मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 731–740
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 731–740
पृष्ठ 731
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
भाष्य - प्रायशो बाहुल्येन ।
तैरेव भूतैर्महदादिभिर्महाभूतपर्यन्तैः स्वर्गे सुखमाप्नोति ॥२० ॥
६ ९ १ हिन्दी – यदि प्राणी मनुष्य - शरीर में अधिक धर्म तथा थोड़ा पाप करता है तो स्थूल शरीर से परिणत उन्हीं पञ्चमहाभूत ( पृथ्वी आदि ) से स्वर्ग में सुख को भोगता है ॥ २० ॥
पाप के अधिक होने से यमयातना होना —
यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः ।
तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ २१ ॥
भाष्य— “ ननु च ‘ पंचभ्य एव मात्राभ्यः शरीरदुष्कृतिना’मित्युक्तं किमिदानी-मुच्यते तैर्भूतैः परित्यक्त इति ” । उच्यते । न भौतिकं शरीरं नाप्यशरीरस्य यातनाः । किं तर्हि? अत्यन्तविलक्षणे ते मानुषशरीरेऽतोन्यान्येतानि मृदुस्निग्धसुकुमारशरीरारंभकाण्यत्यन्तविलक्षणानि । दुःखाभिघातनिष्कृत्या परित्यक्त उच्यते । यानि शरीराणि स्वर्गभोग्यानि तैः परित्यक्तः ॥२१ ॥
हिन्दी – यदि प्राणी मनुष्य- शरीर में अधिक पाप तथा थोड़ा पुण्य करता है तो ( मनुष्य - शरीर से परिणत ) उन्हीं पञ्चभूतों ( पृथ्वी आदि ) से त्यक्त होकर अर्थात् मरकर यम-यातनाओं को भोगता है ॥२१ ॥
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
तान्येव पञ्चभूतानि पुनरप्येति भागशः ॥ २२ ॥
भाष्य — प्राग्व्याख्यातोऽयम् । एतच्चास्य श्लोकचतुष्टयस्य तात्पर्यम् । यदि भूयानधर्मस्तदा याम्यो यातनाः । न तु स्वल्पेऽधर्मेऽस्मिन्नेव लोके सुखानुभवेन स्वर्गावाप्तिः ॥२२ ॥
हिन्दी – यम- यातनाओं को भोगकर निष्पाप वह जीव उन्हीं पञ्च महाभूतों ( पृथ्वी आदि ) के भागों को प्राप्त करता है अर्थात् मानवजन्म लेता है ॥२२ ॥
धर्म में मन को लगाना-एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा ।
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ॥ २३ ॥
भाष्य — स्वल्पार्थोऽयम् । धर्मतोऽधर्मत इति नञः प्रश्लेषः । धर्माधर्मनिमित्तात् । जीवस्य क्षेत्रज्ञस्या-त्मन: । स्वेनैव चेतसा शास्त्रप्रामाण्यात्तदनुभवेत् ।
पृष्ठ 732
पाठ पढ़ें पाठ छिपाएँ
६ ९ २ मनुस्मृतिः [ द्वादश: कृत्स्नशास्त्रार्थफलोपसंहारः ॥२३ ॥
हिन्दी – ( मनुष्य ) इस जीव की धर्म तथा अधर्म के कारण हुई इन गतियों को अपने ही मन से देख ( विचार ) कर सर्वदा धर्म के तरफ मन को लगावे ॥ २३ ॥
त्रिविध गुणकथन -सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् ।
यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः ॥२४ ॥
