मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 651–660
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 651–660
पृष्ठ 651
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६११ करे और अपात्रीकरण ( ११।६८ ) कर्मों में से किसी एक कर्म को करनेवाला तीन दिन तक गर्म यवागू ( लपसी ) खावे ॥१२४ ॥
क्षत्रियादि के वध का प्रायश्चित्त-तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ १२५ ॥
भाष्य — सवनगतयो राजवैश्ययोर्ब्राह्मणसममुक्तम् । इह तु ततोऽन्यत्र । स्वधर्मा-नुष्ठानयोश्चतुर्थाष्टमविभागविधिः । तथा च वृत्तस्य ग्रहणं सर्वक्रियार्थम् । त्रीणि वर्षाणि क्षत्रियस्य, सार्धवर्षं वैश्यस्य, नव मासान् शूद्रस्य । यत्तु ‘ स्त्रीशूद्रविट्क्षत्रियवध ' इति तत्परित्यक्तस्वकर्मणोः अधर्मस्थितयोः । शूद्रस्य ' वृत्तं ' द्विजशुश्रूषादि, न महायज्ञानुष्ठानं च । वृत्तं शीलं वैश्यवृत्तौ वैश्यस्य वृत्तावेव वा तिष्ठति । गहने यथा समये ‘ तियच्छ-ग्निवेति ' । स्वधर्मपराणां विधिवत्प्रायश्चित्तम् ॥१२५ ॥
हिन्दी - ब्रह्महत्या का चौथाई भाग क्षत्रिय के वध करने पर, आठवाँ भाग सदाचारी वैश्य का वध करने पर और सोलहवाँ भाग शूद्र के वध करने पर पाप होता है ॥१२४ ॥
विमर्श - उक्त पाप सदाचारी क्षत्रियादि का इच्छापूर्वक वध करने पर होता है, अतएव उसकी शुद्धि भी क्रमशः तीन वर्ष, डेढ़ वर्ष तथा नव मास तक ब्रह्महत्या के प्रायश्चित्त से होती है । अनिच्छा से क्षत्रियघाती ब्राह्मण को प्रायश्चित्त-अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः ॥ १२६ ॥
भाष्य — इदमपरं दानप्रायश्चित्तम् । सम्भवद्वित्तस्य तपो नास्तीति वक्ष्यति, ' दानेन वधनिर्णेकम् ' इत्यादि । अकामत इति न विवक्षितं, महत्त्वात्प्रायश्चित्तस्य । यदि वा ' सवनगतयोरेवा-कामत ' इति कल्पनीयम् । वृषभ एको यासां सहस्रे सा वृषभैकसहस्राः ॥ १२६ ॥
हिन्दी— अनिच्छापूर्वक क्षत्रिय का वध करनेवाला ब्राह्मण अच्छी तरह व्रतकर एक बैल के साथ सहस्र गायों को ब्राह्मण के लिये देवे ॥ १२६ ॥
पृष्ठ 652
पाठ पढ़ें पाठ छिपाएँ
६१२ मनुस्मृतिः क्षत्रियवध का अन्य प्रायश्चित्त-त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् । वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥ १२७ ॥
भाष्य – आद्योऽर्धः श्लोकस्तुरीय इत्यस्यानुवादः । जटीति चीरखट्वाङ्गधारणादिनिवृत्त्यर्थमिति केचित् । [ एकादश: तदयुक्तं तत्रैव ते धर्मास्तदीयतुरीयभागातिदेशो नान्येषां सत्यपि सम्भवे, सरस्वती-परिसर्पणादीनामिव प्रयोजनसत्त्वोपपत्तौ ।
