मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 691–700

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 691–700

पृष्ठ 691

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 691 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६५१ नाम् । तान्यपि वेदोदितानि तन्मूलत्वात्स्मृतीनाम् । स्नातकव्रतानि ' न जीर्णमलव-द्वासा ' इत्यादीनि । तेषां लोप एकाहमुपवासः । श्रौतकर्मातिक्रमे या इष्टय उक्तास्ता अनेन समुच्चीयन्ते ॥२०२ ॥

हिन्दी – वेदोक्त कर्म ( अग्निहोत्र आदि ) का उल्लङ्घन होने ( बीच में छूट जाने ) पर तथा ब्रह्मचर्य व्रत का लोप होने पर एक दिन उपवास करना चाहिये । २०२ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।

स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ २०३ ॥

भाष्य — सक्रोधाक्षेपे हुङ्कारेण हुङ्कुरुते ' तूष्णीमास्व हुं का एवं वादी: ’ इत्येव-मादिष्वर्थक्रियासु तन्निषेधार्थं हुङ्कारकरणम् । ब्राह्मणस्य ज्येष्ठस्य समस्य कनीयसो वा शिष्यस्य पुत्रस्य वा । तथा गरीयसस्त्वंकारमुक्त्वा – ' त्वमेवमात्थ ', ' त्वयेदं कृतम् ' । एकवचनान्त-युष्मच्छब्दोच्चारणे प्रायश्चित्तमेतत् । प्रथमादिविभक्तिर्न विवक्षिता । तथा च समाचारो गुरौ युष्मास्वित्यादिबहुवचनं प्रयोक्तव्यमिति । स्नात्वाऽनश्नन् प्रातर्भक्तत्यागः । अभिवाद्य उपसंग्रहणं कृत्वा । प्रसादयेत् क्रोधं त्याजयित्वा सायमश्नीयात् ॥२०३ ॥

हिन्दी - ब्राह्मण से ' हूँ ' ( थोड़ा क्रुद्ध होकर ' चुप रहो ' ) ऐसा करने पर और विद्या एवं आयु में बड़े लोगों को ‘ तू ' कहने पर स्नान करके शेष दिन उपवास कर उन्हें प्रणाम कर प्रसन्न करना चाहिए ॥ २०३ ॥

ब्राह्मण को अपमानित करने का प्रायश्चित्त—

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।

विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ २०४ ॥

भाष्य - तृणेन पीडाकरेणापि ताडयित्वा प्रहृत्य । वाससाऽपि कण्ठे मृदु-स्पर्शेन बद्ध्वा । विवादे लौकिके कलहे विनिर्जित्य । प्रणिपत्य नम्रेण भूत्वा

प्रसादयितव्यः ।

वादजल्पयोस्तु नायं विधिः ॥२०४ ॥

हिन्दी- -ब्राह्मण को तिनके से भी मारकर, उसके गले मे कपड़ा ( गमछा आदि, घसीटने - आगे खैचने के लिए ) डालकर और विवाद में जीतकर प्रणाम करके उस ( ब्राह्मण ) को प्रसन्न करना चाहिए ॥ २०४ ॥

पृष्ठ 692

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 692 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५२ मनुस्मृतिः

ब्राह्मण को मारने के लिए उद्यत होने पर दोष-अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ।

जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ २०५ ॥

भाष्य- -अवगूरणप्रतिषेधोऽयम् । परिशिष्टोऽर्थवादः । जिघांसया हन्तुमिच्छया दण्डादिकमुद्यम्य । संवत्सरशतं नरकेष्वास्ते ।

अभिहत्य प्रहारं दत्वा । सहस्त्रं संवत्सराणाम् ।

जिघांसया, न परिहासतः ॥२०५ ॥

[ एकादश: हिन्दी - ब्राह्मण को मारने के लिए डण्डा उठाकर सौ वर्ष तक डण्डे से मारकर सहस्र वर्षतक मनुष्य नरक में वास करता है ॥। २०५ ॥

