मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 71–80

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 71–80

पृष्ठ 71

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४१ हिन्दी— ( राजा ) वेदाध्ययन के बाद गुरुकुल से गृहस्थाश्रम में प्रविष्ट होनेवाले ब्राह्मणों की पूजा ( धन - धान्य- गृहादि को देकर आदर - सत्कार ) करे; क्योंकि यह ब्राह्मण राजा का अक्षय निधि ( खजाना ) कहा गया है ॥ ८२ ॥

ब्राह्मणों को वृत्तिदान की प्रशंसा-न तं स्तेना च चामित्रा हरन्ति न च नश्यति ।

तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥८३ ॥

भाष्य – ब्राह्मणेभ्यो योऽर्थो दत्तः, न तं स्तेना आटविकादयोऽमित्राश्च शत्रवो हरन्ति । न भूमिष्ठमिव विस्मृत्य प्रातिभाव्येन वा नश्यति ॥८३ ॥

हिन्दी — उस ( सत्पात्र ब्राह्मण में दिये गये दान रूप कोष ) को चोर नहीं चुराते, शत्रु नहीं छीनते और वह नष्ट नहीं होता है, अतएव राजा ब्राह्मणों में अक्षय कोष रखे ( ब्राह्मणों को दान दे ) ॥८३ ॥

न स्कन्दति न च्यवते न विनश्यति कर्हिचित् ।

वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ८४ ॥

-भाष्य – एषं एवार्थोऽवश्यानुष्ठेयः प्रकारान्तरेण पुनरुच्यते । अग्नौ अद्धूयते तत्कदाचित् स्कन्दत्यधः पतति हूयमानम्, तथा च्यवते पुरोडाशादि क्षामतया । ततश्च कर्मवैगुण्याद्विनश्यति शिष्टानाम् । इदं तु यद् ब्राह्मणेभ्यो दानं न तस्यैते दोषाः सन्ति । अत एवाह । वरिष्ठमग्निहोत्रेभ्यः अग्नौ होमेभ्य इत्यर्थः । मुख्यार्थवृत्त्या कर्मनामधेय-मेवाग्निहोत्रशब्दस्तदा चादिग्रहणं व्याख्येयम् । मुखे हुतमिति । पाणिरेव ब्राह्मणस्य मुखं “ पाण्यास्यो हि द्विजः स्मृत " इति

वचनात् । वरिष्ठं श्रेष्ठम् ।

अर्थवादश्चायं न पुनर्होमनिन्दैव ॥८४ ॥

हिन्दी — अग्नि में हवन किये हविष्य ( क्षीरान्न, घृत आदि हवनीय पदार्थ ) की अपेक्षा ब्राह्मण के मुख में किया गया हवन ( ब्राह्मण को दिया गया दान ) न भीक नीचे गिरता है, न कभी सूखता है और न कभी नष्ट होता है ( अतः अग्निहोत्रादि कर्म की अपेक्षा ब्राह्मण को दान देना श्रेष्ठ है ) ॥ ८४ ॥

वेदपारग ब्राह्मण को देने का अनन्त फल-सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।

आचार्ये शतसाहस्रमनन्तं वेदपारगे ॥ ८५ ॥

भाष्य – “ विप्रेभ्य इति च प्रकृतम् । तथा च प्रागप्युक्तम् ( ३।९ ६ ) “ वेदतत्त्वार्थ-