दूरत इति ग्रामान्निवृत्ति: ।
वृक्षमूले कुटीं कृत्वेति ॥१२७ ॥
हिन्दी – अथवा संयमी तथा जटाधारी होकर ग्राम से अधिक दूर पेड़ के नीचे निवास करता हुआ तीन वर्ष तक ब्रह्महत्या के प्रायश्चित्त को करे ॥१२७ ॥
वैश्यवध का अन्य प्रायश्चित्त—
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥ १२८ ॥
भाष्य – पूर्वत्राष्टमोंऽशः, अनेन द्वादशो विधीयते । अल्पत्वादब्दं न्यूनगुणस्य विधिरयमिति विज्ञायते । " ननु वृत्तस्थं इति श्रुतम् ” ।
सत्यम् । सम्प्रति वृत्तस्थो वधकाले, प्रानिर्गुण इति ।
पूर्ववदिति ज्ञेयम् ॥१२८ ॥
| यस्तु सर्वदैव वृत्तस्थस्तस्य हिन्दी— ( अनिच्छापूर्वक ) सदाचारी वैश्य का वध करनेवाला ब्राह्मण इसी ( ११।१२७ ) प्रायश्चित्त को करे तथा एक बैल के साथ सौ गायों को ( ब्राह्मण के लिए ) दे ॥१२८ ॥
शूद्रवध का प्रायश्चित्त—
एतदेव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् ।
वृषभैकादशा वाऽपि दद्याद्विप्राय गाः सिताः ॥ १२ ९ ॥
भाष्य – अत्रापि मासषट्कं नवकं च वृत्तस्थेतरभेदेन योज्यम् । यथाश्रुतसंख्यं च गोदानं सर्वत्र वैकल्पिकम् । द्विजोत्तमग्रहणं च प्रदर्शनार्थम् । सिता न वर्णतः । किं तर्हि? शुद्धिसामान्याद्या बहुक्षीरास्त्र्यपत्या अनष्टप्रजाश्च॥१२९ ॥
पृष्ठ 653
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ६१३ हिन्दी – ( अनिच्छापूर्वक सदाचारी ) शूद्र का वध करनेवाला ब्राह्मण छः मास तक इसी ( ११।१२७ ) व्रत को करे तथा एक बैल के साथ ग्यारह गायों को ब्राह्मण के लिए दे ॥१२९ ॥
विमर्श - अनिच्छापूर्वक क्षत्रिय आदि का वध करने पर इस व्रत के लघु होने से पूर्व ( ११।१२५ ) वचन के साथ इन तीनों ( ११।१२७ - १२ ९ ) की पुनरुक्ति नहीं होती ।
बिल्ली आदि के वध का प्रायश्चित्त-मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ १३० ॥
भाष्य — अतिमहत्त्वात्प्रायश्चित्तस्य समुदायवधे प्रायश्चित्तमेतत् । “ ननु चात्र साहित्यं न विवक्षितमित्युक्तं यतो जातिभ्रंशकरादिषु । कथं चैते सर्वे चैकस्य हन्तव्यतया उपनयेयुः । अतिरिक्तसद्भावे न तन्निमित्तं स्यात् । अर्थान्तरमेवैत-द्वशेनैव तच्छक्यते वक्तुम् । तेनावृत्तेन हन्ता । अधिकवधे त्वन्यद्भविष्यति । नैतच्छूयते न्यूने वधे च न स्यात् । पयः पिबेदित्यादि प्रत्येकविधेन सम्बध्यते । न समुदाये प्रत्येकं वाक्यपरिसमाप्तिः समुदाये वा । अर्थान्तरे तु स्थातुं लभ्यते ” । यत्तावदुच्यते साहित्यं न विवक्षितमिति । तत्र न विवक्ष्यते यत्र प्रत्येकं सम्ब-न्धिवाच्यमर्थवत् । यथा ‘ यस्य पिता पितामहः