इति । जनकेऽपि हि ब्राह्मण्यमप्रसिद्धमेव । न्यायविरोधश्च । सजातीयात्सजातीयायां जातः स लोके सजातीयो भवति । यथा गोर्गवि गौरश्वाद्वडवायामश्वः । अत्रोच्यते । यत्तावदुक्तं का तेषां जातिरिति - किमन्यया जात्या । मनुष्या-स्तावद्भवन्ति । पुरुषधर्मैश्चाधिक्रियन्ते अनुपात्तजातिविशेषैः । पुत्रत्वाच्छ्राद्धादिभिश्च । दाने च सर्वेषामधिकारः । “ ननु च विशेषस्योपदेशेन विना व्यवहारो न सिध्यति । सर्वसाधारणत्वान्-मनुष्यजातेः ” । असदेतत् । सर्वस्यैव स्वसंज्ञाविशेषो विद्यते । प्रतिपुरुषं देवदत्ती यज्ञदत्त इति । अथापि सम्बन्धव्यपदेश: कर्तव्य इति “ कानीनः सहोढ " इत्येव व्यपदिश्यते । ‘ सोऽपि चातुर्वर्ण्ये सद्भावात्सामान्यरूप एवेति ' चेद्देवदत्तस्य कानीन इत्यादि जनकेन व्यपदेशः करिष्यते । तस्मादसम्बद्धमेतद्यदुच्यते व्यवदेशः कथमिति । एवं तर्हि सर्व एव धर्माश्चातुर्वर्ण्यं प्रतिबोध्यन्ते ' अन्तरप्रभवानां च ” ( मनु १।२ ) । तत्र बहुत्वं ब्राह्मणादिजातिचतुष्टयविषयम् । न चैतेषामप्येकजातिः । सर्वजातिष्वेतस्य लक्षणस्य प्रवृत्तेः । यथैव ब्राह्मणादूढायां ब्राह्मण्यां जातो ब्राह्मणः, एवं क्षत्रियादयोऽपि समजातायमातृपितृजाताः । सर्वविशेषाभावे च कुतः सामान्यम् । न हि शिंशपादिसर्व-विशेषाभावे वृक्षत्वसम्भवः । अन्तरप्रभवाश्चानुलोमप्रतिलोमाः । तत्रानुलोमा मातृजातीयाः । प्रतिलोमास्तु धर्म-हीना अन्यत्राहिंसादिभ्यः । ते च सर्वे स्वसंज्ञाभिर्विशेषतो निर्दिष्टाः । न चैषां नामापि तत्रास्ति । “ तत्र कतमे ते धर्मा यत्रामी अधिक्रियेरन् । क्व च तद्वचनं यदेतानधिकुर्वीत । न हि कश्चिज्जातिविशेषः स्त्रियो धर्मविधिरस्ति 1 । सर्ववर्णानामन्तरभावानां चेति ' शास्त्राद-धिकृतत्वाच्च ” । उच्यते । यत्तावदसिंहादिषु चातुर्वर्ण्यवचनं तन्नरमात्रोपलक्षणार्थमेव । सत्यपि प्रतिलोमाधिकारे मुख्यार्थवृत्तेः । प्रत्युत सहचारिजात्यन्तरपरत्वमेव लक्षयितुं क्षमं नान्त-राऽवस्थातुमर्हति । तत्रैव च वक्ष्यामः । इदं चास्ति । " शूद्राणां तु सधर्माण: सर्वेऽ-पध्वंसजाः स्मृताः ” ( मनु ० १०।४१ ) इति । ' अपध्वंसो ' ऽसंस्कारः । स चाष्टविधः । ‘ व्यभिचारेण वर्णानाम् ' ( मनु ० १०।२४ ) इत्यादिनोक्तः । व्यभिचारः परस्त्रीषु गमनं