पृष्ठ 72

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ मनुस्मृतिः [ सप्तमः विदुषे ब्राह्मणायेति । न च यथाश्रुतदानफलोपपत्तिः । कीदृशं हि तत्साम्यं— जातित: परिमाणतः उपकारतो वा । यदि तावज्जातितस्तदिति, औषधपानोद्देशेन देवलेभ्यो दत्तं खाद्यदानं दुःखायैव स्यात् । तिक्तकटुकषायानि प्रायश औषधानि विरेचनीयानि, न प्रीतिजननानि । अथ परिमाणतः, तत्रापि यदि द्रव्यमनपेक्ष्य केवलपरिमाणासाम्यम्, सुवर्णं दत्तं तत्परिमाणं ताम्रं लभ्येत, अन्यद्वा मृत्काष्ठादि । अथ जातितः परिमाणतश्च, तत्र प्रागुक्ता एव दोषाः । अथोपकारतः, तत्रापि हि यदि तज्जातीय एवोपकारः व्याधि-निवृत्तिरौषधोपकारः । असति च व्याधौ फलस्य विनिवृत्तिरतो व्याधिनिवृत्तिफलकेनौषध-दानेन व्याधिराक्षेप्तव्यः । सुसमं वा अन्यदुःखं इति प्राप्तम् । तस्मात् यथा निवीतं मनुष्याणां उपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्युपव्यानविशेषान्निवी-तादयो न पृथग्वाक्यानि तथेदमपि द्रष्टव्यम् । ” अत्रोच्यते । नात्राख्यातश्रवणमस्ति, सर्वेषां समत्वात् । तत्र यद्यर्थवादः ' सहस्रं वेदपारग ' इति तदर्थवादोऽस्तु । अथायं विधिः, विध्यन्तरशेषभावात्सर्वत्र विधिरभ्यपे-तव्यो विशेषाभावात् । निवीतादिषु तूपव्ययत इत्यत्राख्यातदर्शनात् तदर्थस्य विधिविषय-त्वयोग्यत्वाभावादेकत्वावगमाच्च युक्तार्थवदेव तर्ह्यनुक्तो विशेषः । यत्तु नाब्राह्मणेभ्यो दानमस्तीति तद्विस्मृतं भवेत् । दीनानाथादिभ्यः सर्ववर्णेभ्यो दानस्य विहितत्वात् । एतान्येव च विधायकानि वाक्यानि ब्राह्मणेभ्यो राज्ञां दानस्य । यत्तूक्तं “ यथाश्रुतफलानुपपत्तिः सर्वप्रकारेणास्याभ्युपगम्यमानत्वादिति ” । अत्रोच्यते । लौकिकीयं वाचोयुक्तिः सममिति । यल्लोके नात्युत्कृष्टं तदेव-मुच्यते । समलवणाः सक्तव इति । उपकारापेक्षा च ' द्विगुणमिति ' संख्याश्रुतिर्यावत्तस्योप-कारस्तावद्विगुणो भवति । न तद्द्रव्यप्राप्तिर्नापि तज्जातीय एवोपकारः, किंतु प्रीत्य-तिशयोत्पत्ति: । न चेह फलविशेषश्रुतिर्येनेयमाशङ्कापि स्यात्किं तदेव द्रव्यं प्राप्येत उत स एवोपकार इति । अश्रुतफलविशेषेषु स्वर्गः फलम् । किंच तिलादिदाने प्रजाप्तिः फलं श्रूयते । तत्र का द्रव्यसाम्याशङ्का । तस्माच्चायमप्यर्थ उत्तरोत्तरोऽत्र च पात्रातिशयदानात्-फलातिशयसिद्धिः । तथा चाह “ पात्रस्य हि विशेषेणेति ” ( ८६ ) । ब्राह्मणब्रुवे ब्रुवशब्दः कुत्सायाम् । जातिमात्रब्राह्मणोऽध्ययनादिगुणहीन इत्यर्थः । आचार्यः उपनेता । वेदपारगोऽध्ययनश्रवणाभ्यां वेदस्यान्तं गतः ॥ ८५ ॥

हिन्दी — ब्राह्मणभिन्न ( क्षत्रिय आदि ) में दिया गया दान सामान्य फल वाला, ब्राह्मण क्रिया से रहित अपने को ब्राह्मण कहनेवाले ब्राह्मण में दिया गया दान दुगुने फल वाला, विद्वान् ब्राह्मण में दिया गया दान लाखगुने फलवाला और वेद- पारगामी ब्राह्मण में दिया गया दान अनन्त फलवाला होता है ॥८५ ॥

पृष्ठ 73

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता

सत्पात्र में दान की प्रशंसा-पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।

अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥८६ ॥

४३ भाष्य- -पातयतेऽधर्मकर्मणः, पात्यमानं वा त्रायत, इति पात्रं सम्प्रदानम् । अथवा घृततैलाद्याधारः पात्रमुपचारादिदमपि पात्रम् । अत्रापि हि द्रव्यं निधीयते । आह च ( ७।८२ ) “ नृपाणामयो ह्येष निधिर्ब्राह्मोऽभिधीयत ' इति । तस्य विशेषो भेदः सगुणनिर्गुणत्वादिः । तेन हेतुना दानस्य फलमवाप्यते । , अल्पं वा । गुणवते वृत्तस्वाध्यायसम्पन्नाय दत्तं बहु, निर्गुणाय त्वल्पम् ॥ हिन्दी — विद्या तथा तपसे युक्त पात्र की अपेक्षा से ( सुपात्र को प्राप्तकर ) श्रद्धा से दिये गये दान के फल को परलोक में मनुष्य प्राप्त करता है ॥८६ ॥

