मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 571–580
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 571–580
पृष्ठ 571
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५३१ हिन्दी - जल, शस्त्र ( सब प्रकार का हथियार या लोहा ); विष, माँस, सोम नामक लतर, सर्वबिध गन्ध ( कस्तूरी आदि ), दूध, मधु ( शहद ), दही, घी, तेल, मोम, गुड और कुशा ( को आपत्ति काल में भी ब्राह्मण - क्षत्रिय नहीं बेचे ) ॥८८ ॥
आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥८९ ॥
भाष्य- - आरण्यपशुशब्दौ गुडलवणेनैव व्याख्यातौ । ग्राम्यपश्वनुज्ञानार्थम् । ग्राम्या अपि पशवो हिंसायां संयोग इति निषिद्धार्थः । दंष्ट्रिणः श्वशूकरादयः ।
वयांसि पक्षिणः । एकशफा अश्वाश्वतरगर्दभादयः ।
' बहूनि ' ति तथाशब्दस्थाने पठन्ति । एकस्य विक्रये तथा न दोषः ॥ ८ ९ ॥
हिन्दी – सब प्रकार के जङ्गली ( हाथी आदि ) पशु, दांतवाले ( सिंह, बाघ, चित्ता, कुत्ता आदि ) पशु, पक्षी, जलजन्तु ( मछली, मगर, कच्छप आदि ), मदिरा, नील, लाख ( चपड़ा लाही ), एक खुरवाले ( घोड़ा आदि पशु ) को ( आपत्तिकाल में पड़ा हुआ भी ब्राह्मण क्षत्रिय ) नहीं बेचे ॥८९ ॥
[ त्रपु सीसं तथा लोहं तैजसानि च सर्वशः । बालाश्चर्म तथास्थीनि सस्नायूनि विवर्जयेत् ॥ २ ॥ ]
[ हिन्दी – ( रांगा, सीसा, लोहा, सब प्रकार के तैजस पदार्थ, केश, चमड़ा हड्डी, चर्वीको ( आपत्ति काल में पड़ा हुआ भी क्षत्रिय ) छोड़ दे अर्थात् नहीं बेचे || २ || ]
स्वोत्पादित तिल का तत्काल विक्रय-काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान्धर्मार्थमचिरस्थितान् ॥ ९ ० ॥
हिन्दी— “ कृतान्नं च तिलैः सह इति प्रतिषिद्धानां तिलानां स्वरूपप्रयोजन-विशेषाश्रयः प्रतिप्रसवः । शुद्धानचिरस्थितानिति च स्वरूपविशेषः । धर्मार्थमिति प्रयोजनविशेषः । शुद्धा व्रीह्यादिभिरमिश्राः । कृशराद्यर्थं मिश्राणां विक्रयासम्भव । अचिरस्थिताः । अर्थादिकं लाभमनपेक्ष्य स्वल्पं मूल्यमद्य कालान्तरे चागामिनि बहुमूल्यं लभेयेत्येवं न प्रतीक्षितव्यम् । अथवा शुद्धा अकृष्णाः । कृष्णतिलानां प्रतिषेधः । अचिरस्थितानिति वेयमर्थं । चिरस्थितं हि कृष्णं भवति । कृष्णा उत्पाद्य क्रीत्वा न विक्रेयाः ।
पृष्ठ 572
पाठ पढ़ें पाठ छिपाएँ
५३२ स्वयं कृष्या कृषीवल इति ग्रहाद्यर्जितानामप्यप्रतिषेधः । मनुस्मृतिः [ दशमः इति प्रायिकोऽनुवादो, न विवक्षितानि पदानि । प्रति-धर्मप्रयोजने यत्र तिलान् विक्रीणते । इह च रूपकैर्गावो दक्षिणाद्यर्थं स्वाध्या-याग्निहोत्राद्यर्थं क्रीयन्ते । ब्रीह्यादयो वा दर्शपूर्णमासाद्यर्थं स ' धर्मार्थो विक्रयः ' । यस्य वा तिला एव दानादिधर्मायोपयुज्यन्ते, भेषजतैलोपयोगे वा क्रेतुः, सोऽप्येवमेव ॥