मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 611–620
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 611–620
पृष्ठ 611
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५७१ तत्र केचिदाहुः । न हि कर्म क्षीयते । कार्यविरामित्वमेव धर्माधर्मयोः । न हि कर्माणि स्वफलमदत्वा प्रलीयन्ते । तदुक्तं ' न हि कर्म क्षीयत ' इति । तस्माद्योऽतिक्रम-कारी स ततो नरकफलं भुंक्त एव । प्रायश्चित्तानि यदि न करोति ततस्तदतिक्रमात्प्रत्य-वायान्तरोत्पत्तिः । तदेतदयुक्तम् । न हि कर्म चरितव्यमतो नित्यं प्रायश्चित्तम् । ‘ विशुध्यत ' इति स्व-शब्देनैव शुद्ध्यर्थता विहिता । तथा च तैः कृतैरपोहेत पापं स्वयं कृतत्वात् । यदप्यु-च्यते “ प्रतिषेधविधिना प्रतिषिध्यमानक्रियाकर्तुः प्रत्यवायभागित्वमवगमितं, न तस्य प्रायश्चित्तैर्मिथ्यात्वं शक्यते कर्तुं ' तदप्ययुक्तम् । यतस्तेन दुःखहेतुता तस्यावगमिता । प्रायश्चित्तेष्वपि तपोदानादि दुःखमस्त्येव । अल्पेन तादात्मिकेन दुःखेनागामिनः सम्भा-व्यमानस्य महतो दुःखस्य निवृत्तिर्युक्तैव । यथा व्याधेस्तिक्तकटुकौषधदानलध्वाहारा-दिना । यथा व्यतिक्रमं कृत्वा कश्चित्स्वयमागत्य राजनिवेदनं करोति ' इत्येवं कर्मास्मि ' इति सोऽर्द्धदण्डभाग्भवति । यस्तु राजपुरुषैर्हठादानीयेत स भूयो दण्ड्यते । एवमुपदेशानामर्थवत्वसिद्धिः । अतः स्वयं कार्यविरोधित्वमस्य विहितत्वात् । निष्कृतिः प्रायश्चित्तमिति समाख्यानमपि सत्तदेव कृतदोषस्य निर्यातनमपि । अकारणं निर्यातो निष्कृतिरिति उच्यते । एवं प्रायश्चित्तमपि नास्याधिकारप्रतिप्रसवार्थम् । पञ्चाना-मेव पातकानामधिकारोपगमविहितत्वाद्विजातिकर्मभ्यो हानिः पतनमिति । न चात्र ‘ वेदाभ्यासोऽकामतः, कामतस्तप इति, विषयविभागो बोद्धव्यः । उभया-र्थोभयत्रोपदर्शनार्थत्वात् । निमित्तोपदेशकरणे पठितत्वात् । ' ब्रह्महा द्वादशेत्यादि प्राय-श्चित्तानामुपक्रम्यमाणत्वात् । तस्मादकामतो लघुप्रायश्चित्तं कामतो गरीय इति श्लोकस्य तात्पर्यम् । “ ननु चाकामतो नैव तस्य कर्तृत्वं, बुद्धिपूर्वं कुर्वन्कर्तेत्युच्यते । यथा च लौकिको ‘ दैवेन कार्यते । किमयं करोतीति ' । किं च लिप्सया यत्र प्रवृत्तिस्तत्र प्रतिषेधः । यो हि मद्याय स्पृहयति स पिपासुं न कदर्थयति ' मा पासीः सुराम् ' इति । यस्तु जलार्थी जलबुद्ध्या सुरां पीतवांस्तस्याजानतो नापराधो न हि तस्य सुरालिप्सया प्रवृत्तिः । अथोच्यते ‘ विधिलक्षणाप्रवृत्तिर्न निषिध्यते ', सत्यम् । भवत्वनर्थलक्षणानां तु मध्ये तर्ह्यदकेन च सर्वस्य अर्थलक्षणायाः प्रतिषेधः ” । केचिदाहुः । प्रत्यवायपर्यन्तो विधिर्विषभक्षणवन्निषेधशास्त्रार्थः । तेषामचोद्यमेतत् । विषमविशेषेणोपात्तं ज्ञानतोऽज्ञानतश्च मरणाय कल्पत एव । एवं ब्रह्महत्यादयोऽपीति । येषामपि ‘ कर्तव्यमिति वचनात् ' क्रियते, ' न कर्तव्यमिति ' न क्रियते, तेषामपि लौकिक-
