मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 681–690
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 681–690
पृष्ठ 681
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६४१ जीवत एव पतितस्य प्रायश्चित्तमनिच्छतो घटोदकदानं मृतस्येव कर्त्तव्यमुच्यते । सपिण्डाः सप्तमपुरुषावधयः एकवंश्याः । ततोऽन्ये बान्धवाः सगोत्राश्च । निन्दितेऽहनि चतुर्दश्यादौ ।
सायाह्नेऽस्तमिते रवौ ।
ज्ञात्यृत्विक् । ज्ञात्यादयः कर्तॄणां तथा पतितस्य ॥ १८१ ॥
हिन्दी - महापातकी ( ११।५४ ) के जीवित रहने पर ही उसके निमित्त जलदान ( तर्पण ) को ( अग्रिम श्लोकोक्त विधि से ) गाँव के बाहर जाति, ऋत्विक् तथा गुरुओं के समक्ष में निन्दित दिन ( नवमी तिथि ) में सायङ्काल करे ॥ १८१ ॥
दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा ।
अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ १८२ ॥
भाष्य – प्रेतवदिति । कर्त्तव्यतोपदेशोऽयम् । दासी प्रेष्योदकुंभम् । पदा पादेन । पर्यस्येत् क्षिपेदिदममुष्मा इति । क्षिप्ते तस्मिन्नहोरात्रमाशौचं युक्तम् । बान्धवैः सह तथासीरन्नेकत्र स्थाने निवसेयुस्तदहः । दासीग्रहणात् स्वयंकरणं निषेधति । “ यद्येवं ज्ञात्यृत्विग्गुरुसन्निधावित्यस्वयंकरणपक्षे ज्ञातीनां सपिण्डानां च को विशेषो येनोच्यत एतेषां सन्निधान एतेन कर्त्तव्यमिति । यावता सर्व एव सन्निधानमात्रेणोप-कुर्वन्ति । तस्यासन्निपात्योपकारत्वात् ” । नैतदेवम् । सपिण्डादयः प्रयोजकत्वेन कर्त्तारः ज्ञात्वादयस्तु सन्निधाप्यन्ते केवल-मदृष्टायेति ॥१८२ ॥
हिन्दी – उन सपिण्डों तथा समानोदक बान्धवों से प्रेरित दासी जल से भरे तथा काम में लाये गये अर्थात् पुराने घड़े को दक्षिण दिशा की ओर मुखकर पैर से ठोकर मार दे ( जिससे घड़े का पानी गिर जाय ), फिर वे सपिण्ड समानोदकों के साथ दिन-रात अशौच मनावें ॥ १८२ ॥
निवर्तेरंश्च तस्मात्तु सम्भाषणसहासने ।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ १८३ ॥
भाष्य — कृतोदके यथा वर्त्तितव्यं तथेदानीमुच्यते । सम्भाषणमितरेतरमुक्तिप्रत्युक्तिरूपो व्यवहारः ।
पृष्ठ 682
पाठ पढ़ें पाठ छिपाएँ
६४२ मनुस्मृतिः [ एकादश: दायाद्यं धनं तदपि तस्मै न दातव्यम् । लौकिकी यात्रा सङ्गतयो: कुशलप्रश्नादिका । विवाहादौ नैमित्ते गृहानयनं भोजनं चेत्येवमादि । “ ननु च सम्भाषणप्रतिषेधादेवैषु निवृत्तिः सिद्धैव ” । अभ्युत्थानासनत्यागस्यापि निवृत्तिरूपस्य सम्भवात् । सम्भाषणं तु शब्दात्मक-मेव ॥१८३ ॥