पृष्ठ 535

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 535 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४ ९ ५ सजातीयासु । अन्यद्वक्ष्यामः । तस्मादसत्यपि वर्णत्वे वाचनिक एव तेषामधिकारः । क्षत्रियस्य तु मातृजातीयत्वमेव, लिङ्गदर्शनात् । पुत्रोद्व्यामुष्यायणस्य संविधाना-दितिकर्तव्यताविशेषः श्रुतः । अन्येष्वपि श्रौतेषु तस्य विधानान्तरं दृश्यते । तस्मादेष ब्राह्मणादिजातीय एव समभागः स्वपितृव्येण, " तस्माद्धर्मेण तं भजेत् ” इति । न च यथोक्ते विधौ तद्युक्तम् । तदा ह्ययं शूद्रधर्मा । धनस्य यज्ञार्थतायामुक्तायां कुतस्तस्य तावद्भागः । कुण्डगोलकौ क्षेत्रजावेव । शिष्टसमाचारश्चैवमेव । पाण्डुधृतराष्ट्रविदुराः क्षेत्रजाः सन्तो मातृजातीयाः । अतो युक्तः श्राद्धे प्रतिषेधः । किं च पतितोऽपि तत्र प्रतिषिद्धः, यस्य सर्वधर्मबहिष्कृतत्वात्प्राप्त्याशङ्कैव नास्ति । यत्तु सजातीयेष्यपि स्मृत्यन्तरं तदुक्तानुवादत्वाद्यथासम्भवं कार्यपुत्रविषयतया वा । यच्च निर्ज्ञातं लक्षणं भवति तत्किं ब्राह्मणार्थो नैव लोकप्रसिद्धः । यत्र ब्राह्मणादि-शब्दः प्रयुज्यते तत्रापध्वंसनिवृत्त्यर्थं वचनम् । मातापित्रोरेतदेव जातिलक्षणम् । न चा-नवस्था, अनादित्वात्संसारस्य । प्रस्तुतन्यायविरोधस्तु साक्षात् व्यवसायगम्यत्वे आसां जातीनां स्यात् । तास्तु स्मृतिलक्षणाः यथास्मरणं भवितुमर्हन्ति । यथा वा वसिष्ठादयः शब्दा अन्तरेणैवा-न्वयधर्ममनवच्छिन्नस्मृतिपारम्पर्यं कैश्च विदितार्थेषु प्रयुज्यन्ते, भवन्ति व्यवहारहेतवो वसिष्ठ ब्राह्मणा ‘ वासिष्ठा: ' शृण्वंतीति । तद्वदेतद्द्रष्टव्यम् । यथा समाने ब्राह्मणत्वे केचिद्भृगवो वत्सा भारद्वाजा इत्यादिविशेषः स्मृत्येकप्रमाण:, तथैव समाने पुरुषत्वेऽमी ब्राह्मणा अमी क्षत्रिया इत्यादिरुपपन्नो व्यवहारः । यैरपि लिङ्गदर्शनत्वेन जाबालश्रुतिरुक्ता " सत्यकामो जाबालो मातरमपृच्छत्किं-गोत्रोऽहमस्मीति । सैवं प्रत्यब्रवीत्, बह्वहं चरन्ती परिचारिणी यौवने त्वामालभे नाहं तद्वेदेति ”, स एवमुपश्रुत्य हारिद्रुमतं गौतममियाय । तं होवाच ब्रह्मचर्यं भवतो विवत्स्यामि । स एवमुवाच । किंगोत्रस्त्वमसीति । स प्रत्युवाच । अपृच्छं मातं सा माता प्रत्यब्रवीत् “ यौवने त्वामि’त्यादि I । गौतमो न चैतदब्राह्मणो वक्तुमर्हति समिधं सोम्या-हर उप त्वानेष्ये ". अस्यायमर्थः । बहुभिरहं यौवने पुंभिः संगताऽभूवं न जाने केन जातोऽसीति । गौतमस्तु सत्यवचनान्निश्चिकाय ब्राह्मणेनायं जातस्ततस्तमुपनिन्ये-ऽतो मन्यामहे स्वैरिणीष्वप्यनूढासु समानजातीयाज्ज्जातासु तज्जातीया भवन्ति ” । तदेतन्न किंचित् । यतो यौवने त्वामालभे, यौवने किल न स्मृतिर्दृढीभवति । उत्कलिकाबहुलत्वाद्यौवने चेतसः । किंच परिचारिणीपरिचारिकाहेतोः क्षुधापीडिता बहु-विचरन्ती नैकस्मिंस्थाने, ततो मे न स्मृतिरस्ति भर्तुः किं गोत्रमिति ।

