मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 701–710

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 701–710

पृष्ठ 701

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 701 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६६१ भाष्य — उत्थित आसीन उपविष्टोऽथवा । न क्वचिन्निषीदेत् । अशक्तावधः शयीत, न पर्यङ्के | ब्रह्मचारी मैथुननिवृत्तः ।

व्रती शिष्टप्रतिषिद्धेषु नियमं गृह्णीयादिदं मया न कर्त्तव्यमिति ।

गुर्वादीनामर्चा प्रणतेन स्रगनुलेपनाद्युपहर्त्तव्यम् ॥२२३ ॥

हिन्दी — और रात तथा दिन में खड़ा रहे, टहलता रहे या बैठे ( किन्तु सोवे ( लेटे ) नहीं ) अथवा इतनी शक्ति नहीं रहने पर भूमि पर सोवे, ब्रह्मचारी तथा व्रती रहे और गुरु, देव तथा ब्राह्मणों की पूजा ( आदर - सत्कार ) करे ॥२२३ ॥

सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।

सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥ २२४ ॥

भाष्य – सावित्री “ तत्सवितुरिति ” गायत्री । सवितृदेवत्वाज्जपचोदनासु सावित्री-शब्देन तस्याः सर्वत्राधिकारः । पवित्राण्यघमर्षणपावमानीपुरुषसूक्तादीनि शुक्रियाध्यायाजनरौहिणेयादीनि सामानि । सर्वेषु सर्वकृच्छ्रेषु ।

आदृतो यत्नवान् ।

सर्वेष्वित्यादिश्लोकपूरणस्तथाविधस्यैवाधिकारात् ॥ २२४ ॥

हिन्दी — सावित्री तथा पवित्र ( अघमर्षण आदि ) मन्त्रों का सर्वदा जप करे । इस ( ११।२२१-२२३ ) विधि को चान्द्रायण व्रत के समान अन्य ( प्राजापत्य आदि ) व्रतों में भी यत्नपूर्वक करे ॥२२४ ॥

एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।

अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ २२५ ॥

भाष्य- - आविष्कृतं प्रकाशं लोकविदितमेनः पापं येषाम् । एतैः कृच्छ्रः शोध्याः । ये तुरहस्यपापास्तेषां न कृच्छ्रतपांसि । किंतर्हि? मन्त्रैर्होमैश्च शोधयेत् । रहस्येषु नास्ति परिषद्गमनमाविष्कृतं न स्यात् । विदुषां हि तत्राधिकारः । उच्यते । न प्रायश्चित्तमनागतं शोधयेदित्युच्यते, अपि तु शास्त्रव्याख्यानकाले शिष्याणामुपदेशा-दिदं रहस्येषु शोधनं बोद्धव्यमिति ॥२२५ ॥

हिन्दी — सर्वविदित पापवाले द्विजातियों को इन पूर्वोक्त ( ११ । २१०-२२४ ) प्रायश्चित्तों के द्वारा आगे वक्ष्यमाण परिषद् अर्थात् विद्वत्समिति शुद्धि करे तथा जनता में अविदित पापवाले द्विजातियों को मन्त्रों के जप तथा हवनों के द्वारा शुद्ध करे ॥ २२५ ॥

पृष्ठ 702

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 702 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६२ मनुस्मृतिः

पाप कहने आदि से पापनिवृत्ति-ख्यापनेनानुतापेन तपसाऽध्ययनेन च ।

पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥ २२६ ॥

[ एकादश: भाष्य — विप्राणां विदितेऽन्येषामप्येवंकर्माऽस्मीति ' प्रकाशयेत् एतत्ख्यापनम् । अनुतापः । तस्मात्तापौ वैमनस्यम् — ' धिङमां महदकार्यमकरवमनर्थो मे दुष्कृत-कारिणो जन्मे’त्येवमादिः चित्तपरिखेदः । अध्ययनं सावित्र्या जपो वेदपाठो वाहिंसायाम् । अन्यत्र । असमर्थस्य तपसि दानम् । एतदाह दानेन चापदीति ॥ प्रक्रांततपसः आपदि पीडायामनिग्रहणे दानम् ॥२२६ ॥