हिन्दी — उस महापातकी के साथ बातचीत करना, बैठना, हिस्सा लेना, देना तथा लोकव्यवहार ( वार्षिक आदि कार्यों में निमन्त्रित करना आदि ) को छोड़ आदि न दे ॥१८३ ॥
ज्येष्ठ महापातकी का ' उद्धार ' छोटे भाई को मिलना-ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्वसु । ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १८४ ॥
भाष्य — ज्येष्ठावाप्यं च यद्वसु । अत्रापि चोद्यते । “ दायाद्यदाननिषेधाज्जेष्ठप्राप्यवसुनो धनस्य सिद्ध एव निषेधः ” । केचिदाहुर्गुणतोऽधिकस्य यवीयसस्तदंशप्राप्त्यर्थमनूद्यते । अन्ये तु मन्यन्ते । दायाद्यशब्देन धनमात्रमुच्यते नान्वयागतमेव । तथा चाभि-धानकोशे ‘ दायाद्यं धनमिष्यत ' इति स्मर्यते । अतो यत्तस्मात्केनचिदृणत्वेन गृहीतं तेनापि तन्न दातव्यम् । किं तर्हि कर्त्तव्यम्? पुत्रभ्रात्रादिरिक्थहारिणामर्पणीयम् । अन्ये तु मन्यन्ते । अविभक्तधनानां दायाद्यधननिषेधः, कृते तु विभाग उद्धारस्यैव ज्येष्ठांशस्यैवोच्छेदः । सत्स्वपि पुत्रेषूद्धारं वर्जयित्वाऽन्यस्य पुत्रा एवेशते ॥१८४ ॥
हिन्दी – यदि वह महापातकी ज्येष्ठ ( बड़ा भाई ) हो तो उसकी ज्येष्ठता नहीं रहती ( अत: उसके लिए अभ्युत्थानादि न करे ) और ज्येष्ठ के लिए प्राप्य पैतृक धन में से भाग तथा ' उद्धार ' ( ९।११२-११४ अतिरिक्त हिस्सा ) उसे नहीं मिलता, किन्तु ज्येष्ठ होने के कारण मिलनेवाला ' उद्धार ' भाग उस ( महापातकी ) का गुणवान् छोटा भाई प्राप्त करता है ॥ १८५ ॥
प्रायश्चित्त किये हुए संसर्ग-प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ १८५ ॥
पृष्ठ 683
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६४३ भाष्य — कृतप्रायश्चित्तस्येदानीमुदकक्रियोच्यते । तेनैव सार्धं स्नात्वा जलाशये पुण्यस्रवन्त्यां महाह्रदे वा प्रभासमानसादौ वा तीर्थविशेषे कृतस्नानोऽपां कुंभं नवं स्वयं प्रास्येयुः । नवकुम्भग्रहणाद्दासीग्रहणाच्चात्र पूर्वत्रोपयुक्तस्य क्रियासु कुम्भस्य ग्रहणम् । उदकेन पूरयित्वा हरणमुक्तम् ॥ १८५ ॥
पुनरसौ घटः प्रक्षेप्तव्य इत्याह— हिन्दी – पतित के प्रायश्चित्त कर लेने पर उसके सपिण्ड तथा समानोदक बन्धु उसके साथ शुद्ध जलाशय ( तडाग, नदी आदि ) में स्नानकर जल से पूर्ण नये घड़े को ( उस जलाशय में ) छोड़ दें ॥ १८५ ॥
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ १८६ ॥
भाष्य — यास्वप्सु स्नातास्तास्वेव घटः प्रक्षेप्तव्यः । ततस्तं पुरस्कृत्य तदीयं भवनं प्रविशेयुः । ततो यथापूर्वं सम्भोजनादीनि ज्ञाति-कार्याणि प्रवर्तयेयुः । अन्ये तु सकृत प्रायश्चित्त इति सम्बध्नन्ति । घटप्रासनं तेनैव कर्त्तव्यम् । एषा चास्य पतितोदकक्रिया नान्यस्य त्याज्यस्य, ' त्यजेच्चेत्पितरं राजघातकं शूद्रयाजकम् ' इत्यादेः ॥१८६ ॥