विमर्श – सामान्य, मध्यम या उत्तम पात्र के अनुसार ही श्रद्धा एवं भक्ति से युक्त होकर दिये गये दान का क्रमशः सामान्य या उत्तम फल मनुष्य को परलोक में मिलता है । अतएव सत्पात्र को दान देना सर्वश्रेष्ठ है ।

देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।

पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् ॥७ ॥

भाष्य — तत्र देशः स्वनिवासदेशादन्यो जानपदः । दूरदेशप्रोषितायां सन्निहित-त्वाद्दत्तमस्य हेतुरुपघातः । यज्ञप्रवृत्तस्य केनचिदंगेन न्यूनता ग्रहोपराग इत्येवमादिः । विधानम् । उदकपूर्वकस्वस्तिवाचनसंस्कारातिशयो भावप्रसाद इत्यादि । द्रव्यं गोभूहिरण्यादि । श्रद्धा प्राप्त्यभिलाषातिशयः, ' कथमिदं मे निवर्ततेति बुद्धि संतानः । ' प्रेत्येति । क्रियासमनन्तरं फलोत्पत्तेरनियममाह, न पुनर्जन्मान्तरफलतामेव । वैदिकानां कर्मणां फल एव कामस्य नियमावगमात् ॥८६ ॥

हिन्दी – देश - काल के अनुसार श्रद्धा से युक्त जो द्रव्य सत्पात्र में दिया जाता है, वही धर्म का प्रसाधन ( उत्तम साधन या भूषण ) है ॥ ८ ॥

[ एष एव परो धर्मः कृत्स्नो राज्ञ उदाहृतः । जित्वा धनानि संग्रामाद् द्विजेभ्यः प्रतिपादयेत् ॥ ७ ॥ ]

[ हिन्दी – राजा का सम्पूर्ण यही धर्म कहा गया है कि युद्ध से धन को जीतकर ब्राह्मणों को दान कर दे || ७ || ]

पृष्ठ 74

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ मनुस्मृतिः युद्ध से विमुख होने का निषेध-समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः । [ सप्तमः न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ ८७ ॥

भाष्य — सर्वोपायपरिक्षये राज्ञो विहितं युद्धम् । तत्र संग्रामभूमिगतस्याहतस्य सम-न्यूनाधिकबलेनोपेक्षाप्रतिषेधार्थमिदं पदम् । न मन्तव्यं निकृष्टबलं न हन्मीति । अथवा ये शत्रव आटविकादयः प्राक्स्थितां मर्यादामतिलंघ्य देशमुत्क्रामन्ति शत्रुभिर्वा राज्ञः संदधते, न चेत्ते युद्धेन विना नियन्तुं शक्यन्ते, - - तदा निकृष्टबलै-रपि तैर्योद्धव्यमेव । यद्यपि तैरसौ शब्देन नाहूतो वस्तुतस्त्वाहूत एव भवति । एष हि क्षत्रियाणां धर्मः यदाहूतः प्रकृतैस्तैर्युद्धे सर्वेण सह योद्धव्यमेव । जातिवयः

शिक्षापुरुषकारादि नापेक्षितव्यम् । एष धर्मः स्मर्तव्यः ॥८७ ॥

हिन्दी — प्रजाओं का पालन करता हुआ राजा समान, अधिक या कम ( बल वाले शत्रुओं ) के बुलाने ( युद्ध के लिए ललकारने ) पर ( ' क्षत्रिय युद्ध से विमुख न होवे ' इस ) क्षत्रिय - धर्म को स्मरण करता हुआ युद्ध से विमुख न होवे ॥ ८७ ॥