शोणितं यावतः पांसून्संगृह्णाति महीतले ।

तावन्त्यब्दसहस्राणि तत्कर्त्ता नरके व्रजेत् ॥ २०६ ॥

भाष्य – ब्राह्मणस्य रुधिरं दण्डादिप्रहारेण भूमौ पतितं यावत्पांसून् रजोवय-वान् संगृह्णाति तावन्ति संवत्सरसहस्राणि तस्य जनयिता नरके व्रजेद्वसेत् । अयमप्यर्थवादः ॥२०६ ॥

हिन्दी — आहत ( पीटे गये ) ब्राह्मण के शरीर से गिरे हुए रक्त के द्वारा धूलि के जितने कण पिण्ड होते ( साने जाते- गीले होते अर्थात् भींगते ) हैं, वह रक्त बहानेवाला मनुष्य उतने सहस्र वर्षों तक नरक में निवास करता है ॥२०६ ॥

अवगूर्य ब्राह्मण को गुरेरने का प्रायश्चित्त— चरेत्कृच्छ्रमतिकृच्छ्रं

निपातने ।

कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ २०७ ॥

भाष्य – पूर्वस्य प्रायश्चित्तमेतत् । -‘ ब्राह्मणरुजः कृत्वेति ’ शोणितोत्पादनादन्यत्रैतत् । यदि वा तेनेदं विकल्प्यते ॥२०७ ॥

हिन्दी - ब्राह्मण को मारने ( पीटने ) की इच्छा से डण्डा उठाकर कृच्छ्र ( प्राजापत्य ११।२१० ) व्रत, डण्डे से मारकर अतिकृच्छ्र ( ११।२१२ ) व्रत और मारने से उसका रक्त बहाकर कृच्छ्र तथा अतिकृच्छ्र- दोनों = व्रत पापनिवृत्ति के लिए करना चाहिए ॥२०७ ॥

प्रायश्चित्त का विधान नहीं कहे गये दोषों पर-अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ २०८ ॥

पृष्ठ 693

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 693 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६५३ भाष्य - अनुक्ता निष्कृतयः प्रायश्चित्तानि येषां विकर्मणाम् । यथा चाण्डालादि-प्रतिलोमवधे । तत्र कल्पयेत् । " ननु चात्राप्युक्तं किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ' इति ” । अनस्थिसाहचर्यात्क्षुद्रजन्तुप्रायास्तत्रास्थिमन्तो गृह्यन्ते । महाकायानां तु नैष विधिः । “ ननु चत्वारो वर्णा ‘ नास्ति पञ्चम ' इति शूद्रप्रभेदा एव प्रतिलोमाः ” । यदि नाम पञ्चमो वर्णो न जातो नैतावता शूद्रैस्तैर्भवितव्यम् । तेषामपि लक्षणस्य नियतत्वात् ‘ समानजात्यामूढायां जातः शूद्र ' इति वर्णसङ्करजाश्चैते । तस्मान्न शूद्रहत्याप्रायश्चित्तम् । नापि ' किञ्चिदेव तु विप्राय ' इत्यन्यस्तत्र कल्पनाया अनवसरः । शक्तिः प्रायश्चित्तिनस्तपसि । तथा किमयं तपसि समर्थ उत दाने । पापं च । हिंसाया विहितप्रायश्चित्तमेव । अभक्ष्यभक्षणे तदेव । अथ पापस्य गुरु-लघुभावोऽपेक्षणीयः । “ ननु च गुरुलघुभावः पापस्य कथं ज्ञायते? प्रायश्चित्तमहत्त्वादिति चेत् अनुक्त-प्रायश्चित्तविषयेयं कल्पना ' । सत्यम् । अर्थवादे दोषातिशयश्रवणाद्गुरुत्वात् । तथा बुद्धिपूर्वानुकृते च । किञ्च नेदमनुक्तनिष्कृतिविषयमेव प्रकल्पयेत्, उक्तेऽपि कल्पना कार्या । कुत एतत्? दण्डप्रायश्चित्तयोस्तुल्यत्वात् । दण्डेन चोक्तानुक्तविषयमनुज्ञायते । किञ्चैतस्मिन् व्यतिक्रमे गुरुलघूनामुपदेशात्तत्रावश्यंभावनीया कल्पना । अत उद्दिष्टानुद्दिष्टसर्वशेषो-ऽयम् ॥२०८ ॥

