मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 721–730
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 721–730
पृष्ठ 721
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता गुणवादेनैतद्व्याख्यानं शास्त्रकाराणामपि भ्रान्तिरिति चेत् । न । एवंवादिन आत्मन: प्रकर्षतो महर्षीनवजानते । ६८१
अघं पापमनघेति सम्बोधनम् । निष्कल्मषतया स्तुत्यर्थम् । शंसेति वाग्यतो वर्तते॥१ ॥
हिन्दी – ( महर्षियों ने भृगुजी से पूछा कि ) हे निष्कल्मष भृगुजी! ( आपने अवान्तर भेदों के सहित ) चारों वर्णों के समस्त धर्म को कहा, ( अब जन्मान्तर के शुभाशुभ कर्मों के परमार्थ रूप से फल की प्राप्ति को हम लोगों से आप कहिये ॥ १ ॥
भाष्य-भृगुजी का महर्षियों को उत्तर-स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ २ ॥
- पृष्टप्रतिवचनमेतत् । यदहं पृष्टः शृणु तत् ।
कर्मणो योगमिति सम्बन्धः । स च प्रकृतत्वात्फलेनैव विज्ञेयः ॥२ ॥
हिन्दी – धर्मात्मा मनुपुत्र भृगुजी ने उन ( महर्षियों ) से कहा कि ‘ इन सब कर्म सम्बन्ध के निर्णय को ( आपलोग ) सुनिये ' – ॥२ ॥
शुभाशुभ कर्मों के फल—
शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् ।
कर्मजा गतयो नृणामुत्तमाधममध्यमाः ॥३ ॥
भाष्य - शुभस्य निर्देशो दृष्टान्ततया, मनोवाग्व्यापारविध्यर्थो वा मनसो वाचो व्देहाच्च सम्भववति कर्म । कर्मशब्दो न चेज्यायामेव कायपरिस्पन्दे वर्तते । किं तर्हि? क्रिया-म्मात्रे योगध्यानवचनात्मकेऽपि । फलशब्दः प्रत्येकमभिसम्बध्यते । शुभफलमशुभफलं च्च । नैवं विज्ञेयं ‘ कायव्यापारासाधनादेव ' कर्मानुष्ठानाच्छुभाशुभफलप्राप्तिः, अपि तु म्मनोवाक्कायसम्भवादप्येवमेव । तस्मादपि त्रिविधात्कर्मणस्तु विधीयते फलप्राप्तिः ॥३ ॥
हिन्दी – मनुष्यों के कायिक, वाचिक तथा मानसिक कर्म शुभाशुभ फल देनेवाले ोते हैं और उनसे उत्पन्न होनेवाली मनुष्यों की उत्तम ( देव ), मध्यम ( मनुष्य आदि ) तथा अअधम ( तिर्यक् आदि ) गतियाँ ( जन्म ) भी होती हैं ॥३ ॥
मन को कर्मप्रवर्तकत्व-तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥४ ॥
भाष्य- - “ ननु च ' दण्ड्यान् यजेत ' ' न हिंस्यादिति ' शुभमशुभं च । ते सर्वे काय-व्यापारसाध्ये । दानेनात्मनः स्वत्वनिवृत्तिः परस्य च स्वत्वसम्पादनं तच्च पूर्वं ' दक्षिणेन
पृष्ठ 722
पाठ पढ़ें पाठ छिपाएँ