हिन्दी — अपने पाप को सर्वसाधारण में कहने से, पश्चात्ताप ( ' ऐसे कुकर्म में प्रवृत्त होनेवाले मुझ पापी को बार - बार धिक्कार है ' इत्यादि प्रकार से निरन्तर पछतावा ) करने से, कठिन तपश्चरण से, ( वेद आदि के ) अध्ययन ( पाठ, जप आदि ) से और ( इन सब कार्यों की शक्ति नहीं रहने पर ) दान करने से पापी मनुष्य पाप से छूट जाता है ॥ २२६ ॥

विमर्श – प्राजापत्य व्रत ( ११।२१० ) का आचरण कर पापयुक्त होने की शक्ति नहीं रहने पर ' त्रिपुराणीय या ' पञ्चपुराणीय ' एक गौ को दान करने का शास्त्रीय विधान है । इस प्रकार ब्रह्महत्या करनेवाले मनुष्य को पूर्व प्रायश्चित्त विधान ( ११।६ ९ ) के अनुसार १२ वर्ष तक व्रत नियम पालन करने की शक्ति नहीं रहे तो वह ३६० गौओं का दान करे; क्योंकि ( १ वर्ष = ३६० दिन, इसलिए १२ वर्ष ३६० × १२ = ४३२० दिन, और १२ दिन में एक प्राजापत्यव्रत की पूर्ति, इसलिए ४३२० दिन में ( ४३२० ÷ १२ = ३६० ) ३६० प्राजापत्यव्रत हुए । अतः प्रति प्राजापत्य व्रत के लिए १ गौ के दान करने का विधान होने से ब्रह्महत्या करनेवाले को ३६० गौओं का दान करने का विधान कहा गया है । पापाधिक्य के कारण प्रायश्चित्त के बढ़ने पर गोदान संख्या में भी वृद्धि होगी ।

यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते ।

तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ २२७ ॥

भाष्य — ख्यापनविधेरर्थवादः । नरोऽधर्ममिति नञः प्रश्लेषः । धर्मस्य स्वयं ख्यापनं निषिद्धम्, ' न गुणाः स्वयं वाच्या ' इति । प्रकृतश्चाधर्म एव तेनाधर्मेणेति श्रूयत एव ॥२२७ ॥

हिन्दी — पापी मनुष्य पाप करके जैसे - जैसे अपने पाप को लोगों से कहता है,

पृष्ठ 703

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 703 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६६३ व्वैसे - वैसे काँचली साँप के समान वह मनुष्य उस पाप से छूटता ( अलग होता ) जाता है ॥२२७ ॥

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।

तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ २२८ ॥

भाष्य – शरीरमन्तरात्मैव, न भूतात्मा पुण्यपापयोस्तदाश्रयात् । उपचारिद्धि

अआत्मनः शरीरशब्दोऽयं द्रष्टव्यः । अनुतापार्थवादोऽयम् ।

गर्हा ख्याता ॥२२८ ॥

हिन्दी - और उस पापी का मन जैसे - जैसे दूषित कर्म की निन्दा करता है, वैसे-क्से उस पापी का शरीर उस पाप से छूटता जाता है ॥२२८ ॥

पापानुताप से पापनिवृत्ति—

कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।

नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ २२ ९ ॥

भाष्य- - निवृत्तिपर्यन्तमित्याहुस्तदयुक्तम् । संतापो मनःपरिखेदः, ‘ प्रमाद्यैतन्मया वृकृतमित्येवंरूपः । निवृत्तिस्तु सङ्कल्पो ' न कर्त्तव्यः पुनरिति । क्रियाभेदं च दर्शयति । क्क्त्वाप्रत्ययेन ‘ सन्तप्य निवृत्ये’ति ।

अतः प्रायश्चित्तवत्ख्यापनानुतापनिवृत्तयः प्रायश्चित्तिना कर्त्तव्याः ।

पूयते सिद्धिमाप्नोति ॥२२ ९ ॥

हिन्दी – पापी मनुष्य पाप कर्म करके उसके लिए अनुताप ( पछतावा ) कर पाप छूट जाता है तथा ' फिर मैं ऐसा निन्दित कर्म नहीं करूँगा ' इस प्रकार सङ्कल्परूप सेमै उसका त्यागकर वह पवित्र हो जाता है ॥ २२ ९ ॥