पृष्ठ 536

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 536 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ६ मनुस्मृतिः [ दशमः अतः स्थितमेतत्समानजातीयोढायां जातास्तज्जातीया इति । गौतमस्यापि न ततो वचनाद्ब्राह्मणोऽयमित्यवगमः । प्रागेवासौ तं ब्राह्मण इति वेद I । गोत्रं तु न वेद । गोत्रप्रश्नेन चरणप्रश्नो वेदितव्यः । तत्र उपनयनभेदोऽस्ति । न तु गोत्रभेदेनोपनयने प्रयोजनम् । ननु यथा केंचिदाहुः “ जातिप्रश्नोऽयमाभिजात्याद्गोत्र एव जातिमवगमिष्यामि, साक्षाज्जातिप्रश्ने हि मुखरता स्यात् ” ॥५ ॥

हिन्दी— ( इन पूर्वोक्त ) सब वर्णों ( ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र ) अथवा योनि-समान जातिवाली स्त्रियों में क्रमशः उत्पन्न सन्तान ' सजातीय ' कहलाते हैं || ५ || विमर्श - ब्राह्मण वर्णवाले पिता से ब्राह्मण वर्णवाली माता में उत्पन्न सन्तान सजातीय होगी, भिन्न वर्णवाली माता में उत्पन्न सन्तान ' सजातीय ' नहीं होगी ।

पिता की जाति के समान जाति होना-स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् ।

सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ ६ ॥

भाष्य — अनन्तरास्वव्यवहितास्वानुलोम्येन य उत्पन्नाः पुत्रास्ते सदृशा ज्ञेयाः, न तु तज्जातीया: । यथा ब्राह्मणात्क्षत्रियायां क्षत्रियाद्वैश्यायाम् । तेन सदृशाः, न तु त एव । अत्र हेतुः मातृदोषविगर्हितान् । तत्सदृशग्रहणान्मातृत उत्कृष्टान्पितृतो निकृष्टान् । द्विजैरिति बहुवचननिर्देशान्मातृश्च ग्रहणादानुलोम्येष्वेतत्सम्भवति । प्रातिलोम्ये पितृतो ग्रहणेन मातृतः, पितुर्निकृष्टजातीयत्वात् । अत आनुलोभ्यग्रहणं पूर्वश्लोके । यदुक्तमुत्तरार्थमिति तदिहानर्थकम् । अत: परेषु

श्लोकेषूपदिश्यते ॥ ६ ॥

हिन्दी — द्विजाति ( १०।४ ) के द्वारा बादवाले वर्ण की स्त्रियों में ( ब्राह्मण से क्षत्रिया में, क्षत्रिय से वैश्या में तथा वैश्य से, शूद्रा में ) उत्पन्न किये हुए माता के ( हीन वर्णवाली होने से ) दोष से निन्दित पुत्रों को पिता के समान जातिवाला कहा गया है ॥६ ॥

विमर्श - ' पिता की समान जातिवाला ' का तात्पर्य पिता की जाति से कुछ हीन तथा माता की जाति से कुछ श्रेष्ठ जातिवाला समझना चाहिये । इनमें ब्राह्मण पिता से क्षत्रिय माता में उत्पन्न पुत्र ' मूर्धाविसिक्त ', क्षत्रिय पिता से वैश्या माता में उत्पन्न पुत्र ‘ माहिष्य ' और वैश्य पिता से शूद्रा माता में उत्पन्न पुत्र ' करण ' संज्ञक होता है, ऐसा महर्षि

पृष्ठ 537

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 537 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४ ९ ७ याज्ञवल्क्य ने ' कहा है, उनमें से से हाथी - घोड़े को सिखाना तथा शस्त्र धारण करना ' मूर्धाविसिक्त ' के, नाचना - गाना आदि ' माहिष्य ' के और द्विजसेवा, धन - धान्य की अध्यक्षता, राजसेवा, दुर्ग तथा अन्तःपुर की रक्षा करना ‘ पारशव - उग्र - करण ' के काम उशनाने ' कहे हैं ।

