मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 751–760

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 751–760

पृष्ठ 751

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 751 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता

एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।

नैः श्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ ८२ ॥

७११ भाष्य – प्रतिषिद्धानां च कर्मणां यावत्फलोत्पत्तिस्तानि समुपदिष्टानि ॥ ततो निव-र्तितव्यम् । यतो दुःखानुबन्धी विषयसुखोपभोगोऽतस्ततो निवर्तन्ते । श्रेयसे कर्मविधौ मोक्षोपाये वक्ष्यमाणविद्याकाण्डे उपदिष्टे स्थातव्यम् । तदिदानीं वक्ष्यामः ॥८२ ॥

हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि मैंने ) आपलोगों से इन ( १२।५५-८१ ) कर्मों के फलों को सम्पूर्ण उत्पत्ति को कहा, अब मोक्ष के लिए ब्राह्मण के कर्म को आप-लोग सुनें ॥८२ ॥

मोक्षसाधक षट्कर्म-वेदाभ्यासस्तपोज्ञानमिन्द्रियाणां च संयमः ।

अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ ८३ ॥

भाष्य — निःश्रेयसशब्देन न पुनः पुरुषार्थसिद्धिरुच्यते, अपि तु निश्चितसुख-दुःखानुबन्धः प्रीतिविशेषोऽपि । वेदाभ्यासादीनां तत्र तत्रोक्तानां पुनर्वचनमात्मज्ञानस्तुत्यर्थम् । ज्ञानं वेदार्थविषयम् । उक्तार्थान्यन्यानि पदानि ॥८३ ॥

हिन्दी – ( उपनिषद् के सहित ) वेद का अभ्यास, ( प्राजापत्य आदि ) तप, ( ब्रह्म-विषयक ) ज्ञान, इन्द्रियों को संयम, अहिंसा और गुरुजनों की सेवा - ये ब्राह्मण के लिए श्रेष्ठ मोक्षसाधक छः कर्म हैं ॥८३ ॥

सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् ।

किंचिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ ८४ ॥

हिन्दी – इन सब ( १२।८३ ) शुभ कमों में भी मनुष्य के लिए अधिक शुभकारक कोई कर्म है ॥८४ ॥

ब्रह्मज्ञान की मुख्यता-सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।

तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ ८५ ॥

भाष्य — द्विविधमात्मज्ञानम् । देहेंद्रियबुद्ध्यादिव्यतिरिक्तस्य कर्तृभोक्तृत्वोप-पत्तिरूपस्य अहंप्रत्ययप्रमेयतयाऽऽत्मनि विषयप्रतीत्यन्तर्गतस्य जीवक्षेत्रज्ञविज्ञानात्मादि-पर्यायस्य शरीरनाशेऽप्यनष्टानां कर्मफलानामौर्ध्वदेहिकानां भोक्तृत्वज्ञानम् । अपरं सर्वस्य मनु II 47

पृष्ठ 752

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 752 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१२ मनुस्मृतिः [ द्वादश: जगतो जन्मादीनां परमात्मैककारणत्वे नित्यस्य सत एकस्याविद्यावासनोपहितनानारूप-स्य तिर्यक्मनुष्यादिष्वेकत्वदर्शनम् ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य ’ ( बृहदारण्यक अ ० २ ब्रा ०५ ) इत्येवमादिश्रुतिभिरुपदर्शितस्वरूपस्य ज्ञानम् । तत्र क्षेत्रज्ञपरिज्ञानं कर्मविधिषूपयुज्यते । असति हि देहादिव्यतिरिक्तेऽस्मिन्नौर्ध्व-देहिकानां भोक्तरि फलानां स्वर्गकामादिचोदना अनर्थिकाः स्युः, अतस्तत्र न कश्चित्प्रवर्तेत । अतस्तत्कर्मानुष्ठानोपयोगि । यत्तु परमात्मैकत्वज्ञानं तिरोधानोपसेवनाभ्याससामर्थ्येनोप-पद्यमानं शुद्धबुद्धमुक्तानन्दनित्याविनश्वरभावस्यात्मनः प्रकाशनं तत्रेदमुपपद्यते । तदग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं तत इति । ' अमृतं ' ततः गतेर्व्यापत्तिम् । तत इति विद्यानिर्देश आत्मविद्याया: । क्षेत्रज्ञज्ञानं तु कर्मोपकारकत्वादमृतत्वाय न कल्पते । अतो वेदान्तोपदिष्टस्य समस्तस्य द्वैताद्वैतविषयस्य सदात्मनो दर्शनं तदात्मज्ञानमभि-प्रेतम् ॥८५ ॥