९ ० ॥ हिन्दी – ( आपत्ति में पड़ने के कारण ) कृषि ( द्वारा जीविकानिर्वाह ) करनेवाला ( ब्राह्मण - क्षत्रिय ) खेत में स्वयं तिलों को पैदा करके दूसरे पदार्थों के साथ मिलाकर ( लाभार्थ ) बहुत समय तक नहीं रखकर धर्म ( यज्ञ - हवन आदि ) के लिए बेच दे ॥९ ० ॥ तिल - विक्रयादिनिन्दा-भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते
तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ ९ १ ॥
हिन्दी - प्रकृततिलविशेषव्यतिरेकेण तिलविक्रयप्रतिषेधे विशेषोऽयमर्थवादः । “ ननु चोक्तं प्रतिषेधानां दोषसूचनं फलतयैव सम्बध्यते I । तत्किं भोजनाभ्यञ्ज-नाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिभूत इत्ययमर्थवाद ” इति । उच्यते । असम्भविनः फलस्य शास्त्रान्तरेण विरुद्धस्य च श्रवणादेवमुच्यते । तथा पितृभिः सहेत्युच्यते, न च तैः किंचिदपराद्धम् । सुकृतदुष्कृतयोः फलं हि कर्तृगामि । न च पितॄणां कथञ्चिदपि कर्तृत्वमित्येतत्प्रागुक्तमेव । किंच “ सद्यः पतति माँसेन ” इति पतितत्ववचनं परेषां न पातित्यमिति नियमात् । तस्मादस्ति किंचिद-निष्टमित्येतावन्मात्रं प्रतिषेधेन सम्बध्यते । यथाश्रुतमेव न युक्तम् । भोजनादिक्रिया यत्र तद्व्यतिरेकेण यदन्यद्विक्रयस्नानादि तत्र तिलैर्यः कुरुते स कृमित्वं प्राप्नोति यथोक्तेन दोषेण संयुज्यते ॥९ १ ॥ हिन्दी — खाने ( उबटन आदि के रूप में ), ( शरीर में ) मलने तथा दान देने के अतिरिक्त तिलों से जो - जो दूसरा कार्य ( विक्रय, तेल निकालना आदि ) मनुष्य करता है, वह ( उस निषिद्ध कर्माचरण के कारण ) पितरों के साथ कीड़ा होकर कुत्ते की विष्ठा में गिरता है ॥९ १ ॥
लाक्षादि विक्रय - निन्दा-सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ ९ २ ॥
भाष्य — उक्तार्थः ॥९ २ ॥
पृष्ठ 573
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५३३ हिन्दी - ( आपत्ति में पड़ा हुआ भी ब्राह्मण ) मांस, लाख और नमक को बेचने से तत्काल पतित ( के तुल्य ) होता है और दूध बेचने से तीन दिन में शूद्र ( के तुल्य ) होता है ॥९ २ ॥ विमर्श- इस वचन में मांस, लाख तथा नमक बेचनेवाले ब्राह्मण को तत्काल पतित होना तथा दूध बेचनेवाले ब्राह्मण की तीन दिन में शूद्र होने का कथन प्रायश्चित्त के गौरवप्रदानार्थ है, वस्तुत: पतित तथा शूद्र होने क विधानार्थ नहीं ।
इतरेषां तु पण्यानां विक्रयादिह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ ९ ३ ॥