शुभ कर्म करने का उपदेश-एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।

मनोवाङ्मूर्त्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ २३० ॥

भाष्य – एवमिति कृत्स्नस्य विधिनिषेधसमूहस्य प्रत्यवमर्शः । प्रेत्य कर्मफलोदयं ' शुभस्य कर्मणः स्वर्गादिफलावाप्तिरशुभस्य नरकोपप-न्तिरकृते प्रायश्चित्ते प्रायश्चित्तं चातिदुःखरूपम् ' । एतन्मनसि सञ्चिन्त्य शुभं कर्म समा-च्चरेत् । विहितं ‘ शुभम् ’ । तथा ‘ सङ्कल्पमूलः कामो वै ' क्यार्था नियता इति च । तस्माद्य-ह्यपि ‘ न हिंस्यादि’त्युद्यमननिपातने न दण्डादेः परदुःखोत्पादने उच्येते, तथाऽप्येव-मनु II 44

पृष्ठ 704

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 704 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६४ मनुस्मृतिः मादिशास्त्रपर्यालोचनयाऽध्यवसायादिनिषेधः । एकादशः एवमभक्ष्यभक्षणादावपि द्रष्टयम् । यद्यपि ' भक्षण ' मन्नादिनिगरणपर्यन्तं तथापि मानसोऽध्यवसायो निषिद्ध एव । एवमगम्यागमनेऽपि । यद्यपि हीन्द्रियसमापत्तिर्गमनं तथापि तदर्थाध्यवसायो व्यापार एवमादिशास्त्रान्तरैर्निषिध्यते । “ यद्येवं हननभक्षणागम्यागमनेषु यत्प्रायश्चित्तं तदध्यवसायेऽपि प्राप्नोति ” । नैष दोषः । ब्राह्मणवधे तावदिष्टमेव ' अहत्वाऽपी'ति वचनात् । अन्यत्र तु मुख्य-स्यैव शब्दार्थस्य परिग्रहो न्याय्यः । प्रतिषेधे तूक्ताशास्त्रपर्यालोचनया स मनोव्यापा-रात्प्रभृतिकायव्यापारपर्यन्तविषयोऽवतिष्ठते । “ यद्येवं ‘ निन्दितं समाचरन्निति ' प्रायश्चित्तनिमित्तोपदेशात्प्रतिषेधानुसारिप्रायश्चित्तं प्राप्नोति ” । क एवमाह नास्ति प्रायश्चित्तमिति । किञ्च तच्छब्दचोदितान्न भवत्यन्यस्य लघु कल्प्यम् । तथा च सर्वप्रायश्चित्तानामेवमादिरपि विषयो न्याय्यः । कुतः पुनरयं विशेषो लभ्यते । प्रतिषेधाध्यवसायादिति । प्रायश्चित्तानि तु शब्दार्थेष्वेव । व्रतनियमधर्माश्च सर्वे सङ्क-ल्पजा इति । अनेन विधिप्रतिषेधावेवोच्येते । ' व्रतानि ' विधिरूपाणि, ‘ नियमाः ’ प्रति-षेधलक्षणास्तत्रैव च कृतार्थत्वान्नैमित्तिकेषु यावत्प्रवर्तितुमर्हन्ति । अस्ति च प्रतिषेध-सामान्यनिमित्तमतो भवति प्रायश्चितम् । न च तदेव I । ‘ परद्रव्येष्वभिध्यानमिति ' चात्रै-वान्ते दर्शयिष्यामः ॥२३० ॥

हिन्दी - मनुष्य इस प्रकार मन से शुभ तथा अशुभ कर्मों को परलोक में ( क्रमश:) इष्ट तथा अनिष्ट ( भला बुरा ) फल देनेवाला विचारकर मन, वचन तथा कर्म से सर्वदा अच्छे कर्मों को करे ॥ २३० ॥