भाष्य — धर्माधर्मयोः कर्मकाण्डोपयोगि यत्तदुक्तम् । इदानीं विद्याकाण्डमारि-प्सते । तत्र द्वैताश्रयमिव तावदंगार्थं प्रक्रियते । सत्त्वादयस्त्रयो गुणा आत्मन: । नात्रात्मा जीवः । किं तर्हि? महानेव । आत्मशब्दः स्वभाववचनो न प्रत्यक्त्व-वचन: । निर्गुणो हि पुरुषः । अथवा भोग्यतया भोक्तुरेवात्मनः सम्बन्धित्वेन व्यपदिश्यते । महानिति च प्रधानमेवोच्यते, प्रत्यासत्तेः । आद्या हि विक्रियोद्भूतिः प्रधानस्य महदाख्या । यथा जीवन्त्यो जीवतौ प्रमावस्थावाप्यभवान् विकारानवस्थितः, प्रकृतित्वा-त्सर्वविकाराणामिदमुच्यते ॥२४ ॥
हिन्दी — आत्मा ( महान् ) के सत्त्व, रज तथा तम- ये तीन गुण हैं, जिनसे युक्त यह महान् ( आत्मा ) सम्पूर्ण ( चम्मचर पदार्थों ) में व्याप्त होकर स्थित है ॥२४ ॥
अधिक गुण के अनुसार देह का होना—
यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्राय तं करोति शरीरिणम् ॥ २५ ॥
भाष्य – यद्यपि सर्वं त्रिगुणं तथापि यो यदा गुणः साकल्येन कार्त्स्न्येनातिरि-च्यते ‘ आधिक्यं प्राप्नोति ' पूर्वकर्मातिशयवशात्स तदा पुरुषस्य गुणान्तरमभिभवति ।
अतः शरीरी तद्गुणप्रायो भवति । तदीयमेव धर्ममादर्शयति, गुणान्तरं जहातीव ॥२५ ॥
हिन्दी — यद्यपि यह सम्पूर्ण जगत् इन तीनों ही गुणों ( सत्त्व, रज और तम ) से व्याप्त है, ( तथापि ) इन गुणों में से जो गुण सबसे अधिक होता है, वह गुण उस देहधारी को उस गुण की ( अपनी ) अधिकता से युक्त कर देता है ॥२५ ॥
सत्त्वादि गुणत्रय के लक्षण-सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ २६ ॥
पृष्ठ 733
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता भाष्य – सामान्यमेतदेषां लक्षणं व्यापि सर्वप्राणिषु । ६ ९ ३ ज्ञानं वेदकम् । अज्ञानं मोहः । न यथा मदमूर्च्छाद्यवस्थास्वचैतन्यमेव । उभयरूपता रजः । रागद्वेषशब्देनोभयधर्मयोग उच्यते । नापि सम्यक्ज्ञान वशाना-मतिशयेन क्रोधो न चातिप्रसादः । तत्तद्रजः । वपुःस्वभावः । अनुच्छेदाद्वीजवासनाया आब्रह्मप्राप्तिस्थितत्वात् ॥२६ ॥
हिन्दी— ( वस्तु का यथार्थ ) ज्ञान सत्त्वगुण, प्रतिकूल ज्ञान तमोगुण और राग - द्वेष ( रूप मानसिक कार्य ) रजोगुण कहलाता है । सब प्राणियों का आश्रित शरीर इन गुणों का आश्रित है ॥२६ ॥
विशर्म - सत्त्वादि गुणत्रय का स्वरूप क्रमशः प्रीति, अप्रीति और विषाद है, सामर्थ्य क्रमशः प्रकाश, प्रवृत्ति ( क्रिया ) तथा नियम ( स्थिति ) है और वे परस्पराभिभव, परस्पराश्रय, परस्परजनन, परस्परमिथुन और परस्परवृत्ति वाले हैं । विशेष जिज्ञासुओं को साङ्ख्यकारिका आदि ग्रन्थ देखना चाहिए ॥
सत्त्वगुण का लक्षण-तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ २७ ॥
भाष्य – प्रीतिसंयुक्तं संवेदनं शुद्धाभं शुद्धमिवाभाति रजस्तमोभ्यामकलुषितं मद-मानरागद्वेषलोभमोहभयशोकमात्सर्यदोषरहितम् । एवं सर्वम् । एषा चावस्था स्वसंवेद्यै-कस्यां वेलायां भवेत् ॥२७ ॥
हिन्दी – उस आत्मा में जो कुछ प्रीति ( सुख ) से युक्त क्लेशरहित एवं प्रकाशमान लक्षित हो; उसे ‘ सत्त्वगुण ' जानना चाहिए ॥ २७ ॥
रजोगुण का लक्षण -यत्तुः दुःखसमायुक्तमप्रीतिकरमात्मनः ।