भाष्य — कामत इतिवचनादनापदित्यनुमीयते । गुरुलघुत्वदर्शनं मांसादीनां प्रायश्चित्तविशेषार्थम् । गुरुणिगुरूणि लघुनिलघूनीति वक्ष्यामः ॥९ ३ ॥ हिन्दी - शास्त्रवर्जित ( १०।८६-८९ ) अन्य पदार्थों को इच्छापूर्वक बेचनेवाले ब्राह्मण सात रात्रि में वैश्यत्व को प्राप्त करता है ॥ ९ ३ ॥ विमर्श - प्रमाद से दूसरे पदार्थों के साथ मिश्रित हुए इन पदार्थों के बेचने पर उक्त दोष नहीं होता । यह वैश्यत्वप्राप्ति - परक वचन भी तुल्यन्याय से प्रायश्चित्त गौरवार्थ ही समझना चाहिये ।
परस्पर बदलने योग्य पदार्थ-रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ ९ ४ ॥
भाष्य- रसाः पूर्वोक्तास्ते रसैर्निमातव्याः । मधुररसं गुडादि दत्वाऽऽम्लादिरस-मामलक्यादि ग्रहीतव्यम् । न केवलं लवणं दत्वा रसान्तरमादेयम् । पाठान्तरं ' लवणं तिलैरिति । अस्मिन्पाठे तिलैरेव लवणस्य प्रतिषेधो न रसान्तरैः । कृतान्नं सक्त्वोदनाद्यन्नेन पायसापूपादिना निमातव्यम् । तिलास्तु धान्येन व्रीह्यादिना तत्समाः । प्रस्थं दत्वा प्रस्थ एव ग्रहीतव्यो नार्था -पेक्षयाऽधिकं वाऽऽदेयम् । ‘ विनिमयो ’ नाम विक्रय एव । क्रीणातिस्तु द्रव्यविनिमये पठ्यते । न हि तद्युक्तम्, “ विक्रये प्रकृतिविनिमयमस्त्विति " गौतमो भेदं दर्शयति । एवं तर्हि प्रसिद्धेन रूपकादिना द्रव्यार्पणं ' विक्रयः ' । तदन्यद्रव्यपरिवृत्तौ ' विनिमयः ' ॥९ ४ ॥ हिन्दी – ( गुड आदि ) रसों को ( घृत आदि ) रसों से बदलना चाहिये; किन्तु नमक -
पृष्ठ 574
पाठ पढ़ें पाठ छिपाएँ
५३४ मनुस्मृति: श [ दशम: को किसी रस से नहीं बदलना चाहिये । पक्वान्न ( पके हुए - सिद्ध-द्र - अन्न को ) अपक्व कच्चे - अन्न से तथा तिल को ( प्रस्थ परिमाण ) धान्य से बदलना चाहिये । श्रेष्ठ जातीयवृत्ति निषेध—
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।
न त्वेव ज्यायसीं वृत्तिमभिमन्येत कर्हिचित् ॥ ९ ५ ॥
भाष्य- - एतेन सर्वेणापि । प्रतिषिद्धपण्यप्रतिप्रसवोऽयं राजन्यस्य । न किंचित्त-स्याविक्रेयं वैश्यवत् । किंतु सत्यपि स्ववृत्तित्यागे न ज्यायसीं ब्राह्मणवृत्तिं कदाचिद-प्यभिमन्येत । इमां करोमीति चेतसि न कुर्यात् । प्रतिकूलं दैवमनयः । एतदापदुपलक्षणार्थम् । गतः प्राप्तः । आपद्गत इति यावत् ॥९ ५ ॥ हिन्दी— ( जीविका - साधन नहीं मिलने से ) आपत्ति में पड़ा हुआ क्षत्रिय इन सब ( ब्राह्मण के लिए निषिद्ध रसादि विक्रय रूप ) कार्यों से ( वैश्य के समान ) जीविका कर ले, किन्तु ( ब्राह्मण की ) श्रेष्ठवृत्ति ( अध्यापन, यज्ञ करना और दान लेना ) को कदापि स्वीकार न करे ॥९ ५ ॥ विमर्श- यद्यपि इस वचन में क्षत्रियमात्र के लिए निषेध किया गया है, तथापि वैश्यादि के लिए भी निषेध समझना चाहिए । श्रेष्ठ जाति की वृत्ति करनेवाले को दण्ड-यो लोभादधमो जात्या जीबेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ ९ ६ ॥ भाष्य – जात्याऽधमो निकृष्ट क्षत्रियादिः । सत्यपि प्रकृतत्वे राजन्यस्य, सर्वेषा-मयं ब्राह्मणवृत्तिप्रतिषेध एवमेवायं श्लोकः । उत्कृष्टो निरपेक्षो ब्राह्मण एव । कर्मभिरध्ययनादिभिर्जीवति । दण्ड्योऽयं सर्वस्व-ग्रहणप्रवासनैः ॥९ ६ ॥ हिन्दी – नीच जातिवाला जो मनुष्य अपने से ऊँची जातिवाले की वृत्ति को लोभ से ग्रहण कर जीविका करे तो राजा उसे निर्धनकर ( उसकी सब सम्पत्ति छीनकर ) राज्य से बाहर निकाल दे ॥९ ६ ॥
परधर्मसेवन - निन्दा -वरं स्वधर्मो विगुणः परधर्मात्स्वधिष्ठितात् ।
परधर्मेण जीवन्हि सद्यः पतति जातितः ॥ ९ ७ ॥
पृष्ठ 575
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५३५ भाष्य - पूर्वस्य विधेर्निन्दार्थवादोऽयम् । यो यस्य विहितो धर्मो जात्याश्रयेण
विगुणोऽप्यपरिपूर्णाङ्गोऽपि युक्तोऽनुष्ठातुम् । न परधर्मः सर्वाङ्गसंपूर्णोऽपि ।
अत्र निन्दार्थवादः परधर्मेणेति ॥ ९ ७ ॥
हिन्दी — अपना हीन धर्म भी श्रेष्ठ है, किन्तु दूसरे का अच्छा धर्म भी श्रेष्ठ नहीं है; क्योंकि दूसरे के धर्म से जीविका करनेवाला तत्काल जाति भ्रष्ट हो जाता है विमर्श - यह जातिभ्रष्टत्व - कथन भी दोषगौरव - प्रदर्शनार्थ समझना चाहिए ।
वैश्य आपद्धर्म-वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् ।
अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥ ९ ८ ॥
भाष्य – स्वधर्मेणाजीवतो वैश्यस्य शूद्रवृत्तिरनुज्ञायते । पादधावनादिशुश्रूषया । अनाचरन्नकार्याणि । उच्छिष्टापमार्जना ' कार्यम् ', तत्परिहर्तव्यम् । शक्तिमान्निवर्तेतेति सर्वशेषः । अत्र केनचिदुक्तम् । सामर्थ्यात् ब्राह्मणक्षत्रिययोरप्येतदतिदिश्यते । तत्रापरेण संदिह्यते । कथं शूद्रवृत्तिं ब्राह्मणः कुर्यात् । एवं हि श्रूयते— “ उत्कृष्टं चापकृष्टं च विद्येते कर्मणो तयोः । मध्यमे कर्मणी हित्वा सर्वसाधारणे ििह ते ” ॥ इति तदयुक्तम् । न त्वस्यायमर्थो ब्राह्मणस्य शूद्रवृत्तिचरनुज्ञायते सामर्थ्या-दिति, किं तर्हि? निवर्तेत च शक्तिमानिति यदस्माभिरुक्तं सर्वशेष इति ॥९ ८ ॥ हिन्दी - अपने धर्म ( १०।७८, ८ ९ ) से जीवन निर्वाह कर सकनेवाला वैश्य न्निषिद्ध कर्मों का त्याग करता हुआ अर्थात् द्विज - सेवादि करते समय जूठा आदि नहीं खाता हुआ शूद्र की वृत्ति ( द्विज - सेवा ) से जीविका करे और समर्थ होकर अर्थात् आपत्काल के दूर हो जाने पर ( उस शूद्र कर्म से ) निवृत्त हो जाय ॥९ ८ ॥
शूद्र के आपद्धर्म-अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ ९९ ॥
भाष्य — कारुकाः शिल्पिनः । सूदतन्तुवायादयः । तेषां कर्माणि पाकवयना-दीनि प्रसिद्धानि । तैर्जीवेत् । पुत्रदारात्ययस्तद्भरणासमर्थता । एतेन धनतन्त्रभंगेन तस्यापदि विवाहादिकर्मणामेषां विधानान्निकृष्टताऽनु-मीयते ॥९९ ॥