६८२ मनुस्मृतिः [ द्वादश: हस्तेने’त्यादि विहितम् । यागोऽपि प्रयोगरूपोऽवभृथान्तः कायव्यापारनिर्वर्त्यो भवति । एवं संघातदण्ड्याद्यविद्या तु कायिकतया प्रसिद्धैव । तत्र किं तत्कर्म यन्मनसः सम्भवति ” । अत आह अर्थस्यास्य मनो विद्यात्प्रवर्तकम् । मनसो हि व्यापाराः सर्वे दर्शनादयः । न च त्रिष्वसत्सु भौतिको व्यापारः । तथा हि प्रथमं तावन्मनसाऽयमर्थं संपश्यत्ययमीदृश एव ' तस्य वस्तुनः सुखं दुःखं वाऽस्य कारणं तत आयत्ते ' कथमेतन्मनः सम्पद्यते ' । ततोऽध्यवस्यति ‘ संपादयाम्यतो नेदमिति ' । तत्र उदरे क्रियाप्रधाने कायपरिस्पन्द-रूपवाग्व्यवहारश्च । अत: सर्वस्य मनः प्रवर्तकं प्रेक्षापूर्वकारिणः । अबुद्धिपूर्वं तु नावश्यं सद्दर्शनादयः पूर्वभाविरूपस्य ताद्रूप्येण ग्रहणं, यथा मद्ये वर्णसादृश्यात्पानकबुद्ध्या प्रवृत्तिः, सन्तमासम्भवात् तया परस्त्रीषु । अन्यत्तु दैवोपनि-पतितम् । यथा सुप्ास्य हस्तसंचारपार्श्वपरिवर्तनादिना मशकादिप्राणिवधस्तत्रापि कर्तृत्व-मुपपादितं प्रायश्चित्तेषु प्रवृत्तिहेतुः । त्रिविधस्य वाङ्गन: कायसाधनभेदेन । त्र्यधिष्ठानस्योत्तमाधममध्यमगतिभेदेन । दशलक्षणयुक्तस्य मनःकायकर्मणोः प्रत्येकं त्रैविध्यं वाङ्मयं चतुर्विधम् । एतानि दशलक्षणानि । तान्युपरिष्टाद्वक्ष्यति ॥४ ॥
हिन्दी - ( उत्तम, मध्यम तथा अधम भेद से ) तीन प्रकार के तथा ( मन, वचन तथा शरीर आश्रित होने से ) तीन अधिष्ठान वाले दश लक्षणों ( १२।५-७ ) से युक्त देही ( जीव ) के मन को ( कर्म में ) प्रवृत्त करने वाला जाना ॥४ ॥
दश लक्षणवाले कर्मों में त्रिविध मानसिक कर्म-परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥५ ॥
भाष्य — अभिध्यानं नाम परद्रव्यविषयेर्ष्याबुद्ध्या परद्रव्याभिभवानुचिन्तनम् ‘ कियद-श्वगोधनं कियद्वाऽजाविकमिति च विभवोऽश्वाः धिग्दैवं कस्मादस्येयती समृद्धिः, अथ च कथं नामैतस्यापरेयं, अथ साधुर्भवति यद्येतस्यैतन्न भवति ' । अन्ये त्वाहुरेतद्धनं समभिभवति । अनिष्टचिन्तनं परस्येत्यभिसम्बध्नन्ति । परवधोपायचिन्तनम् । ' यदि म्रियते ' ' तन्म-मास्त्विति ' वा । “ ननु च परद्रव्याभिध्यानमीदृशमेवोक्तम् । अनेनैव सिद्धे तदनर्थकम् ” । सामान्यशब्दो ह्यम् । यदनिष्टमनभिप्रेतं परस्य तन्न चिन्तनीयम् । धननाशोऽपि
पृष्ठ 723
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६८३ परस्य नैवेष्टः । एतद्भयाच्च किञ्चन परस्येत्येतन्त्र व्याहरन्ति । अनिष्टं च यत्प्रतिषिद्धं तद्व्याचक्षते । अस्मिन्नपि पक्षे परद्रव्याभिध्यानं प्राधान्यार्थमेव । एवं वितथाभिनिवेशोऽपि । पूर्वपक्षार्थस्य सिद्धान्तत्वेन ग्रहणं विज्ञानवादो वेदाः प्रामाण्यं, अनात्मताग्रह इत्येवमादि । अन्ये तु नित्यनिरामिषद्वेषमाहुः । इयं च त्रिविधाऽकुशला मानसी प्रवृत्तिः । अतोऽन्या कुशला । अस्पृहा परद्रव्येषु, दया सर्वसत्त्वेषु, श्रद्धा धर्माद्यस्तित्वादिषु । तथा च भगवान् व्यासः ‘ अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम् । धर्मिणां फलमस्तीति त्रिविधं मनसा स्मरेत् ' ॥५ ॥