हिन्दी - इन सब ( १२।८३ ) कर्मों में भी उपनिषद्वर्णित ब्रह्मज्ञान ही सर्वश्रेष्ठ कहा गया है, वही सब विद्याओं में प्रधान है, इस कारण उससे अमृत ( मोक्ष ) की प्राप्ति होती है ॥८५ ॥

वेदोक्त कर्म की श्रेष्ठता-षण्णामेषां तु पूर्वेषां कर्मणां प्रेत्य चेह च ।

श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ ८६ ॥

भाष्य — वेदाभ्यासादीनि षट्कर्माणि श्रेयस्कराणि । तेभ्यो निःश्रेयसकरतरत्वं वैदिकस्य ज्योतिष्टोमादे कर्मणः । “ ननु च यदि तावत्पूर्वेषामिति निर्धारणे षष्ठी तदनुपपन्नम् । निर्धारणं हि समु-दायभूतविशेषस्य केनचिद्धर्मेण तदैकविषयेण चोपपद्यमानस्यावान्तरेणासम्भविना । ‘ क्षत्रियो मनुष्याणां शूरतम ' इति मनुष्यजातौ क्षत्रियोऽप्यन्तर्भूतः स शूरतमत्वेन निर्धार्यते । अनुपदिष्टस्यानन्तरितस्य कुतो निर्धारणम् । न चेह प्राग्वैदिकं कर्मादिष्टम् । अथोच्यते । ‘ अन्तर्वदाभ्यासादीनि वैदिकान्येव, कथमनुद्दिष्टं वैदिकं कर्म ' । यद्येवं सामान्यस्य सामान्यात्सुतरामनिर्धारणम् । न हि भवति ‘ गवां गौरुत्पन्नक्षीरतमेति ' यदि ह्यवैदिकानि चोद्दिष्टार्थान्यभविष्यंस्तत एवैतदपेक्षेत वैदिकं श्रेयस्करतरमिति । किंच कानि तावदत्र वैदिकानि कर्माण्यभिप्रेतानि । यदि तावत् ज्योतिष्टोमादीनि । विशेषग्रहणे प्रमाणं वक्तव्यम् । वेदाभ्यासादानामपि वैदिकत्वात् । अथ ' स्मार्तत्वान्न तानि वैदिकानि । यान्येव प्रत्यक्षश्रुतिविहितानि तान्येव वैदिकानीति ' । न हि सर्वे वैदिकेषु कर्मसु वेदाभ्यास दीनामङ्गत्वेनान्तर्भावः । एतच्च यद्वक्ष्यति ( अग्रे ८७ ) ‘ अन्तर्भवति