पापकर्म की निन्दा -अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।

तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ २३१ ॥

भाष्य — कृतप्रायश्चित्तस्यापि पुनरकार्यप्रवृत्तावधिकतरं प्रायश्चित्तमिति एवमर्थं द्वितीयं न समाचरेदिति । अथवा निवृत्तेरनन्तरोपदिष्टाया अर्थवादो द्वितीयं न समाचरितव्यमिति । व्रतं न हातव्यम् ।

पृष्ठ 705

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 705 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६६५ तस्मादाद्यकृताद्व्यतिक्रमाद्विमुक्तिमिच्छन् मोक्षमिच्छन् पुनर्न कुर्यात् । अतश्चै-तदुक्तं भवति । कृतेऽपि प्रायश्चित्ते न विमुच्यते, यदि पुनः समाचरति । न च निष्कृतौ कृतायामकृतायामपि मोक्षो युक्तोऽतो मुक्तस्य मुक्तिान्विच्छन्निति नोपपद्यते । तस्मादा-धिक्याय पुनर्वचनम् ॥२३१ ॥

हिन्दी- - ज्ञान या अज्ञान से पाप कर्म करने पर उससे मुक्ति ( छुटकारा ) चाहता हुआ मनुष्य फिर दुबारा उस निन्दित कर्म को मत करो, अन्यथा दुबारा पाप करने पर उसका प्रायश्चित्त ' भी दुगुना करना पड़ता है ॥२३१ ॥

मन को प्रसन्न होने तक प्रायश्चित्त करना—

यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ।

तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ २३२ ॥

भाष्य — असत्यां चित्तशुद्धौ विहितातिरेककरणार्थमिदम् । दुष्कृते कर्मण्यलाघवं कापि विचिकित्सा यदि भवति । ततः कृतेऽपि प्रायश्चित्ते

आ मनः प्रसादोत्पत्तेरावर्तयितव्यम् ।

तपोग्रहणं दानादीनामपि यथाविहितदर्शनार्थम् ॥२३२ ॥

हिन्दी – पापी मनुष्य का मन जिस प्रायश्चित्त को करने पर हल्का ( सुप्रसन्न ‘ इतना व्रत नियमादि प्रायश्चित्त करने से मेरा पाप अवश्य दूर हो गया होगा ' इस प्रकार दृढ़ आत्म - विश्चास ) न हो, तब तक वह व्रत नियम आदि तप का आचरण करता रहे ॥२३२ ॥

तप की प्रशंसा–

तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।

तपोमध्यं बुधैः प्रोक्तं तपोन्तं वेददर्शिभिः ॥ २३३ ॥

भाष्य — मनुष्यलोके यत्सुखमाभिमानिकं जनपदैश्वर्यादि यच्चैहिकमरोगित्वादि यच्च सांसर्गिकं धनपुत्रादि सम्पत् यथाभिमतकांतादिविषयोपभोगलक्षमैन्द्रियकं यच्च वेदेषु ( ब्रह्मवल्ल्यां ८।२ ) ‘ मनुष्याणां शतमानन्दाः स एक आजानदेवेषु ' इत्यादि तस्य सर्वस्य तपोमूलं उत्पत्तिकारणम् । तपोमध्यमुत्पन्नस्य स्थिति ' मध्यावस्था ' । अन्तोऽ-वसानम् । तदपेक्षयेति वेदविदां दर्शनम् । यथैव कर्माणि स्वर्गग्रामाद्यभिप्रेतफलसाध-नान्येवं तपो विज्ञेयम् ॥२३३ ॥

१. अतएव देवलः— ‘ विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं भवेत् । ' इति ।

पृष्ठ 706

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 706 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६६ मनुस्मृतिः [ एकादश: हिन्दी — देवों तथा मनुष्यों के सुख की जड़ तप ही है, वह सुख तप से ही स्थिर रहता है और उस सुख का अन्तिम लक्ष्य तप ही है; ऐसा वेद ( मन्त्रों ) के द्रष्टा महर्षियों का कथन है ॥२३३ ॥

