मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 671–680
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 671–680
पृष्ठ 671
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६३१ रूई, रेशम आदि चुराने पर प्रायश्चित्त—
कार्पासकीटजोर्णानां द्विशफैकखुरस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ १६७ ॥
भाष्य- कीटजाः पट्टाः । द्विशफा गवादयः । एकखुरा अश्वादय: ।
पक्षिणः शुकश्येनादयः ।
रज्जुः कूपादेरुदकोदंचनी ॥१६७ ॥
हिन्दी — रूई, रेशम, ऊन ( या सूती, रेशमी, ऊनी कपड़ा ) दो खुरों वाले ( गाय, बैल, भौंस आदि ), एक खुरवाले ( घोड़ा, गधा आदि ) पशु, पक्षी, गन्ध ( कर्पूर, कस्तूरी, चन्दन आदि ), औषधि, रस्सी; इन्हें चुराकर तीन दिन तक केवल दुग्धपान करे ॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ १६८ ॥
भाष्य — उक्तार्थः श्लोकः ॥ १६८ ॥
हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि ) द्विज इन ( ११।१६१-१६७ ) व्रतों से चोरी के पाप को दूर करे और अगम्यागमन ( सम्भोग के अयोग्य स्त्री के साथ सम्भोग
करने ) के पाप को इन ( ११।१६ ९ -१७६ ) व्रतों ( प्रायश्चित्तों ) से दूर करे ॥१६८ ॥
सोदर भगिनी आदि के साथ सम्भोग करने का प्रायश्चित्त-गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ १६ ९ ॥ भाष्य- - गुरुतल्पव्रतमित्यविशेषवचनेऽपि, न तेन ' सुप्यादि’त्येवमाद्यतिदि-` श्यते, अपि तु ' प्राजापत्यं चरेदब्दम् ' इति महापातकत्वात् । न हि महापातकेभ्योऽन्यत्र ः मरणान्तं प्रायश्चित्तमस्ति । अभ्यासे तु स्यादिति । स्वयोनयो भगिन्यः सोदराः सख्युः स्त्रीषु सुहृद्भार्यासु । सुहृत्त्वमेवात्र कारणं, न यौनादिविशेषः, नापि श्रोत्रियत्वादिगुणः । एवं पुत्रस्य स्त्रीषु स्नुषासु । असमानजातीयास्वपि कुमारीषु पित्रादिभिरदत्तासु । स्वयं संप्रीत्यानुपनतास्वेत-देव बलाद्गमने । मनु II.42
पृष्ठ 672
पाठ पढ़ें पाठ छिपाएँ
६३२ मनुस्मृतिः [ एकादश: अत्रापि न सत्यपेक्षा | यद्यप्यतिदेशे विशेषो नास्ति तथापि प्रायश्चित्तद्वयं स्या-दिति, दृष्टत्वात् । तथा च गुरुलघुभावाद्धीनजातीयासु कृच्छ्राब्दाच्चांद्रायणं मासत्रयं लघीय आदेश्यम् । अन्त्यजाश्चाण्डालम्लेच्छादिस्त्रियः । चण्डालादिस्त्रीषु च स्मृत्यन्तरे ज्ञानाज्ञान-कृतो विशेष उक्तः । ‘ अन्त्यावसायागमने कृच्छ्रार्धमन्यासु द्वादशरात्रम् ' ॥१६ ९ ॥ हिन्दी – सोदर भगिनी ( सगी बहन ), मित्र - स्त्री, पुत्र- स्त्री कुमारी तथा चण्डाली के साथ ( सम्भोग में ) वीर्यपातकर गुरुपत्नी के साथ सम्भोग करने का ( ११।१०२-१०५ ) प्रायश्चित्त करना चाहिये ॥१६९ ॥