अनन्तरासु जातानां विधिरेष सनातनः ।

द्वेयकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥७ ॥

भाष्य — आद्येनार्धश्लोकेनोक्तमर्थमनुवदति द्वितीयेन वक्ष्यमाणसंक्षेपः । द्वेयका-न्तरा द्व्यन्तरा ब्राह्मणस्य शूद्रो । एकान्तरा वैश्या । नातीवश्लोकः सप्रयोजनः ॥ ७ ॥

हिन्दी – ( भृगुजी महर्षियों से कहते हैं कि ) अनन्तर वर्णवाली स्त्रियों में उत्पन्न पुत्रों का यह सनातन विधान है । एक या दो वर्णों के अनन्तरवाली स्त्री में क्रमश: एक वर्ण की अनन्तरवाली जैसे ब्राह्मण से वैश्या में, क्षत्रिय से शूद्रा में, दो वर्णों की अनन्तरवाली जैसे— ब्राह्मण से शूद्रा में उत्पन्न पुत्र का विधान यह ( आगे कहा हुआ ) समझना चाहिये ॥७ ।

अनुलोमज वर्णसङ्करों का कथन-ब्राह्मणाद्वैश्यकन्यायामंबष्ठो नाम जायते ।

निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८ ॥

भाष्य — एकान्तरा ब्राह्मणस्य वैश्या, तत्र जातोऽबष्ठः । स्मृत्यन्तरे ( गौ ० ४।२० ) ‘ भृज्यकण्ठ ’ इत्युक्तः । द्व्यन्तरायां शूद्रकन्यायां निषादः पारशवश्च । निषादशब्दः प्रतिलोमजातीयेऽपि वर्तते । कन्याग्रहणं स्त्रीमात्रोपलक्षणार्थमिति व्याचक्षते, वैश्यस्त्रियामित्यर्थः । एवं सर्वत्र द्रष्टव्यम् ॥८ ॥

१. तद्यया— ‘ विप्रान्मूर्द्धाविसिक्ता हि.......... वैश्याशूद्रयोस्तु राजन्यन्माहिष्यमौग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्याम्......॥ ' इति । ( याज्ञ ० स्मृ०१।९ १ - ९ २ ) २. ' वृत्तयश्चैषामुशनसोक्ताः - ' हस्त्यश्वरथशिक्षा साधारणं च मूर्द्धावसिक्तानाम्, अस्त्रधारणं नृत्यगीतनक्षत्रजीवनं सस्यरक्षा च माहिष्याणाम्, द्विजातिशुश्रूषा धनधान्याध्यक्षता राजसेवा दुर्गान्तःपुररक्षा च पारशवोग्रकरणानाम् ' इति । ( म ० मु ० )

पृष्ठ 538

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 538 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ८ मनुस्मृतिः [ दशमः हिन्दी — ब्राह्मण से ( विवाहिता ) वैश्या में उत्पन्न ' अम्बष्ठ ' नामक, शूद्रा में उत्पन्न ‘ निषाद ’ नामान्तर से ‘ पारशव ' नामक पुत्र होता है ॥ ८ ॥

क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् ।

क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ ९ ॥

भाष्य — आचारविहारौ कायचेष्टावाग्व्यापारश्च । तावस्य क्रूरौ भवतः । स्वभावानुवादोऽयम् । वपुःशब्दः स्वभाववचन एव । उभयजातिसम्भूत्वादुभय-धर्मा भवति ॥९ ॥

हिन्दी — क्षत्रिय से ( विवाहिता ) शूद्र वर्णवाली स्त्री में उत्पन्न पुत्र क्रूरकर्मा तथा क्रूर चेष्टावाला एवं क्षत्रिय शूद्र के स्वभाववाला ' उग्र ' नामक पुत्र होता है ॥९ ॥

उक्त षड्विध पुत्रों का हीनत्वकथन-विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।

वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥ १० ॥

भाष्य- -अत्र त्रिपादी अनुवाद एव । चतुर्थस्तु पादोऽपसदाभिधानार्थः । एते त्रैवर्णिकानामेकान्तरद्व्यन्तरस्त्रीजाता अपसदा वेदितव्याः ॥ अपसदा पुत्रार्थ-फलादवसन्नाः समानजातीयपुत्रापेक्षाया निन्द्यन्ते ॥ १० ॥