तद्रजोप्रतिपं विद्यात्सततं हर्तृदेहिनाम् ॥ २८ ॥
भाष्य – दुःखेन समायुक्तं संभिन्नं शुद्धं प्रीतिरूपं न भवत्यत उच्यतेऽप्रीति-करं दुःखानुविद्धतया प्रीत्या न युक्तम् ।
अप्रतिपमप्रत्यक्षं पारमार्थिकम् ।
एतद्रजसो रूपं हर्तृविषयेषु प्रवर्तकं स्पृहाजनकमित्यर्थः ॥२८ ॥
१. ‘ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ ' इति । ( साङ्ख्यकारिका - १२ )
पृष्ठ 734
पाठ पढ़ें पाठ छिपाएँ
६ ९ ४ मनुस्मृतिः [ द्वादश: हिन्दी — जो दुःखयुक्त, अप्रीतिकारक तथा शरीरियों को विषयों की ओर आकृष्ट करने वाला प्रतीत हो; उसे सत्त्वज्ञान का प्रतिपक्षी ( विरोधी ) ' रजोगुण ' जानना चाहिये॥२८ ॥
तमोगुण का लक्षण -यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ २ ९ ॥ भाष्य – मोहो वैचित्यं युक्तायुक्तविवेकाभावः । विषय आत्मा स्वभावो यस्य । “ ननु चायमविषयोऽन्तरात्मत्वादेव । तत्कथं विषयस्वभावः ” । मोहविषयानुरागात् बुद्धिरिव एवमुच्यते । विषयाद्वाऽतीव बुद्धिस्तदात्मिका संपद्यत
इति संख्यात्रैगुण्यं न त्वन्तर्बहि सत्त्वानामविशब्दम् ।
अप्रतर्क्यं तदनुमानगोचरम् । अविज्ञेयं अन्तर्बहिःकरणानामगोचर इत्यर्थः । २ ९ ॥
हिन्दी – जो मोहयुक्त ( सत् - असत् अर्थात् भले - बुरे विचार से शून्य ) हों, जिसके विषय का आकार स्पष्ट हो तथा जो तर्क से शून्य एवं ( अन्तःकरण और बहिष्करण द्वारा ) दुर्ज्ञेय हों; उसे ' तमोगुण ' समझना चाहिये ॥२९ ॥
त्रयाणामपि चैतेषां गुणानां यः फलोदयः ।
अग्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ ३० ॥
भाष्य — त्रयाणामेषामासेव्यमानानां यत्फलमुत्पद्यते उत्तमाधममध्यमं तद्वक्तव्यतया प्रतिज्ञायते । यस्मिन् गुणे उद्रिक्ते यः पुरुषस्य स्वभावो भवति स उच्यत इति प्रतिज्ञा || ३० || हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि ) इन ( १२।२४ ) तीनों गुणों का ( क्रमशः ) उत्तम, मध्यम और जघन्य ( तुच्छ ) जो फलोदय है, उसे अशेषत: ( सम्पूर्ण रूप से, मैं ) कहूँगा ॥३० ॥
सात्त्विक गुण का लक्षण—
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः ।
धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ ३१ ॥
– तत्सम्बन्धगुणलक्षणमित्येवं वक्तव्यतया प्रतिज्ञायते । भाष्य-सात्त्विकमिति कथंचिद्योजयितव्यम् । गुणो लक्ष्यते तेन तद्गुणलक्षणम् । तत्क-स्येति । सात्त्विकमिति सम्बन्धः । प्रयोजनं समुदायसम्बन्ध्यवयवा अपि दृश्यन्ते । तेनै-तदुक्तं भवति — ‘ सत्त्वस्य ’ गुणस्यैतल्लक्षणम् । यथा देवदत्तस्य गुरुकुलम् | गुरुरुप-सर्जनीभूतोऽपि देवदत्तपदेन सम्बध्यते, तद्वदेतत् द्रष्टव्यम् ।
पृष्ठ 735
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता पदार्था व्याख्याताः ॥३१ ॥