विमर्श —–— इस प्रायश्चित्त की भी एकबार तथा अनेक बार और ज्ञानपूर्वक तथा अज्ञानपूर्वक करने पर प्राणत्याग पर्यन्त करना चाहिये । फुआ की पुत्री आदि के साथ सम्भोग करने का प्रायश्चित्त— पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । TRE मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥ १७० ॥
भाष्य — पितृष्वसुर्दुहिता पैतृष्वसेयी भगिनी ।
मातृष्वस्त्रीया मातृष्वसुर्दुहिता ।
मातुश्च भ्रातुर्मातुलस्य दुहिता । आप्तस्य सोदर्यस्येत्यर्थः ॥१७० ॥
हिन्दी - फूआ की, मौसी की और मामा की पुत्री से सम्भोगकर ( मनुष्य दोष
निवृत्ति के लिए ) चान्द्रायणं ( ११।२ ९५-२१९ ) व्रत करे ॥१७० ॥
उक्त तीनों बहनों से विवाह का निषेध -एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ १७१ ॥
भाष्य- - “ ननु च सपिण्डा चेत्यनेनैवैतासामविवाह्यत्वे सिद्धे किमर्थमिदं नोप-यच्छेतेति ” । केचिदाहुः । अन्यासां पक्षेऽभ्यनुज्ञानार्थं सपिण्डश्लोके प्रतिषिद्धानाम् । तदयुक्तम् । पतति ह्युपयन्नध इति प्रायश्चित्ताविधानात् । एतस्मिंश्च प्रयोजने सम्भवति सपिण्डश्लोकस्य पाक्षिको बाधोऽयुक्तोऽगत्या हि विकल्प आश्रीयते । ज्ञातित्वेन बन्धुत्वेनेत्यर्थः । अनुपेया अविवाह्या अगम्याश्च । उपयन्विवाहयन् । अधः पतति नरकं प्राप्नोतीति यावत् । अथवा जातितो
पृष्ठ 673
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६३३ भ्रश्यति हीनजातीयः संपद्यते । यद्यपि जातेर्जीवत्पिण्डानपाय:, तथापि तत्कर्मानधि-कारादेवमुच्यते ॥१७१ ॥
हिन्दी- –उक्त तीनों ( ११।१७० ) प्रकार की बहनों को विद्वान् पुरुष भार्या के रूप में स्वीकार ( उनके साथ विवाह ) न करे; क्योंकि बान्धव होने से विवाह के अयोग्य उनके साथ विवाह करता हुआ मनुष्य नरक को जाता है ॥१७१ ॥
विमर्श — यद्यपि पहले ( ३।५ ) ऐसी कन्याओं से विवाह करने का निषेध कर चूके हैं, तथापि दाक्षिणात्यों में प्रसिद्ध इस विवाहाचार के निषेध की दृढ़ता के लिए पुन: यह वचन है । अमानुषी के साथ सम्भोग करने पर प्रायश्चित्त-अमानुषीषु
पुरुष उदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ १७२ ॥
भाष्य – अमानुष्यो वडवाद्याः । गोरमानुषीत्वेऽपि ' सखिसयोनिसगोत्राशिष्या-भार्यासु स्नुषायां गवि च तल्पसमः । अवकर ' ( गौ ० २३।