वर्णक्रम से तप-ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।

वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ २३४ ॥

भाष्य — नैवं मन्तव्यं “ तपसि सामर्थ्यात्तपसा सर्वफलसिद्धीरवाप्स्यामि, विध्यति-शययोगाच्च विहिताकरणेऽपि, न द्रव्येण कथं मेऽनुष्ठेयो धर्म इति ' यतो ब्राह्मणस्य तपो ज्ञानम् । ज्ञानं वेदार्थावबोधः । तस्मिन्नसति न तत्फलसाधनम् । अतो ज्ञानमेव ‘ तप ’ उच्यते । महतीष्वापत्तिषु । तेन स्वधर्मो न हातव्य इत्येवमर्थोऽयं श्लोकः । 1 ज्ञानग्रहणं स्वाध्यायग्रहणाध्ययनात्प्रभृति सर्वस्वधर्माणां प्रदर्शनार्थम् । एवं तपः क्षत्रियस्येति । शूद्रस्य सेवनं द्विजातीनामिति शेषः । तत्सेवाया विहितत्वात्, अस्य चानुवाद-त्वात् ॥२३४ ॥

हिन्दी - ब्राह्मण का तप ज्ञान ( ब्रह्मचर्य रूप वेदान्तज्ञान ), क्षत्रिय का तप प्रजा तथा आर्त का रक्षण, वैश्य का तप वार्ता ( खेती, व्यापार और पशुपालनादि ) और शूद्र का तप ब्राह्मण की सेवा करना है ॥२३४ ॥

ऋषयः संयतात्मानः फलमूलानिलाशनाः ।

तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ २३५ ॥

भाष्य- -अतीन्द्रियज्ञानातिशयासादनमपि मुनीनां तपोबलेनैवेत्यर्थः । वाङ्मनःकायनियमात् संयतात्मानः ।

फलमूलेत्याहारनियमः ।

ईदृशेन तपसा त्रैलोक्यं प्रत्यक्षवत्पश्यंति ॥२३५ ॥

हिन्दी— ( काय, वचन और मन से ) संयम रखनेवाले तथा फल - मूल एवं वायु का भक्षण करनेवाले महर्षि लोग तप से ही चराचरसहित त्रैलोक्य देखते हैं ॥ २३५ ॥

औषधान्यगदा विद्या दैवी च विविधा स्थितिः ।

तपसैव प्रसिद्ध्यन्ति तपस्तेषां हि साधनम् ॥ २३६ ॥

भाष्य – औषधानि रसायनानि । अगदा व्याध्युपशमभेषजानि । विद्या भूत-1

पृष्ठ 707

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 707 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता विशेषादिविषया । दैवी स्थितिरणिमादिशक्तियोगोऽनेकप्रकारः ॥ २३६ ॥

६६७ हिन्दी – औषध, नीरोगता, ( वेदादि ज्ञानरूप ) विद्या, देवों की ( स्वर्ग आदि ) अनेक लोकों में स्थिति, ये सब तप से ही प्राप्त होते हैं, अतएव तप ही इनकी प्राप्ति का कारण है ॥२३६ ॥

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ।

सर्वन्तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥ २३७ ॥

भाष्य- - दुःखेन यत्तीर्यते तद्दुस्तरम् । व्याधिनिमित्ता महत्यापत् । अतिबलेन शत्रुणा यदुपरोधः । एतदपि तपस्विनां सुसाध्यम् । कृच्छ्रेण यत्प्राप्यते तद्दुरापमाकाशगमनादि । दुर्गं मेघपृष्ठारोहणादि । दुष्करमभिशापवरदानादि, अन्यथा त्वकरणम् । यथा संवर्तस्यान्यदेवतासृष्टिः । सर्वमेव तपसा सिध्यति ।