हिन्दी— ( प्रायश्चित्त किया हुआ ) वह उस घड़े को फेंककर अपने घर जाकर जाति सम्बन्धी सब कार्यों को पहले के समान करे ॥ १८६ ॥
पतित- स्त्रियों के लिए अन्नादि देना-एतमेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ १८७ ॥
भाष्य- - योषित्सु स्त्रीष्वपि पतितास्वेष एव विधिः । ' पतितास्व'कृतप्रायश्चि-त्तासु च । ताभ्यस्तु कृतोदकाभ्योऽपि वस्त्रान्नं दातव्यम् । दानग्रहणात् वस्त्रान्ने शरीरस्थिति-मात्रसम्पादिनी दातव्ये, न भोगादयः । पानमौचित्यादुदकम् । तच्च प्राचुर्याददत्तमपि लभ्यते । वचनं तु परानुरोधात् प्रीत्या तदपि स्वातन्त्र्येण तासां न देयम् । यादृशं च पानं तादृशे एव वस्त्रान्नेऽपि निकृष्टं वस्त्रं चान्नं दातव्यम् । तथोक्तं ( याज्ञ ० स्मृ ० १।७० ) –
पृष्ठ 684
पाठ पढ़ें पाठ छिपाएँ
६४४ मनुस्मृतिः [ एकादश: ‘ हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ’ पातित्यहेतवश्च स्त्रीणां ये एव मनुष्यस्य । यत्तु भ्रूणहनि हीनवर्णसेवायां ' न च स्त्रीणामधिकं भ्रूणहनीति ' तत्तुल्यतार्थं न तु परिसंख्यार्थम् । तथा च याज्ञवल्क्यः
( प्रायश्चित्ते ३।२ ९ ८ ) ।
‘ निचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीयामेतान्यपि ध्रुवम् ॥।
वसेयुः स्वगृहान्तिके प्रधानगृहान्निष्कास्य कुटीगृहे वासयितव्ये ' त्यन्तिक ' ग्रहणम् । केचिदाहुः — प्रायश्चित्तं तु कुर्वतीनामेतद्देयं न त्वन्यथा । तदयुक्तम् । वस्त्रान्नदानव्यवहारस्य तत्र योगत्वात् । प्रायश्चित्ते भिक्षाहारता पयोव्रतं चांद्रायणविधिश्चेत्यादि । न च भैक्षाहारता चानेन विवर्तयितुं शक्या । वृत्तिविधानेन चरितार्थत्वात् । तस्माद्यस्याः प्रायश्चित्तेष्वनधिकारः अशक्ततयाऽतिपुष्टतया वा तस्या अपि वस्त्रादिदानं कर्त्तव्यमिति श्लोकार्थः ॥१८७ ॥
हिन्दी — पतित हुई स्त्रियों के साथ भी यही ( १२।१८२-१८७ ) विधि करें, तथा उसके बान्धव लोग उस ( पतित स्त्री ) के लिए भोजन वस्त्र और रहने के लिए घर के पास स्थान देवें ॥१८७ ॥
प्रायश्चित्त नहीं करनेवालों से संसर्गत्यागादि-एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्सहाचरेत् । कृतनिर्णेजनांश्चैत्तान्न जुगुप्सेत कर्हिचित् ॥ १८८ ॥
भाष्य- - एनस्विनः प्रकृतत्वात्पातकिनः । तैरनिर्णिक्तैरशुद्धैरकृतप्रायश्चित्तैर्नार्थं किञ्चिदृणदानक्रयविक्रययाजनाद्युक्तम् । निर्णेजनं शोधनं पापापनोदनम् । तस्मिन् कृते । नैनां जुगुप्सेत कृतप्रायश्चित्तान्न
।
कुत्सयेत् ॥१८८ ॥