पृष्ठ 612
पाठ पढ़ें पाठ छिपाएँ
५७२ मनुस्मृतिः [ एकादश: क्रियया प्रवर्तमानस्य निषेधः प्रवर्तमानश्चोच्यते प्रवृत्तः कर्त्ता । कर्तृत्वमबुद्धिपूर्वकम-प्यस्ति । कूले पततीति । न चायं गौण: कर्तृताभाव: । ' स्वतन्त्रः कर्ते ' ति हि स्मर्यते । ने — च्छया प्रवर्तते य: स कर्तेति ' । किं चास्मादेव वचनात्प्रमादकृतो दोषोऽस्ति, प्राय-श्चित्तमिति, किमपरेण विकल्पितेन ॥४५ ॥
हिन्दी — अनिच्छापूर्वक किया गया पाप वेदाभ्यास से नष्ट हो जाता है तथा रागद्वेषादि मोहवश इच्छापूर्वक किया गया पाप अनेक प्रकार के प्रायश्चित्तों से नष्ट होता है ॥४५ ॥
प्रायश्चित्ती से संसर्ग का निषेध-प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥४६ ॥
भाष्य- –दैवात्स्वीकृतात्प्रमादादित्यर्थः । अन्ये तु दैवशब्दस्थाने मोहादिति पठन्ति । मोहादेवाकार्यं क्रियते । को ह्यमूर्खः शास्त्रं व्यतिक्रमिष्यति । पूर्वकृतेन जन्मान्तरकृतेन चोपभुक्तफलेन कर्मणा विशेषेण कौनख्यादिलिङ्गा-द्यनुमितेन । एतदुक्तं भवति । इह जन्मकृते व्यतिक्रमे बुद्धिपूर्वमबुद्धिपूर्वं वा तथा जन्मान्तरकृतेऽपि लिङ्गानुमेये कर्तव्यम् । किं पुनः कुनख्यादीनां प्रायश्चित्तम् । कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तानि । वसिष्ठेन तु ' यस्य यल्लिङ्गं तेन तदेव प्रायश्चित्तं केनचिदंशेन कर्तव्यमिति ' पठितम् । अतश्चैव ते सर्वेऽकृतप्रायश्चित्ताः संसर्गं सद्भिर्वर्जयेयुः । अध्ययनादिक्रिययैक-स्थानादिरूपतया । संसर्गो यद्यप्युभयाश्रयत्वादन्यतरप्रतिषेधेनोभयोरपि सिद्धः प्रतिषेधस्तथापि, ‘ सद्भि-स्तैः संसर्गो न कर्तव्य ' इति पुनः प्रतिषिध्यते उत्तरत्र, कर्तृभेदात् । एकस्य हि प्रति-षेधे स एव प्रायश्चित्ती स्यान्न द्वितीयः, सत्यपि संसर्गे । अत उभयोः प्रायश्चित्तार्थमु-भयत्र प्रतिषेधः । सतामसतां चातः श्यावदन्तिप्रभृतिभिरकृतप्रायश्चित्तैः सह संसर्गो न कर्तव्यः ॥४६ ॥
हिन्दी – भाग्यवश ( या प्रमादवश ) पूर्वजन्मकृत पापों से प्रायश्चित्त के योग्य द्विज बिना प्रायश्चित किये सज्जनों के साथ ( याजन - यजनादि ) सम्बन्ध न करे ॥४६ ॥
पृष्ठ 613
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता प्रायश्चित्त शब्द का अर्थ-[ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥६ ॥ ]
५७३ [ हिन्दी – ' प्राय: ' तप को कहते हैं और ' चित्त ' निश्चय को कहते हैं, अतएव तप का निश्चय के साथ संयुक्त होना ' प्रायश्चित्त ' कहा जाता है || ६ || ]