सोमं न पिबेत् ' इति । यत्र पुनरविवक्ष्यमाणे वाच्यमेवानर्थकं तत्र तत्परिहारार्थं युक्ता विवक्षा । यथा वक्ष्यति ‘ सहस्रस्य प्रमापणे पूर्णे वानसीति ' । अत्राविवक्षायां सहस्रस्येति व्यर्थं स्यात् । एवं हि शास्त्रान्तरविरोधादति-महत्त्वे युक्तैव विवक्षा । “ ननु च पदोपादानतायामपि लक्षणागतस्य विशेषणस्याविवक्षैव । यथा यस्यो-भयं हविरित्युभयशब्दार्थं तत्र तुल्यम् । अत्र हविरुभयमिति च पदद्वये वक्ष्यमाणे वाक्य-भेदः । हविरत्रोभयं चेति । यत्रावस्थाभेदस्तत्र वाक्यभेदपरिहारार्थमवश्यं भेदः । अन्यत-रस्मिन् व्यवहितो गुणो वा हातव्यो भवति । तथोभयशब्दे सर्वमस्ति । आच्छेदिति हविःशब्देन व्यवहितो भवति संख्यानुरूपत्वात् । गुणानुवादकत्वं वाऽस्यसम्भवति । अविवक्षिते च तस्मिन् परिशिष्टं वाक्यमर्थवाद एव । इह पुनः समुदायविवक्षायां सहस्त्रशब्दविवक्षायां वा कृत्स्नमेव वाक्यमनर्थकम् । तथा ह्येतावद्वाच्चं स्यात् । स्थानतां प्रमाणतां तथाऽस्यां शूद्रहत्यावतमित्येतावद्वक्तव्यं स्यात् । प्रमाणे शूद्रहत्येति । एतावतामेव हिंसा सम्भवति ” । तथाऽन्यदप्येवं जातीयकं विशेषणं न विवक्ष्येत, समानन्यायत्वात्, ‘ फलदानां तु वृक्षाणाम् ' इति । ततश्च सर्वमसमंजसंन्स्यात् ।
पृष्ठ 654
पाठ पढ़ें पाठ छिपाएँ
६१४ मनुस्मृतिः [ एकादशः पौरुषेयं चेदं वाक्यं नैव वैदिकम् । वेदे च कस्य पुरुषस्य प्रयोगः किमर्थमनर्थकं प्रयुक्तमिति । इह तु बुद्धिपूर्वे प्रयोगे मात्रायामप्ययुक्तमानर्थक्यम् । तत्साहित्यविवक्षा-विशेषणविवक्षा वायुक्तैव । यच्चोक्तं " कथं च तदिति सर्व ऐत इति च ”, तत्राप्या-खेटकार्थमृगयायां दावदाहिनो वा उपपद्यतयैव । यदप्युक्तमतिरिक्तसद्भावे न तन्निमित्तमिति, तदप्ययुक्तम् । न त्वाधिक्ये पूर्वेषां नाशो न्यूनेषु च तथैव कल्पना कार्या ॥१३० ॥
हिन्दी — बिल्ली, नेवला, चाष ( नीलकण्ठ ) पक्षी, मेढ़क, कुत्ता, गोह, उल्लू और कौवा; इनमें से किसी को मारकर शूद्रहत्या के व्रत ( प्रायश्चित्त ) को करे ॥ १३० ॥
पयः पिबेत्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् ।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाऽब्दैवतं जपेत् ॥ १३१ ॥
भाष्य – प्रत्येकं वधे प्रायश्चित्तान्तरमुच्यते । पयः क्षीरं, प्रसिद्धतरत्वात्प्रयोगस्य, नापः, सत्यामप्युभयार्थतायां; यथा ‘ पयसा जुहोति ' इति यथैव वराहशब्दो मेघे पर्वते सूकरे वर्तते । प्रसिद्धतरः सूकरे । पर्वतादि-प्रवृत्तौ सामानाधिकरण्यमपेक्षते ' वराहो हिमवान् ', ' वराहः पारियात्र ' इति । प्रकृते च भोजने भक्तादौ शरीरस्थित्यर्थ प्राप्ते तत्स्थाने पयो विधीयमानमन्यदन्नं निवर्तयति । तपोरूपत्वाच्चैतदेव प्रतिपत्तुं युक्तम् । तापयति दुःखयतीति तपः । अतो यथा ‘ प्राणायामे घृतप्राशनमिति ' नात्र पौरस्य भोजनं निवर्त्यते, एवमिह नाचमनं निवर्तयति । यो घृतप्राशनं भोजनान्तरनिमित्तं बाधत इति । नापः पयःपानेन विकल्पिताः, किं तर्हि? उपस्पृशेत् स्रवन्त्यामिति । पयःपाना-त्तद्गमने अध्वगमनशब्द उक्तस्य नद्यां स्नानम् । स्रवन्तिवचनात्तडागसरसोर्निवृत्तिः । शब्दैवतं ‘ आपो हि ष्ठा ’ इत्यादि ऋक्समुदायोक्तं पवमानसूक्तम् ।
स्मृत्यन्तरेषु ‘ कृशरभोजनमेकार्थं लोहदण्डं च दक्षिणेति ' ।
व्रजेत् न देशान्तरप्राप्तिरित्येव, किं तर्हि? पादाभ्यां गमनम् ॥१३१ ॥
हिन्दी – अथवा ( उक्त ११।१३० ) मार्जार आदि को मारनेवाला तीन रात दूध पीवे, या एक योजन ( चार कोश ) गमन करे, या नदी में स्नान करे अथवा ' अब्दैवत ' सूक्त ( वरुण हैं देवता जिसका ऐसा ' आपो हिष्ठा मयो भुवः....., इस मन्त्र ) को जपे ॥१३१ ॥
विमर्श - पूर्व ( ११।१३० ) श्लोकोक्त प्रायश्चित्त इच्छापूर्वक वध करने पर करना चाहिए और अनिच्छापूर्वक ( भूल से ) वध करने पर इस ( ११।१३१ ) श्लोक में वर्णित
पृष्ठ 655
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६१५ प्रायश्चित्त को करना चाहिये । इसमें वर्णित चारों प्रायश्चित्तों में से पहले करने के लिए सामर्थ्य नहीं रहने पर दूसरा तथा दूसरे को करने के लिए सामर्थ्य नहीं रहने पर तीसरा इसी क्रम से आगे वाले चौथे प्रायश्चित्त को करना चाहिए । इन चारों प्रायश्चित्तों को तीन-तीन रात अर्थात् तीन - तीन दिन करना चाहिए । साँप तथा नपुंसक को मारने का प्रायश्चित्त-अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलाल भारकं षण्ढे सैसकं चैकमाषकम् ॥ १३२ ॥
-द्विजोत्तमग्रहणमतंत्रम् । भाष्य-तीक्ष्णामायसीमध्रीम् । कार्ष्णायसीग्रहणं काष्ठादिनिवृत्त्यर्थम् । षण्ढे नपुंसके । तच्चतुर्विधम् । अरेतो वातरेतो वा अप्रवृत्तेन्द्रियमुभयव्यञ्जनं वा । सर्वप्राणिमात्रसम्बन्धेनैतत्प्रायश्चित्तम् । ब्राह्मणस्य शूद्रस्य मेषस्य छागस्य च॥१३२ ॥
हिन्दी — द्विजश्रेष्ठ साँप को मारकर काले लोहे का बना तीक्ष्णाग्र डण्डा तथा नपुंसक को मारकर एक भार ( १ गाड़ी - २० मन ) पुआल और एक मासा सीसा ब्राह्मण के लिए दान करे ॥ १३२ ॥
सूअर आदि के वध का प्रायश्चित्त—
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
शुके द्विहायनं वत्सं क्रौंचं हत्वा त्रिहायनम् ॥ १३३ ॥
भाष्य — वराहः सूकरस्तस्मिन्हते घृतघटं दद्यात् ।
चतुराढको द्रोणः ।