हिन्दी — प्रायश्चित्त नहीं किये हुए पापियों ( पतितों ) के साथ कुछ भी व्यवहार ( लेन - देन, भोजन, सहवास आदि ) नहीं करे, तथा जिस पापी ने प्रायश्चित्त कर लिया है, उसकी कभी भी ( पूर्व दुष्कर्मों के सम्बन्ध में ) निन्दा न करे ॥१८८ ॥
बालघाती आदि का त्याग-बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहंतॄश्च स्त्रीहंतॄश्च न संवसेत् ॥ १८ ९ ॥
भाष्य — शरणागगतः । यः शत्रुभिरभिहन्यमानो बलवताऽन्येन वोपदूयमानः
पृष्ठ 685
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६४५ परित्राणार्थं कञ्चिदन्यमभिधावेत् ' त्रायस्व मामिति ' । एवं कृतदोषो समुपधावेत् ' उद्धर मां देहि प्रायश्चित्तमिति ' शरणागतः । कृतघ्नः कृतमुपकारं विस्मृत्य योऽपकाराय यतते यो वा कृतोपकारं पुनर्विनाश-यति तस्यैवोपकृतस्यापकार्य उद्यच्छति । यद्यप्येषा शब्दव्युत्पत्तिस्तथापि लोकप्रसिद्धे-र्यत्रोपकर्तुरपकारे वर्तते स ‘ कृतघ्नः ' । अत्र जातिर्नापेक्ष्यते बालादिस्वरूपमेव कारणम् । स्त्रियो व्यभिचारिण्योऽपि । यद्यपि तासां स्वल्पं प्रायश्चित्तं तथापि वाचनिकः
संवासप्रतिषेधः ।
संवासः सङ्गतिस्तद्गृहनिवासश्च ॥१८९ ॥
हिन्दी – बाल की हत्या करनेवाला, कृतघ्न, शरणागत की हत्या करनेवाला और स्त्री की हत्या करनेवाला; इसके साथ प्रायश्चित्त द्वारा इसके शुद्ध हो जाने पर भी संसर्ग न करे ॥ १८ ९ ॥ विमर्श - पूर्व ( ११।१८८ ) वचन से कृतप्रायश्चित्त पापियों के साथ संसर्गादि का विधान कर इस वचन द्वारा इनके साथ संसर्ग का त्याग कहने से उक्त ( ११।१८८ ) वचन का अपवाद इस वचन को समझना चाहिए ।
व्रात्यादि प्रायश्चित्त-येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ १ ९ ० ॥
भाष्य —‘आ षोडशाद्ब्राह्मणस्य ' इत्यादिनोपनयनकालनियमः कृतः । तदति-क्रमे प्रायश्चित्तमिदम् । गर्भाष्टमात्प्रभृति यावत्षोडशवर्षं ब्राह्मणस्य सावित्री नानूच्येत । सावित्र्यनु-वचनेनोपनयनाख्यसंस्कारो लक्ष्यते । अस्मिन् काले यद्युपनयनं न क्रियेत । एवं ' आ द्वाविंशात् क्षत्रियस्य, आ चतुर्विंशतेर्विशः ' । अत ऊर्ध्वं त्रीन् कृच्छ्रांश्चारयितव्यः । निरुपपद'कृच्छ्र’श्रवणे प्राजापत्यप्रत्यय इति स्मृतितन्त्रसिद्धिः । अन्ये तु कृच्छ्रातिकृच्छ्रानाहुः ।
कृच्छ्रेषु कृतेषूपनेतव्याः ।
यथाविधिीत्यनुवादः ॥१९ ० ॥
हिन्दी — जिन द्विजों का यज्ञोपवीत संस्कार अनुकल्पित समय ( ब्राह्मण का १६ वें
पृष्ठ 686
पाठ पढ़ें पाठ छिपाएँ
६४६ मनुस्मृतिः [ एकादश: क्षत्रिय का २२ वें तथा वैश्य का २४ वें वर्ष ) में भी नहीं हुआ हो, उनसे तीन कृच्छ्र ( प्राजापत्य ११।११० ) व्रत कराकर विधिपूर्वक उसका यज्ञोपवीत संस्कार करना चाहिये ॥१९ ० ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १ ९ १ ॥