कुरूप होने में कारण-इह दुश्चरितैः केचित्केचित्पूर्वकृतस्तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ४७ ॥
भाष्य - एतदेवाह । इह दुश्चरितैः केचिदस्मिन् जन्मनि प्रतिषिद्धाचरणैः । तथा पूर्वकृतैः कर्मभिस्तथोक्तं प्राक् । स इदानीं रूपविपर्ययप्रपंचो दुष्कृतशेषचिह्न-रूपतोऽनुक्रम्यते ॥४७ ॥
हिन्दी - कुछ दुष्ट लोग इस जन्म के दुराचरणों से तथा कुछ दुष्ट लोग पूर्व जन्म में किये गये दुराचारणों से कुरूपता को पाते हैं ॥ ४७ ॥
सुवर्णचौर्यादि से कुनखित्वादि होना—
सुवर्णचौर: कौनख्यं सुरापः श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥४८ ॥
हिन्दी - सुवर्ण को चुरानेवाला कुनखी ( खराब नखों वाला ), मद्य - पानकर्त्ता, काले दाँतोंवाला, ब्राह्मण का हत्यारा, क्षयरोगी, गुरुपत्नी से सम्भोग करनेवाला, दुश्चर्मरोगी ॥४८ ॥
पिशुन: पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥ ४ ९ ॥
हिन्दी — विद्या आदि के दोष को कहनेवाला, दुर्गन्धित नाकवाला, चुगलखोर, दुर्गन्धित मुखवाला, धान्य का चोर, अङ्गहीन, शुद्ध अन्नादि में दूषित अन्नादि मिलाकर विक्रय आदि करनेवाला अधिक अङ्गवाला ( छाँगुर - आदि ) ॥४९ ॥
अन्नहर्तामयावित्वं मौक्यं वागपहारकः ।
वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥ ५० ॥
हिन्दी - अन्न का चोर, मन्दाग्नि रोगी, गुरु के बिना पढ़ाये पढ़नेवाला, मूक ( गूंगा ), कपड़े का चोर श्वेतकुष्ठ रोगी, घोड़े का चोर लंगड़ा होता है ॥५० ॥
पृष्ठ 614
पाठ पढ़ें पाठ छिपाएँ
५७४ मनुस्मृतिः [ एकादश: [ दीपहर्ता ' भवेदन्धः काणो निर्वापको भवेत् । हिंसया -व्याधिभूयस्त्वमरोगित्वमहिंसया ॥ ७ ॥ ]
[ हिन्दी – दीपक चुरानेवाला अन्धा, दीपक बुझानेवाला काना, हिंसा करनेवाला अधिक रोगी और अहिंसा से नीरोगी होता है || ७ || ]
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः ।
जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ ५१ ॥
भाष्य - क्षयो नाम रोगो राजयक्ष्मेति वैद्यानां प्रसिद्धस्तेन तद्वान्भवति ब्रह्महत्या-विशेषेणे । गुरुस्त्रीगामी दुश्चर्मा । क्वथितगन्धवाहिन्या नासिकया युक्तः पिशुनः । एवं सूचको दुर्गन्धवाहास्यः । " ननु च सूचकः पिशुन " एव । सत्यम् । एकः कल्पयित्वा परदोषान् प्रकाशयति । अन्यस्तु सत्यानेवाविदितानिति भेदः । आतिरैक्यमधिकांगता । मिश्रको यो द्रव्याण्यद्रव्यैस्तदाभासैः सम्मर्दयति । यथा कुंकुमं कुसुंभेनान्यैरन्यानि । आमयावी यस्य भुक्तमन्नं न सम्यक् जीर्यते । मौक्यं वाग्वैकल्यं यत्राप्रतिपत्तिमानपस्मारी । शिष्टं प्रसिद्धम् । विकृताकृतयः । ‘ आकृति: ' संस्थानं ' विकृता ' ऽमनोरमा निन्दितैषां कर्मविशे-षेणेति । एषां कर्मणां कुम्भीपाकयमयातनास्थानेषु फलं तदनुभूतवत् ईषच्छेषे तस्मिन् कर्मण्युद्रिक्ते च कुकृतेऽदत्तफले फलदानोन्मुखे दुष्कृतस्यासद्भावोऽतः कर्मावशेषो-पपत्तिः ॥४८-५१ ॥ हिन्दी – इस प्रकार कर्मविशेष से सज्जनों से निन्दित जड़; गूंगे, अन्धे, बहरे और कुरूप उत्पन्न होते हैं ॥५१ ॥