१२ - १३ ) इति विशेष-विहितमेव । अनयोर्गुरुतल्पावकीर्णप्रायश्चित्तयोरबुद्धिपूर्वबुद्धिपूर्वभेदेन व्यवस्था । तल्प-शब्देन प्रसिद्धसम्बन्धादत्र शास्त्रे गुरुतल्पमेवोच्यते । ‘ अवकरो’ऽवकीर्णीनिमित्तम् । निमित्ते चातिदिष्टे तत्कार्यातिदेशः । ' सखी ' चात्र या पुरुषवन्मैत्रीमागता, न तु या सख्युः स्त्री । न ह्यत्र पुंयोगात्प्रवृत्तिः । न च भार्यासम्बन्धेन सम्बन्धोऽस्ति, सयोनिपदेन व्यवधानात् । तथा च वसिष्ठो ' गुर्वी सखी न च पात्रांगत्वात्कृच्छ्राब्दपात्रं न च पात्र-कुमारी अनयोस्तूपस्थादन्यत्र ’ । उदक्यायां च मासिकेन रजसाभिप्लुतो‘दक्या ' । पाठान्तरं ‘ पीत्वाधरं पुरुष इति उदक्यायामयोनिषु ' । एक एवार्थः । अयोनिः स्त्रीलिङ्गादन्यत्र स्थाने । तथान्ये ' जले खे च ' इति पठन्ति । “ ननु चायोनिग्रहणादेव सिद्धं ' ख ' इति न पठितव्यम् । आकाशः खशब्देनोच्यते । योनेरन्यश्च सः ” ।
नैष दोषः । योनिशब्देन साहचर्यात् अन्यदङ्गमेवोच्यत इति मन्यन्ते ।
जले साक्षात् ॥१७२ ॥
हिन्दी – अमानुषी ( गाय को छोड़कर घोड़ी, बकरी, भेंड़ आदि ), रजस्वला स्त्री, १. ‘ गोष्ववकीर्णी संवत्सरं प्राजापत्यं चरेत् ' इति शङ्खलिखितादिवचनादत्र ' अमानुषी ' शब्देन गोस्त्यागः कर्त्तव्यः ।
पृष्ठ 674
पाठ पढ़ें पाठ छिपाएँ
६३४ मनुस्मृतिः अयोनि ( मुख - गुदा आदि ) तथा पानी में वीर्यपात करके ( ११।२११ ) व्रत करना चाहिए ॥ १७२ ॥
[ एकादश: पुरुष कृच्छ्रसान्तपन पुरुषादि के साथ मैथुन करने पर प्रायश्चित्त— मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । क ) गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ १७३ ॥
भाष्य – मैथुनेषु । समनन्तरं सवाससः स्नानम् ।
-गोयाने गन्त्र्यादावप्सु चापि ॥१७३ ॥
क हिन्दी - पुरुष के साथ मैथुन कर तथा बैलगाड़ी पर, पानी में और दिन में स्त्री के साथ मैथुन कर द्विज को सवस्त्र स्नान करना चाहिये ॥१७३ ॥
चाण्डाली आदि के साथ सम्भोग करने पर प्रायश्चित्त-चंडालांत्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ १७४ ॥
भाष्य – चण्डाला म्लेच्छा दिगन्तवासिनः । तत्स्त्रीगमने प्रायश्चित्तं तदन्न-भोजने प्रतिग्रहे च । पततीति वचनात्कृच्छ्राब्दादधिकं प्रायश्चित्तं, न पुनः पातित्यमेव भोजने । ‘ अभोज्यानां तु भुक्त्वाऽन्नम् ' इतिप्राप्ते वचनमिदं कृच्छ्राब्दप्रायश्चित्तार्थम् । एवं प्रतिग्रहेऽपि ‘ मासं गोष्ठे पय ' इति प्राप्ते तदर्थमेव । ज्ञानात् साम्यमिति । कामकारकृतेऽपि प्रायश्चित्तविधानार्थेऽर्थवादोऽयम् । यत्-स्मृत्यन्तरेऽब्दशब्देन ज्ञाताज्ञातयोः प्रायश्चित्तमुक्तं तच्च दर्शितम् । अतः कुतोऽधिक-प्रायश्चित्तार्थता । " भुक्त्वा चेति केन सम्बध्यते ” । चाण्डालान्त्येत्यनेन । “ ननु च गुणीभूतमेतत् ” । गुणीभूतस्याप्यपेक्षायां सम्बन्धो दर्शितः । ' भुक्त्वा ' ' कस्ये’त्याकांक्षायां अन्यस्या-श्रुतत्वात्साम्यवचनाच्च चाण्डालान्त्यानामेव सम्बन्धः । अतोऽयमर्थो भवति चाण्डाल-स्त्रीम्लेच्छानामन्नमशित्वा तेभ्यः प्रतिगृह्य च स्त्रियं गत्वा सकृद्गमनात्प्रायश्चित्तम् । अभ्यासे तु साम्यमेव युक्तमनधिकारप्रायश्चित्तेन । यतः प्रतिनिमित्तं नैमित्तिकेन भवितव्यं न च तान्येकेन जन्मना शक्यन्तेऽनुष्ठातुम् ॥१७४ ॥