भाष्य - विकर्मस्था यथा ब्राह्मणाः शूद्रसेवाद्यभिरताः । यस्य यत्कर्म जीविका-हेतुस्तया तत्तस्य विहितं कर्म । यस्य यन्न विहितं तस्य तद्विकर्म । द्विजातीयस्य विहितं विजातीयस्य विकर्म । ब्रह्मणा परित्यक्ता उपनीता अप्यस्वीकृतवेदा अधीत्य वा वेदमुपविस्मरेयु-स्तेषामप्येतत्कृच्छ्रत्रयम् ।
प्रायश्चित्तं चिकीर्षन्तीत्यनुवाद एवायम् । इच्छन्नेव यतः प्रवर्तते ॥१ ९ १ ॥
हिन्दी — निषिद्ध ( शूद्रसेवा आदि ) कार्य करनेवाले यज्ञोपवीत संस्कार से युक्त भी वेद को नहीं पढ़े हुए जो द्विज प्रायश्चित्त करना चाहें, उसके लिए भी इसी ( तीन प्राजा-पत्य व्रत ११।२१० ) प्रायश्चित्त को करने का उपदेश देना चाहिए ॥१९ १ ॥
निन्दित के उपार्जित धन का त्याग -यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥१९ २ ॥
भाष्य — गर्हितेनेत्यविशेषेऽप्यसत्प्रतिग्रहणेति द्रष्टव्यम् । उत्तरत्र विशेषविधेस्तं प्रत्येवोपदिश्यमानत्वात् ‘ मुच्यतेऽसत्प्रतिग्रहादिति ’ । उत्सर्गः त्यागो ममतानिवृत्तिर्दानेन वा । अनपेक्ष्य दृष्टमदृष्टं राजरथ्यादिषु त्यागेन देयं ‘ मम यो गृह्णाति स गृह्णात्वि ' त्याद्यभिधाय क्षिपेत्, श्वभ्रे गर्ते नद्यादिषु वा । जपतपसी वक्ष्यत्युपदिष्टश्लोके । अन्ये तु ब्राह्मणशब्दस्थाने मानवशब्दं पठित्वैवं व्याचक्षते । यस्य वर्णस्य द्विजातेः शूद्रस्य वा धनार्जनोपायतया यत्प्रतिषिद्धं तत्तस्य ' गर्हितम् ' । यथा ' ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् ' इत्यादि । तेन येऽर्जयन्ति धनं कर्मणा तस्योत्सर्गजपतपांसि त्रीणि समुच्चितानि प्रायश्चित्तानि । ब्राह्मणस्यासत्प्रतिग्रहे उत्तरो विशेषविधिः || १ ९ २ ॥ 1 हिन्दी - ब्राह्मण लोग जिस निषिद्ध ( अग्राह्य दानादि लेना, व्रात्यों ( २।३ ९ ) का यज्ञ कराना, दूसरों का श्राद्ध कराना, मारण मोहन- उच्चाटनादि अभिचार कर्म करना आदि ) कर्मों के आचरण से धन का उपार्जन करते हैं, उस धन का त्याग तथा आगे ( ११।१ ९४-१ ९ ७ ) कहे जानेवाले जप और तप से वे ब्राह्मण शुद्ध ( दोषरहित ) होते हैं ।१ ९ २ ॥
पृष्ठ 687
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
असत्प्रतिग्रह का प्रायश्चित्त-जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ १ ९ ३ ॥
भाष्य - त्रीणि सावित्रीसहस्राणि प्रत्यहमिति केचिदाहुः ।
अन्ये तु मासं त्रीण्यभिसम्बध्नन्ति । अतश्च प्रत्यहमेकैकं शतम् ।
गोष्ठ इति वासस्थानम् ॥१९ ३ ॥