हिन्दी — द्विजों ( १०।४ ) की सेवा करने में असमर्थ शूद्र ( भूख आदि से ) स्त्री-मानु II 36
पृष्ठ 576
पाठ पढ़ें पाठ छिपाएँ
५३६ मनुस्मृतिः पुत्रादि के पीडित होने पर सूप आदि बनाने के कार्यों से जीविका करे ॥९९ ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । [ दशम: तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०० ॥
भाष्य – प्रचरितैरनुष्ठितैः । शुश्रूष्यन्ते सेव्यन्ते । तदुपयोगीनि यानि कर्माणि शिल्पानि । यद्यपि शिल्पमपि कारुकर्मैक, तथापीह भेदेनोपादानात्तक्षकिवर्धकिप्रभृ-तयः कारवस्तेषां कर्माणि तक्षणावर्धनादीनि । शिल्पानि पत्रच्छेदरूपकर्माण्यालेख्यानि ॥ १०० ॥
हिन्दी — जिन कर्मों के करने से द्विजों ( १०।४ ) की सेवा हो जाय, उस ( बढ़ई तथा चित्रकार आदि के ) कार्यों को शूद्र करे ॥ १०० ॥
वैश्यवृत्तिमनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ १०१ ॥
भाष्य- अनातिष्ठन्निच्छया । एतदुक्तं भवति । क्षत्रवृत्त्यसम्भवे यदि वा वैश्यवृत्तिमाचरेदसत्प्रतिग्रहं वा । तुल्ये एते वृत्तो । असत्प्रतिग्रहात्क्षत्रवृत्तिः श्रेयसी । अथवाऽनातिष्ठन् वैश्यवृत्तिमसम्भवे । ततश्चासत्प्रतिग्रहो वैश्यवृत्तेर्हीनतरः । स्वे पथि स्थित इति ब्रुवन्नापवृत्तीनां समुच्चयोऽस्तीति ज्ञापयति ।
अवृत्त्या कर्षितः ।
सीदन्नवसादं प्राप्नुवन् ॥१०१ ॥
हिन्दी — जीविका के अभाव से पीड़ित होता हुआ भी अपने ( धर्म ) मार्ग पर स्थित
ब्राह्मण इस ( आगे ( १०।१०२-१०३ ) कहे जानेवाले ) कर्म को करे ॥ १०१ ॥
आपत्ति में ब्राह्मण को हीन से दानादि ग्रहण—
-सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः ।
पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ॥ १०२ ॥
भाष्य - सर्वत इति प्रतिग्राह्यजातिगुणानामपेक्षा न कर्तव्या । अत्रापि हीनहीनतरहीनतमेषु क्रमेण पूर्वपूर्वाभावे उत्तरोत्तरप्राप्तिरस्त्येव । यथा क्षत्रवृत्त्यभावे वैश्यवृत्तिः । पवित्रं गङ्गास्रोतस्तदमेध्यसंसर्गे न दुष्यति । “ नदी वेगेन शुध्यति ” इत्युक्तम् । एवं ब्राह्मणोऽपीति ॥ १०२ ॥
पृष्ठ 577
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५३७ हिन्दी— ( जिविका नहीं मिलने से ) आपत्ति में पड़ा हुआ ब्राह्मण सब से ( नीच से भी ) दान ग्रहण करे; क्योंकि आपत्ति में पड़ा हुआ पवित्र ( गङ्गाजल, ब्राह्मणादि नाली के पानी से या निषिद्धाचरण से ) दूषित होता है यह ( शास्त्र ) संगत नहीं होता है ॥ १०२ ॥
आपद्गत ब्राह्मण का निषिद्धाध्यापनादि से दोषहीनता-नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनांबुसमा हि ते ॥ १०३ ॥