राजा का श्रेष्ठ धर्म-संग्रामेष्वनिवर्त्तित्वं प्रजानां चैव पालनम् ।

शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ८८ ॥

भाष्य — त्रयाणां धर्माणां तुल्यफलत्वाय श्लोकोऽयम् ॥८८ ॥

हिन्दी - युद्ध से ( डरकर ) नहीं भागना, प्रजाओं का पालन करना और ब्राह्मणों की सेवा करना; राजाओं का अत्यन्त कल्याण करनेवाला ( धर्म ) माना गया है ॥ युद्ध में विमुख न होने से स्वर्गप्राप्ति-आहबेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥८९ ॥

भाष्य - आहूयन्ते युद्धार्थमितरे यत्र वीराः स आहवः संग्रामः । मिथः स्पर्ध-माना अन्योन्यं परस्परं जिघांसन्तो हननेच्छवः युद्ध्यमानाः प्रहरन्तः परं शक्त्या परया शक्त्या यथाबलमित्यर्थः । छांदसत्वात्परेत्यस्य स्थाने परमिति रूपम् । अपराङ्-मुखा युद्ध्यमाना इति सम्बन्धः । स्वर्गं यान्ति । “ ननु च राज्यलोभात्प्रवृत्तानां दृष्टस्य फलस्य सम्भवात्कुतः स्वर्ग उच्यते ” । वक्ष्यमाणयुद्धनियमापेक्षः स्वर्गः । न हि तेषां नियमानामन्यत्प्रयोजनमस्ति । ‘ न कूटैरायुधैरित्यादिना त्यक्तराज्यस्यापि शक्तप्रणिपातेन तदनुजीवनसम्भवात् भवेत् ।

पृष्ठ 75

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४५ तस्मादर्हस्तत्फलसम्भवः । अथवा निश्चिते पराजये निराशस्य युद्धावतरणम्, तच्च स्वर्गायैव । अस्मादेव वचनान्नात्मत्यागनिषेधस्य विषयोऽयम् । महीक्षितो मण्डलेश्वरा न पुनस्तदनुजीविनः । तेषां हि स्वाम्यर्थैव प्रवृत्तिर्न स्वार्था । अतश्च कुतस्तेषां फलसम्बन्ध:, ऋत्विजामिव दक्षिणापणेन परिक्रीतानाम् । एवमेषा-मपि भृतिपरिक्रीतानां कुतः स्वर्गादिफलोत्पत्तिः । ननु च अविशेषेणैतदुक्तम् ( ५।९ ७ ) “ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः सन्तिष्ठते यज्ञ ” इति । तथा— " द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च शूरश्चाभिमुखो हतः ॥ " इति । तथा भारते युद्धप्रेक्षिणामपि स्वर्गः संदर्शितः । मन्त्रलिङ्गानि च सन्ति “ ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः 1 । ये वा सहस्रदक्षिणास्ताँश्च देवापि गच्छतात् ॥ ” सहस्रदक्षिणानां यजमानानां शूराणां च रणशिरसित्यक्तप्राणानां महाफलत्वं दर्शयन्ति । ‘ ये युध्यन्ते ' न च मरणायैव क्रीयन्ते । नहि सम्परिग्रहकालेऽयमुपसंवादोऽस्ति । यथा होत्रोद्गात्रादीनां स्वप्रवचनसमाख्यानियतार्त्विज्यपदार्थानुष्ठानायैव वरणम् । तस्मात्प्रभु-कार्योद्देशेन यन्मरणं तदनुक्रान्तफलायैव । न च परप्रयुक्तात्कर्मणोऽन्यस्य फलं नास्ति । अश्वमेधावभृथे हि ब्रह्मघ्नस्य स्नानादयजमानस्यैव शुद्धिः । अत्रोच्यते 1 । प्रजार्थे युद्धे प्राणत्यागो धर्मायैव । यदुक्तम् ‘ उद्यतैराहव ' इति, तदा भृतिपरिक्रीतस्यास्वतंत्रस्य यस्य वा ' कुर्विति ' प्रयाणं रण इत्येव परिकरो बद्धस्तदपेक्षमेतत् यज्ञसंस्थावचनम् । एवंभूतश्चाभिमुखो हत इति । अथवा नरकाभाव एव ‘ सूर्यमंडलभेदनं ' युद्ध्यमानस्य भविष्यति । यत्र विषयान्तरे-श्वरेण राज्ञा परस्य राज्ञो विषयो हन्यते भज्यते जनो लुप्येत्तत्र तदर्थं युद्धे प्राणत्यागो धर्मार्थः । अन्धंतमो हि नरके तदभावात्सति प्राकाश्ये सूर्यमण्डलभेदनवचनम् । सूर्य-मण्डलं भिनत्ति, उपरिष्टाल्लोकानाप्नोति, नाधः प्रपततीत्यर्थः । भृतिपरिक्रीतस्य प्रभोः संग्रामे समुपस्थिते, तमेव जहतो नरकनिपतनम्; तदर्थं युध्यमानस्य भर्तृपिण्डानृण्यं गतवतो दुष्कृतेनाप्रतिबध्यमानस्य स्वैः सुकृतैर्युक्त एव स्वर्गादिलाभः । अत उक्तं “ सद्यः संतिष्ठते यज्ञ ” इति । अव्यवधानेन यज्ञफलमविशेषश्रुतौ स्वर्गमवाप्नीती-त्यर्थः । एवं भारतेऽपि भृतिपरिक्रीतानां स्वर्गफलावाप्तिवचनमुपपद्यते । युद्धप्रेक्षिणां तु स्वर्गावाप्तिरर्थवाद एव । अथवा बहुषु जीवनोपायेषु सत्सु यच्छस्त्रेण जीवनं ततो नियमात्स्वर्गः । यत्तु न मरणाय क्रीयन्त इति, शस्त्रभृतां भृतिदाने नान्यद्युद्धात्प्रयोजनमस्ति,