६४७ हिन्दी- - ब्राह्मण तीन सहस्र गायत्री जपकर तथा एक मास तक गोशाला से केवल दुग्धाहार कर असत्यप्रतिग्रह ( नीच या शूद्र से दान लेने ) के दोष से छूट जाता है ॥१९ ३ ॥
उपवासकृशं तं तु गोव्रजात्पुनरागतम् ।
प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १ ९ ४ ॥
भाष्य – कार्श्यवचनात्स्वल्पं पय: पानमाह । -प्रणतं जानुभ्यां स्थितं भुवि । ते विद्वांसो ब्राह्मणाः पृच्छेयुस्तं ' हे सौम्येच्छसि साम्यमिति ’ । ‘ अथ पुनरपि शास्त्रमवगणय्य न प्रवर्तितव्यमसत्प्रतिग्रहलोभेनेति ' ॥१९ ४ ॥ हिन्दी— ( गोशाला में केवल दुग्धाहार लेने से ) दुर्बल तथा गोशाला से वापस लौटे हुए उस ( प्रायश्चित्तकर्त्ता ) ब्राह्मण से ' हे सौम्य! क्या हम लोगों की समानता चाहते हो? ' ऐसा ब्राह्मण लोग पूछें ॥१९ ४ ॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ १ ९ ५ ॥
भाष्य - पृष्टेन वा तेन वक्तव्यं ' सत्यमि'ति । येन मार्गेण गावो विचरन्ति नदीप्रस्रवणादिजलं पातुं तस्मिंस्तीर्थे तरणप्रदेशे । ते ब्राह्मणाः परिग्रहमस्य कुर्युस्ते हि हस्तारोपणेनात्मैकदेश’मानयेयुः ॥१९ ५ ॥ हिन्दी — फिर ‘ हाँ ( पुनः निन्दित दान नहीं लूँगा ' ) ऐसा प्रश्नकर्त्ता ब्राह्मणों से कहकर यह प्रायश्चित्तकर्त्ता ब्राह्मण गौओं के लिए घास डाल दे तथा गौओं के घास खाने से पवित्र तीर्थरूप उस भूमि में ब्राह्मण लोग उस ब्राह्मण को अपने व्यवहार में ग्रहण करना स्वीकार कर लें ॥ १ ९ ५ ॥ मनु II 43
पृष्ठ 688
पाठ पढ़ें पाठ छिपाएँ
६४८ मनुस्मृतिः व्रात्ययाजनादि का प्रायश्चित्त—
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रर्व्यपोहति ॥ १ ९ ६ ॥
[ एकादश: भाष्य — व्रात्याः सावित्रीपतितास्तेषां व्रात्यानां व्रात्यस्तोमः क्रतुर्विहितस्तेन ये याजयन्ति आर्तिज्येनोपदेष्टृत्वेन च । परेषां मातापितृगुरुवर्जमन्त्यकर्म श्मशानादि । अभिचारं श्येनचिदादि । अहीनं च द्विरात्रादिकम् । कृच्छ्रेर्विशुध्यति । अन्ये त्वाहुः । नायमभिचाराहीनयोर्यजमानस्य विधिः । कस्य तर्हि? ऋत्विजाम् । तथा च व्रात्यानां याजनमितीदृश एवाधिकारः । यजमानस्य तु विधिलक्षणाप्रवृत्ति-स्तस्याः प्रतिषेधाभावे कुतः प्रायश्चित्तम् । “ भवत्यहीने शास्त्रतः प्रवृत्तिः श्येनादौ तु कथम् । न हि शत्रून् मारयेदिति नोद-नाऽस्ति । किंतर्हि? ‘ यः शत्रोर्मारणं कामयते तेन तत्सिध्यर्थं श्येनादि कर्त्तव्यम् ' । शत्रुमारणे च हिंसालक्षणाप्रवृत्तिः । सा च निषिद्धा ' न हिंस्यात्सर्वाभूतानीति ' । अहीने-ष्वपि लिप्सात एव प्रवृत्तिः । फलकामस्य हि तत्राधिकारो भवति । न तु फलकामना तत्र निषिद्धा, नापि