हायनो वर्षम् वत्सो गोजातीयो बालः ॥१३३ ॥
हिन्दी - सूअर का वध करने पर घी से भरा घड़ा, तीतर के वध करने पर एक द्रोण ' ( १६ सेर ) तिल, तोते का वध करने पर दो वर्ष का बछड़ा औ क्रौञ्च पक्षी का वध करने पर तीन वर्ष का बछड़ा दान करे ॥ १३३ ॥
हंसादि के वध का प्रायश्चित्त-हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥ १३४ ॥
१. एतदर्थममरकोषस्य ‘ अस्त्रियामाढकद्रोणौ ( २।९ ।८८ ) श्लोकस्य मत्कृतामरकौमुदी-टिप्पणी द्रष्टव्या । मनु II 41
पृष्ठ 656
पाठ पढ़ें पाठ छिपाएँ
६१६ मनुस्मृतिः [ एकादश: भाष्य — हंसादयः पक्षिणः । वानरो मर्कटः ।
स्पर्शयेद्दद्यात् ।
प्रत्येकवधे चैतत्प्रायश्चित्तं, द्वन्द्वानिर्देशादित्युक्तम् ॥१३४ ॥
हिन्दी — हंस, बलाका, बगुला, मोर, वानर, बाज और भास को मारकर ब्राह्मण एक गाय दान करे ॥ १३४ ॥
घोड़ा आदि के वध का प्रायश्चित्त-वासो दद्याद्धयं हत्वा पंच नीलान्वृषान्गजम् । अजमेषावनड्वहं खरं भाष्य — योऽश्वः । गजो हस्ती ।
-अनड्वान् पुंगवः । अजमेषवधे ।
हत्वैकहायनम् ॥ १३५ ॥
खरवधे अनडुत्साहचर्यादेकहायनो गोवत्सः ॥ १३.५ ॥
हिन्दी - घोड़े का वध कर कपड़ा, हाथी का वधकर पाँच नीले बैल, अज ( खसी ) तथा भेंड़ का वधकर बैल और गधे का वधकर एक वर्ष का बछड़ा दान करे ॥ १३५ ॥
बाघ आदि के वध का प्रायश्चित्त-क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ १३६ ॥
भाष्य — क्रव्यादास्तरक्षुसिंहमृगादयः । अक्रव्यादाः रुरुपृषतादयः । धेनुगैरिव । कृष्णलं विशिष्टपरिमाणं सुवर्णम् । दण्डाधिकारशास्त्रपरिभाषा । अन्यत्र लौकिक-मेव । ‘ शतकृष्णलं घृतमायुष्काम ' इति ॥१३६ ॥
हिन्दी — क्रव्याद ( कच्चे माँस खानेवाले बाघ आदि ) पशु का वधकर दुधारू गाय, अक्रव्याद ( माँस नहीं खोनेवाले मृग आदि ) पशु का वधकर प्रौढ़तर बछिया तथा ऊँट
का वधकर एक कृष्णल ( रत्ती - ८ । १३४ ) सोना दान करे ॥ १३६ ॥
व्यभिचारिणी ब्राह्मणी स्त्री आदि के वध का प्रायश्चित्त-जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये I चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥ १३७ ॥
भाष्य — अनवस्थिताः । बहुभिः संगच्छमाना वेश्यावृत्तमाचरन्त्योऽ‘नवस्थिता ’ भवन्ति । न पुनः शास्त्रातिक्रममात्रम्, तथा सति न परपुरुषसंप्रयोग एव लभ्यते । वर्णक्रमेण जीनादिदानात् जीनं चर्मपुटं मुटकाधारादिप्रयोजनम् । कार्मुकं धनुः । बस्तः छागः । अविर्मेषः ।
पृष्ठ 657
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
पृथग्ग्रहणं लिङ्गादुक्तं न समुदाये प्रायश्चित्तमिति ।