श्लोकत्रयेण संयोगपृथक्त्वादभ्युदयार्थता कृच्छ्राणामुच्यते ।

“ ननु च प्रायश्चित्तानां प्रकृतत्वात्कृच्छ्रस्तुतिस्तच्छेषतयैव न्याय्या, नाभ्युदयार्थिनो विधेयतया । न च दुस्तरादयोऽर्थवादतया न सम्भवन्ति । एवंविधाः महांतः कृच्छ्रा यद्दुस्तरमपि समुद्रादि तीर्यते । किं पुनः पापं नापनोत्स्यते ” । उच्यते । गृह्यस्मृतिषु सामविधौ चाननुक्रम्यैव प्रायश्चित्तानि कृच्छ्रविधिः समाम्नात: । तत्र चानारभ्याधीतत्वाद्युक्तैव अभ्युदयार्थता । आह च ( गौतमसू ० अ ० २६।२४ ) ‘ अथैतान् कृच्छ्रांश्चरित्वा सर्वेषु वेदेषु भवति सर्वैर्देवैर्ज्ञातो भवतीति ' । वेदेषु स्नात इत्यनेन नियमपूर्वकं वेदाध्ययनानुष्ठानाद्यत्फलं तत्सिद्धमाह । यस्तु निष्फलो ग्रहणार्थो-ऽध्ययनविधिः स एकवेदाध्ययनेनात्रापि सम्पद्यते । एवमनेकवेदाध्ययनं तु धर्मायैवे-त्युक्तम् । देवैर्ज्ञात इत्यनेनाशेषयागफलावाप्तिमाह । यजमानो हि वेदौ'र्ज्ञायते ' । यो ह्यर्थवादतया सम्भवति, न प्रायश्चित्तैर्दानभावं गच्छद्भिः । इहापि स्वधर्मनिवृत्तिमाशङ्क-मानेन ‘ ब्राह्मणस्य तपो ज्ञानम् ' इति यदुक्तं तदभ्युदयार्थत्वे सम्भवति । न प्रायश्चित्तानि पापप्रमोचनार्थानि काम्यानि फलसाधनानि, तत्र भिन्नविषयत्वात्कुतः प्रायश्चित्तैर्निवृत्तिरा-शङ्क्यते । अभ्युदयार्थत्वे तु कृच्छ्राणमन्येषां च कर्मणां तुल्यत्वाद्युक्ता निवृत्त्याशङ्का । तथा ‘ महापातकिनश्चेति ’ पापप्रमोचनार्थतापि चोद्यते ‘ यद्दुस्तरमि'त्यादिना अभ्युदयार्थ-तेति भिन्ने एव ते वाक्ये । तेन च प्रकरणस्य बाधो युक्त एव । तथा च द्वैपायनमुनि-प्रभृतय ंस्तपःप्रभावाद्बुद्धीर्विचित्रास्ता वक्ष्यन्ते ' । तस्मात्सर्वफलानि तपांसि । न च यथा सर्वार्थान्यपि वैदिकानि कर्माणि नियतफलानि ' सर्वेभ्योदर्शपूर्णमासौ सर्वेभ्यो

पृष्ठ 708

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 708 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६८ मनुस्मृतिः [ एकादश: ज्योतिष्टोम ' इत्यधिकारात्तत्र सर्वत्र यान्येव वेदे स्वर्गादीनि फलानि श्रुतानि तदपेक्ष-यैव सर्वार्थता न तु ऋद्ध्यतिशयातिभोगेनैवमिति, किं तर्हि, ' यद्दुस्तरमित्यादि यथा निदर्शितम् ॥२३७ ॥

हिन्दी – जो दुस्तर ( कठिनता से पार होने योग्य ग्रहबाधा आदि हैं ), जो दुर्लभ ( कठिनता से प्राप्त होने योग्य - यथा क्षत्रिय होकर भी विश्वामित्र का ब्राह्मण होना आदि ) है, जो दुर्गम ( कठिनता से चलने योग्य सुमेरु - शिखर आदि ) है, जो दुष्कर ( कठिनता से करने योग्य गौ, भूमि, धन आदि का अपरमित मात्रा में दान करना आदि ) है, वह तप से सिद्ध हो सकता है; क्योंकि तप उलङ्घन के योग्य नहीं होता है ॥ २३७ ॥

महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।

तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ २३८ ॥

– उक्तार्थमेतत् ॥ २३८ ॥

भाष्य-हिन्दी — इस कारण ( ११।२३३ - २३७ ) महापातकी ( ब्रह्महत्या आदि करनेवाले— ११।५३ ) तथा शेष अकार्यकारी ( गोहत्या आदि उपपातक करनेवाले - १११५८-६५ ) अच्छी तरह किये गये तप के द्वारा ही पाप से छूट जाते हैं ॥ २३८ ॥

कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च ।

स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ २३ ९ ॥

भाष्य — तपःस्तुतिरियम् । येन तपसा सर्वत्र गमनात्सर्वे स्वर्गमासत इति । यथाऽनधिकृता अपि कीटादयस्तपोबलाद्दिवं गच्छन्ति, किं पुनर्विद्वांसो ब्राह्मणाः । आलम्बनं कीटादीनां जातिसहजं दुःखं तदेव तपः । न च क्षीणकल्मषाधि-कारिजन्मान्तरकृतेन सुकृतेन दिवं यान्ति ॥२३९ ॥

हिन्दी — कीट ( क्षुद्र जीव ), सर्प, पतङ्ग ( फुनङ्गे– उड़नेवाले फतिङ्गे ), पशु, पक्षी तथा सम्पूर्ण चराचर ( वृक्ष, लता, गुल्म आदि ) जीव तप के बल से ही स्वर्ग को जाते हैं ॥२३ ९ ॥ विमर्श - इतिहास - पुराणादि में कबूतरी तथ कबूतर की कथा है कि अतिथि-सत्कारार्थ अग्निप्रवेश से वे स्वर्ग को प्राप्त किये तथा नहुष, नृग आदि कीट योनि पाकर पूर्वजन्मकृत तप से अन्त में स्वर्ग को गये ।

यत्किञ्चिदेनः कुर्वन्ति मनोवाक्कर्मभिर्जनाः ।

तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ २४० ॥

भाष्य — वाङ्मनःकायकृतस्य जपहोमाभ्यां शुद्धिः स्मर्यते । तत्र तपसा निवृत्तिः स्यात् । अत इदमारभ्यते तदपि तपसानूद्यते ॥२४० ॥

पृष्ठ 709

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 709 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६६ ९ हिन्दी – मनुष्य मन, वचन तथा काय से जो कुछ पाप करता है, उन सब पापों को वे तपस्वी लोग तप से ही भस्म कर देते हैं ॥ २४० ॥

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।

इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥ २४१ ॥

भाष्य — काम्यकर्मारम्भे पूर्वं तपः कर्त्तव्यम् । तदपि तावदनूद्यते । तथा चोक्तं ‘ प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ' । यत्र तावद्दोक्षोपनयनाद्यङ्गं तत्र तदेव ‘ तप: ’ । एकस्तपो व्रतमुपैत्यसङ्गतानां विहितं चेति ' तप ' एव । यत्रापि शान्तिकपौष्टि-कादौ गृह्यादिविषये तत्रापि पूर्वं तपः कर्त्तव्यमिति श्लोकार्थः । ब्राह्मणग्रहणं यागाधिकृतकामिमात्रप्रदर्शनार्थम् । उक्तं च—

‘ नातप्ततपसः पुंसो हविर्गृह्णन्ति देवताः ।

नागृहीतहविष्यस्य काम: सम्पद्यते क्वचित् ॥

यद्यपि न देवता तत्फलं ददाति तथापि यागस्य देवतया विनाऽनिष्पत्ते'र्देवताः संवर्धयन्ती’त्युच्यते । हविर्ग्रहीतृत्वं च न पुनर्देवतानां स्वीकारः, किं तर्हि? सम्प्रदान-तयोद्देशेऽनिराकरणम् ॥२४१ ॥

हिन्दी- - तप से ही अन्यत्न शुद्ध ब्राह्मण के यज्ञ में देवता लोग हविष्य को लेते और उनके मरोरथ को पूर्ण करते हैं ॥२४१ ॥

प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः ।

तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ २४२ ॥

भाष्य – मनोर्येयं प्रतिष्ठा ग्रन्थस्य सा तपस्सामर्थ्यजैव । अन्योऽपि यो ग्रन्थ-प्रतिष्ठाकामस्तेनापि तप: पूर्वं कृत्वा ग्रन्थः प्रणेतव्यः । ऋषीणामपि यत्तादृक्त्वं वेदाः प्रादुर्भवन्ति तत्तपसैव ॥२४२ ॥