हिन्दी – ( १ ) दूसरे के द्रव्य को अन्याय से भी लेने का विचार करना, ( २ ) मन से निषिद्ध कार्य ( ब्रह्महत्यादि पाप कर्म ) करने की इच्छा करना, ( ३ ) असत्य हठ ( परलोक आदि कुछ भी नहीं है, यह देह ही आत्मा है, इत्यादि रूप से दुराग्रह ) करना, ये तीन प्रकार के मानसिक ( अशुभ ) कर्म हैं ॥५ ॥
विमर्श – इनके विपरीत ( १ ) न्यायपूर्वक दूसरे के द्रव्य को लेने का विचार करना, ( २ ) शास्त्रविहित ( यज्ञादि ) कर्म करने की इच्छा करना, ( ३ ) आस्तिक बुद्धि रखना— ये तीन मानसिक शुभ कर्म हैं ।
चतुर्विधवाचिक कर्म-पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥६ ॥
हिन्दी – ( ४ ) कटु बोलना, ( ५ ) झूठ बोलना, ( ६ ) परोक्ष में किसी का दोष कहना और ( ७ ) निष्प्रयोजन ( बेमतलब की ) बातें करना; ये चार प्रकार के वाचिक ( अशुभ ) कर्म हैं ॥६ ॥
विमर्श — इनके विवपरीत ( ४ ) मधुर बोलना, ( ५ ) सत्य बोलना, ( ६ ) परोक्ष में दूसरे का दोष छिपाना या गुण को ही बतलाना और ( ७ ) मतलब की बातें करना, ये चार ` प्रकार के वाचिक शुभ कर्म हैं ।
त्रिविध शारीरिक कर्म-अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ ७ ॥
भाष्य — शास्त्रीयाप्राधान्यतयाऽस्यादत्तानामसद्भ्य उपादानं दुष्टं चैव । तथा कुमार्या-1 दिपरदारादावपि ।
पृष्ठ 724
पाठ पढ़ें पाठ छिपाएँ
६८४ मनुस्मृतिः विपरीतधर्मादादानं परित्राणमिन्द्रियसंयमश्च । [ द्वादश:
इदं मनोवाग्देहभेदेन दशविधम् । प्रवृत्तिकुशलाकुशलविभागेन विंशतिप्रकाराः ॥७ ॥
हिन्दी— ( ८ ) बिना दी हुई ( दूसरे की ) वस्तु को लेना, ( ९ ) शास्त्र - वर्जित हिंसा करना और ( १० ) परस्त्री के साथ सम्भोग करना; ये तीन प्रकार के शारीरिक ( अशुभ ) कर्म हैं ( इस प्रकार ये १० प्रकार के ( अशुभ ) कर्म हैं ) ॥ ७ ॥
विमर्श — इसके विपरीत ( ८ ) न्यायपूर्वक दी हुई वस्तु को लेना, ( ९ ) शास्त्रविहित अश्वमेधादि यज्ञ में हिंसा करना और ( १० ) शास्त्रप्रतिपादित समयों ( रजस्वलावस्था तथा पर्व दिन, दिन, संध्याकाल आदि को छोड़कर शेष समयों ) में स्वस्त्री के साथ सम्भोग करना, ये तीन प्रकार के शारीरिक ' शुभकर्म हैं । मानसं मानसिक आदि कर्मों का फलभोक्ता मन आदि-मनसैवायमुपभुंक्ते
शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥८ ॥
भाष्य — परस्य मनस्तापो येन जन्यते कर्मणा ततो मानसं दुःखमाप्नोतीति केचित् ।
वयं तु ब्रूमो यत्त्रिविधं मानसमुक्तं ततो मनोदुःखाप्तिः । एवमुत्तरयोरपि ॥८ ॥
हिन्दी- - यह ( देही - जीव ) मानसिक कर्मों के फल को मन से वाचिक कर्मों के फल को वचन से और शारीरिक कर्मों के फल को शरीर से ही भोगता है ॥८ ॥
[ त्रिविधं च शरीरेण वाचा चैव चतुर्विधम् । मनमा त्रिविधं कर्म दशाधर्मपथास्त्यजेत् ॥ १ ॥ ]