१. अत्र ' दीपहर्ता भवेदन्धः काणो निर्वापकस्तथा । हिंसारुचिः सदा रोगी वाताङ्गः पारदारिकः ॥ ' इत्ययं श्लोको म ० मु ० उपलभ्यमानः सम्यक् प्रतिभाति, ' अरोगित्वमहिंसया ’ इत्येतस्य ‘ सद्विगर्हिता: ’ ( ११।५१ ) इति पदेन विरोधात् प्रकृतानुपयुक्तस्य चतुर्थपादस्थाने ‘ वाताङ्गः पारदारिकः ’ इत्येतस्य चतुर्थपादस्य प्रकृतोपयुक्तत्वात् ।
पृष्ठ 615
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥ ५२ ॥
५७५ भाष्य - निन्द्यैर्हि लक्षणैः कुनखश्यावदन्तादिभिरनिष्कृतैनसः ॥५२ ॥
हिन्दी – ( प्रायश्चित्त के द्वारा ) पापनाश नहीं किए हुए मनुष्य ( ११।४८-५० ) निन्द्य लक्षणों से युक्त होते हैं, अतएव पाप - निवृत्ति के लिए प्रायश्चित्त करना चाहिये ॥ ५२ ॥
पाँच महापातक—
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ ५३ ॥
भाष्य- - गुर्वङ्गनागमः स्तेयं पतितसंप्रयोगः सर्ववर्णानां महापातकानि । सुरा-पानं ब्राह्मणस्यैव । स्तेयं ब्राह्मणसुवर्णहरणं— स्मृत्यन्तरात् ' ब्राह्मणसुवर्णापहरणे महापातकम् ' इति । पातकशब्दः पातयतीति व्युत्पत्त्या सर्वव्यतिक्रमेषु वर्तते, महापातकेषूपपातकेषु च ।
महच्छब्दो गुरुत्वप्रदर्शनार्थः ।
तैश्च संयोगमेकैकेनापि । स च वक्ष्यति ' संवत्सरेण पतति ' इत्यादिना ॥५३ ॥
हिन्दी – ( १ ) ब्रह्महत्या करना, ( २ ) निषिद्ध मद्य का पीना, ( ३ ) ( ब्राह्मण के ) सुवर्ण को चुराना, ( ४ ) गुरु ( २।१४२ ) की भार्या के साथ सम्भोग करना और ( ५ ) इन ( चारो में से किसी एक ) के साथ भी एक वर्ष तक संसर्ग — ये पाँच महापातक हैं ॥५३ ॥
ब्रह्महत्या के समान कर्म—
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ५४ ॥
भाष्य — समुत्कर्ष इति निमित्तसप्तमी, ' चर्मणि द्वीपिनं हन्ति ' इतिवत् । समुत्कर्षं प्राप्स्यामीति यदनृतममिधीयते तद्ब्रह्महत्यया समम् । यत्र पूजातिशयो धनातिशयो ब्राह्मणत्वेन श्रोत्रियत्वेन महाकुलीनतया वा प्राप्यते तत्रातद्रूपमात्मानमावेदयति 1 । यो वा पात्रातिशयेन पुण्यस्कन्धोत्कर्षं प्राप्तुमिच्छति तस्यापात्रं पात्रमित्युच्यते । एवंविधे समुत्कर्षेऽनृतम् । न पुनः स्वल्पवस्तुनि अपेक्षायां सत्यपि समुत्कर्षव्यपदेशे । पिशुनमलीकवदिति परच्छिद्रप्रकाशनम् । गुरोश्चालीकनिर्बन्धोऽसत्याभिधानेन चित्तसंक्षोभः, ' कन्या ते गर्भिणी ' इत्येव-मादिना निष्प्रयोजनो द्वेषः । राजकुलात्तेन सह विवादो निर्बन्धोऽनृताभिशंसनं वा । तथा च गौतमो ‘ गुरावनृताभिशंसनम् ' ( २१-१० ) इति पातकसमानि ॥५४ ॥