६ ९ ५ हिन्दी - वेदों का अभ्यास, ( प्रजापत्यादि ) तप, ( शास्त्रों के अर्थ का ) ज्ञान, ( मिट्टी जल आदि के द्वारा ) शुद्धि, इन्द्रियसंयम, ( दान आदि ) धर्मकार्य और आत्मा ( परमात्मा ) का चिन्तन; ये सब ‘ सत्त्वगुण ' के लक्षण ( कार्य ) हैं ॥ ३१ ॥
राजसिक गुण का लक्षण-आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः विषयोपसेवा चाजस्र राजसं गुणलक्षणम् ॥ ३२ ॥
भाष्य — कर्मणां काम्यानां दृष्टार्थानामदृष्टार्थानां चारम्भे रतिर्वृथारम्भश्च । एतत् राजसं लक्षणम् । अधैर्यमल्पेऽप्युपघातहेतौ चेतसोऽसमाश्वासः । दैन्यग्रहणमुत्साहत्यागः ।
असत्कार्यं लोकशास्त्रविरुद्धं तस्य परिग्रह आचरणम् ।
विषये संगोऽजस्त्रं पुनः पुनः प्रवृत्तिः ॥ ३२ ॥
हिन्दी— ( फलप्राप्त्यर्थ आरम्भ किये गये काम में रुचि होना, धैर्य का अभाव, शास्त्रवर्जित कर्म का आचरण तथा सर्वदा ( रूप, रस, शब्द आदि ) विषयों में आसक्ति ये ' राजसिक गुण ' के लक्षण हैं ॥ ३२ ॥
तामसिक गुण का लक्षण-लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ ३३ ॥
भाष्य- धनादिषु रागो लोभः । क्रौर्यं स्वल्पेऽपराधे वैरानुबन्धः । नास्तिक्यं प्रमादता । भिन्नवृत्तिता शीलभ्रंश: । ' चग्रहणेन ' शिष्टविगर्हणा । याचिष्णुता याचकत्वं,
तच्छीलता । प्रमादोऽनवधानं धर्मादिष्वपायपरिहारेष्वनादरः ।
स्वप्नोऽधृतिरिति नञ्प्रश्लेषः ॥३३ ॥
हिन्दी — लोभ, निद्रा, अधैर्य, क्रूरता, नास्तिकता, नित्य कर्म का त्याग, माँगने का स्वभाव होना और प्रमाद - ये ' तामसिक ' गुण के लक्षण हैं ॥ ३३ ॥
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ ३४ ॥
भाष्य — त्रिषु कालेषु साम्योपचयापचयेषु वोत्तमाधममध्यमेषु च फलोदयेषु ।
इदमिति वक्ष्यमाणस्य निर्देशः ॥ ३४ ॥
हिन्दी – तीनों ( भूत, भविष्यत् तथा वर्तमान ) काल में रहनेवाले इन तीनों गुणों मनु.II 46
पृष्ठ 736
पाठ पढ़ें पाठ छिपाएँ
६ ९ ६ मनुस्मृतिः [ द्वादश:
( १२।२४ ) के गुणलक्षण को क्रमश: संक्षेप में यह ( १२।३५-३८ ) जानना चाहिए॥३४ ॥
संक्षेप में तामस गुण का लक्षण-यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥३५ ॥
भाष्य — यदुक्तं ‘ त्रिष्विति ’ कालनिर्देशस्तद्दर्शयति । कृत्वा कुर्वन् करिष्यन्निति च । कदाचित्त्रिष्वपि कालेषु कदाचिदन्यतरस्मिन् । ' किमर्थमेहमवमकरवं कथं शिष्टाना-मग्रतो भवामीति ' लज्जा चेतसि परिखेदः ॥३५ ॥
हिन्दी - मनुष्य जिस काम को करके, करता हुआ तथा भविष्य में करनेवाला होकर लज्जित होता है; उन सबको विद्वान् ' तामस गुण ' का लक्षण समझें ॥ ३५ ॥
संक्षेप में राजस गुण का लक्षण-येनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् ।
न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् ॥ ३६ ॥