हिन्दी--तप से ही ( सम्पूर्ण लोकों की सृष्टि, पालन तथा नाश करने में ) समर्थ ब्रह्मा ने इस शास्त्र को बनाया तथा तप से ( वसिष्ठ आदि ) ऋषियों ने ( मन्त्र तथा ब्राह्मण रूप ) वेद को प्राप्त किया ॥२४२ ॥

एव ।

यदेतत्तपसो देवा महाभाग्यं प्रचक्षते ।

सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुद्भवम् ॥ २४३ ॥

भाष्य — तपस्तुत्युपसंहारः । यदेतत्तपसो महाभाग्यं महाफलत्वमुक्तं तद्देवाः प्रचक्षते, न केवलं मनुष्या

पृष्ठ 710

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 710 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७० मनुस्मृतिः [ एकादश: सर्वस्यास्येति जगन्निदर्शयति । कृत्स्नस्य जगतः पुण्यमुद्भवं शुभजन्म तपसः सकाशात्पश्यन्तः ॥२४३ ॥

हिन्दी — इन समस्त प्राणियों के दुर्लभ एवं पुण्यमय जन्म को प्राप्त होता हुआ देखकर देवता लोग तप के बड़े भारी माहात्म्य को कहते हैं । २४३ ॥ तप का लक्षण – [ ब्रह्मचर्य जपो होमः काले शुद्धाल्प भोजनम् । अरागद्वेषलोभाश्च तप उक्तं स्वयम्भुवा ॥ १३ ॥ ]

[ हिन्दी – ब्रह्मचर्य, जप, हवन, यथासमय शुद्ध तथा स्वल्प भोजन; राग, द्वेष तथा लोभ का त्याग; इनको ब्रह्मा ने तप कहा है || १३ || ]

वेदाभ्यासादि से महापातकादि का नाश-वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमा ।

नाशयन्त्याशु पापानि महापातकजान्यपि ॥ २४४ ॥

भाष्य — वेदाभ्यासादीनां नित्यानां कर्मणां पापप्रणोदनार्थताऽधिकारान्तरत्वेनो-च्यते । अनिर्दिष्टप्रायश्चित्तानामप्रत्ययकृतानां प्रतिभूतानां चैतद्विज्ञायते । अन्ये त्वाहुर्यदेवोक्तं ‘ ब्राह्मणस्य तपो ज्ञानम् ' इति तपोविधानेन कर्मान्तरनिवृत्ति-माशङ्कमानस्य वचनं, इदमपि तथैव विज्ञेयम् । अनुसंधानार्थं क्षमाग्रहणं सर्वात्मगुणप्रदर्शनार्थम् । महापातकजान्यपीति । अपिशब्दात्स्तुतिः प्रतीयते न महापातकनिवृत्त्यर्थता न चाकस्मात्स प्रवर्तित इति तथा प्रदर्शितैर्विषयैर्विज्ञायते ॥२४४ ॥

हिन्दी — प्रतिदिन यथाशक्ति वेद का अभ्यास, पञ्चमहायज्ञ ( ३।७० ) तथा क्षमा; ये सब महापातक से भी उत्पन्न पापों को नष्ट कर देते हैं ( फिर साधारण पापों के विषय में क्या कहना है, ) अतः इनका आचरण यथाशक्ति करते रहना चाहिये ॥२४४ ॥

यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।

तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ २४५ ॥

भाष्य — ज्ञानप्रशंसेयम् । विदुषः स्वल्पेन प्रायश्चित्तेन शुद्धिरित्यस्मिन् प्रकरणे आज्ञायते । ज्ञानं च सरहस्यं वेदार्थविषयं ज्ञेयम् । न प्रायश्चित्तविधिज्ञानं केवलं शुद्धये । प्रयोगार्थं तत् । न ह्यन्यथाप्रयोगोपपत्तिः । यस्तु देवादिसत्ताविज्ञानं रहस्याधिकारज्ञानं च तस्याकामार्थत्वाद्युक्तं ‘ तद्धि ताः पापनिष्क्रियाः ' । आह च ' यथा पुष्करपलाश आपो न