पृष्ठ 616
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः ५७६ मद्यपान के समान कर्म-विधेः त्यागो वा । कूटसाक्षं समुत्कर्षादन्यत्रापि । सुहृद्वधो मित्रमारणम् । सुवर्ण चुराने के समान कर्म-निक्षेपस्यापहरणं नराश्वरजतस्य च । भाष्य— निक्षेपस्यासारद्रव्यस्यापि । [ एकादश: किि क ) नराश्वशब्दो जातिशब्दो, नारीहरणेऽप्येतदेव । यो हि दुहितरं दत्वाऽसति नर-दोषेऽन्यस्मै पुनर्ददाति, तस्याप्येतदेव । तदुक्तं ' प्राप्नोति पुरुषोऽनृतम् ' इति ॥५६ ॥
हिन्दी - ब्राह्मण के सुवर्ण के अतिरिक्त धरोहर को हड़पनेवाला और मनुष्य ( दास-दासी ), घोड़ा, चाँदी; भूमि, हीरा, मणि चुरानेवाला सुवर्ण चुराने समान है ॥
गुरुपत्नी सम्भोग के समान कर्म-रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥५७ ॥
भाष्य – स्वयोनयो भगिन्य एकोदरसम्भूताः । कुमार्योऽनूढाः । हिन्दी — जातिश्रेष्ठता के लिए असत्य भाषण, राजा से ( दूसरे के मृत्युकारक ) चुगलखोरी, गुरु से असत्य कहना — ये ब्रह्महत्या के समान हैं ॥५४ ॥
ब्रह्मोज्झतां वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ५५ ॥
भाष्य — अधीतस्ववेदस्यानाभ्यासेन विस्मरणं ब्रह्मोज्झता । नित्यस्वाध्याय-गर्हितानाद्ययोः । गर्हितं शास्त्रप्रतिषिद्धं लशुनाद्यनाद्यममनस्तुष्टिकरं, न भोक्ष्य इति कल्प्य यद्भुज्यते ॥५५ ॥
हिन्दी — पढ़े हुए वेद का ( अभ्यास नहीं करने से ) विस्मरण, ( असत् शास्त्र का आश्रयकर ) वेद की निन्दा करना, गवाही में असत्य कहना, ( अब्राह्मण भी ) मित्र की हत्या, निन्दित ( लहसुन, प्याज आदि ) तथा अभक्ष्य ( मल = मूत्रादि ) पदार्थों का भोजन —ये ६ पद्यपान के समान हैं ॥ ५५ ॥
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ५६ ॥
पृष्ठ 617
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता अन्त्यजा बर्बरचंडालस्त्रियः । ५७७ सख्युः । सखा मित्रं तस्य स्त्रियः । स्त्रीग्रहणं न जायायामेव प्रतिषेधार्थम् । एवं पुत्रस्यान्यापि या अवरुद्धा मैथुनधर्मेण । वयं तु · ब्रूमः । सत्यपि स्त्रीग्रहणेनोढानूढयोर्विषमसमीकरणस्यान्याय्यत्वात्सम-त्ववचनम् । एतन्न प्रायश्चित्तनिर्देशार्थं, किं तर्हि, गुरुत्वख्यापनपरम् । अतश्च गुरुतरं प्रायश्चित्तं भवति । तथा चोक्तं ' एनसि गुरुणि गुरूणि लघुनि लघूनि ' । यदि ह्येतत्प्राय-श्चित्तनिर्देशार्थमभविष्यत्प्रायश्चित्तनिर्देशप्रकरण एव वाऽवक्ष्यत् । कौटसाक्ष्यसुहृद्वधयो-श्चेह सुरापानसमीकृतयोर्ब्रह्महत्याप्रायश्चित्तातिदेशमुपरिष्टान्न कुर्यात् । ' गुरोश्चालीकनिर्बन्ध ' इत्येतस्य चेह ब्रह्महत्यासमीकृतस्य पुनरुपरिष्टात् ब्रह्महत्याप्रायश्चित्ताभिधानात् । तथा