भाष्य - ' लोके साधुवादो ममैवं स्यादिति ' बुद्ध्या यद्यागतपोधर्माणामाचर-णम् तच्च ख्यापनार्थम् । यथा तीर्थकाकेभ्यो दानं राजनि स्पर्धया जल्पः शूद्रेभ्यः शास्त्र-व्याख्यानम् । पुष्कलामित्यनेनानुषंगित्वात्ख्यातेः सहायतामाह । धर्मार्थं प्रवर्तमानस्य यदि जनाः प्रकाशयन्ति तादृशी धर्मो न दोषाय । तदुक्तं ' यथेक्षुहेतोरिति ' । यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तम्— ‘ यथेक्षुसक्तो युधि कर्षकोऽस्ति तृणानि वल्लीरपि संचिनोति । तथा नरो धर्मपथेन संचरन् यशश्च कामांश्च वसूनि चाश्नुते ॥ '
असम्पत्तौ च कर्मफलानाम् । न शोचति न दुःखमस्ति ।
अथवा कर्मणामसम्पत्तौ ॥३६ ॥
हिन्दी - इस लोक में मनुष्य जिस काम में अत्यधिक प्रसिद्धि ( नामवरी ) को चाहता है और उस काम के असफल होने पर शोक नहीं करता, उसे ' राजस गुण ' का लक्षण समझें ॥३६ ॥
संक्षेप में सात्तिवक गुण का लक्षण-यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् ।
येन तुष्यति चात्माऽस्य तत्सत्त्वगुणलक्षणम् ॥ ३७ ॥
भाष्य – विस्पष्टोऽयम् ॥३७ ॥
पृष्ठ 737
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६ ९ ७ हिन्दी - मनुष्य जिस काम ( वेदार्थ ) को सम्पूर्ण आत्मा से अर्थात् सब प्रकार मन लगाकर जानना चाहता है तथा जिस काम को करता हुआ लज्जित नहीं होता और जिस काम से आत्मा प्रसन्न होती है; उसे ' सात्त्विक गुण ' का लक्षण समझना चाहिए || ३७ ||
पुनः सत्त्वादि गुणत्रय का अतिसंक्षिप्त लक्षण-तमसो लक्षणं कामो रजसस्र्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ ३८ ॥
भाष्य- - " ननु च कामेऽपि सुखमस्ति । ‘ तत्र यत्प्रीतिसंयुक्तं ' तत्सत्त्वलक्षणमिति प्राप्तम् । कथं तमसो लक्षणम् । उच्यते । मोहरूपं तमोऽत्र संवेदनमस्ति । तदपि सत्त्वस्यैव लक्षणं ‘ सत्त्वं ज्ञानम् ’ इत्युक्तत्वात् ” । उच्यते । नात्र भोक्तृभोग्यभावावस्थाभिप्रेता । किं तर्हि? विषयगतस्पृहातिशयः । न च तस्यामवस्थायां सुखोत्पत्तिः । अव्यक्तविषयत्वं च विद्यते । कामप्रधानस्य युक्ता-युक्तविवेकशून्यत्वादस्त्येव मोहरूपता । ईदृशश्चात्र कामोऽभिप्रेतः । न यदृतौ शास्त्रार्थ-तया स्वदारेषु गमनौत्सुक्यम् ॥३८ ॥
हिन्दी – तमोगुण का लक्षण काम, रजोगुण का लक्षण अर्थ और सत्त्वगुण का लक्षण धर्म होता है; इनमें से पहले वाले की अपेक्षा आगेवाला श्रेष्ठ होता है ॥३८ ॥
येन यांस्तु गुणेनैषां संसारान्प्रतिपद्यते ।
तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ ३ ९ ॥
भाष्य - एषां गुणानां मध्ये येन गुणेन संसारान् पुरुषः प्रतिपद्यते । ' संसार'-शब्दो गतिवचनः । यानि जन्मानि प्राप्नोतीत्यर्थः । तदुत्तरत्र वक्ष्यत इति प्रतिज्ञा-· श्लोकः ॥३९ ॥
हिन्दी— ( भृगु मुनि महर्षियों से कहते हैं कि ) इन तीनों गुणों में से जो मनुष्य जिस गुण के द्वारा जिन संसारों अर्थात् गतियों को प्राप्त करता है, उन सबको संक्षेप से इस संसार के क्रम से कहूँगा ॥ ३ ९ ॥ गुणत्रय से त्रिविध गतियों की प्राप्ति-देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥४० ॥
- सामान्येन गतिनिर्देशो गुणनिमित्तोऽयम् ॥४० ॥