[ हिन्दी — शरीर से त्रिविध ( १२।७ ), वचन से चतुर्विध ( १२।६ ) और मन से त्रिविध ( १२।५ ) अधर्म - मार्गों ( अशुभ कर्मों ) को छोड़ देना चाहिये ॥ १ ॥ ]
शारीरिक आदि कर्मों के फल-शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥९ ॥
भाष्य- भूयस्त्वाभिप्रायमेतत् । प्रायेणैतासां जातीनामेतानि यथाविभागं निमित्तानि न त्वयं नियमः । तथा महापातकिनां तिर्यक्पर्यटन्तीति वक्ष्यतीति ।
पक्षिमृगग्रहणं तिर्यग्जातिमात्रप्रदर्शनार्थम् ।
मनोवाक्कायकर्मणामुत्तरोत्तरस्य गुरुत्वप्रदर्शनार्थपरम् ॥ ९ ॥
हिन्दी - मनुष्य शरीरिक ( १२।७ ) कर्म के दोषों से स्थावर ( वृक्ष, लता, गुल्म, पर्वत आदि ) योनि को, वाचिक, ( १२।६ ) कर्म के दोषों से पक्षी, मृग ( पशु, कीट, पतङ्ग
पृष्ठ 725
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता ६८५ आदि ) योनि को और मानसिक ( १२५ ) कर्म के दोषों से अन्त्य जाति ( चण्डाल आदि
दोषास अन्त्य जाति ।
हीन जाति ) को प्राप्त करता है ॥९ ॥
[ शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् । अशुभैः केवलैश्चैव तिर्यग्योनिषु जायते ॥ २ ॥ ]
[ हिन्दी – मनुष्य शुभ कर्मों से देवयोनि को, मिश्रित, ( शुभ तथा अशुभ दोनों ) कर्मों से मनुष्योनि को और केवल अशुभ कर्मों से तिर्यग्योनि ( पशु, पक्षी, वृक्ष, लतादि ) योनि को प्राप्त करता है || २ || ] [ वाग्दण्डो हन्ति विज्ञानं मनोदण्डः परां गतिम् । कर्मदण्डस्तु लोकांस्त्रीन्हन्यादपरिरक्षितः ॥ ३ ॥ ]
[ हिन्दी — अरक्षित वाग्दण्ड विज्ञान को, मनोदण्ड, उत्तम ( स्वर्ग, मोक्ष आदि ) गति को और कर्मदण्ड तीनों लोकों को नष्ट कर देता है || ३ || ] [ वाग्दण्डोऽथ भवेन्मौन मनोदण्डस्त्वनाशनम् । शारीरस्य हि दण्डस्य प्राणायामो विधीयते ॥ ४ ॥ ]
[ हिन्दी - मौन को वाग्दण्ड, अनशन को मनोदण्ड औ कहा जाता है ॥४ ॥
और प्राणायाम को शरीरदण्ड [ त्रिदण्डं धारयेद्योगो शरीरं न तु वैणवम् । वाचिकं कायिकं चैव मानसं च यथाविधि ॥ ५ ॥ ]
[ हिन्दी – योगी मनुष्य वाग्दण्ड, मनोदण्ड और शरीरदण्ड – अर्थात् मौन, अनशन और प्राणायामरूप शरीर सम्बन्धी त्रिदण्ड को धारण करे, बाँस के ' त्रिदण्ड ' ( तीन दण्डों ) को नहीं ॥५ ॥ ]
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १० ॥
भाष्य – दमनं दण्डः । वाचो दण्डः पारुष्याप्रवृत्तिः । एवमुत्तरयोरपि । यस्यैते दण्डा बुद्धौ निहिता ' नैतन्मया कर्तव्यमिति ' यो न स्खलति स त्रिदण्डी-त्युच्यते । न त्वनार्यो गुरुकाष्ठदण्डं धारयति ॥ १० ॥
हिन्दी — जिसकी बुद्धि ( विचार - मन ) में वाग्दण्ड, मनोदण्ड और शरीरदण्ड; ये तीनों स्थित हैं, वही ( सच्चा ) ' त्रिदण्डी ' ( तीन दण्डों वाला - संन्यासी ) कहा जाता है, ( केवल बाँस का तीन दण्ड धारण करनेवाला ही संन्यासी नहीं है ) ॥१० ॥