हिन्दी — जिनका प्रायश्चित्त नहीं कहा गया है ( जैसे प्रतिलोमज का वध करने आदि पर ) उनसे उत्पन्न दोष को निवृत्ति के लिए शक्ति ( शरीर, धन, सामर्थ्य आदि ) और पाप ( ज्ञानपूर्वक, अज्ञानपूर्वक इत्यादि कारणों से पापों का गौरव - लाघव आदि ) का विचार कर प्रायश्चित्त की कल्पना ( धर्मशास्त्रियों को ) करनी चाहिए ॥ १०८ ॥

यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।

तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् ॥ २० ९ ॥

भाष्य— “ ननु चोक्ता एवाभ्युपायाः इह चान्द्रायणं इह प्राजापत्यं इह द्वादश-वार्षिकमिति ” । सत्यम् । संज्ञामात्रेण निर्दिष्टाः । इह तु स्वरूपं सेतिकर्तव्यताकमुच्यते । उपाय एवाभ्युपायः । व्ययकर्षति अपमार्ष्टि ।

पृष्ठ 694

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 694 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६.५४ देवर्षीत्यादिः स्तुतिः । मनुस्मृतिः मानवग्रहणं सर्ववर्णार्थम् ॥२०९ ॥

[ एकादश: हिन्दी – ( भृगुजी महर्षियों से कहते हैं कि ) मनुष्य जिन उपायों से पापों को नष्ट करता है; देव, ऋषि तथा पितरों से सेवित उन उपायों को ( मैं ) आप लोगों से कहूँगा ॥ २० ९ ॥ प्राजापत्य ( कृच्छ्र ) व्रत की विधि -त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ २१० ॥

भाष्य — यद्यप्यहर्मुखं ‘ प्रात ' स्तथापि पूर्वाह्नकालो लक्ष्यते । द्वितीयाह्नकालप्रति-षेधादस्य । प्रात: कालविधौ हि यदृच्छया भोजनं प्राप्तं निवर्तते । केवलमत्यर्थं हि ‘ यत्पूर्वाह्णेवा मध्यंदिने वा मनुष्याणामिति ' अयाचितत्वात्प्राप्तमर्थित्वाद्भोजनम् । तदेव चेत्प्रात: काले विधीयते तदा माध्यंदिनं निवर्तेत, न सायंतनम् । यद्य पुनर्यदेव पौरस्त्यं पूर्वाह्णमध्यंदिनकालयोर्विकल्पितयोः प्राप्तं भोजनं तदेव पुनरुच्यमानं कालान्तरनिवृत्त्यर्थं सम्पद्यते । व्रतत्वाच्चैतदेव युक्तम् । एकाहारता हि व्रतपरिगणनायां संख्यायते 1 । तपश्चेदं तापयति दुःखयतीति । यदि च द्वितीयं भोजनं निवर्तते तत्र सायंतनं निवर्तेत । अन्ये तु ' हविष्यान् प्रातराशानिति ' स्वल्पपरिमाणता भोजनस्य लक्ष्यत तु इत्याहुः । प्रातराशे हि स्वल्पं भुञ्जते । तच्छीलाः प्राकृतपुरुषाः । तथा सिद्धे पाके भोजनात् प्राकृतभोक्तेति व्यपदिशन्ति । सायमिति वाऽपरस्मिन् त्र्यहे । ततोनन्तरं त्र्यहो हविष्यं वैदिकं यावद्भुज्यते तावदनुज्ञायते । उक्तं च स्मृतिकारैः ‘ ईषत् भुक्त्वाऽर्थं संविशेत् ' । अयाचितेऽपि हविष्यभोजनमेककालिकं च । स्वगृहेऽपि ‘ दीयतां मे भोजनमिति ' यत् भृत्यादय आज्ञायन्ते तदपि ‘ याचितमेव ’ । प्रार्थनामात्रं याञ्चा, प्रेषणाध्येषणयोः साधारणम् । अतः स्वगृहेऽपि यद्भार्यादयोऽन-नुज्ञाता उपहरन्ति तथा भोक्तव्यं, न त्वन्यथेति ॥ २१० ॥

हिन्दी - प्राजापत्य व्रत करनेवाला द्विज पहले तीन दिन प्रातः काल ( मध्याह्न के पूर्व दिन ' के भोजनकाल में ), तीन दिन सायंकाल ( सन्ध्या के बीतने पर रात्रि ' के १- २. तदुक्तं वसिष्ठेन - ‘ त्र्यहं दिवा भुङ्गे नक्तमिति च त्र्यहं । त्र्यहमयाचितव्रतं त्र्यहं न भुङ्क्ते इति आपस्तम्बोऽपि— .. त्र्यहं नक्ताशी दिवासी च ततस्त्र्यहम् । त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किञ्चन । ' इति ।

पृष्ठ 695

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 695 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६५५ भोजन काल में ), तीन दिन माँगे ( जो कुछ मिल जाय उसे ही ) भोजन करे और तीन दिन उपवास करे ॥२१० ॥

विमर्श - इस प्रकार बारह दिन में यह ' प्राजापत्य कृच्छ्र ' व्रत पूर्ण होता है । इसमें विशेषता यह है, कि प्रात: काल २६ - २६ ग्रास, सांयकाल ३२- ३२ ग्रास और अयाचित हविष्यान्न का २४-२४ ग्रास भोजन करना चाहिए । यहाँ मुर्गी के अण्डे के बराबर एक ग्रास का प्रमाण समझना चाहिए ' ।

कृच्छ्रसान्तपन व्रत की विधि-गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

एकरात्रोपवासश्च कृच्छ्रं सन्तपनं स्मृतम् ॥ २११ ॥

भाष्य — गोमूत्रादीनां कुशोदकानां समाहारमाहुरेकस्मिन्नहनि । एकरात्रोपवासश्च । ततो द्व्यहं सांतपनम् । अन्ये तु प्रत्यहमेकैकं भक्षयितव्यं, संहतस्याश्रुतत्वात् । अतः सप्ताहानि ‘ सांतपनम् । द्वावप्येतौ पक्षौ स्मृत्यन्तरे परिगृहीतौ ॥२११ ॥

हिन्दी - गोमूत्र, गोबर, दूध, दही, घी और कुशा का जल, इनमें से प्रत्येक को १ - १ दिन भोजन करे, इस प्रकार ६ दिन उन्हें भोजन कर सातवें दिन उपवास करे यह ‘ कृच्छ्र सान्तपन ’ व्रत कहा गया है ॥२११ ॥

अतिकृच्छ्र व्रत की विधि-एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदंत्यमतिकृच्छ्रं चरन्द्विजः ॥ २१२ ॥

- पूर्ववदिति प्राजापत्यविधिमतिदिशति ।

भाष्य-एष्वेव कालेष्वेकैकं ग्रासमश्नीयात् ॥२१२ ॥

१. ग्रासपरिमाणापेक्षायां पाराशरः—

' सायं द्वात्रिंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथा ।

अयाचिते चतुर्विंशत्परं चानशनं स्मृतम् ॥

कुक्कुटाण्डप्रमाणञ्च यावांश्च

प्रविशेन्मुखम् ।

एतं ग्रासं विजानीयाच्छुद्ध्यर्थं ग्रासशोधनम् ॥

हविष्याञ्चान्नमश्नीयाद्यथा रात्रौ तथा दिवा ।

त्रींस्त्रीण्यहानि शास्त्रीयान् ग्रासान् सङ्ख्याकृतान् यथा ॥

अयाचितं तथैवाद्यादुपवासस्त्र्यहं भवेत् । ' इति ।

पृष्ठ 696

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 696 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५६ मनुस्मृतिः [ एकादशः हिन्दी — ‘ अतिकृच्छ्र ’ व्रत को करनेवाला द्विज पूर्ववत् ( ११।२१० ) तीन दिन प्रात: काल तीन दिन सायङ्काल तथा तीन दिन अयाचित ( विना माँगे मिला हुआ ) १-१ ग्रास भोजन कर और अन्त में तीन दिन उपवास करे ॥२१२ ॥