पृष्ठ 753

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 753 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७१३ क्रमशः तस्मिन् तस्मिन् क्रियाविधाविति ' । तद्धि तस्य नेति तर्ह्यग्निहोत्रादौ तपो गुरु सम्पाद्यं स्यात् । अनेन तेनोक्तेन न कश्चिदर्थः । वेदाभ्यासादीन्यप्यनुष्ठेयान्यग्निहोत्रादीन्यपि । तत्र न विद्मः कीदृशममीषां श्रेयस्करतरत्वम् । नापि समानि फलानि येन फलस्योत्कर्षवत्त-यैवमुच्यते । यथा । गोदानात्स्वर्गस्य ज्योतिष्टोमाच्च दीर्घकालाद्यनुवृत्तता । यथोक्तं ‘ लोक-वत्परिमाणतः फलविशेषः स्यादिति ' " अत्रोच्यते । यदुक्तं चैतेनोक्तेन कश्चिदर्थ इति तत्र केचिदाहुः । विरोधे स्मार्ते श्रौते बाधकत्वज्ञापनार्थं वैदिकानां श्रेयस्करतरत्ववचनम् । यथोक्तं तुल्यबलविरोधे विकल्पः । अतुल्यबलायाः स्मृतेः श्रुत्याबाध इति । ' श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ' । श्रुतिस्मृतिद्वैधे अनुवादः स्मृतिरित्यर्थादुक्तं भवति । “ अमुनैवावगतत्वादवाच्यमेतत् " । विस्पष्टीकरणार्थमेव पुनरुच्यत इत्यदोषः । अथवाऽन्योऽपि तथार्थः सम्भाव्यते । शुद्धे च विकल्पवचनम् । स्मृतिद्वैधे न तद्वि-कल्पार्थम् । तेनायमर्थः । स्मार्तेभ्यो वैदिकानि बलीयांसि । वेदाभ्यासादिग्रहणं सर्वस्मार्त-प्रदर्शनार्थम् । वृत्तानुरोधादेवं पठितम् । वयं तु ब्रूमो न्यायसिद्धोऽयमर्थो न्यायसिद्धस्यापि सौहार्देनाभिधानमनारभ्य युक्तम् । इहात्मनो ज्ञानं प्रतिपदं पठ्यते । तत्र कः प्रसंगो बाधात्तस्य । स्मृतिकारा न च स्ववाक्यानि स्ववाक्यैरेव प्रमाणयितुमर्हन्ति । अथोच्यते - " याज्ञवल्कीयाया: स्मृतेर्विधि-रुच्यते । नात्मीयायाः समानता । यत्तावदात्मीयायामप्युक्तं भवति । अतः प्रकरणा-नुरोधाद्वेदाभ्यासादि पदं पृथक् । नेहात्मज्ञानं प्रतिज्ञायेदं पठ्यते । कथं च आत्मज्ञानं श्रुतिपरत्वेन तैर्व्याख्यातमिति ” । x x x वेदाभ्यासादिभ्यो वैदिकं यागादि कर्म श्रेष्ठमिति ततोऽध्यात्मज्ञानम् । इतरथाऽन्यत्र प्रजाया अन्यदुच्यमानमन्यत्रास्तमन्यत्र पतितं स्यात् । अथवा ‘ वैदिकं ’ अत्र आत्मज्ञानमेव । वेदस्य तत्प्रतिपादनपरत्वात् । अग्निहोत्राद्यु-पदेश औषधपाने वृद्ध्युपदेशवद्वालादि प्रवृत्त्यर्थः । यदि वा कर्मकाण्डेन शिष्टाः स्वा-भाविकीमेनामनाद्यविद्यां वासनाविषयासंगहेतुभूतामवधूय शास्त्राभ्यासवासनासामर्थ्य-वशात् क्रमेणोपजातवैराग्यशिथिलीभूतदृढतृष्णरागग्रहणे उत्तमाधिकारानुशासने नियो-ज्यतां प्रतिपत्तुं समस्तमपि श्रुत्यादिष्टत्वमधिकारोपकारकत्वं कर्मकाण्डस्य विज्ञायत इति ब्रह्मवादिनः । अतो वक्ष्यमाणनिवृत्त्याख्यकर्माभिप्रायमेतत् श्रेयस्करतरं ज्ञेयं सर्वथा कर्म वैदिकमिति । अथवा भेदो यदि सर्वेषामपि स्वप्नवदसत्यदर्शनद्वयेऽप्यात्मैकत्वज्ञाने श्रेय इत्यर्थः । वेदाभ्यासादीनां भेदोपदेशादिनोद्यं तत्कर्तव्यम् । षष्ठीनोद्यं तु तैरेव समाहितं बुद्ध्यारोपिता-

पृष्ठ 754

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 754 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१४ मनुस्मृतिः [ द्वादश: न्तरेण पृथक्त्वोपपत्तेः । यथा माथुराः पाटलीपुत्रकेभ्य आढ्यतरा इति । तथा सतीयं पंचमी स्यादिति चेत् अत्रापि प्रतिविहितं धर्माविशेषात् ॥८६ ॥