त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति ॥ ११ ॥
पृष्ठ 726
पाठ पढ़ें पाठ छिपाएँ
६८६ कान मनुस्मृतिः ' शिकण [ द्वादश: भाष्य - त्रयाणां दण्डानां समाहारस्त्रिदण्डम् । पात्रादिदर्शनादस्त्रियां भाषणात् । बुद्धौ निक्षिप्य बुद्धौ कृत्वा । सर्वभूतेष्वघातकत्वं चावस्थितं त्रिदण्डं वा निहितम् । कामक्रोधयोः संयमः सु साधुः । ततः सिद्धिं मोक्षाख्यां गच्छति प्राप्नोति । आध्यात्मिकत्वोपन्यास उपक्रमोऽयम् । कस्य पुनरेषा सिद्धिः कस्य वामुत्र विकार-कर्मफलानां भोक्तृत्वम् । भस्मान्तं शरीरम् । न च ततोऽन्यमुपलभामहे । तेन सर्वेषु धर्मा-धर्मेष्वधिकारिपुरुषं प्रदर्शयितुकामः प्रारभते ॥११ ॥
हिन्दी – जब मनुष्य काम तथा क्रोध को रोककर सब जीवों में इस त्रिदण्ड ( कायिक, वाचिक तथा मानसिक दण्ड ) को व्यवहृत करता है, तब सिद्धि ( मुक्ति ) को प्राप्त करता है ॥११ ॥।
क्षेत्रज्ञ आदि का परिचय-योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२ ॥
भाष्य - अस्य शरीरस्य क्रियापरिस्पन्दात्मिकां क्रियां स्वयं प्रवर्तयिता । प्रयत्न-वशेनास्य कर्तृत्वम् । स क्षेत्रज्ञः । अस्यात्मन इति समानाधिकरणे षष्ठी 811 । आत्म-शब्दस्य शरीरे वृत्तिः, तस्यापि आत्मार्थत्वात् । यः करोति पानादिलक्षणं तज्जन्यो यः शरीराख्यः कर्ता स भूतात्मोच्यते पृथि-व्यादिभूतसंघातो, जघन्यत्वात् । भूतविकार आत्मा ' भूतात्मा ' । तथा चोक्तं ' द्वावात्माना-वन्तरात्मना शरीरात्मना ॥ १२ ॥
हिन्दी – जो इसे ( शरीर को ) कार्यों में प्रवृत्त करता है उसे पण्डित लोग ' क्षेत्रज्ञ ' और जो कार्यों को करता है उसे ' भूतात्मा ' कहते हैं ॥। १२ ॥
जीवात्मा का परिचय-जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १३ ॥
भाष्य — किं पुनरयं जीवो नाम यावता क्षेत्रज्ञमेव जीवं मन्यन्ते । द्वौ चात्रोपल-भ्येते— शरीरमहंप्रत्ययविज्ञेयश्चान्तरात्मा । ततोऽन्यः कश्चिज्जीवो नाम । केचित्तावदाहुः महदादिभूतसूक्ष्मपरिवेष्टितं लिङ्गं यत्पठ्यते ‘ संसरति निरुपभोगं भावैरधिवासितं लिङ्गमि'ति । येनेतिकरणत्वं च वेदनं प्रति तस्योपपद्यते । तद्धि स्थूल-
पृष्ठ 727
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६८७ त्मनः सुखदुःख-भूतानामाश्रयः । तस्यैव शरीराख्यबाह्यभूताश्रयत्वात् । शरीरे च सत्यात्मन: भोक्तृत्वम् । अतो येनेति करणविभक्त्योच्यते । अन्ये तु मन्यन्ते— अन्तःकरणं मनोबुद्ध्यहंकाररूपं ' जीवः ' । तस्य चान्तःकरण-संज्ञत्वाद्युक्तं एव करणविभक्त्या निर्देशः ।
अन्तरात्मशब्दश्च तादर्थ्याद्युक्त एव ।
सहजशब्दश्चामोक्षप्राप्तेराप्रलयाच्च तदवियोगेन ॥१३ ॥