भाष्य – पूर्वेणासत्प्रतिग्रह उक्तः । अनेन याजनाध्यापने अनुज्ञायेते । गर्हितादिति सिंहावलोकितवत्पूर्वाभ्यामप्यभिसम्बध्यते । यथाग्निरापश्च सर्वत्र शुद्धा एवं ब्राह्मणा अपीति प्रशंसा । केचिदाहुः । असत्प्रतिग्रहवदसद्याजनाध्यापने अप्यनुज्ञायेते । यद्यभविष्यतां, तदा पूर्वश्लोक एव प्रतिग्रहवदपठिष्यताम् । इह तु विधिप्रत्ययाभावाद्दोषो भवति विप्राणा-मिति । वर्तमानप्रत्ययेन सिद्धव्यपदेशादर्थवादताप्रतीतेः । किंच प्रतिवचनं तावदर्थवादः पूर्वेण सिद्धत्वात्तदेकवाक्यत्वापत्तेर्याजनाध्यापने अप्येवं भवितुमर्हतः ॥ वयं तु ब्रूमोऽसम्भवेऽसत्प्रतिग्रहस्य तत्रापि वृत्तिर्युक्ता । यतः प्रवृत्तिः स्मर्यते । ‘ यथाकथंचित्स आत्मानमुद्धरेदन्यत्र प्रत्यवायेभ्यः ' । कर्मार्थस्त्वापद्धर्मपाठः || १०३ ॥ हिन्दी — निन्दितों ( अनधिकारियों ) को अध्यापन कराने से, यज्ञ कराने से और उनका दिया हुआ दान लेने से ( आपत्ति में पड़े हुए ) ब्राह्मणों को दोष नहीं होता; क्योंकि वे ( ब्राह्मण ) अग्नि तथा पानी के समान ( पवित्र ) हैं ॥१०३ ॥
जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः ।
आकाशमिव पङ्केन न स पापेन लिप्यते ॥ १०४ ॥
भाष्य- - पूर्वेणासत्प्रतिग्रह उक्तः । अनेन परिग्रहदुष्टमन्नमभ्यनुज्ञायते ।
ततस्तत इति जातिकर्मानपेक्षमन्नस्वाग्निमाह ।
शेषोऽर्थवादः ॥१०४ ॥
हिन्दी — जीविका के नहीं मिलने से संशयित प्राणोंवाला जो ( ब्राह्मणादि ) जहाँ - तहाँ ( अनुलोम एवं प्रतिलोम आदि हीन जातिवाले ) से भी अन्न को खाता है, वह पङ्क से आकाश के समान पाप से लिप्त ( दूषित ) नहीं होता है ॥१०४ ॥
उक्त दोषाभाव में पुरातन दृष्टान्त-अजीगर्तः सुतं हन्तुमुपासर्पदुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ १०५ ॥
पृष्ठ 578
पाठ पढ़ें पाठ छिपाएँ
५३८ मनुस्मृति: [ दशमः भाष्य - अजीगर्तो नाम ऋषिः । स क्षुत्परिपीडितः पुत्र सुतं शुनःशेपनामानं हंतुमुपासर्पत् प्रचक्रमे । न चासौ क्रव्याद इति युज्यते । शौनः शेषमाख्यानं वहवृचि
सुप्रसिद्धम् । नात्र विस्तर आगमस्योपयुज्यते । परमार्थस्तु परकृतिरूपोर्थऽवादः ।
एवं सर्व एते द्रष्टव्याः ॥१०५ ॥
हिन्दी— ( क्योंकि पूर्व समय में ) भूख से पीड़ित ' अजीगर्त ' नामक ऋषि ( ' शुनःशेष नामक पुत्र को बेंचकर पुनः यज्ञ में सौ गौओं को पाने के लिए यज्ञस्तम्भ में बंधे हुए ) उसी पुत्र को मारने के लिए तैयार हो गये और भूख की निवृत्ति के लिए वैसा ( अति निषिद्ध कर्म ) करते हुए भी वे पापयुक्त नहीं हुए ॥१०५ ॥
विमर्श — यह कथानक बह् वृच ब्राह्मण में ' शुनःशेष ' के आख्यान में स्पष्ट रूप से वर्णित है |
श्वमांसमिच्छन्नार्त्तोऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०६ ॥
भाष्य – एवं वामदेवो नाम ऋषिः । स आर्त्तः क्षुधा श्वमांसमत्तुं भक्षयितु-मैच्छत् ॥१०६ ॥