हिन्दी – ( १२।८३ ) सब छः कर्मों में से मरने के बाद ( परलोक में ) तथा ( जीवित रहने पर ) इस संसार में वैदिक कर्म को सर्वदा कल्याणकारक समझना चाहिये ॥ विमर्श - पूर्व वचन ( १२।८५ ) से आत्मज्ञान को मोक्षसाधक कहा है तथा इस वचन ( १२।८६ ) से ऐहलौकिक तथा पारलौकिक कल्याणकारक कहा है, अतएव पुन-रुक्ति नहीं होती । ‘ इन पूर्व ( १२।८३ ) श्लोकोक्त वेदाभ्यासादि छः कर्मों में से स्मार्त कर्मों की अपेक्षा वैदिक कर्मों का सर्वदा ( इस लोक तथा परलोक में ) अतिशययुक्त होने से कीर्ति, स्वर्ग एवं मोक्ष का साधन जानना चाहिये, ऐसी व्याख्या गोविन्दराज ने की है; किन्तु वेदाभ्यासादि छः कर्मों में से प्रत्येक कर्म के वेदविहित होने से स्मार्त कर्म की अपेक्षा से ' कुछ ऐसा है और कुछ नहीं है ' ऐसी सम्भावना हो सकती है, तब निर्धारण अर्थ में षष्ठी विभक्ति किस प्रकार होगी? अतः गोविन्दराज की व्याख्या ठीक नहीं है । वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । F अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ ॥ ८७ ॥

भाष्य - एतावद्वैदिकं कर्म ज्योतिष्टोमाद्याचक्षते । तेषामेव श्लोकयोजना । क्रियाविधिः कर्मविधिर्वैदिकः । कर्मयोगे कर्मप्रयोगे बहिः संपाद्यावस्थाः । एतान्युपनिषद्वेदाभ्यासादीन्यन्तर्भवन्ति तस्मिन्निति व्याप्यतया क्वचित् कस्यचित्सम-मेषामन्तर्भावमाह । कर्मयोग इत्युक्ते क्रियाविधिग्रहणं श्लोकपूरणार्थम् । ऋतुं यज्ञेभ्य इति तद्वासोमयाग-भेदेन भेदो व्याख्येयः । तत्र वेदाभ्यासस्तावत् सत्रेऽन्तर्भवति । यजमानमन्त्रेषु सर्वत्रोपयोगतः । तपोदीक्षो-पसदसोमयागेषु ‘ पयोऽमृतं ब्राह्मणस्य ' इत्यादि । ज्ञानं सर्वत्र विदुषामनधिकारात् । एव-मिन्द्रियसंयमः प्रतियागगामि ' न स्त्रियमुपेयान्न मांसमश्नीयादिति ' । अहिंसानिरतां रात्रिं प्राणभृतः प्राणेनाच्छिन्द्यादपि कृकलासस्येति । गुरुसेवादेरित्थमप्रवृत्तिः । ये तु निवृत्तमेव कर्माहुस्तेषां वेदाभ्यासादीनामनुवृत्त्यर्थः श्लोकः । अन्तर्भवन्त्युपासनापरस्यापि तेषामनुष्ठानादन्तर्भावः । तथा चोपनिषद्भ्य उपास-कस्य प्रायश्चित्तनिर्देशः पापक्षपणार्थो, न पुनः प्रतिविधानविकार एवोक्तो भवति । अतो विहिताकरणे प्रतिषिद्धसेवने सति प्रत्यवायः । “ एवं तर्हि कुतो मोक्षः ” ।

पृष्ठ 755

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 755 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७१५ फलोपभोगेन जन्मान्तरोपात्तदुरितक्षयादकरणात्स्वबुद्धिपूर्वमन्यस्य प्रमादकृतस्य प्राणा-यामविद्याविशेषाभ्यासातिशयेन कृतनिष्कृतित्वात् निरुपाध्यात्मस्वरूपसाक्षात्करणाच्च प्रथमं तं वेदयेत्तद्भावापत्तिर्मोक्षः । अतश्च ब्रह्मनिष्ठापरेणापि वेदाभ्यासादीन्यनुष्ठेयानि । यस्य यस्य कर्मन्यासः श्रूयते स षष्ठे व्याख्यातः । क्रियाविधिरुपासनविधिरेव ' द्रष्टव्यः श्रोतव्य ' इत्यादिनोदितः । बहुत्वाच्चोपास-नाप्रकाराणां तस्मिंस्तस्मिन्निति वीप्सा युज्यत एव । अतो ' ब्राह्मणान्युपासीत् ', ' य एष आदित्ये हिरण्मयः पुरुषः ' इति, स च एष आत्मापहतपाप्मा ' इत्यादि । क्वचिदुपात्त बुद्ध्याऽध्यारोपितश्चोद्यते । क्वचिद्धिरण्मय इत्यादौ लक्षणया तस्यैवोपासना क्वचित्सर्वो-पासनाधिपत्त्येन निष्कलङ्कमिवात्मनस्तस्यैवाधस्तात्स उपरिष्टादिति चोदनाबहुत्वाद्वीप्सो-पपत्तिः ॥८७ ॥