केचिद्गत्वेति पठन्ति तदयुक्तम् । हिंसाप्रकरणात् ॥१३७ ॥
६१७ हिन्दी — लोभ से ऊँच - नीच पुरुष के साथ व्यभिचार करनेवाली ब्राह्मणादि चारों वर्णों की स्त्रियों का वध करने पर क्रमशः चर्मपुट ( चमड़े का कुप्पा ), धनुष, बकरा और भेंड़ दान करे ॥ १३७ ॥
[ वर्णानामानुपूर्व्येण त्रयाणामविशेषतः । अमत्या च प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ॥ ९ ॥ ]
-[ हिन्दी – क्रमशः तीनों वर्णों में से किसी स्त्री का भूल से वधकर शूद्रहत्या का व्रत ( प्रायश्चित्त ११।१२ ९ ) करे ॥ ९ ॥ ]
सर्पादिवध का अन्य प्रायश्चित्त-दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् ।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापनुत्तये ॥ १३८ ॥
भाष्य – निर्णेकः शुद्धिः । हिंसायां दानं मुख्यमिति दर्शयति । न च तस्यैकैकश इति लिङ्गात् क्वचित्समु-दायेऽपीति ।
द्विज इत्यादिपादपूरणम् ।
अविशेषग्रहणे कृच्छ्रशब्दं प्राजापत्ये इति स्मरन्ति ॥ १३८ ॥
हिन्दी — साँप आदि के वध का निवारण पूर्वोक्त ( ११।१३२-१३७ ) दोनों को करने में असमर्थ द्विज एक - एक पाप की निवृत्ति के लिए एक - एक कृच्छ्र ( प्राजापत्य-११।२११ ) व्रत करे ॥१३८ ॥
हड्डीवाले आदि जीवों के वध का प्रायश्चित्त-अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ १३ ९ ॥ भाष्य — स्वल्पशरीरत्वमिहास्थिमत्त्वम्, अनस्थिसाहचर्यात् ।
अनः शकटस्तत्संख्यानमेतत् ।
उक्तार्थे सत्येव ॥ १३ ९ ॥
-हिन्दी – हड्डीवाले ( गिर्गिट आदि ) एक सहस्र क्षुद्र जीवों को तथा बिना हड्डीवाले ( खटमल, लीख, जूँ, मच्छर, ढील, चीलर आदि ) एक गाड़ी क्षुद्र जीवों को मारकर
पृष्ठ 658
पाठ पढ़ें पाठ छिपाएँ
६१८ मनुस्मृतिः
शूद्रहत्या व्रत ( ११।१२ ९ ) करे ॥१३९ ॥
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे । [ एकादश: अनस्थ्नां चैव हिंसायां प्राणायामेन शुद्ध्यति ॥ १४० ॥
भाष्य – किंचिदिति स्वल्पधनमुच्यते । परिमाणतः प्रयोजनतो मूल्यतश्च । पूर्वेषामेव प्रत्येकवध एतत् । अनुक्तनिष्कृतयश्चा'नास्थिमन्तो ' ज्ञेयाः । आत्मनिरोधः प्राणायामः । मलिनीयेषु यत्कृमिकीटवयोग्रहणं तदुपचितग्रहपरिमाणार्थम् । इदं तु ये क्षुद्रा मशकादयः ॥ १४० ॥
हिन्दी – हड्डीवाले ( गिर्गिट आदि ) क्षुद्र जन्तुओं में से किसी एक का वध करने पर ब्राह्मण के लिए कुछ दान करे और बिना हड्डीवाले ( खटमल आदि ) में से किसी एक का वध करने पर मनुष्य प्राणायाम से शुद्ध ( दोष रहित ) हो जाता है ॥
पेड़, लता आदि काटने पर प्रायश्चित्त-फलदानां तु वृक्षाणां छेदने जप्यमृक् शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ १४१ ॥