हिन्दी - धर्म तथा अधर्म ( के गुण तथा दोष ) को जाननेवाले ‘ वामदेव ' ऋषि भूख से पीड़ित होकर प्राणों की रक्षा के लिए कुत्ते के मांस को खाने की इच्छा करते हुए भी ( पाप से ) लिप्त ( दूषित ) नहीं हुए ॥१०६ ॥
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥१०७ ॥
भाष्य - वृधो नाम तक्षा अप्रतिग्राह्यः । ततो बह्वीर्गा भरद्वाजो नाम ऋषिः प्रतिजग्राह ॥१०७ ॥
हिन्दी - निर्जन; वन में पुत्र सहित निवास करते हुए महातपस्वी ' भारद्वाज ' मुनि भूख से पीड़ित होकर ' वृधु ' नामक बढ़ई से सौ गौओं को प्रतिग्रह ( दान ) लिये ( तथा हीन जाति से दान लेकर भी निंदित कर्म के आचरण करने से पाप- दूषित नहीं हुए ) ॥१०७ ॥
क्षुधार्त्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ १०८ ॥
भाष्य – विश्वामित्रो नाम महामुनिः प्रसिद्धः । स कस्मिंश्चिदवसरे क्षुधादुःखेन श्वजाघनीं चण्डालहस्तादादायात्तुमभ्यागत आभिमुख्येनाध्यवसित ।
पृष्ठ 579
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५३ ९
न केवलं परिदुष्टेऽन्ने दोषोऽस्ति यावत्स्वभावदुष्टेऽपीति श्वजाघनीग्रहणम् ।
सर्वदोषदुष्टमप्यापदि भक्षयितव्यमिति श्लोकतात्पर्यार्थः ॥१०८ ॥
हिन्दी — धर्माधर्म ( के गुण - दोष ) को जाननेवाले ' विश्वामित्र ' मुनि भूख से पीड़ित होकर चण्डाल के हाथ से कुत्ते की जङ्घा के मांस को लेकर खाने की इच्छा किये ( तथा उस निषिद्ध मांस भक्षण के खाने की इच्छा से पापदूषित नहीं हुए ) ॥ १०८ ॥
प्रतिग्रहाद्याजनाद्वा
प्रतिग्रह - निन्दा-तथैवाध्यापनादपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥१० ९ ॥
भाष्य – आपदीषद्गर्हितयोर्याजनाध्यापनयोः सम्भवे न गर्हितप्रतिग्रहे वर्तितव्य-मिति श्लोकार्थः ॥१०९ ॥।
हिन्दी - ब्राह्मण के लिए नीचों को पढ़ाना, यज्ञ करना तथा उनसे दान लेना इन तीनों कर्मों में नीच से प्रतिग्रह ( दान ) लेना निकृष्ट है, और मरने पर यही परलोक में नरक का कारण होता है अतएव जीविका - निर्वाह नहीं होने से आपत्ति में पड़े हुए ब्राह्मण को यदि नीचों को अध्यापन तथा यज्ञ कराने से भी जीवन - निर्वाह नहीं हो सके तभी उसे उन नीचों से प्रतिग्रह लेना चाहिये ॥ १० ९ ॥ प्रतिग्रह निन्दा में कारण—
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस्तु क्रियते शूद्रादप्यंत्यजन्मनः ॥ ११० ॥
भाष्य- - अत्रैव हेतुरूपोऽर्थवादः । प्रवृत्तिरेवेदृशो लोकस्य यदनुपनीता नाधीयते न च यजन्ते । अतः सुष्ठ्वार्त्तोऽपि न शूद्रं याजयिष्यत्यध्यापयिष्यति वा । दानं तु सार्व-वर्णिकं प्रसिद्धम् । शूद्रादपि प्रतिग्रहः कर्तुं प्राप्नोत्यतः स प्रत्यवरः ॥११० ॥