हिन्दी – ( परमात्मोपासनरूप ) वैदिक कर्मयोग में ये सभी ( ऐहलौकिक तथा पार-लौकिक कल्याण ) उस उपासना विधि में सम्पूर्ण भाव से क्रमशः अन्तर्भूत हो जाते हैं अथवा वैदिक कर्मयोग में ये ( १२।८३ ) सभी वेदाभ्यासादि षट्कर्म परमात्मज्ञान में अन्तर्भूत हो जाते हैं ॥ ८७ ॥

द्विविध वैदिक कर्म-सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च ।

प्रवृत्तं च निवृत्तं च द्विविधं कर्मवैदिकम् ॥ ८८ ॥

भाष्य— “ ननु च प्रवृत्तमेव वैदिकं कर्म व्याख्यातं किमिदमुच्यते द्विविधमिति ” । नैष दोषः प्राधान्येन तत्र प्रवृत्तं वैदिकं व्याख्यातम् । वैदिकं तु सर्वत्राविशिष्टम् । सुखमुपैत्युपपद्यते । यदपि सुखाभ्युदयिकं ' सुखाभ्युदयः ’ प्रयोजनमस्येति वाऽ-न्वर्थो वा कर्तव्यः । निःश्रेयसं प्रयोजनमस्येति च केचन । प्रवृत्तनिवृत्तपदे यथासंख्यं पूर्ववत्सम्बन्धनीये ॥८८ ॥

हिन्दी — वैदिक कर्म दो प्रकार के होते हैं - पहला स्वगादि सुखसाधक संसार में प्रवृत्ति करानेवाला ( ज्योतिष्टोमादिरूप ) प्रवृत्त कर्म तथा दूसरा निःश्रेयस ( मुक्ति ) साधक संसार से निवृत्ति करानेवाला ( प्रतीकोपासनादिरूप ) निवृत्त कर्म ॥८८ ॥

प्रवृत्त तथा निवृत्त कर्म का लक्षण-इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ ८ ९ ॥ भाष्य — इह कारीरावैश्वानर्याद्यमुत्र ज्योतिष्टोमादि काम्यसम्पादकं कर्म । काम्यत

पृष्ठ 756

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 756 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१.६ मनुस्मृतिः इति काम्यम् । फलस्य काम्यत्वात्तत्साधनमपि कर्म ‘ काम्यं ’ एव । निष्कामं नित्यम् । [ द्वादश: ज्ञातकर्ममुभयत्र शेषम् | अविदुषोऽनधिकारात् । अथापि रहस्याधिकारिज्ञानमुप-दिश्यते । तदा नोभयशेषः । पूर्वशब्दश्चाद्यर्थं लक्षयति, ज्ञानमाद्यं मुख्यं यंस्येति विग्रहः । योऽभिमुख्यः स लोकः पूर्वं क्रियां प्रतिलभते । अतश्चैतदुक्तं भवति । ज्ञानं प्रधानं प्रधा-नतोऽनुष्ठेयम् । वेदाभ्यासादि तु शास्त्रमात्रया ॥ ८ ९ ॥ हिन्दी — इस लोक में या परलोक में इच्छापूर्वक ( सकाम भाव से ) किया गया ज्योतिष्टोमादि ( यज्ञरूप ) कर्म ( संसार प्रवृत्तिसाधक होने से ) ' प्रवृत्त कर्म ' कहा जाता है और इच्छारहित ( निष्काम भाव से ) ब्रह्मज्ञान के अभ्यासपूर्वक किया गया कर्म ( संसार - निवृत्ति-साधक होने से ) ‘ निवृत्त कर्म ' कहा जाता है ॥ ८ ९ ॥। [ अकामोपहतं नित्यं निवृत्तं च विधीयते । कामतस्तु कृतं कर्म प्रवृत्तमुपदिश्यते ॥ ७ ॥ ]