कुमार्यामिति रेतःसेकस्य गुरुतल्पसमीकृतस्येह पुनस्तत्र गुरुतल्पप्रायश्चित्तविधानाद्गम्यते नेदं प्रायश्चित्तार्थं समीकरणमिति । अन्ये तु मन्यन्ते । भेदेन समीकरणं गुरुत्वभावेऽपि विवक्षिते नान्याय्यम् । अतः प्रायश्चित्तार्थमेव सुरापानस्य समीकृतयोश्च कौटसाक्ष्यसुहृद्वधयोर्ब्रह्महत्याप्रायश्चित्तनिर्देशो विकल्पार्थं सुरापानप्रायश्चित्तेन । अस्य चातिदेश एव श्रूयते । समीकरणे तु विकल्पो नास्ति । यथा ‘ हत्वा गर्भमविज्ञातम् ' इति ॥५७ ॥
इदानीमुपपातकान्याह— हिन्दी — स्वयोनि ( सहोदर बहन ), कुमारी, चाण्डाली, मित्र तथा पुत्र की स्त्री में वीर्यपात अर्थात् उसके साथ सम्भोग करना, ये गुरु ( २।१४२ ) की पत्नीके साथ सम्भोग करने के समान है ॥५७ ॥
विमर्श - इन ( ११।५५-५७ ) वचनों से जिस कर्म को जिसके समान बतलाया है, वह उस कर्म के उस प्रधान पापकर्म के समान प्रायश्चित्त के लिए है । गवाही में असत्य बोलने तथा मित्रवध करने को मद्यपान के समान कहकर आगे ( ११।८७ ) इनका प्रायश्चित्त कहा है, उसे पाक्षिक समझना चाहिये । गुरु से असत्य कहने को ब्रह्महत्या के समान बतलाना और फिर उससे निवृत्त्यर्थ ब्रह्महत्या का प्रायश्चित्त बतलाना मुख्य पाप की अपेक्षा उसके समान कहे गये अप्रधान पाप को करने पर प्रायश्चित्त की लाघवता-प्रदर्शनार्थ है; क्योंकि लोक में भी ' राजा के समान मन्त्री है ' कहने पर राजा से मन्त्री को हीन ही माना जाता है । यहाँ औपदेशिक प्रायश्चित्तों से आतिदेशिक तथा समीकृत प्रायश्चित्त का हीन प्रायश्चित्त होता है ।
उपपातक कथन -गोवधोऽ याज्यसंयाज्यं पारदार्यात्मविक्रयाः ।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ५८ ॥
पृष्ठ 618
पाठ पढ़ें पाठ छिपाएँ
५७८ मनुस्मृतिः [ एकादश: भाष्य — अयाज्या अविरुद्धापातकिशूद्रादयस्तेषां संयाज्यं संयाजनम् । भावे ण्यच्छांदक्षः । आत्मविक्रयं गवादिद्रव्यवदात्मनः परविधेयकरणं दास्येन अन्ये तु पारदार्यमविक्रयमिति पठन्ति । अनुत्साहो निराहारः स्वल्प एवोपघातेऽवसादाश्रयणम् । गुरोस्त्यागो यथावदननुवृत्ति: अध्यापनसमर्थेऽध्यापयितर्युपाध्यापकान्तराश्रयः । एवं मातापित्रोः । अपतितानां चैतेषां त्यागो दोषाय । पतितानां त्विष्ट एव । स्वाध्यायाग्न्योस्त्याग इति सम्बध्यते । स्वाध्यायस्य त्यागश्च ' अहरहः स्वाध्याय-मधीयीत ' इत्यस्य विधेरननुष्ठानम् । “ किमैकाहिके माससांवत्सरिके वा त्यागे व्यतिक्रमोऽयम् ” । अविशेषादैकाहिके प्राप्नोति । तदयुक्तम् । एतस्य विधेर्नित्यत्वात् । नित्यानां च व्यतिक्रमे प्रायश्चित्तांतरं वक्ष्यति । तस्माद्विस्मरणपर्यन्तस्त्यागोऽभिप्रेतः । स ब्रह्मोज्झतापदेन सुरापानेन समीकृतः । तत्र विकल्पनार्थमेतत् । अस्य.