हिन्दी - सब प्राणियों का सहज ( एक साथ में उत्पन्न ) ' जीव ' नाम का दूसरा ही आत्मा अर्थात् ‘ जीवात्मा ’ है, जो प्रतिजन्म में सब सुख - दुःख का अनुभव करता है ॥१३ ॥
तावुभौ भूतसम्पृक्तौ महान्क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १४ ॥
भाष्य - उच्चावचेषु बहुविधेषु नानारूपेषु भूतेषु सर्वेषु यः स्थितो व्याप्य तानि भूतानि । तिष्ठतः संश्रयतः । अतश्च सर्वकर्मकर्तृत्वं तिष्ठतेरनेकार्थत्वात् । कोऽसावुच्चावचेषु भूतेषु व्याप्य स्थितः । परमात्मा चेतना चेतनजगत्परित्यक्तः परमानन्दरूपः परस्ताच्च प्रतिपादयिष्यते । भूतसंपृक्तौ भूतानि पंच । महानिति । येन वेदयत इत्युक्तः । क्षेत्रज्ञः ' अस्यात्मन ' इति । यथाव्याप्त्यापक्षेऽपि द्वितीय ' स्थितं तमिति ' । संश्रयणं च तत्कारणत्वात्सर्वस्या-स्य जगत: । कार्यं च कारणमाश्रयत्यतोऽपेक्षैव संश्रयणम् । तथा च भनवान्व्यास: ( भ ० गी ० १५/१६ )
' द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ' ॥
क्षरशब्देन सर्वं चैतदुच्यते । चराचरप्रपंरूपम् | अक्षरं प्रकृतिकारणं कूटस्थशब्देन, कारणरूपतया प्रलयेऽप्यविनाशात् । अथवा क्षरं शरीरमक्षरः क्षेत्रज्ञः । कूटस्थत्वं तु तस्यामोक्षप्राप्तेः कर्तृत्वभोक्तृत्वानिवृत्त्या ।
‘ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ' ॥ ( भ ० गी ० १५/१७ ) ॥१४ ॥
हिन्दी — पञ्च महाभूत ( पृथ्वी, जल, वायु, जेज और आकाश ) से मिले हुए वे दोनों
पृष्ठ 728
पाठ पढ़ें पाठ छिपाएँ
६८८ मनुस्मृतिः [ द्वादश: महान् तथा क्षेत्रज्ञ – छोटे - बड़े सब भूतात्माओं में स्थित उस परमात्मा में व्याप्त होकर रहते हैं ॥१४ ॥
[ उत्तमः पुरुषस्त्वन्वयः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्ययमीश्वरः ॥ ६ ॥ ]
[ हिन्दी - उत्तम पुरुष तो दूसरा ही है, जो ' परमात्मा ' कहलाता है तथा अविनाश-शील एवं सर्वसमर्थ जो तीनों लोकों को आविष्ट होकर पालन करता है || ६ || ]
जीवों की असङ्ख्यता-असंख्या मूर्त्तयस्तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १५ ॥
भाष्य- - मूर्तिशब्देन यावत्किंचिद्भौतिकं कार्यकारणमिति शक्तिश्च तदुच्यते । तदे-तत्सर्वं तस्य परमात्मन: शरीरात्प्रादुर्भवति । स्वभाव एव तस्य शरीरम् । शिलापुत्रकस्य शरीरमितिवद्भेदेन व्यपदेशः । असंख्या अनन्ताः । समुद्रादिवोर्मयः । निष्पतन्ति प्रादुर्भवन्तीत्युक्तम् । ताभिः प्रादुर्भूताभिरिदं जगच्चेष्टते सक्रियं भवतीत्यर्थः । शरीरेन्द्रियविज्ञानैर्विना चेष्टाया अभावा-च्चेष्टयन्तीत्युच्यते । अन्ये तु शरीरतः प्रधानं च परमात्मनः ' शरीरं ' तदधीनप्रवृत्तित्वात् ' नात्र भूतानि ॥१५ ॥