[ हिन्दी — सदा निष्काम किया गया कर्म ' निवृत्त कर्म ' कहा जाता है और सकाम किया गया कर्म प्रवृत्त कर्म कहा जाता है || ७ || ]

प्रवृत्त - निवृत्त कर्मों के फल-प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् ।

निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ ९ ० ॥

भाष्य- - " ननु च काम्यं कर्म प्रवृत्तमित्युक्तम् । काम्यानि च कानिचित्स्वर्गफलानि कानिचिद्दृष्टफलानि । न च देवसाम्यता फलं किंचिदिष्टं कर्म । अतः किमिदमुच्यते देवानामेति साम्यतामिति । यान्यश्रुतफलानि विश्वजिदादीनि तान्यपि निष्कामस्वर्गफ-लानि । अतो न विद्मः कर्मणा देवसाम्यताप्राप्तिः फलम् । न च शक्यं वक्तुं ‘ यानि फलवन्ति श्रुतानि तानि निष्कामेणानुष्ठेयानि, तथा चानुष्ठितानि वै देवत्वफलानि सम्पद्यन्ते ' । श्रुतहानिरश्रुतपरिकल्पना च तथा स्यात् । काम्यमानं च वेदे फलं ' ग्रामकामः ', ' स्वर्गकाम ’ इति । न वस्तुस्वाभाव्येन विषभक्षणात् । अथो देवत्वादिप्राप्तिर्भवति न च काम्य इति विरुद्धमिति । प्रतिषेधाधिकारेष्वकामिनं कथमिति चेत् तथाभूतस्यैव तत्र फलत्वेनान्वयः । न ह्यनिष्टं काम्यं भवति । अथ नित्यानां फलमितः कथ्यते, नित्यताहानिः । यावज्जी-वादिफलैश्च तत्र नित्यफलमवगमितम् । अथावश्यं कल्प्यते प्रत्यवायपरिहारः कल्प्यताम् तद्धि कल्प्यमानं नित्यत्वे न विरुध्यते । योऽप्युत्तरः श्लोकः भूतान्यत्येति पंच वै इति तत्रा'प्यत्येति ' विमुच्यत इति न विद्मः । अन्यत्राप्ययो लय उच्यते । न चेह भूतेषु जीवस्य लय इष्यते, अपि तु ब्रह्मरूपापत्तिः ।