विमर्श – यह ' अतिकृच्छ्र ' व्रत ' प्राजापत्य ( कृच्छ्र ) ' व्रत के समान ही है, केवल ग्राससङ्ख्या उसकी अपेक्षा इसमें बहुत कम है ।

तप्तकृच्छ्र व्रत की विधि-तप्तकृच्छ्र चरन्विप्रो जलक्षीरघृतानिलान् ।

प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ २१३ ॥

[ अपां पिबेच्च त्रिपलं पलमेकं च सर्पिषः 1 पय: विबेत्तु त्रिपलं त्रिमात्रं चोक्तमानतः ॥ १२ ॥ ]

भाष्य - तेष्वेव कालेषु जलादीनि यावता नातितृप्तिर्भवति । क्वचित्परिमाणं पठ्यते । ‘ अपां पिबेत्तु त्रिपलं पलमेकं तु सर्पिषः । पयः पिबेत्तु द्विपलं त्रिपलं चोष्ण- ' मारुतम् । सकृत्स्नायीति त्रिरह्नः त्रिर्निशायामित्यस्यापवादः ॥२१३ ॥.

हिन्दी – ' तप्तकृच्छ्र ' को करता हुआ ब्राह्मण ( द्विज ) तीन दिन गर्म जल, तीन दिन गर्म दूध, तीन दिन गर्म घी और अन्त में तीन दिन केवल गर्म वायु को पीकर रहे तथा एक बार प्रतिदिन स्नान करता रहे ॥२१३ ॥

विमर्श - इस ' तप्तकृच्छ्र ' व्रत में ६ पल ( २४ तोला ) गर्म जल, ३ पल ( १२ तोला ) गर्म दूध और एक पल ( ४ तोला ) गर्म घी पीना चाहिये ऐसा पाराशर ' का मत है । किन्तु यह पाराशर मत अग्रिम क्षेपक ( ११।१० ) वचन से कुछ विरुद्ध है ।

पराककृच्छ्र व्रत की विधि-यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।

पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥ २१४ ॥

भाष्य — यतात्मा संयतेन्द्रियो गीतादिशब्दश्रवणेष्वनभिलाषी ।

अप्रमत्तस्तत्परः । अर्थवादोऽयम् । सर्वकृच्छ्रेष्वस्य धर्मस्य विहितत्वात् ॥ २१४ ॥

१. अत्र पाराशरोक्तो विशेषः— ' षट्पलं पिबेदम्भस्त्रिपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते ॥ ' इति ।

पृष्ठ 697

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 697 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६५७ हिन्दी – सावधान तथा जितेन्द्रिय होकर बारह दिन तक भोजन नहीं करना चाहिए ‘ पराक ' नामक कृच्छ्रव्रत है, यह व्रत सब प्रकार के ( क्षुद्र, मध्यम तथा महान् ) पापों को नष्ट करनेवाला है ॥२१४ ॥

( पिपीलिकामध्य ) चान्द्रायण व्रत की विधि-एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ २१५ ॥