हिन्दी - ब्राह्मण से तीन ( क्षत्रिय, वैश्य तथा शूद्र ) वर्णवाली स्त्रियों में; क्षत्रिय से दो ( वैश्य तथा शूद्र ) वर्णवाली स्त्रियों में और वैश्य से एक ( शूद्र ) वर्णवाली स्त्री में उत्पन्न - ये ६ प्रकार के पुत्र निकृष्ट कहे गये हैं ॥१० ॥

प्रतिलोमज वर्णसङ्करों का कथन—

क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः ।

वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ ११ ॥

भाष्य — अनुलोम्ये पूर्वो विधिः । प्रातिलोम्ये न त्वयमुच्यते ।

कन्याग्रहणमुक्तार्थम् ।

वैश्यान्मागधवैदेहौ यथासंख्येन । राजस्त्रियां मागधः ब्राह्मण्यं वैदेहः ॥११ ॥

हिन्दी - क्षत्रिय से ब्राह्मण वर्ण की कन्या में उत्पन्न पुत्र ' सूत ' वैश्य से क्षत्रिय वर्ण की कन्या में उत्पन्न पुत्र ‘ मागध ' और ब्राह्मण वर्ण की कन्या में उत्पन्न पुत्र ' वैदेह संज्ञक होता है ॥११ ॥

पृष्ठ 539

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 539 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता

शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।

वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥ १२ ॥

भाष्य - अत्रापि यथासंख्यमेव । ४ ९९ वैश्यराजन्य इति निर्देशे जातिपरेऽपि सामर्थ्यात्स्त्रीलिङ्गप्रतिपत्तिः । ‘ मृगक्षीरं ',

' कुककुटाण्ड ' इति यथा । वृत्तानुरोधात्स्त्रीप्रत्ययो न कृत: ॥१२ ॥

हिन्दी - शूद्र से वैश्य, क्षत्रिय तथा ब्राह्मण की कन्या में उत्पन्न पुत्र क्रमशः ‘ आयोग व क्षत्ता ’ और मनुष्यों में नीचतम ' चण्डाल ' संज्ञक होता है ॥ १२ ॥

क्षत्ता तथा वैदेहक की स्पर्शयोग्यता--एकान्तरे त्वानुलोम्यादंबष्ठोग्रौ यथास्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रालिलोम्येऽपि जन्मनि ॥ १३ ॥

भाष्य – एकान्तरे वर्णे ब्राह्मणा वैश्यायामम्बष्ठः, क्षत्रियाच्छूद्रायामुग्रः एता-वानुलोम्येन; एवमेकान्तरे प्रातिलोम्येन शूद्रात्क्षत्रियायां क्षत्ता, वैश्याद्ब्राह्मण्यां वैदेहः, तौ तुल्यौ, भवनादिक्रियासु, न तु यजनादिषु । चण्डाल एकः प्रतिलोमोऽस्पृश्यः । यथा च दिवाकीर्तिश्लोके तत्स्पर्श एव स्नानं नान्येषु प्रतिलोमेषु । सूतमागधायोगवानाममनन्तरजातानां चण्डालवद्दण्डापूपिकायां सिद्धः स्पर्शादिसम्बन्धः ॥१३ ॥

हिन्दी - अनुलोम क्रम से ( उच्च वर्णवाले पुरुष से नीच वर्णवाली स्त्री में ) एक वर्ण के अन्तरवाली स्त्री में उत्पन्न ' अम्बष्ठ ' ( १०।८ ) तथा ' उग्र ' ( १०।९ ) संज्ञक पुत्र जिस प्रकार स्पर्शादि के योग्य हैं, उसी प्रकार प्रतिलोम क्रम से ( नीच वर्णवाले पुरुष से उच्च वर्णवाली स्त्री में, एक वर्ण के अन्तरवाली स्त्री में ) उत्पन्न ‘ क्षत्ता ' ( ( १०।९ ) तथा ‘ वैदेह ’ ( १०।११ ) संज्ञक पुत्र भी स्पर्शादि के योग्य हैं ॥१३ ॥