पृष्ठ 757

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 757 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७१७ अन्येऽपि व्याचक्षते । ‘ स चातिक्रामति पंचभूतानि । न पांचभौतिकं तस्य शरीरं भवति अपि तु तेजोमूर्त्तिरेवान्वेति ' । तदपि न किंचित् । शरीराग्रहणं हि ' मोक्षः ' । तच्च शरीरमेकं वा भवतु पाञ्चभौतिकं वा, को विशेष: संसारित्वे । अतो व्याख्येयोऽयं श्लोकः ” । उच्यते । यत्तावदुक्तं “ कस्य कर्मणो देवसाम्यता फलमिति, नित्यानामफलत्वात्, काम्यानां च फलान्तरयोगादिति ” तत्र ब्रूमः । नानेन सर्वेषां वैदिकानां कर्मणामेतत्फलमु-च्यते । किं तर्हि? निवृत्तस्य कर्मणो यत्फलं यत्र प्रवृत्तिः । किञ्च कर्म विद्यते येन तत्फलमाप्यत इति प्रशंसा । सन्ति च कानिचित् देवत्वप्राप्तिफलानि कर्माणि तेनैतदुक्तं भवति । कर्मकाण्डे यत्कर्तव्यं तथा वेदितं साऽस्य परा गतिर्देवत्वप्राप्तिर्न तु मोक्षः । यत्तु रहस्याधिकारोक्तकर्म तदनावृत्तिहेतुस्तत्र कामयमानस्य फलसंकल्पोपहतत्वात्कर्म बन्ध-हेतुः । कर्मणां ह्येष स्वभावो यत्स्वफलदानार्थमधिकारिणः कार्यकरणमारभन्ते । तथैव नित्यान्यप्यक्रियमाणानि प्रत्यवायहेतवो भवन्ति । तान्यपि शरीरमारभन्त एव । यद्येवं नित्यानि करिष्यति काम्यानि प्रतिषिद्धानि न करिष्यति, तस्य शरीरारम्भ-ककर्माभावाद्धेत्वभावेन मोक्षमवाप्स्यति । आत्मज्ञानस्य क्वोपयोगः । यथोक्तं ‘ नित्यनैमि-त्तिके कुर्यात्प्रत्यवायजिहासया । मोक्षहीनः प्रवर्तेत तत्र काम्यनिषिद्धयो ' नित्युक्तं ' भगवद्भिन्नं विद्यामनभ्यस्यमानस्याविद्यया क्षयोऽस्ति । न ज्ञानानुच्छिन्नायामविद्यायां ब्रह्मरूपापत्तिः । एतदेवाभिप्रेत्योक्तं निष्कामं ज्ञानपूर्वमिति ' । तथा ' कामात्मता प्रशस्ता ’ ( २।२ ) । समानक्रियस्य सामार्ष्टिस्तस्य भावः साम्यता । देवैः समानगतिर्भवतीत्यर्थः । यच्च ‘ भूतान्यत्येती’त्यप्यमुं प्रति व्यामोहः सोऽपि न युक्तः । विप्रलापनमपि'अय ’

उच्यते । तुषारनिखिलप्रपञ्चो भवतीत्यर्थः ।

‘ अभ्येती’त्यपि पाठेऽशरीरत्वमुक्तं भवति ॥९ ० ॥

कथं पुनः प्रपञ्चः कर्तव्य इत्यत आह । हिन्दी – ( मनुष्य ) प्रवृत्तकर्म का सेवनकर देवों की समानता ( स्वर्ग ) पाता है और निवृत्त कर्म का सेवन करता हुआ पञ्चभूत ( पृथ्वी, जल, तेज, वायु और आकाश ) का अतिक्रमण करता अर्थात् पुनर्जन्मरहित होकर मोक्ष पाता है ॥९ ० ॥

समदर्शी होने पर ब्रह्मत्वप्राप्ति-सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ ९ १ ॥

भाष्य- -भूतशब्देन यत्किंचित्स्थावरजंगमं प्राण्यप्राणि तत्सर्वमुच्यते । तत्र चा-त्मानं पश्येत् ‘ अहमिवैतज्जगदिति ’ । तथा च श्रुतिः । ' अहं वृक्षस्य रेरिवेति ' ( शिक्षोप-निषदि ११।१; तै ० आ ० ७।१०।१; तै ० उ ० १।१०।१ ) । स्वपरव्यवहारं जह्यात् ।

पृष्ठ 758

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 758 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१८ मनुस्मृतिः [ द्वादश: ‘ अयमहमेतन्मम ममेति ' संपद्यते वंधः । त्यक्तात्मात्मीयाभिनिवेशस्योज्झितस्वपरभेदस्य केवलात्मैकत्वं भाति । एष एव स्वाराज्यपदार्थः । सर्वभूतानि चात्मनीति । यदेव विकारप्रपञ्चरूपं जगत्तदेव तन्मयि स्थितं अहमेकः स्रष्टा कर्ता ध्याता ध्येयश्चेति संपद्यते । आत्मयाजी । आत्मानमेव सर्वदेवतामयत्वेन यो यजते मन्यते । ' नाग्निरादित्यो वा देवता अहमेव देवते’त्येवं पश्यन्ना'त्मयाजी ' सम्पद्यते, न पुनरात्मोद्देशेन यागः कर्त-व्यतया चोद्यते । केचिदाहुः । नाग्नेयादिष्वग्न्यादयो देवता आत्मत्वेनापि न वक्तव्याः । स्वाराज्यम् । स्वे राज्ये भवः स्वाराज्यः । परमात्मवत्स्वतन्त्रः सम्पद्यते स्व-प्रकाशश्च भवति । न चन्द्रादित्याद्यालोकमपेक्षते नेन्द्रियाणि चक्षुरादीनि नान्तःकरणं मन आदि । अतः पश्यन्निति च । भावयेदित्युच्यते । न दर्शनमात्रं सकलबाह्याभ्यन्तरव्यापा-रतिरस्करणे तद्भावनापराः स्मृताः ॥९ १ ॥ हिन्दी – सम्पूर्ण ( चराचर ) जीवों में आत्मा को तथा आत्मा में सम्पूर्ण ( चराचर ) जीवों को देखता हुआ आत्मयाजी ( ब्राह्मार्पण न्याय से ज्योतिष्टोमादि करने वाला ) ब्रह्मत्व अर्थात् मुक्ति को पाता है ॥९ १ ॥