भाष्य – चतुर्दश्यामुपोष्य श्वोभूतायां पौर्यमास्यां पञ्चदश ग्रसानश्नीयात् । ग्रास-प्रमाणं चास्याधिकारेण ग्रासानुमन्त्रणे च ' आप्यायस्व सन्ते पयांसीति ' ( गौ ० ५ ) स्मृत्यन्तरोक्तो विधिरपेक्षितव्यः एकशास्त्रत्वात्सर्वस्मृतीनामसति विरोधे समग्रं योज्यम् । विरोधे तू विकल्पः । प्रतिपदमारभ्यैकैकं ग्रासं दिवसे दिवसे ह्रासयेत् । प्रतिपदि चतुर्दश द्वितीयायां त्रयोदशेत्यांदि यावच्चतुर्दश्यामेको ग्रासो भवति । ततोऽमावस्यायामुपोष्य प्रतिपद्येकं ग्रासमश्नीयात् । द्वितीयायां द्वावेवमेकैकं वर्धयेद्यावत्पौर्णमास्यां पञ्चदश भवन्ति । उपस्पृशन् स्नानं कुर्वन् । त्रिषवणं प्रातर्मध्यंदिनापराह्नेषु । ' त्रिर्निशायामिति ' निवर्तते विशेषविहित-त्वात् ॥२१५ ॥

हिन्दी — त्रिकाल ( प्रात:, मध्याह्न तथा सायङ्काल ) स्नान करता हुआ ( पूर्णिमा को १५ ग्रास भोजनकर ) कृष्णपक्ष में प्रतिदिन १-१ ग्रास भोजन घटाता जाय तथा शुक्ल पक्ष में प्रतिदिन १-१ ग्रास भोजन बढ़ाता जाय, यह चान्द्रायण ( पिपीलिकामध्य चान्द्रायण ) व्रत है ॥२१५ ॥

यवमध्य चान्द्रायण की विधि-एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे ।

शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ २१६ ॥

भाष्य — यवमध्यमेऽमावास्यायामुपोष्य प्रतिपद्येको ग्रासः । द्वितीयस्यां द्वौ यावत् पौर्णमास्यां पञ्चदश । पुनः प्रतिपदमारभ्य कृष्णपक्ष एकैकग्रासापचयो यावदमावास्या-मुपवासः ॥२१६ ॥

हिन्दी - यवमध्य चान्द्रायण व्रत को करता हुआ व्रती ( त्रिकाल स्नान करता हुआ ) शुक्लपक्ष को पहले तथा कृष्णपक्ष को बाद में करके इसी समस्त विधि ( ११।२१५ ) को करे ॥२१६ ॥

पृष्ठ 698

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 698 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५८ मनुस्मृतिः [ एकादश: विमर्श - इसका आशय यह है कि अमावस्या के बाद शुक्लपक्ष में प्रतिदिन १-१ ग्रास भोजन बढ़ाता जाय और पूर्णिमा को १५ ग्रास भोजन करे तथा कृष्णपक्ष में १-१ ग्रास भोजन घटाता जाय, इस प्रकार अमावस्या को कुछ भी भोजन नहीं करे तथा अन्त में क्रमशः भोजन कम तथा मध्य में ( पूर्णिमा को ) अधिक होने से यव के समान दोनों छोर में सूक्ष्म तथा स्थूल - इस प्रकार अन्वर्थ ' यवमध्य ' नामक चान्द्रायण व्रत है ।

यतिचान्द्रायण व्रत की विधि-अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते ।

नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ २१७ ॥

भाष्य – प्रत्यहं मासमष्टौ ग्रासान् कृष्णपक्षाद्वाऽऽरभ्य शुक्लपक्षाद्वा यतिचा-न्द्रायणं भवति ।

मध्यंदिने स्थिते प्रवृत्ते । पूर्वाह्णापराह्णौ वर्जयित्वेत्यर्थः ।

शिष्टं प्रसिद्धम् ॥२१७ ॥

-हिन्दी — ‘ यतिचान्द्रायण ' व्रत को करता हुआ संयतेन्द्रिय द्विज ( शुक्लपक्ष या कृष्णपक्ष से आरम्भकर ) एक मास तक प्रतिदिन मध्याह्नकाल में ८-८ ग्रास हवि-ष्यान्न भोजन करे ॥ २१७ ॥

शिशुचान्द्रायण व्रत की विधि-चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः ।

चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ २१८ ॥

भाष्य — अत्र प्रातः शब्दोऽस्तमयसाहचर्यात्सूर्योदयप्रत्यासन्नं कालं लक्षयति ।

अस्तमिते सूर्ये प्रदोष इत्यर्थः ॥२१८ ॥

हिन्दी - सावधानचित्त ब्राह्मण ( द्विज ) चार ग्रास प्रात: काल तथा चार ग्रास सूर्यास्त होने पर एक मास तक प्रतिदिन भोजन करे तो यह ' शिशुचान्द्रायण ' व्रत कहा गया है ॥ २१८ ॥

यथाकथञ्चित्पिण्डानां तिस्त्रोऽशीतीः समाहितः ।

मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ २१ ९ ॥

भाष्य- – कस्मिश्चिद्दिवसे चतुरो ग्रासान् कस्मिश्चिद्वादश कस्मिंश्चिन्नाश्नाति यथा-कथञ्चित् त्रिंशद्रात्रौ प्रवृत्तिः । यदि कस्मिश्चित् षोडश । अयं तु नियमः तिस्त्रोशीती-र्मासेनेति द्वे शते चत्वारिंशदधिके ।

पृष्ठ 699

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 699 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता चन्द्रलोकं प्राप्नोति ॥ २१ ९ ॥ ६५ ९ हिन्दी — सावधानचित्त द्विज ( नीवारादि ) हविष्यान्न के तीन अस्सी अर्थात् दो सौ चालिस ग्रासों की एक मास में जिस किसी प्रकार ( कभी १०, कभी ५ तो कभी १४ ग्रास खाकर और कभी उपवास कर एक मास में कुल २४० ग्रास ) भोजन कर चन्द्रलोक को प्राप्त करता है ॥२१ ९ ॥

चान्द्रायण व्रत का महत्त्व-एतद्रुद्रास्तथादित्या वसवश्चाचरन्व्रतम् ।

सर्वाकुशस्त्रमोक्षाय मरुतश्च महर्षिभिः ॥ २२० ॥

भाष्य- - एतच्चांद्रायणं व्रतं सर्वे देवा: समाचेरुः, सर्वेषामकुशलानां विमो-क्षाय । सर्वप्रायश्चित्तं सर्वप्रायश्चित्तम् ' ( गौ ० १ ९ २० ) । अत्रेदं संदिह्यते । यदेतत्सर्वप्रायश्चित्तवचनं किं तन्त्रेण सर्वेषां शोधनमुत योग-सिद्धिन्यायेन प्रतिनिमित्तमावर्तत इति । उच्यते । यद्यप्येतन्याय्यं निमित्तावृत्तौ नैमित्तिकावृत्तिरिति तथापीदमनाम्नातप्रति-पदप्रायश्चित्तनिमित्तेष्वसंविदितेषु कृतसम्भावनायामाम्नायते । तत्र येषां तावत्सम्भावना-मात्रेण शुद्धिः क्रियते, यथा ' संवत्सरस्यैकमपीति ', तत्र निमित्तस्यानिश्चितत्वादुपपत्तेः कुत आवृत्तिसम्भवः । तथा सुप्तस्य परिवर्तनैः शय्यागतसूक्ष्मप्राणिवधस्तथा नगरस्य रथ्यासु भ्राम्यतः परस्त्रीमुखसंदर्शनमा गृहप्राप्तेरसकृत सम्भवति । तादृशग्विषये तन्त्रभाव एव युक्त: । दर्शितं चैतत् ' अस्थन्वताम् ' इत्यादौ समुदायवध एकं प्रायश्चित्तमिति । यानि च गरीयांसि पापानि तत्र सर्वत्र प्रायश्चित्तान्याम्नातानि । इदं च यथाप्रदर्शित एव विषये भवितुमर्हति । महत्त्वाच्च नानावृत्तौ न्याय्यम् । तस्मात् संशितेष्वपि कथञ्चित्प्राय-श्चित्तेषु न निमित्तान्तरोत्पत्तौ युक्त एव तन्त्रभावः । तथा च तन्त्रधर्म एव न्याय्य इति दर्शयति ‘ यद्दिवा च नक्तं चैनश्च कृम तस्याऽवयजनमसि स्वाहा । यत्स्वपंतश्च जाग्रत-श्चैनश्च कृम तस्याऽवयजनमसि स्वाहा । यद्विद्वांस इत्यादि ' । यदिति च वीप्सायां युगपदशेषपापवर्जन — मत्र वदन्ति ' ॥२२० ॥