भाष्य - फलदा आम्रकण्टक्यादयः । ऋक्शतजपो द्विजानाम् । शूद्रस्य तर्हि किं? केचिदाहुः ‘ इन्धनार्थमशुष्काणाम् ' इति उपपातकंप्रायश्चित्तम् । तच्चन, अतिमहत्त्वात् । यदि न तद्भवति किमर्थं तर्ह्यपपातकेषूपदेशः । भूयोभूयः प्रवृत्तौ स्यादिति । तस्माच्छूद्रस्य द्विरात्रत्रिरात्रदीत्येव कल्पयेत् ।
गुल्मादयो व्याख्याताः ।
लता वृक्षशाखाः ॥ १४१ ॥
हिन्दी — फल देनेवाले ( आम, जामुन आदि के ) पेड़ गुल्म, ( गुडूची आदि ), ( पेड़ १. अत्र प्राणायामश्च— ' सव्याहृतिकां सप्रणवां सावित्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ’ इति वसिष्ठोक्तो ग्राह्यः ।
पृष्ठ 659
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६१ ९ की डालियों पर चढ़ी हुई ) लता और फूली हुई ( कद्दू -काशीफल आदि ), बेल के काटने पर सावित्र्यादि ऋक्शतका जप करे ॥ १४१ ॥
विमर्श - पहले ( ११।६३ ) इन्धन के लिए पेड़ काटने को उपपातक में कहकर यहाँ पुनः अज्ञान से एक बार फल देनेवाले वृक्ष आदि के काटने पर यह लघु प्रायश्चित्त कहना पूर्वापर विरुद्ध नहीं है । अन्न आदि में होनेवाले जीवों के वध का प्रायश्चित्त—
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ १४२ ॥
भाष्य — अन्नाद्याद्भक्तसक्त्वादेश्चिरस्थिताद्यानि जायन्ते सत्त्वानि प्राणिनः । रसजानामिति गुडोदश्विदादिभ्यः । उदुम्बरमशकादीनि फलपुष्पोद्भवानि । घृतप्राशः अशनप्रारम्भे घृतं पातव्यम् । ' प्र ' शब्द आदिकर्मणि । तेन न प्राकृतं भोजनं निवर्तते, यथा पयोव्रतादौ । तथा चैते प्राणिनः क्षुद्रजन्तवो, येषां वधे प्राणायाम
उक्तः । तदपेक्षयोपवासोऽतिमहान् । तस्मादाचमनवत् घृतप्राशनम् ॥ १४२ ॥
हिन्दी- - सब अन्न, ( गुड आदि ) रस, फल तथा फूलों में उत्पन्न होनेवाले जीवों को मारकर पापनिवृत्ति के लिए घी खाना चाहिए ॥१४२ ॥
खेती आदि से ओषधिनाशादि का प्रायश्चित्त-कृष्टजानामोषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेद्द्रां निनमेकं पयोव्रतः ॥ १४३ ॥
भाष्य- — फालकुद्दालादिना या: कृष्टे जायन्ते । याश्च स्वयं वने । तासां वृथा-लम्भे गवादि प्रयोजनेन विना छेदनम् ।
गवानुगमनम् । दिनमेकं परमहर्षाय परिचर्यते ।
पयोव्रतं भोजनान्तरनिवृत्तिः ॥१४३ ॥
हिन्दी – खेती से उत्पन्न ( साठी आदि ) तथा वन आदि में स्वयं उत्पन्न ( नीवार आदि ) ओषधियों ( १।४६ ) को निष्प्रयोजन नष्ट करने पर केवल दूध का आहार लेकर ( पूर्वोक्त ( ११।९९ -११३ ) विधि से ) एक दिन गौ का अनुगमन ( सेवन ) करे ॥ १४३ ॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।