काम्यमानार्थनिष्पादको व्यापारः । इह तूभयं निषिद्धं ' न हिंस्या-दिति ' मरणफलव्यापारेण न प्रवर्त्तितव्यम् । तत्फलं च श्येनादेरेव । इह तु नास्ति निषेधः ‘ स्वर्गादिफलकर्म न कर्त्तव्य'मिति ' । केचिदाहुः । ‘ वाक्शस्त्रं वै ब्राह्मणस्य ' इत्यभिचरणीयाभिचारोऽप्यनुज्ञयाऽऽम्नात एव । तुल्यावहीनाभिचारौ । तत्र ऋत्विजामेव प्रायश्चित्तं युक्तम् । " ननु च काम्यान्यपि निषिद्धानि ' कामात्मता न प्रशस्ता ' इति ” । यस्तस्य विषयः स तत्रैव व्याख्यातः । श्रुतिश्चा ' हीनतया याजनं कार्यमिति ' । अभिचरणायाभिचारे च यजमानस्यायुक्तम् । “ कथम् ” । आम्नातं य — ज्ज्योतिषाभिचार्यन्ते ' । तद्वत्प्रायश्चित्तान्युक्तान्येव । अस्य अभिचरर्त्विग्विषयेऽभिचरणीयाभिचारे सविषयत्वात् । वैदिकेन जपहोमादिना शत्रो-मरणम'भिचारः ॥ १ ९ ६ ॥ हिन्दी - व्रात्यों ( २।३ ९ ) का यज्ञ कराकर, ( पिता, माता, गुरु आदि से ) अन्य लोगों का और्ध्वदेहिक दाह - श्राद्धादि कर्म करके अभिचार ( मारण, मोहन, उच्चाटनादि कर्म ) और अहीन अर्थात् यागविशेष करके ( द्विज ) तीन कृच्छ्र ( प्राजापत्य ११।२१० ) व्रत करके शुद्ध होता है ॥१९ ६ ॥
पृष्ठ 689
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६४ ९ शरणागत त्याग आदि का प्रायश्चित्त-शरणागतं परित्यज्य वेदं विल्पाव्य च द्विजः । संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १ ९ ७ ॥ भाष्य — द्विविधः शरणागतः प्रागुक्तस्तस्य ‘ परित्यागः ’ प्रत्याख्यानम् । सत्यां शक्तौ । प्राक् चैतद्विचारितम् । वेदं विप्लाव्यानध्यायाध्ययनं कृत्वा । अधिकारेणाधीयानस्यानुयोगदानं ‘ किं पठसि नाशितं त्वयेति ' । अथवा धनहेतोः परीक्षास्थानेष्वनियुक्तेन पठ्यते । स्मृतिश्च ‘ दत्वा नियोगं धनहोतोः पतितान्मुनिरब्रवीत् ॥१ ९ ७ ॥ हिन्दी - शरणागत का त्यागकर तथा वेद पढ़ने के अनधिकारी को वेद पढ़ाकर द्विज एक वर्ष तक यव का आहार कर उस पाप को दूर करता है ॥१ ९ ७ ॥ कुत्ता आदि के काटने पर प्रायश्चित्त—
श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रवराहैश्च प्राणायामेव शुध्यति ॥ १ ९ ८ ॥
भाष्य — दष्टा दंष्ट्राभिः । ग्राम्यैः क्रव्याद्धिर्मार्जारनकुलादिभिः ॥१९ ८ ॥
हिन्दी - कुत्ता, सियार, गधा, कच्चा मांस खानेवाले ग्राम्य पशु ( बिल्ली आदि ), मनुष्य, घोड़ा, ऊँट और सूअर - इनके काटने पर ( द्विज ) प्राणयाम करने से शुद्ध होता है ॥१९ ८ ॥ कुत्ते के सूँघे आदि पदार्थों की शुद्धि-[ शुनाऽऽघ्रातावलीढस्य दन्तैर्विदलितस्य च । अद्भिः प्रक्षालनं प्रोक्तामग्निना चोपचूलनम् ॥ ११ ॥ ]