हिन्दी - चण्डाली तथा अन्त्यज ( म्लेच्छ आदि ) की स्त्री के साथ अज्ञानपूर्वक
पृष्ठ 675
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६३५ सम्भोग कर, भोजनकर और उनसे दान लेकर मनुष्य पतित होता है और अज्ञानपूर्वक उक्त कार्यों को करने पर उनके समान ( भ्रष्ट ) हो जाता है ॥१७४ ॥
व्यभिचारिणी स्त्री का विरोध और प्रायश्चित्त-विप्रदुष्टां स्त्रियं भर्त्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥ १७५ ॥
भाष्य- विशेषेण प्रदुष्टां निरुन्ध्यात्पत्नीकार्येभ्यो निर्वर्तयेत् ' अर्थस्य संग्रहे चैनाम् ' इत्यादिभ्यः । एकवेश्मनीति निगडबन्धे कर्तव्या । न स्वैरं भर्तृगृहे विहर्तुं लभेत । तत्र निरुद्धां प्रायश्चित्तं कारयेत् । किं पुनः । यत्पुंसः परदारेषु प्रायश्चित्तमुपपातकं ब्राह्मणस्य तत्समानहीनजातीयासु पारदार्य-मिति । वर्णान्तराणां तदेव । उत्तमागमने तु द्विगुणं वैश्यस्य त्रिगुणं ब्राह्मण्यां क्षत्रियस्य । तथाऽयं विशेषो द्वे परदारे त्रीणि श्रोत्रियस्येति । शूद्रस्य ब्राह्मणीगमने महापातकप्राय-श्चित्तम् । वैश्यस्य क्षत्रियागमनं उपपातकं द्विगुणं त्रिगुणम् । केचित्तूत्तमागमने शूद्रस्य ब्राह्मणीवदिच्छन्ति । ‘ प्रातिलोम्ये वधः पुंसाम् ' ( याज्ञ ० २।१८६ ) इति लिङ्गदर्शनादे-तदुक्तम् । दण्डेष्वपि विशेषो दर्शितः । यथैवोत्तमागमने पुंसां व्यवस्था तथैव स्त्रीणां हीनजातीयपुरुषसम्पर्के चेति । दोषेऽपि स्त्रीणामर्थं प्रायश्चित्तम् । ‘ प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च । बालश्चाषोडशाद्वर्षादशीतिपरतः पुमान् । ॥ ’ तथा दृष्टव्यभिचारायां गमने लघीयः । स्वैरिण्यां वृषल्यामवकीर्णः सचैलस्नाना-दुदकुम्भं दद्याद्ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणं भोजयेत् । क्षत्रियायां त्रि-रात्रोपोषणं यवाढकं दद्यात् । वैश्यवदित्यपि स्मर्यते । तद्वच्छूद्रभार्यायां द्रष्टव्यम् । ऋतौ वा गच्छतो गर्भमादधतो वा । ‘ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः । अप्रजाता विशुध्येयुः प्रायश्चित्तेन नेतरा ॥ ' अथवा या एता न केन चिदूह्यन्ते, वैश्येन चरन्ति, तद्गमनेऽस्ति प्रायश्चित्तं नेति संदेहः । " कुतः संशय: ' दारशब्दस्य संस्कारशब्दत्वात् । असति विवाहे न ता अस्य द्वारा इति व्यपदेश-
पृष्ठ 676
पाठ पढ़ें पाठ छिपाएँ