हिन्दी – उस ( परमात्मा ) के शरीर से असङ्ख्य जीव उत्पन्न ( अग्नि से चिनगारी के समान प्रकट ) होते हैं, जो छोटे - बड़े प्राणियों को कर्मों में प्रवृत्त करते रहते हैं ॥१५ ॥
परलोक में पाञ्चभौतिक शरीर का होना
पञ्चभ्य एव भूतेभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।
शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥ १६ ॥
भाष्य – पञ्चभ्यो भूतेभ्योऽन्यच्छरीरं प्रेत्योत्पद्यते । एतदुक्तं भवति । शुक्रशोणित-मन्तरेणैव पाञ्चभौतिकं शरीरमुत्पद्यते । दुष्कृतिनां च पाञ्चभौतिकं शरीरं पुण्यकृतां तु
तैजसाऽऽकाशमात्राणि भवन्ति । यथोक्तं ' वायुभूतः स्वमूर्तिमान् ' इति ।
यातना पीडातिशयः । तदर्थीयं, यदतिदृढमलौकिकदुःखसहिष्णु ॥१६ ॥
हिन्दी – पञ्च महाभूतों ( पृथ्वी, जल, तेज, वायु और आकाश ) से ही पापी मनुष्यों की यातनाओं ( पापजन्य नरकादि पीड़ाओं ) को भोगने के लिए दूसरा ( जरायुज से भिन्न ) शरीर निश्चित रूप से उत्पन्न होता है ॥१६ ॥
पृष्ठ 729
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता उनका भोग के बाद अन्तरात्मा में लीन होना—
तेनानुभूय या यामीः शरीरेणेह यातनाः ।
तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १७ ॥
६८ ९ भाष्य - यमो नाम देवताविशेषः, दुष्कृतिनां निग्रहादिकृत् । तदृष्टा यातना अस्य । ता अनुभूय । तेन पांचभौतिकेन शरीरेण । तानि शरीराणि पुनः प्रलीयन्ते तासु सूक्ष्मासु भूतमात्रासु ॥१७ ॥
हिन्दी - उस शरीर से यमसम्बन्धिनी यातनाओं को भोगकर वे यथायोग्य उन्हीं पञ्चमहाभूतों ( पृथ्वी, जल, अग्नि, वायु और आकाश ) में लीन हो जाते हैं ॥१७ ॥
सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् ।
व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ १८ ॥
भाष्य – विषयसङ्गात्प्रतिषिद्धविषयोपसेवनात्प्रतिषिद्धान् ततः सङ्गाच्च यो जाता दोषाः पापनिर्मिताः । नरकाद्दुःखान्यनुभूय तेन च दुःखोपभोगेन व्यपेतकल्मषोऽ-पहतपाप्मा चेति । तावेवोभौ महौजसौ । “ कावुभौ । महान् क्षेत्रज्ञश्च तौ प्रकृतौ । अनन्तरश्लोकेन च क्षेत्रज्ञ एवानु-भविता सुखदुःखयोः । स इति च तस्यैव परामर्शोऽतः क्षेत्रज्ञमभ्येतीति प्राप्तम् । तच्च विरुद्धम् । स एव प्राप्यः प्रापकश्च ” । सत्यम्, औपचारिको भेदोऽभिप्रेतः । ' अभ्येती'त्ययमर्थः एतावन्मात्रशेषो भवति । यदुत क्षेत्रज्ञतया प्राणादिसंघातात्मकेन महानिति व्यपदिष्टेन फलेषु तावन्मात्रः परि-शिष्यते । लिङ्गजीवश्च क्षेत्रज्ञः । अन्ये तु सहत्परमात्मानाविति व्याचक्षते । असुखोदर्कान् क्षीणे पाप उत्तरकालं सुखमनुभूयते । प्रतिपन्थिनि पापे स्वल्पे-ऽपि न सुखोत्पत्तिः । यथा स्वल्पेऽप्यजीर्णे न भोजनं सुखाय ॥१८ ॥
हिन्दी - वे शरीर विषय - संसर्ग से उत्पन्न प्रमुख फलों को भोगकर निष्पाप हो महा - बलवान् उन्हीं दोनों ( महान् तथा परमात्मा ) का आश्रय करते हैं । ( उसमें लीन II III I होते हैं ) ॥१८ ॥