भाष्य-हिन्दी – सात्त्विक ( सत्त्वगुण का व्यवहार करनेवाले ) देवत्व को, राजस ( रजोगुण
पृष्ठ 738
पाठ पढ़ें पाठ छिपाएँ
६ ९ ८ मनुस्मृतिः [ द्वादश: का व्यवहार करने वाले ) मनुष्यत्व को और तामस ( तमोगुण का व्यवहार करनेवाले ) तिर्यक्र्त्व ( पशु - पक्षी, वृक्ष - लता - गुल्म आदि की योनि ) को प्राप्त करते हैं; ये तीन प्रकार की गतियाँ हैं ॥४० ॥
कर्मादिवंश अप्रधान नवधा गतियाँ-त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ ४१ ॥
भाष्य -- एषा त्रिविधा गौणिकी सत्त्वादिगुणप्रयुक्ता प्रत्येकं पुनः त्रिविधो-त्तमाधममध्यमभेदेन । अतो नवधा सम्पद्यते । कर्मविद्याविशेषाच्चानन्ताः । कुशलाकुशलकर्मवशात् । बुद्धिपूर्वाबुद्धिपूर्वप्रयोगाच्च
कर्मणां बहुभेदत्वात् । तदिदमाह कर्मविद्याविशेषत इति ॥४१ ॥
हिन्दी – ( सत्त्वादि तीनों गुणों के कारण ) तीन प्रकार की ये गतियाँ ( देवगति, मनुष्यगति तथा तिर्यग्गति ) कर्म तथा विद्या आदि की विशेषता से जघन्य, मध्यम तथा उत्तम — पुनः तीन प्रकार की अप्रधान गतियाँ होती हैं । इस प्रकार ३ x ३ = ९ अप्रधान गतियाँ होती हैं ) ॥४१ ॥
जघन्य तामसी गति—
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः ।
पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ ४२ ॥
हिन्दी - स्थावर ( वृक्ष, लता, पर्वत आदि अचर ), कृमि ( सूक्ष्म कीड़े ), कीट ( कुछ बड़े कीड़े ), मछली, सर्प, कछुआ, पशु, मृग – ये सब जघन्य ( हीन ) तामसी गतियाँ हैं ॥४२ ॥
मध्यम तामसी गति—
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः ।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ ४३ ॥
हिन्दी —– हाथी, घोड़ा, शूद्र, निन्दित म्लेच्छ, सिंह, बाघ और सूअर -ये मध्यम तामसी गतियाँ हैं ॥४३ ॥
उत्तम तामसी गति–
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ ४४ ॥
भाष्य — चारणाः कथकगायकस्त्रीसंयोजकादयः ।
पृष्ठ 739
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता सुपर्णाः पक्षिविशेषाः । ६ ९९ शूद्रा गर्हिता इति सम्बन्ध: । ये ब्राह्मणानवजानते ये च तद्भृत्युपजीविनो ये च मदमानादियुक्तः । हिंस्राश्चौरा इत्येवमादयोऽपि गर्हिताः ॥४४ ॥
हिन्दी - चारण ( बन्दी--भाट आदि ), सुपर्ण ( पक्षी - विशेष ), कपटाचारी मनुष्य, राक्षस और पिशाच - ये उत्तम तामसी गतियाँ हैं ॥४४ ॥
जघन्य तामसी गति-झल्ला मल्ला नटाचैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ ४५ ॥
भाष्य – झल्ला मल्ला इति रङ्गवतारकाः । तत्र मल्ला बाहुयोधिनः झल्ला यष्टिप्रहारिणः परिहासजीविनो वा ॥ ४५ ॥
हिन्दी – झल्ल मल्ल ( १०।२२ ), नट ( रङ्गमञ्च पर अभिनय कर जीविका करने वाले ), शस्त्रजीवी ( सिपाही, सैनिक आदि ), जुआरी तथा मद्यपी पुरुष - ये जघन्य ( हीन ) राजसी गतियाँ हैं ॥ ४५ ॥