६३६ मनुस्मृतिः [ एकादश: मर्हन्ति । पारदार्ये च प्रायश्चित्तम् । अतो नास्तीत्यवगच्छामः । यतस्तु ‘ स्वदारनिरत ’ इति नियमो विहितोऽतो भवतीति मन्यामहे । “ किं पुनरत्र युक्तम् ” । अस्तीति । कुतः? नियमस्य विहितत्वात् । ‘ अकुर्वन्विहितमित्यादि, तदतिक्रमे प्रायश्चित्तस्मरणात् । माभून्नामोपपातकम् । न तावता प्रायश्चित्ताभावः प्रायश्चित्तार्थमुपपातकजातिभ्रंशकरादि परिगणितम् । सामान्यं तु निमित्तं सर्वत्राकुर्वन्विहितमित्यादि । उक्तं च प्राक् ‘ स्वैरिणीत्यादि ’ । “ ननु च मृतभर्तृपक्षेण पितृपक्षेण वासम्बद्धैव परदारव्यपदेश्या । अधिकाम-विहारित्वात् स्वैरिण्यः ” । सत्यम् । वेश्यास्वपि स्वातन्त्र्यावलम्बनः स्वैरिशब्दो न विरुध्यते । अतश्च तासां सचैलस्नानोदकुम्भादिदानम् । तत्र केचिदाहुः । व्रतमेतत् । ' तस्य ' व्रतं ' इत्युपक्रम्य ' व्रतानीमानि धारयेदिति ’ च यानि विहितानि तानि स्नातकव्रतानि, न सर्वपुरुषधर्मः ॥ १७५ ॥
हिन्दी - अत्यन्त दूषित ( स्वेच्छापूर्वक यत्र - तत्र व्यभिचार करनेवाली ) स्त्री को पति एक घर में रोके और पुरुष के लिए पर - स्त्रीसम्भोग में प्रायश्चित्त है; वह प्रायश्चित्त इस ( व्यभिचारिणी एवं रोकी गयी ) स्त्री से कराये ॥ १७५ ॥
विमर्श — इस वचन के कहने से ' स्त्रीणामर्द्धप्रदातव्यम् ' यह वसिष्ठोक्त स्त्रियों के लिए आधा प्रायश्चित्त करने का विधान अनिच्छापूर्वक व्यभिचार करने पर है ।
सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमंत्रिता ।
कृच्छ्रं चांद्रायणं चैव तदस्याः पावनं स्मृतम् ॥ १७६ ॥
भाष्य – प्रार्थिता समानजातीयेन पुनः संसर्गे चांद्रायणमुपपातकत्वात्सिद्धम् । गोघ्ननिवृत्त्यर्थं पुनश्चांद्रायणविधानं साकल्यविधानार्थम् । यावच्चैवमुक्तम्— ' माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा । दुहिता चार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता साध्वी धात्री वर्णोत्तमा च या ॥ '
पृष्ठ 677
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६३७ अत्र सत्यप्यतिदेशे न तुल्यप्रायश्चित्तता, दण्डविशेषदर्शनात् । तत्र मातर्युक्तमेव । मातृष्वसृप्रभृतीनां दुहित्रन्तानां कृच्छ्राब्दः । अवशिष्टानां चान्द्रायणाभ्यासः । तत्र या उक्तास्ताः सगोत्रा उच्यन्ते यज्जातीयास्तेन व्यपदिश्यन्ते, उत यस्मै दत्तास्तद्गोत्रा इति । उभयेनेत्याह, उभयथालिङ्गदर्शनात् । ‘ गोत्रं ’ वंशः पित्रादिरभिजनः, तत्सम्बन्धाच्च पितृष्वसृग्रहणमनर्थकं, सगोत्रा हि सा । अथ येनैकतां गतास्तद्भावमनुभवन्ति, तदा भर्तृगोत्रव्यपदेशार्हाः, तस्मिन् पक्षे पितृव्यस्त्रीग्रहणमनर्थकं भवति हि सा सगोत्रा । नन्वियं कस्येति लिङ्गाभावादुभयोरपि युक्ता । सर्वेषां तु दर्शनं भर्तृगोत्राः ‘ संगोत्राः ’ । यत्तु कैश्चिदुच्यते ‘ श्राद्धविधौ कुर्वन्तु पैत्रिकं गोत्रमिति ' तत्तत्रैवास्ति । अथवाऽ-प्यस्तिवचनात्तथा क्रियेत ॥१७६ ॥