पृष्ठ 76

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ मनुस्मृतिः [ सप्तमः विशेषानुपदेशात्— ‘ सर्वकार्योद्यताः, सर्वप्रकारं मदर्थः सम्पादनीय ' इति परिक्रीयन्ते— तत्र यदा युद्धमुपस्थितं भवति, तदा आ शरीरपातात्प्रभोरर्थः कर्तव्यः, तथाऽऽनृण्यं भवति । अनुपस्थिते तु युद्धे यदि भृत्यस्य मरणं भवति, तदा सर्वेऽनृणा एव । उद्युक्ते ह्यसौ तत्कार्ये तादृश एवास्योपसंवादः । युद्धकाले योद्धव्यं भवतीति लिङ्गदर्शनमपि तूपपद्यत एव । अश्वमेधावभृथे तु स्पष्टं दचनं ' तस्मात्समागमे तेषामिति ' । इह तु युद्धसाध्य-मिति विशेषः ॥८९ ॥

हिन्दी – युद्धों में परस्पर प्रहार ( चोट ) करने की इच्छा करते हुए, अपार शक्ति से युद्ध र हुए राजा विमुख न होकर ( मरने से ) स्वर्ग को जाते हैं ॥८ ९ ॥ कूट शस्त्रादि के प्रहार का निषेध—

न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।

न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ९ ० ॥

भाष्य — तानिदानीमदृष्टार्थान्नियमान्दर्शयति । कूटानि यानि बहिःकाष्ठमयान्यन्तर्निशितशस्त्राणि । कर्णिनः । शरा ये शल्यस्य मूले मध्ये वा कर्णाकारै: फलकैः क्रियन्ते । ते हि प्रविष्टा दुरुद्धरा भवन्ति । उह्रियमाणाः प्रहारैरभिन्नमपि शरीरैकदेशं भिन्दन्ति । दिग्धा विषोपलिप्ताः ।

अग्निना ज्वलितमादीपितं तेजोमयफलकं येषाम् ।

एतैर्न योद्धव्यम् ॥९ ० ॥

हिन्दी - युद्ध करता हुआ ( राजा या कोई योद्धा ) कूटशस्त्र ( बाहर में लकड़ी आदि तथा भीतर में घातक तीक्ष्ण शस्त्र या लोहा आदि से युक्त शस्त्र ); कर्णिके आकारवाला फल ( बाण का अगला भाग ), विषादि में बुझाये गये, अग्नि से प्रज्वलित अग्रभागवाले शस्त्रों से शत्रुओं को न मारे ॥९ ० ॥

युद्ध में मारने के अयोग्य शत्रु-न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।

न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ९ १ ॥

भाष्य — रथस्थेन रथारूढ एव हन्तव्यः, स्थलस्थितो न हन्तव्यः । -क्लीबो नपुंसकः, पौरुषहीनो वा । अन्यत्र दृढ आसीन उपविष्टो रथपृष्ठे भूमौ वा ।