[ हिन्दी - कुत्ते के सूंघे, चाटे और दाँतों से काटे गये पदार्थ की शुद्धि पानी से धोने और आग में जलाने ( तपाने ) से कही गयी है ॥ ]
अपाङ्क्य की शुद्धि-षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश्च शाकला नित्यमपातयानां विशोधनम् ॥ १ ९९ ॥
भाष्य — अपाङ्क्यास्तृतीयाध्याय उक्ताः । येषां प्रतिपदं प्रायश्चित्तमन्यत्राम्नातम् । तेषां मासं संहिताजपः । शाकलहोम: षष्ठान्नकालता चेति समुच्चयः । काष्ठशलाकादि‘देवकृतस्य ’ ( वाजसनेयिसंहिता ८।१३ ) इत्यादिभिर्मन्त्रैर्हृयते स ‘ शाकलहोम: ’ ।
पृष्ठ 690
पाठ पढ़ें पाठ छिपाएँ
६५० मनुस्मृतिः [ एकादश: नित्यग्रहणं समाप्तेऽपि संहिताजपे पुन: पुनरावृत्त्यर्थं, यावन्मासः पूर्णः ॥१९९ ॥
हिन्दी — पङ्किबाह्य ( ३।१५० - १६६ ) मनुष्यों ( तथा जिनके लिए कोई पृथक् प्रायश्चित्त नहीं किया गया है, उन ) की शुद्धि एक मासतक छठे साम ( दो दिन दो रात तथा तीसरे दिन पूर्वाह्न में कुछ न खाकर साम ) भोजन, वेद- संहिता का जप और ‘ दैवकृतस्यैनसोऽवयजनमसि ' इत्यादि आठ मन्त्रों से हवन करने से होती है ॥ २०० ॥
ऊँटगाड़ी आदि पर चढ़ने का प्रायश्चित्त-उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ २०० ॥
भाष्य- —उद्दैर्युक्तं यानं गन्त्र्यादि । साक्षादुष्ट्रादावारोहणमव्यवधानेन चाधिकतरम् । प्राणायामानामावृत्तिः । दिग्वासा नग्नः । नग्नदोषनिर्हरणार्थं पुनः सवासाः स्नानं कृत्वा प्राणायामः कर्त्तव्यः ॥२०० ॥
हिन्दी — ब्राह्मण ऊँटगाड़ी पर इच्छापूर्वक ( ज्ञानपूर्वक ) चढ़कर, जल में नग्न स्नानकर प्राणायाम करके शुद्ध होता है । २०० ॥ जलरहित होकर तथा जल में मूत्रादि त्याग करने का प्रायश्चित्त-विनाऽद्भिरप्सु वाऽप्यार्त्तः शारीरं सन्निषेव्य च । सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ २०१ ॥
भाष्य – विनाऽद्भिरसन्निहितास्वप्सु अदृष्टगोचरस्थासु । अप्सु आर्त्तो विष्ठया स्तब्धः । शरीरं मूत्रपुरीषोत्सर्गम् । सन्निषेव्य । सचैलो यत्प्रावृतं वस्त्रं तेन सहितः । बहिर्ग्रामान्नद्यादावाप्लुत्य निमज्य ततो गामालभ्य स्पृष्ट्वा विशुध्यति ॥ २०१ ॥
हिन्दी - मल - मूत्र त्याग करने के वेग से युक्त मनुष्य जलरहित हो ( पास में जल नहीं ले ) कर या जल में मल मूत्र का त्याग ( पेशाब या टट्टी ) करके वस्त्ररहित स्नान कर गाँव के बाहर में गौ का स्पर्शकर मनुष्य शुद्ध होता है ॥२०१ ॥
वेदोक्त कर्मादि के त्याग का प्रायश्चित्त-वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ २०२ ॥
भाष्य - वेदोदितानां दर्शपौर्णमासादीनां श्रौतानां, स्मार्तानां च संध्योपासनादी-"