हिन्दी – सजातीय पुरुष ( के साथ सम्भोग करने ) से दूषित वह स्त्री ( प्रायश्चित्त करने के बाद ) पुनः सजातीय के कहने पर उसके साथ सम्भोग करने ) से दूषित हो जाय तो उसे पवित्र करनेवाले कृच्छ्र तथा चान्द्रायण ( क्रमश: ११।२११, २१५-२१९ ) व्रत कहे गये हैं ॥ १७६ ॥
[ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेऽपसङ्गताः । अप्रजाना विशुध्येयुः प्रायश्चित्तेन नेतराः ॥ १० ॥ ]
[ हिन्दी — ब्राह्मण, क्षत्रिय तथा वैश्य की स्त्रियाँ शूद्र के साथ सम्भोग करने से दूषित होकर यदि सन्तान उत्पन्न नहीं करें तो प्रायश्चित्त से शुद्ध ( पापहीन ) होती हैं, दूसरी ( सन्तान उत्पन्न करनेवाली ) नहीं ॥ १० ॥ ]
चण्डाली सम्भोग का प्रायश्चित्त-यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः ।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ १७७ ॥
भाष्य — वृषल्यत्र चण्डाल्यभिप्रेता, महत्त्वात् । द्विरभ्यासे चेद्बुद्धिपूर्वे द्रष्टव्यम् । अन्यथा कृच्छ्राब्द एव वा । एकरात्रग्रहणात् । सर्वां रात्रिं शयानस्य तया सह गच्छतश्चैतद्विज्ञेयम् । सेवनं सम्भोगः । वृषलीशब्दो निन्दया प्रयुक्तो न जातिशब्दे । यत्करोति यत्पापं जनयति तत्त्रिभिर्वर्षैर्व्यपोहति विनाशयति । भैक्षाहारो जप-
पृष्ठ 678
पाठ पढ़ें पाठ छिपाएँ
६३८ मनुस्मृतिः [ एकादश: न्निति अविशेषचोदनायां भावी आसु परं च नास्तीत्याहुः । अन्ये तु यथाश्रद्धमन्यानि मन्त्रब्राह्मणवाक्यानि, न तु लौकिकं वाक्यम् । अविशेषेण मन्त्रजपस्य शुद्ध्यर्थं विहितत्वादृक्संहितामित्यादि ’ । यत्तु ' त्रिभिर्मासैः सेवित्वा वृषलीं ' शूद्रामेवाचक्षते, तदप्ययुक्तम् । शूद्राविवाह-स्याविहितत्वात्, स्वैरिण्याश्च लघुप्रायश्चित्तस्योपदेशादन्यस्याश्चोपपातकत्वाद्गुरुतरमिद मयुक्तम् ॥१७७ ॥
हिन्दी — द्विज एक रात चाण्डाली - सम्भोग करके जो पाप उपार्जित करता है, उसे वह तीन वर्ष तक भिक्षा माँगकर भोजन तथा गायत्री जप से नष्ट करता है ॥१७७ ॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।
पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ १७८ ॥
भाष्य — ऋज्वर्थः श्लोकः ॥ १७८ ॥
हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि ) यह ( ११।१६ ९ -१७७ ) मैंने अगम्या-गमन पर ) पाप करनेवाले चारों वर्णों का निस्तार ( प्रायश्चित्त ) कहा, ( अब आप लोग ) पतितों के साथ से हुए पापों के निस्तार को सुनिये ॥१७८ ॥
पतित - संसर्गादि से पतित होना-संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ १७ ९ ॥