पृष्ठ 77

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ४७ तवास्मीति वदति यस्तमपि न हन्यात् । शब्दनियमोऽत्र न विवक्षितः । दीनं वदन्नेवंजातीयकैरपि— शब्दै ' स्त्वदीयोऽहं त्वामाश्रितोऽस्मीति'- — न हन्तव्यः ॥९ १ ॥ हिन्दी— ( रथ पर बैठा हुआ ) योद्धा भूमि पर स्थित, नपुंसक, हाथ जोड़े हुए, बाल खोले हुए, बैठे हु और ' मैं तुम्हारा हूँ ' ऐसा कहते हुए ( शरणागत ) योद्धा को न मारे ॥९ १ ॥

न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।

नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ९ २ ॥

भाष्य — न नग्नम् । ' न भग्नमिति ' वा पाठः । विसन्नाहस्य प्रतिषेधान्नग्नस्य प्राप्तिरेव नास्ति । तेन शिरस्त्राणाद्यभावेनैकदेशेन नग्नतया नग्नो द्रष्टव्यः । भग्नस्यापि परावृत्तप्रतिषेधात्संमुखस्थोऽपि, त्वया सह न युध्येय-मिति ' वक्ति, स नानुबन्धनीयोऽवश्यं योद्धव्यमिति । नायुध्यमानं पश्यन्तम् । यः प्रेक्षक एव केवलः स न हन्तव्यः । यस्तु प्रेक्षते

युध्यते च, न तत्र प्रतिषेधः ।

परेण समागतः । अन्येन सह युध्यमानोऽन्येन न हन्तव्यः ॥९ २ ॥

हिन्दी – सोये हुए, कवच से रहित, नंगा, शस्त्र से रहित, युद्ध नहीं करते हुए, ( केवल युद्ध को ) देखते हुए ( जैसे— युद्ध - संवाददाता आदि ) और दूसरे के साथ युद्ध में भिड़े हुए योद्धा को न मारे ॥९ २ ॥

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।

न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ ९ ३ ॥

भाष्य- -आयुधव्यसनमायुधकृच्छ्रमायुधभङ्गः, कुण्डलिभावः खङ्गस्य, ज्याछेद इत्येवमादिस्तं प्राप्तम् । आर्तः हतपुत्रभ्रातादिः । भीतं मुखरागादिना विज्ञाय, शस्त्रसम्मुखमपि । परावृत्तं प्रत्यावृत्य स्थितम् । एते नियमाः । प्रतिषेधपक्षे प्रत्यवायः । तदा च स्वर्गप्राप्तिवचनमर्थवादः । किं पुनरत्र युक्तम् । पुरुषार्थः प्रतिषेधः । “ न कलञ्जं भक्षयेत् ” इतिवत् । तथा हि नञो मुख्यार्थवृत्तिता भवति ।

पृष्ठ 78

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ मनुस्मृतिः सतां धर्ममिति । शिष्टानामेष आचार इत्याह अनुस्मरन्निति ॥ ९ ३ ॥ [ सप्तमः हिन्दी — अपने शस्त्र - अस्त्र के टूटने आदि से दुःखी, पुत्र आदि के शोक से आर्त, बहुत घायल, M हुए और युद्ध से विमुख योद्धा को सज्जन क्षत्रियों के धर्म का स्मरण करता हुआ ( राजा या कोई भी योद्धा ) न मारे ॥९ ३ ॥

युद्ध से विमुख होने की निन्दा-यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।