च लघुत्वात्तस्य गुरुत्वाद्व्यवस्थायां विकल्पो योज्यः । तत्र यो वैदिक एवान्यस्मिन् कर्मणि युक्ततया स्वाध्यायं जहाति तस्योपपातकत्वम्, यस्तु भोगसेवयाऽर्थपरतया कलहशील-तया जहाति तस्य सुरापानसमत्वम् । अग्नेस्त्वेकत्वविशिष्टस्येहोपादानाद्गृह्यस्येति द्रष्टव्यम् । ‘ प्रागग्नीनिति ’ बहुवचना-च्छ्रौतानां ग्रहणम् । “ ननु च तत्रापि चान्द्रायणमुक्तमिहाप्युपपातकत्वात्तदेवात्र वाच्यम् ” । नैष दोषः । उपपातकेष्वप्यन्यान्यपि प्रायश्चित्तानि सन्ति 1 । शक्त्यपेक्षया गुरुलघु-भावो न्यूनाधिकभावः । अतो नियमार्थं तत्र चान्द्रायणग्रहणम् । सुतस्य त्यागोऽभरणं गृहान्निष्काशनमशिशोः प्राप्तस्य च गुणवतः, पातकिनस्तु न दोषः ॥५८ ॥
हिन्दी — गोवध, अयाज्ययाजन, परस्त्री गमन, आत्मविक्रय; गुरु, माता और पिता का त्याग अर्थात् उनकी सेवा - शुश्रूषा नहीं करना; ब्रह्मयज्ञ ( वेदाध्ययन ); स्मार्त अग्नि और पुत्रक त्याग ( पुत्र को संस्कृत तथा भूषणादि से अलङ्कृत नहीं करना ) ॥५८ ॥
पृष्ठ 619
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ५ ९ ॥
भाष्य - अनुजः कनीयान् भ्राता ।
तयोर्याजनं विवाहे दर्शपूर्णमासादौ वाऽऽर्त्विज्यम् ॥५ ९ ॥।
५७ ९ हिन्दी — परिवित्ति तथा परिवेत्ता ( ३।१७१ ) को कन्यादान देना और यज्ञ कराना ।
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
तडागारामदाराणामपत्यस्य च विक्रयः ॥ ६० ॥
भाष्य- - कन्याया दूषणं नेयं कन्या पुरुषेणोपभुक्तेत्यध्यवसायेन प्रतिपादनम् । अङ्गुष्ठादिना वा प्रजननं धर्मभेदो मैथुनधर्मवर्जम् । तत्र हि गुरुतल्पसाम्यमुक्तम् । वार्धुषित्वं अनापदि धनप्रयोगेन वृत्तिग्रहणम् । वासिष्ठे तु ' वृद्धेस्तु प्रयोक्ता धान्यानां वार्धुषित्वं तदुच्यते ' । सा च शास्त्रपरिभाषा । न लौकिके वा पदार्थे । व्रतच्युतिः शिष्टप्रतिषिद्धेऽमुष्यगृहे न भोक्तव्यमुपवस्तव्यमेवंरूप: संकल्पो ‘ व्रतम् ’ । ततो यः संकल्पाच्चलति सा तस्य व्रतच्युतिः । " ननु च व्रतमिति इच्छाकृतो नियम उच्यते । यदि चेच्छाकृतः संकल्पस्ततो निवृत्तौ कः शास्त्रातिक्रमो ' विहितमकुर्वन् प्रायश्चित्तीयत ' इत्युक्तम् । न चैतद्विहितम् ” । उच्यते T । सत्यमिच्छालक्षण आरंभः । समाप्तिस्तु शास्त्रीया । यथा सौर्यादीनां काम्यानां कर्मणां लिप्सातः प्रवृत्तिः, समाप्तिस्तु शास्त्रीया । अतीतायां फलेच्छायामवाप्ते वा फले यथोक्तं तदर्थ एवावशिष्टं वर्जयेयुः ( × × ) प्राक्रमिकोऽयं कापुरुष इति वदन्तः । स्नातकव्रतानां त्वत्यन्तलघीयः प्रायश्चित्तं प्रवक्ष्यते । तेनेदं विकल्पितुमर्हति । आराम उद्यानोपवनादि 1 । स्मृत्यन्तरे सर्वभूमिरविक्रेया ॥६० ॥