भाष्य — द्विजातिकर्मभ्यो हानिः पतत्यर्थः । पतति भ्रश्यति, हीयतेऽधिकारात् । पतिताश्चात्वारो ब्राह्मणादयः । तैः सहाचरन् संवत्सरेण पतितो भवति तत्तुल्या भवतीत्यर्थः । किमाचरन् । यानासनाशनात् ।संलापगात्रस्पर्शादिना सह गमनम् । ' यान ' मासनं तादृशमेव । एकस्यां शय्यायामेकस्मिन्नासने, एकस्मिन् आसने एकपात्रे भोजनम् । याजनाध्यापनाद्यौनान्न त्वितिविच्छेदः । किं याजनादिभिर्नैव पातित्यमथार्वा-क्संवत्सरादूर्ध्वं वेत्येतद्वक्तव्यम् । स्मृत्यन्तरदर्शनादिभिः सद्यः । याजनाध्यापनमिति द्वितीयान्तः पाठो युक्तः । आचरन्निति शत्रा हेत्वर्थस्य गमित-त्वात् ॥१७९ ॥
-हिन्दी – पतित के साथ संसर्ग ( सवारी करने, एक आसन पर बैठने और एक पंक्ति में बैठकर भोजन करने ) से एक वर्ष में तथा यज्ञ कराने से समन्त्र यज्ञोपवीत
पृष्ठ 679
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६३ ९ संस्कार कर गायत्री का उपदेश देने और योनि - सम्बन्ध ( विवाह आदि ) करने से तत्काल पतित हो जाता है ॥ १७ ९ ॥ विमर्श - गोविन्दराज का मत है कि ' यज्ञ कराने आदि तीनों कार्यों से एक वर्ष में पतित होता है और संसर्ग करने से एक वर्ष के बाद पतित होता है; किन्तु उक्त मत देवल ', ' विष्णु ', बौधायन के मत से विरुद्ध होने से मान्य नहीं है ।
उक्त कर्म का प्रायश्चित्त-यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ १८० ॥
भाष्य – यस्य पतितस्य यद्विहितं तत्प्रायश्चित्तं कुर्यात्तत्संसर्गस्य शुद्धये । एषामिति निर्धारिणे षष्ठी । एषां पतितानां येन पतितेन यः संसर्गं याति पूर्वोक्तसंसर्गं गच्छति स तस्यैव पतितस्य यद्विहितं प्रायश्चित्तं तत्कुर्यात् । तत्संसर्गाद्यो . दोष उत्पन्नस्तद्विशुद्धये तद्विनाशाय । अनुवादोऽयं श्लोकपूरणः । अथ यदिदमुच्यते पतितात्याग्यपतितात्यागीत्यादिनिन्दितकर्माभ्यासेन पतनं तत्र यदेतत्पतितत्वचनं तत्किमुपदिश्यत आहोस्विदतिदिश्यते । यदि तावदुपदिश्यते पंच पातकानीति प्रसिद्धेर्मूलं वाच्यम् । अथ पंचानामौपदेशिकमन्येषामातिदेशिकैर्व्यवहारे भेदे न कश्चिदर्थः । तान्येव प्रायश्चित्तानि त एव धर्मा उपदिश्यन्ते, अतिदेशेन म यस्मा व्यवहारेण कोऽर्थः । अथोच्यते । “ न व्यवहाराः प्रयोजन एव भिद्यन्ते अपि त्वन्यतोऽपि निमित्तात्, इह चास्ति प्रमाणतो भेदः । यत्र पतितत्वमभिधाय द्विजातिकर्मभ्यो हानि: ' पतितस्योदकं कार्यमि’त्याद्यभिधीयते सकृत्स्वधर्माभिधानादुपदेशः ', यत्र तु तत्सम्बन्धवचनान्नाम्ना लिङ्गसंयोगाद्वा तद्धर्मप्राप्तिः सोऽतिदेशः ' । सूर्याग्निपदयोर्न हि सौर्ये कश्चिद्धर्मः श्रुतो १. यथाह देवलः— ‘ याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतन्त्येते पतितेन न शंसयः ॥ ' इति । २. तथा च विष्णु-‘ आसंवत्सरात्पतति पतितेन सहाचरन् । सहायानासनाभ्यासाद्यौनात्तु सद्य एव हि ॥ ' इति । ३. तदुक्तं बौधायनेन— ' संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्ययनाद्यौनात्सद्यो न शयनासनात् ॥ ' इति ।