विमर्श - व्रात्य ( २।३ ९ ) क्षत्रिय सवर्ण स्त्री में ' झल्ल ' तथा ' मल्ल ' संज्ञक सन्तान होती है, इनमें से ‘ झल्ल ' लाठी चलानेवाले तथा ' मल्ल ' कुश्ती लड़नेवाले होते हैं । मध्यम राजसी गति—
राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ ४६ ॥
भाष्य – राजानो जनपदेश्वराः । क्षत्रियास्तदनुजीविनः सामन्ताः ।
वादप्रधानाः शास्त्रार्थगहनेष्वितरेतरं जल्पन्ति । युद्धप्रधाना योधकाः ॥ ४६ ॥।
हिन्दी – राजा, क्षत्रिय, राजाओं के पुरोहित, शस्त्रार्थ आदि के विवाद को पसन्द करने वाले ये सब मध्यम राजसी गतियाँ हैं ॥ ४६ ॥
उत्तम राजसी गति—
गन्धर्वा गुह्यका यक्षां विबुधानुचराश्च ये ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ ४७ ॥
भाष्य- गन्धर्वादयो देवास्तेषामर्थवादेतिहासेभ्यो भेदो विज्ञेयः ।
विबुधा देवास्तेषामनुचराः सिद्धविद्याधरादयः ॥४७ ॥
हिन्दी – गन्धर्व, गुह्यक, यक्ष, देवानुचर ( विद्याधर आदि ) और अप्सराएँ- ये सब उत्त्म राजसी गतियाँ हैं ॥४७ ॥
पृष्ठ 740
पाठ पढ़ें पाठ छिपाएँ
७०० मनुस्मृतिः
जघन्य सात्त्विकी गति-तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ ४८ ॥
भाष्य — तापसास्तपः प्रधाना वानप्रस्थादयः । यतयः परिव्राजकादयः । [ द्वादश: shopp अनेन च ज्ञापयति न केवलं जन्मोपपत्तिर्गतिजातस्य कर्माचरणादपि । यतो न तापसादयः कतिचिज्जातिविशेषाः, किं तर्हि? कर्मनिमित्ता एते व्यपदेशाः । अन्ये तु मन्यन्ते । सन्ति मेरुनिवासिनः केचिज्जनपदा ' यतयो ' नाम । श्रूयन्ते ‘ इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छदिति ' । विमानानि यानविशेषाः पुष्पकादयस्तैश्चरन्ति वैमानिकाः अन्तरिक्षचराः केचिद्देव-योनयः । प्रथमा निकृष्टाः ॥४८ ॥
हिन्दी – तपस्वी ( वानप्रस्थ ), यति ( संन्यासी - भिक्षु ), ब्राह्मण, वैमानिक गण ( पुष्पक आदि देव - विमानों से गमन करनेवाले देवगण ), नक्षत्र और दैत्य ( प्रह्लाद, बलि आदि ); ये जघन्य सात्त्विकी गतियाँ हैं ॥४८ ॥
मध्यम सात्त्विकी गतियाँ-यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ ४ ९ ॥
भाष्य — आनुपूर्वीविशिष्टः शब्दो वेदः । “ ननु च गत्यधिकारे कः प्रसंगोऽचेतनानाम् । अचेतनाश्च शब्दादयः ” । अत्यल्पमिदमुच्यते शब्दादयोऽचेतना इति । सर्व एवैते देवादयः स्थावरान्ताः शरीरात्मानः । तत्र सर्वशंरीराणामचेतनत्वम्, तच्छक्तिः केवलं पुरुषादिचैतन्यरूपिणी प्राप्यते । निर्गुणश्च पुरुषस्तदधिष्ठितानि शरीराण्यचेतनान्यपि चेतनान्युच्यन्ते । अत एतदुक्तं भवति । सत्त्वप्रधानो वेदस्तदभ्यासात्सात्त्विकी गतिः प्राप्यते । न पुनः सत्त्वप्रधानस्य वेदत्वप्राप्तिः सात्त्विकी गतिरुच्यते । अन्येषां तु प्रदर्शनं सर्वक्षेत्रज्ञाः सन्त्यधिष्ठातारोवेदपुरुषा वारुणे लोके श्रूयन्ते ॥ ४ ९ ॥ हिन्दी - यज्वा ( विधिपूर्वक यज्ञानुष्ठान किये हुए ), ऋषि, देव, ( इतिहास प्रसिद्ध शरीरधारी वेदाभिमानी देव - विशेष ), ज्योति ( ध्रुव आदि ), वर्ष ( इतिहास प्रसिद्ध शरीर-