भाष्य-ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ १४४ ॥
-हिंसासमुद्भवं हिंसात उत्पन्नमेनः पापमेतैरनन्तरोक्तैः प्रायश्चित्तैरपो-
पृष्ठ 660
पाठ पढ़ें पाठ छिपाएँ
६२० मनुस्मृतिः ह्यमपनोद्यम् । बुद्धिपूर्वकृतमबुद्धिपूर्वकृतं वा । ख [ एकादश: अनाद्यभक्षणेऽभक्ष्यभक्षणे यथा पापमपोह्यते तथा शृणुत ॥ १४४ ॥
हिन्दी – ( भृगुजी महर्षियों से कहते हैं कि ) ज्ञान या अज्ञान से की गयी हिंसा से उत्पन्न सब पाप इन ( १२।७२ - ११२ ) व्रतों से नष्ट होते हैं । अब अभक्ष्य भक्षण के प्रायश्चित्त को ( आप लोग ) सुनें ॥ १४४ ॥
अमुख्य सुरापान का प्रायश्चित्त-अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
प्रतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ १४५ ॥
भाष्य — मेखलादीनां निषेधादुपनयनं विज्ञायते । तच्च स्मृत्यन्तरात्तप्तकृच्छ्र-सहितम् । एवं हि गौतम: ‘ अमत्या मद्यपाने पयोघृतमुदकं वायुं प्रति त्र्यहं तप्तानि सकृच्छ्रास्ततोऽस्य संस्कार: ' ( २३/२ ) । सुरा चात्र न पैष्टी, किं तर्हि? गौडी माध्वी वा । “ कुत एतत् ” । स्मृत्यन्तरदर्शनात् । ‘ प्रमादान्मद्यमसुरां सकृत्पीत्वा द्विजोत्तमः । गोमूत्रयावका-हारो दशरात्रेण शुध्यति ' ॥ पैष्ट्याश्च प्रमादपाने प्रत्यवायप्रायश्चित्तात् । व्रतं विधि विज्ञाय संवत्सरं कणभक्षश्चान्द्रायणाभ्यासो वा । मतिपूर्वं तयोरपि पाने एतदनिर्देश्यम् । किं तर्हि? येन प्राणानामन्तो भवति । किं तत्? यत् मुख्यायाः सुराया उक्तम् । अभ्यासे चैतद्द्रष्टव्यम् । ‘ सकृत्पाने असुरा मद्यपाने चान्द्रायणमभ्यसेदिति ’ । तथाहि इयमत्र व्यवस्था । बुद्धिपूर्वं पैष्ट्याः पाने प्राणान्तमेव तस्या एवाबुद्धिपूर्वं सकृपाने कणभक्षणचांद्रायणाभ्यासोऽबुद्धिपूर्वेऽप्यसकृत्पाने बुद्धिपूर्ववत् । अन्येषां तु मद्यानां बुद्धिपूर्वत्वे चांद्रायणमभ्यसेदिति । अबुद्धिपूर्वं सकृत्पाने तप्तकृच्छ्रसंस्कारगोमूत्रयवक-द्रव्याणि । अबुद्धिपूर्वमसकृत्पाने पैष्टीवत् ॥१४५ ॥
हिन्दी — द्विज अज्ञान से वारुणी को पीकर पुनः संस्कार ( ११।१४ ९ ) से ही शुद्ध ( पाप रहित ) होता है तथा ज्ञान से पीकर मरकर ही शुद्ध होता है, ऐसी ( शास्त्र की ) मर्यादा है ॥१४५ ॥
विमर्श - इस वचन का विशदार्थ यह है— अज्ञान से गौडी तथा माध्वी ( क्रमश: गुड़ तथा महुए के बनी हुई मदिरा को ) पीकर तप्तकृच्छ्र ( ११।२१३ ) करके पुनः संस्कार ' १. तदुक्तं गौतमेन — ‘ अमत्या मद्यपाने पयोघृतमुदकं वायुं प्रत्यहं तप्तकृच्छ्रस्तोऽस्य संस्कार: ’ इति ।