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ॥ १ ९ ॥
भाष्य-- " ननु च यदि ' तौ ' महान् क्षेत्रज्ञश्च संबध्येते ततस्तस्य पश्यत इति
पृष्ठ 730
पाठ पढ़ें पाठ छिपाएँ
६ ९ ० ' तस्ये ' ति कः सम्बध्यते । " मनुस्मृतिः [ द्वादश: जीव इति केचित् । उक्तं च ' स एव क्षेत्रज्ञः स एव जीव ' इति । अथ लिङ्गं, ननु च महच्छब्देन तदेवोक्तम् । अथान्तःकरणं महद्बुद्ध्यादि, तत्रापि कः सम्बन्धो लिङ्गस्य धर्माधर्माभ्याम् । तद्धि सूक्ष्मं भूतरूपमेव । यथोक्तं तेषामिदं तु सप्तानाम् ' इत्यत्रान्तरे । अतो मन्यामहे यदेवान्यैर्व्याख्यातमस्ति पूर्वश्लोक ' तावेवोभौ इति महत्परमात्मानौ बुध्येते ' इति तदेव युक्तं पश्यामः । तयोर्हि दृष्टान्त उपपद्यते । महतः करणस्य सतः कर्तृत्वोपचारात् । काष्ठानि पचन्तीति यथा । तस्येति च क्षेत्रज्ञस्य परामर्शभेदोपपत्तिः । परमात्मनश्च क्षेत्रज्ञाश्रययोर्धर्माधर्मयोर्दृष्टान्तवचनं सर्वस्य सुखदुःखोपभोगस्य तदधीनताख्यापनार्थम् । यथोक्तं ' ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वा ' । प्रेरणा च धर्माधर्मनियमितेच्छैव । “ ननु च धर्माधर्मयोरिच्छां प्रति नियन्तृत्व ऐश्वर्यं हीयते ” । तथा शारीरके दर्शितं, यथेह राजा सेवानुरूपं ददाति न च तस्येश्वरत्वमपैति I । अतो महत्परमात्मानौ पश्यत इति व्यपदिश्यते । तस्येति क्षेत्रज्ञज्ञानम् । “ तदप्ययुक्तमुत्तरग्रन्थविरोधात् । ताभ्यां प्राप्नोति संपृक्त इति । न हि परमात्मना कस्यचित्सम्पर्कः सम्बन्ध उच्यते । न च परमात्मना कश्चित्सम्बन्धोऽपि ” एवं तर्ह्यत्र याभ्यामिति नैवं महत्परमात्मानौ सम्बध्येते । कि तर्हि? धर्मः पापं च! तयोरपि प्रकृतत्वात् । तौ धर्मं पश्यतस्तस्य पापं चेति । यदि महच्छब्देनान्त: करणमुच्यते, सुतरामनुपपत्तिः । न हि परमात्मनो द्रष्टृत्वे करणापेक्षा I । अधिकरणमेव हि बोधिपरमात्मस्वरूपमभ्येति ' तावेव चोभाविति ' । कीदृश-मेतदभिगमनम् । यदि तद्भावापत्तिः सा नैव कल्मषव्यपायमात्रसाध्या । अथ तत्प्राप्ति-प्रवणता, साऽपि नैव प्रलीनेषु भूतेष्वशरीरस्य भवति । तस्मात्तौ धर्मं पश्यतस्तस्य ' तस्यै ' वात्मन इति पूर्ववन्नेयम् ॥१ ९ ॥ हिन्दी - वे दोनों ( महान् तथा परमात्मा ) निरालस होकर उस जीव के ( भोगने से बचे हुए ) धर्म तथा पाप को एक साथ देखते ( विचार करते ) हैं, जिनसे संयुक्त जीव मर कर परलोक में ) तथा इस लोक में ( धर्म से ) सुख तथा ( पाप से ) दुःख को पाता है || १ ९ ||
धर्म के अधिक होने से स्वर्गमुख होना-यथाचरति धर्मं स प्रायशोऽधर्ममल्पशः ।
तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ २० ॥