पृष्ठ 680
पाठ पढ़ें पाठ छिपाएँ
६४० मनुस्मृतिः येनातिदेशे सत्ययं विशेषो लभ्य इति निश्चीयते ” [ एकादशः तदसत् । यतः सूर्यादिशब्दस्यैव प्रभुता, अकृतत्वाद्वेदस्य । अयं पौरुषेयो ग्रन्थः । पुरुषश्चासति भेदे किमिति व्यवहारं नवं प्रवर्तयति । या तु प्रत्यक्षानुमानाभ्यां बाधका-भावात्सिद्धिः सोऽत्र कदाचिदुपलभ्यते । योऽप्यभ्यासः सोऽपि द्विरावृत्तिस्तत्र तत: प्रवृत्तिः आवृत्तिशतेष्वभ्यासरूपतयैक एवेति । लोके तावदावृत्तिमात्रमभ्यासः । तत्र योऽपि द्विरपवादः योऽपि शतकृत्वः तौ द्वावपि प्रायश्चित्ते समौ स्याताम् । निन्दितं च कर्म प्रतिषिद्धम् । तत्र योऽपि द्विर्दिवा सुप्याद्योऽपि गा असकृद्धन्यात्तत्र निन्दितकर्माभ्यासेऽ- निि विशेषेण पतनप्राप्तिः । तस्माद्विचिन्त्यमेतत् । किमत्र चिन्त्यते । पंचानां तावत्पातकित्वं सर्वस्मृतिकारैरुच्यते, अन्येषां केषां-चित्तत्समत्वम् । तदुभयमपि बाधितुं तत्र विशेषो नास्तीति संकल्पयिष्यते ' शक्तिं चावेक्ष्य पापं च ' इति । न हि तस्य तत्सदृशस्येति वा एकत्वं युक्तं, गार्गवयस्येव । अथ केषाञ्चिद्धर्माणां भेदः केषांचिदेकत्वे सादृश्यं भवति । तस्मात्तत्समानां पतितत्वं भवति । अतः किंचिदूनं तत्समानां पतितप्रायश्चित्तम् । अधिकारापगमे केचिद्विशेषमाहुः । श्रौतेष्वधिकारो निवर्तते साक्षात्, न स्मार्तेषु । यदप्युक्तं “ द्विरावृत्तौ शतकृत्वश्च भेदो न स्यादिति ' तत्राप्यभ्यासानां भेदः I । कथं तुल्यप्रत्यवायता । यदपि दिवा स्वप्नगोवधयोर्निन्दितत्वाविशेषात्तदभ्यासे तुल्य पति-तत्वमिति, कथमविशेषो निंदायाः, यत्रार्थवादेषु प्रत्यवायविशेष: श्रूयते, प्रायश्चित्तबहुत्वं बाहुल्येऽपि प्रतिषेधे । तत्रायं विधिः । ‘ निन्दितकर्माभ्यासे पतनमिति ' न प्रतिषिद्धमात्रे, तथा च ' पूर्णेवान-सीति ' । सत्यपि निन्दितकर्माभ्यासे नैव पातित्यमस्ति ॥ १८० ॥
हिन्दी — इन पतितों में से जिस पतित के साथ जो मनुष्य संसर्ग करे, वह उन्हीं पतितों के पाप के ( चतुर्थांश ' कर्म ) प्रायश्चित्त उस संसर्गजन्य पाप की शुद्धि के लिए करे ॥ १८० ॥
महापातकी के जीते ही उदकक्रिया-पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥ १८१ ॥
१. तथा च व्यासः— यो येन संसृजेद्वर्षं सोऽपि तत्समतामियात् । पादन्यूनं चरेत्सोपि तस्य तस्य व्रतं द्विजः ॥ ' इति ।