विमर्श - एक वर्ण के अन्तरवाली स्त्रियों में अनुलोमज प्रतिलोमज क्रम से उत्पन्न ' अम्बष्ठ, उग्र, क्षत्ता और वैदेह ' ( १०।८-११ ) संज्ञक पुत्रों को स्पृश्य कहने से अनन्तर वर्णवाली स्त्रियों में प्रतिलोमज क्रम से उत्पन्न ' सूत ' मागध और आयोगव ' ( १०।११-१२ ) संज्ञक पुत्र स्वतः स्पर्श के योग्य सिद्ध होते हैं, अतएव प्रतिलोमज क्रम से उत्पन्न एकमात्र ‘ चण्डाल ’. ( १०।१२ ) संज्ञक पुत्र को ही स्पर्श के अयोग्य कहा गया है । अनन्तरादि वर्ण की स्त्री में उत्पन्न पुत्र का मातृजातीय संस्कार-पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । तानन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥ १४ ॥

पृष्ठ 540

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 540 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०० मनुस्मृतिः [ दशमः भाष्य — यथा ब्राह्मणात्क्षत्रियायां वैश्यायां च एवं क्षत्रियादुभये स्ताननन्तरनाम्ना प्रचक्षते । अनन्तराऽनुलोमा जातिः समाना तेषां, मातृजातीना इत्यर्थः । अनन्तरग्रहणमविवक्षितमत एवाह मातृदोषादिति । पितृजात्युत्कर्षेण नो दुष्यन्ते । अतश्च सत्यपि वर्णसंकरत्वे वचनान्मातृजात्याः स्मृताः । संस्कारास्तेषु कर्तव्या इत्युक्तं भवति । न ह्येतद्वचनमन्तरेण क्षत्रियादि संस्कारास्तेषु लभ्यन्ते । अश्वतरवज्जात्यन्तर-त्वात् । वचनेन तु मातृजातावुक्तायामदोषः ॥१४ ॥

हिन्दी — द्विजों ( १०।४ ) से अनन्तर ( ब्राह्मण से क्षत्रिया में क्षत्रिय से वैश्या में तथा वैश्य से शूद्रा में ), एकान्तर ( ब्राह्मण से वैश्या में तथा क्षत्रिय से शूद्रा में ) और द्व्यन्तर ( ब्राह्मण से शूद्रा में ) वर्णवाली स्त्रियों में उत्पन्न पुत्र जो कहे गये हैं; मातृदोष ( माता की नीचवर्णता ) से उत्पन्न उनके संस्कार आदि माता की जाति के अनुसार ही मन्वादि महर्षियों ने बतलाया है ॥१४ ॥

अन्यान्य वर्ण सङ्कर जातियों का कथन-नाम जायते । ब्राह्मणादुग्रकन्यायामावृतो आभीरोंऽबष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ १५ ॥

हिन्दी — ब्राह्मण से ‘ उग्र ' ( १०।९ ) ' अम्बष्ठ ' ( १०।८ ) तथा ' आयोगव ' ( १०।१२ ) । की कन्याओं में उत्पन्न पुत्र क्रमशः ' आवृत, आभीर और धिग्वण ' संज्ञक होते हैं ॥१५ ॥

हीन वर्णसङ्कर–

आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।

प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ १६ ॥

वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु ।

प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ १७ ॥

जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।

शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥१८ ॥

भाष्य- -अयं ' निषादो ऽस्मिँश्लोके न शूद्रायां ब्राह्मणाज्जातो यः प्रागुक्तः । किंतर्हि ।

यः प्रतिलोमो वक्ष्यमाणः, प्रतिलोमाधिकारात्प्रतिलोमा हि पुल्कसाजातिः प्रसिद्धा ।

एवं शूद्रान्निषाद्यां कुक्कुटकः ॥१६-१८ ॥

हिन्दी - शूद्र से प्रतिलोमक्रम से ( नीचवर्ण के पुरुष से उच्चवर्ण की कन्या में ) उत्पन्न ‘ आयोगव, क्षत्ता तथा चण्डाल ' संज्ञक पुत्र शूद्र की अपेक्षा हीन तथा मनुष्यों में अधम होते हैं । प्रतिलोम क्रम से वैश्य से ( क्रमश: क्षत्रिय तथा ब्राह्मण की कन्याओं में )