हिन्दी - यज्ञ कराना तथा पढ़ाना- ये दोनों कर्म संस्कारयुक्त आत्मावाले ( द्विजों ) को ही कराये जाते हैं तथा प्रतिग्रह तो निकृष्ट जन्मवाले शूद्र से भी लिया जाता है ( अतएव निकृष्टगत कर्म होने से प्रतिग्रह लेना निन्दत कर्म है, इस कारण यथाशक्य उसका त्याग करना चाहिए ) ॥११० ॥
प्रतिग्रहादि का पापनाश-जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १११ ॥
भाष्य - जपेन होमेन चैनः पापमपैति विनश्यति । तेन न क्षतिः ।
पृष्ठ 580
पाठ पढ़ें पाठ छिपाएँ
५४० मनुस्मृतिः प्रतिग्रहाद्यदेनस्तत्त्यागेन तस्य प्रतिग्रहस्य, तपसा, पीत्वा ” इत्यादि ॥१११ ॥
[ दशम: वक्ष्यमाणेन “ मासं गोष्ठे पयः हिन्दी — नीचों को पढ़ाने तथा यज्ञ करने से उत्पन्न पाप ( गायत्री आदि मन्त्रों के ) जप तथा हवन से नष्ट हो जाता है; किन्तु नीच के दान लेने से उत्पन्न पाप उस दान लिये गये पदार्थ के त्याग तथा आगे ( १०/११२ ) कहे जाने वाले तप से नष्ट होता है॥११२ ॥
शिल तथा उच्छ से जीविका-शिलोञ्छमप्याददीत विप्रोऽजीवन्यतस्ततः ।
प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ ११२ ॥
भाष्य — अस्याप्यनुवादोऽर्थवादमेवाह । महदेतदन्याय्यं यत्परद्रव्यग्रहणम् । तत्र कदाचिदश्रूयमाणस्य ग्रहणेऽपीदं भव-दुष्यतोऽप्येतावता प्रशस्यत्वम् । अत्र शिलः प्रतिग्रहसमानजातीयः । स एवायं प्रकर्ष-प्रत्ययहेतुर्भवति । प्रतिग्रहाच्छिलः श्रेयानिति । यतो निकृष्टमपेक्ष्योत्कृष्टत्वनिमित्तं प्रकर्ष-मनुभवति । न हि भवति चण्डालाद्ब्राह्मणः श्रेयान् । अतः शिलोञ्छयोरपि ग्रहणेऽन-स्वग्रहणम् । तथापि शिलोञ्छं श्रेयः । यद्यपि शिलोञ्छवृत्तिरत्यन्तोत्कृष्टोक्ता तथाप्यस्ति किंचित्साम्यम् । यतस्तत्राधिदेवतानिष्ठितभृत्यागतं क्रियावैकल्यम् । असत्प्रतिग्रहेऽप्या-त्मनि ग्रह उपपन्नो न कुप्यतीत्वयमिति । तत्रेतरसंनिहितद्रव्यस्याऽऽत्मनिग्रहः । अतः शिलोञ्छवृत्तिरपि न निरवद्या । ततो युक्तं प्रतिग्रहाच्छिलः श्रेयानित्यादि || ११२ ॥। हिन्दी – अपनी जीविका ( १०।७५-७६ ) से जीवन - निर्वाह नहीं होने पर ब्राह्मण जहाँ कहीं से ‘ शिल ’ तथा ‘ उञ्छ ' को स्वीकार करे ( किन्तु निन्दित से दान न लेवे; क्योंकि उस दान से ‘ शिल ’ तथा ' शिल ' से ' उञ्छ ' श्रेष्ठ है ) ॥११२ ॥
विमर्श — ‘ शिल ’ तथा ‘ उञ्छ ' के लक्षण- ज्ञान के लिए ‘ ऋतमुञ्छशिलं ज्ञेयं ’ ( ४।५ ) का ' विमर्श ' देखें । राजा से धन- याचना—
सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः ।
याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥ ११३ ॥
भाष्य - अत्र त्रीणि निमित्तानि राजप्रतिग्रहे उच्यन्ते । सीदद्भिः कुटुम्बावसादं प्राप्तैरापदीत्यर्थः । कुप्यमिच्छद्भिः । कुण्डलकटकाद्युष्णीषासनादि काञ्चनादि ।