हिन्दी – कन्यादूषण ( कन्या की योनि में अङ्गुल्यादि डालकर कन्या को क्षतयोनि करना ) सूद लेना, व्रत ( ब्रह्मचर्य आदि ) को ( मैथुनकर्मादि से ) नष्ट करना, तडाग, उद्यान ( बगीचा, फुलवाड़ी आदि ) स्त्री और सन्तान को बेचना ॥६० ॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च ।
भृताच्चाध्ययनादानमपण्यानां च विक्रयः ॥ ६१ ॥
भाष्य — बान्धवा ज्ञातयः सोदरादिभ्योऽन्येपि मातुलमातृष्वस्रेयादयः । सति विभवे तेऽप्यजीवन्तो भर्तव्या: । तदुक्तं ' स्वजने दुःखजीविनि ' इति । “ यद्येवं सुतस्येत्याद्यनर्थकम् ” । न, अनन्यार्थं वचनम् । जालपादप्रतिषेधे हंसप्रतिषेधवत् । तेन मात्रादित्याग
पृष्ठ 620
पाठ पढ़ें पाठ छिपाएँ
५८० मनुस्मृतिः [ एकादश: उपपातकमेव । इह तु लघीय इति । भृत्याध्यापनम् ।
भृतकस्य सतोऽध्यापकत्वात् यश्च भृतकादधीते ।
अपण्यानि दशमे उक्तानि ॥ ६१ ॥
हिन्दी - व्रात्यभाव ( २।३ ९ ), ( चाचा - ताऊ आदि ) बान्धवों का त्याग ( उनके अनुकूल नहीं रहना ), वेतन लेकर पढ़ाना, वेतन देकर पढ़ना अविक्रेय ( नहीं बेचने योग्य ) सौदों को बेंचना ॥६१ ॥
महायन्त्रप्रवर्तनम् । सर्वाकरेष्वधीकारोः हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ ६२ ॥
भाष्य — आकराः सुवर्णादिभूमयस्तत्राधिकारो राजनियोगेनाधिपतित्वम् सर्व-ग्रहणादन्यदप्यर्थोत्पत्तिस्थानं गृह्यते । तेन ग्रामनागरनियोगो व्यवहारदर्शनदण्डग्रहणा-दियोगः । एवमेव यन्त्राणि सेतुबन्धादीनि जलप्रवाहनियमार्थानि तेषां महतां प्रवर्त्तनम् । औषधीनामशुष्काणां हिंसाच्छेदः ' । स्त्रीणामाजीवः । स्त्रिय उपजीव्यते । स्त्रीधनेन शरीरकुटुंबधारणं क्रियते । भार्या-पण्यभावो वेशस्त्रीप्रयोजनं वा ।
अभिचारो वैदिकेन शापादिना मन्त्रप्रयोगेण श्येनादियागेन वा शत्रुमारणम् ।
मूलकर्म वशीकरणं मन्त्रादिक्रिययैव ॥६२ ॥
हिन्दी- - सब आकरों ( खान- सुवर्ण आदि की खानों ) में राजाज्ञा से अधिकार होना ( ठेका लेना ), बड़े - बड़े यन्त्रों ( नदी आदि के प्रवाह को रोकनेवाली मशीनों आदि ) को चलाना, औषधियों की हिंसा, स्त्री की कमाई ( नृत्य, गायन आदि निषिद्ध कर्मों से स्त्री का उपार्जित धन ) खाना, ( श्येनादि यज्ञ के द्वारा मारण आदि ) अभिचार कर्म करना, ( मन्त्र प्रयोग से ) वशीकरण ॥६२ ॥
इन्धनार्थमशुष्काणां
द्रुमाणामवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ ६३ ॥
भाष्य – इन्धनाद्यर्थं तु न दोषः अग्निशुद्धत्वाच्छुष्कसर्वसम्भवे । क्रियारम्भः पाकारम्भ: । ' आतुरत्वादेवात्मार्थं न भवेदिति ' प्रतिषेधात् । क्रिया-रम्भ एवं व्याख्यायते । क्रियारम्भे हि प्रायश्चित्तोपदेशादेव प्रतिषेधः कल्प्येत । न ह्यप्रतिषिद्धप्रायश्चित्तं युक्तं ‘ निन्दितं च समाचरन् ' इति वचनात् । अद्य पुनर्यत्प्रभाषितं