हिन्दी — इस चान्द्रायण व्रत को रुद्र, सूर्य, वसु, वायु तथा महर्षियों ने सब पापों के नाश के लिए किया था ॥२२० ॥

उपर्युक्त व्रतों में सामान्यतः कर्त्तव्य कर्म-महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ २२१ ॥

भाष्य — सर्वेष्वेतेष्वितिकर्त्तव्यतेयमुच्यते ।

पृष्ठ 700

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 700 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६० मनुस्मृतिः सर्वहोमेष्वाज्यं द्रव्यमनुपात्ते द्रव्यविशेषे दर्शितम् । स्वयंग्रहणात्परकर्त्तृकता निवर्तेत । किंपुनरयं होमो लौकिकेऽग्नावनावसथ्यस्य भवति नेति विचार्यते । [ एकादश: इदमेव तावद्विचार्यं कुताऽग्नौ होमः । प्रक्षेपावधिकस्त्यागो जुहोतेरर्थः । तत्र यस्मिन् कस्मिंश्चिदाधारे प्रक्षेपणे सिध्यत्येव ' होम: ' । ततश्च स्थले जले वाऽग्नौ वा क्रियतां होमो गृह्याग्निमतस्तु न लौकिकेऽग्नौ होमः । ग्राम्याग्नौ तस्य तद्धोमप्रति-षेधात् । समाचारादग्निसिद्धिरिति चेत्समाचार एव तर्ह्यन्विष्यताम् । गृह्यकारैस्तत्प्रणीताग्न्यधिकारैः कृच्छ्रविधिषु होम आम्नातः । तद्दर्शनेनानाव-सथ्यस्य प्रायश्चित्ते नाहोमकाः कृच्छ्राः । अभ्युदयार्थिनस्तु नैवानग्निकस्य सन्ति, सर्वाङ्गो-पसंहारेण फलसिद्धेः । अहिंसा । शिष्यभृत्याद्यपि ताड्यं न ताडनीयम् । सत्यं नर्मणाऽपि नानृतम् ।

यदि वा पुरुषार्थतया प्राप्तयोरङ्गत्वाय विधानम् ।

आर्जवमक्रूरता ॥ २२१ ॥

हिन्दी — द्विज महाव्याहृतियों ( भूः भुवः स्वः ) से प्रतिदिन घृत से स्वयं हवन करे तथा अहिंसा, सत्यभाषण, क्रोधत्याग और सरलता का आचरण करे ॥२२ ९ ॥

त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् ।

स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ २२२ ॥

भाष्य — त्रिरह्न इति ‘ सवनेष्वनुसवनमुदकोपस्पर्शनमिति ' ( २६।१० ) गौतम: । निशायामपि त्रिषु यामेषु महानिशां वर्जयित्वा तदवधि न हि अस्ति स्नानकालः । यदेव वासोयुगमाच्छादनार्थमौचित्यप्राप्तं तेनैव सह जलं प्रविशेत् । आविशे-दिति नोद्धृतोदकेनेत्यर्थः । स्त्रियो ब्राह्मणीरपि नाभिभाषेत, अन्यत्र मातृज्येष्ठभगिन्यादिभ्यः । भार्यया

सह कर्मोपयोगी संलापो न निषिध्यते । अन्यस्तु न कर्त्तव्य एव ॥ २२२ ॥।

हिन्दी — पिपीलिकामध्य ( ११।२१५ ) तथा यवमध्य ( ११।२१६ ) नामक चान्द्रा-यण व्रत को करता हुआ दिन तथा रात्रि में तीन - तीन बार सवस्त्र स्नान करे तथा व्रत पूर्ण होने तक स्त्री, शूद्र तथा पतितों के साथ कभी बातचीत न करे ॥२२२ ॥

स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ।

ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ २२३ ॥