भर्तुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥ ९ ४ ॥

भाष्य — नैवं मन्तव्यं— परावृत्तो यदि हन्यते तदा, दृष्कृत्य हतस्तु नेति, -किंतर्हि परावृत्तमात्रनिबन्धनं दोषवचनम् । किं च न परावृत्तहतेनेयं बुद्धिः कर्तव्या— ' अनुभूतखङ्गप्रहारोऽस्म्यनृणः कृतभर्तृकृत्य ' इति । तथाविधाः प्रहारा न कस्मैचिदर्था-येति दोषातिशयदर्शनेन दर्शयति भर्तृसम्बन्धिदुष्कृतमिति । यच्च वचनमुत्तरत्र तदीय-सुकृतग्रहणमिति, तदर्थवादः । न ह्यन्येन कृतं शुभमशुभं वाऽन्यस्य सम्भवति । न च सुकृतस्य नाशः । किन्तु महता दुष्कृतेन प्रतिबन्धे चिरकालभाविता सुकृतस्य फलस्य उच्यते ॥९ ४ ॥ हिन्दी — युद्ध में डरकर विमुख जो योद्धा शत्रुओं से मारा जाता है, वह स्वामी का जो कुछ पाप है, उसे प्राप्त करता है ॥९ ४ ॥ विमर्श - गोविन्दराज के मत से यहाँ पर युद्ध से पराङ्मुख व्यक्ति का पाप विवक्षित है तथा मेधातिथि के मत से यह वचन अर्थवाद ( युद्ध से विमुख न होने के लिए विशेषता प्रदर्शकमात्र ) है; किन्तु ये दोनों मत मनु भगवान् के अभिप्राय से विरुद्ध होने के कारण अग्राह्य हैं । युद्ध से विमुख हुए योद्धा को शत्रु के प्रहार करने पर यह नहीं समझना चाहिये कि ' मैं स्वामी के लिए युद्ध में शत्रु का प्रहार सहकर स्वामी से ऋणमुक्त हो रहा हूँ । ' मन्वर्थमुक्तावलीकार का मत है कि- ' दूसरे के पाप या पुण्यकर्म विशेष से उससे भिन्न पुरुष को प्राप्त होना मनुभगवान् ( ७।८ ९ ) को भी सम्मत है । ' ‘ यह तथ्य अग्रिम श्लोकोक्तवचन में क्रमशः पाप तथा पुण्य प्राप्त करने का उल्लेख केवल अर्थवाद मात्र है, किसी का पुण्य या पाप दूसरे को प्राप्त नहीं होता; किन्तु पाप या पुण्य में एक के प्रबल होने पर दूसरे का भोग चिरकाल में प्राप्त होता है ' यह ' नेने शास्त्री ’ का मत है ।

यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।

भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ ९ ५ ॥

भाष्य - यच्चास्य सुकृतं किंचिद्धर्ता तत्सर्वमादत्त इति ।

पृष्ठ 79

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४ ९ अमुत्रार्थमुपार्जितम् । अर्थोऽस्यास्तीत्यर्थः I । अर्श आदित्वादच् । अमुत्रामुष्मिंल्लोके यत्प्रयोजनं तदर्जितम् । तदस्य निष्फलं भवति । अमुत्रार्थोऽस्येति वा अमुत्रार्थं व्यधिकरणो बहुव्रीहिर्गमकत्वात्प्रयोजकत्वाच्च ॥ ९ ५ ॥ हिन्दी - डरकर युद्ध से पराङ्मुख होने पर शत्रु से अभिहत योद्धा का परलोक के लिए उपार्जित जो कुछ पुण्य है, वह सब स्वामी ( उस योद्धा को वेतन देनेवाला राजा आदि ) प्राप्त कर लेता है ॥ ९ ५ ॥ युद्धविजयी योद्धा को प्राप्त जीता गया धन -रथाश्वं हस्तिनं छत्रं धनं धान्यं पशूस्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ९ ६ ॥ भाष्य – कुप्यं शयनासने ताम्रभाजनादि । यो यज्जयति तस्य तत् । राज्ञः स्वामित्वाद्ग्रहणे प्राप्ते तदपवादार्थमेतत् । सुवर्णरूप्यभूम्यावासकादि राज्ञ एव । एवमर्थं परिगणनम् । आयुधसंवाहनादि राज्ञ एव । धान्यादीनां पृथगुपादानाद्धनशब्देन गोमहिष्यादिकमुच्यते । तथा राजधनं चार्धमिति प्रयुञ्जते ॥९ ६ ॥ हिन्दी – रथ, घोड़ा, हाथी, छत्र, धन, धान्य ( सब प्रकार के अन्न ), पशु ( गौ, भैंस आदि ), स्त्रियाँ ( दासी आदि ), सब तरह के द्रव्य ( गुड़, नमक आदि ) और कुष्य ( सोना - चाँदी के अतिरिक्त अन्य ताँबा - पीतल आदि द्रव्य ) को जो योद्धा जीतकर लाता है; वह उसी का होता है । ( सोना, चाँदी, भूमि, रत्न आदि बहुमूल्य वस्तुएँ राजा की होती हैं ) ॥९ ६ ॥

राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।

राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ९ ७ ॥

[ भृत्येभ्यो विजयेदर्थान्नैकः सर्वहरो भवेत् । नाममात्रेण तुष्येत छत्रेण च महीपतिः ॥ ९ ॥ ]

भाष्य — येन यज्जितं तेन तद्गृहीतव्यमित्यस्यायं विशेष उच्यते । स्वयमुद्धारं राज्ञे तद्युरुत्तमद्रव्यमुद्धृत्य दद्युरित्यर्थः । न सर्वं तैर्ग्रहीतव्यमिति । एषा वैदिकी श्रुतिः । “ इन्द्रो वै वृत्रं हत्वा ” । इत्याद्युपक्रम्य “ स महान् भूत्वा देवता अब्रवीदुद्धारं म उद्धरतेति ” । राज्ञा वा पृथग्जये स्वयंजये यत्रायं विभागो नास्त्यनेनायं ग्रामो जितः, एष च परकीयः सामन्तादिः सर्वेण सर्व उत्खातमूलः सकृत्कृतः, तत्र राज्ञा लब्धप्रशमनन्यायेन भृत्याः संविभजनीयाः ॥९ ७ ॥

पृष्ठ 80

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० मनुस्मृतिः [ सप्तमः हिन्दी – ( युद्ध में विजय करनेवाले योद्धा ) ' राजा के लिए उद्धार ( सोना, चाँदी जवाहरात तथा हाथी, घोड़ा ' भी देवें ' यह वैदिक वचन है और राजा विजयी योद्धाओं के लिए सम्मिलित रूप में जीतकर प्राप्त किये द्रव्यों में से प्रत्येक पुरुषार्थ के अनुसार विभाग देवे ) ॥९ ७ ॥ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ९ ८ ॥ ( भाष्य — उपसंहारोऽयम् । ‘ योधाः ’ योद्धारस्तेषां धर्मो योधधर्मः । अनुपस्कृतः अगर्हितः । अविकृतो वा । अत एवाह सनातनः— स्वेच्छया प्रवर्तितो विकृतः स्यात् । न च्यवेत न चलेत । सर्वदाऽनुतिष्ठेत् । क्षत्रियग्रहणं मुख्यस्तस्यात्राधिकार इति दर्शयितुं न त्वन्यस्य तत्स्थानापन्नस्य नायं धर्म इति ॥९ ८ ॥ हिन्दी— ( भृगु मुनि महर्षियों से कहते हैं कि ) अनिन्दित योद्धाओं का यह सनातन धर्म ( मैंने ) आप लोगों से कहा, युद्ध में शत्रुओं को मारता हुआ राजा इसे न छोड़े ॥९ ८ ॥ राजा का सामान्यतः कर्तव्य

अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।

रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ९९ ॥

भाष्य — न क्षत्रियः संतुष्टः स्याद्ब्राह्मणवत्किन्त्वलब्धार्जने यत्नं कुर्यात् । अर्जितं च धनं रक्षेद्रक्षितं च वर्धयेत्कोशसंचयं कुर्यात् । ततः पात्रेभ्यो दद्यात् । न यथायं व्ययं कुर्यात् । तदुक्तं “ आयादल्पतरो व्यय ” इति ॥९९ ॥

हिन्दी - ( राजा ) अप्राप्त ( नहीं मिले हुए भूमि तथा सुवर्ण आदि ) को पाने की इच्छा करे, प्राप्त ( भूम्यादि ) की यत्नपूर्वक रक्षा करे, रक्षा किये गये को बढ़ावे और बढ़ाये हुए ( द्रव्य, भूमि आदि ) को सत्पात्रों में दान कर दे ॥९९ ॥

एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।

अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥ १०० ॥

१. ' वाहनं च ' इति गौतमवचनात् ( म ० मु ० ) ' उद्धारदाने च श्रुतिः— ' इन्द्रो वै वृत्रं हत्वा ' इत्युपक्रम्य ' स महान् भूत्वा देवता अब्रवीत्तदुद्धारं समाहरत ' इति । ' ( म ० मु ० )