वेदाभ्यासादि में प्रयत्नवान् होना-यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।

आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ ९ २ ॥

भाष्य - यथोक्तान्यपि कर्माणीति । नानेनाग्निहोत्रादीनां कर्मणां परिहानिर्विधीयते, अपि त्वात्मज्ञानं यत्नवान् स्यादित्यात्मज्ञानाभ्यासो विधीयते । कर्माणि परिहायेत्यस्या-लम्बनं प्रशस्तदेवतायतनप्रदक्षिणमंत्रगुरुगमनादीनि मुक्त्वाऽप्यात्मज्ञानमभ्यस्येत् । न हि नित्यानां कर्मणां स्वेच्छया परित्यागोऽस्ति पुरुषधर्मादिषु विहिते नास्ति त्यागेन विना ॥९ २ ॥ हिन्दी— द्विजोत्तम ( ब्राह्मण ) शास्त्रोक्त ( अग्निहोत्रादि ) कर्मों का त्यागकर भी ब्रह्मध्यान, इन्द्रियनिग्रह और ( प्रणव, उपनिषद् आदि ) वेद के अभ्यास में प्रयत्नशील रहे ॥९ २ ॥

वेदाभ्यास- प्रशंसा-एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।

प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ ९ ३ ॥

भाष्य - द्विजो भवतीति क्षत्रियवैश्ययोरप्यात्मज्ञानेऽधिकारं दर्शयति । यथा चारण्यकश्रुतिः ।

पृष्ठ 759

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 759 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७१ ९ ब्राह्मणस्य विशेषत इति । वेदाभ्यास इति सम्बन्धनीयम् । आत्मज्ञेन समत्वेनाभ्या-सितेनैव सम्भवतः । यदात्मज्ञानं प्राप्य कृत्यकृत्यो द्विजो भवति पुरुषार्थ एतावता समाप्यते । न हि मोक्षादपरः पुरुषार्थोऽस्तीति ॥ ९ ३ ॥ " ननु च यदुक्तं सर्वात्मैकत्वेनायं पश्येत्तत्प्रत्यक्षविरुद्धमिव प्रत्यक्षेण हि भिन्नो-भाव: प्रतिभाति । तेन कथमेकत्वेन ग्राह्यः । अनारभ्य स्वार्थ उपदिष्टः स्यात् । कथं भिन्नमभिन्नं द्रष्टुं शक्यम् । न हि खरो गौरिव बुद्ध्या ग्रहीतुं शक्यः । इन्द्रियदोषेणा-न्यत्रावभासरूपया प्रतीयते शुक्तिकादौ रजताकारतया, न तूपदेशतः । यो ह्युपदिशेत्तं हस्तिनं प्रतिपद्यते । नासौ वचनफलमंजसाश्नुवीत ” अत आह— हिन्दी - यही ( आत्मज्ञान, वेदाभ्यासादि ही ) द्विज को, विशेषकर ब्राह्मण के जन्म की सफलता है; क्योंकि इसे पाकर द्विज कृतकृत्य हो जाता है, अन्यथा ( दूसरे किसी प्रकार से ) कृतकृत्य नहीं होता ॥९ ३ ॥

पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।

अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ ९ ४ ॥

भाष्य - अयमर्थः । वेदोऽत्र वक्तुः प्रमाणम् । चक्षुरिव चक्षुर्दर्शनहेतुत्वसामान्यात् । यथा चक्षुः परिच्छिन्नेष्वनेष्टितः रूपप्रत्ययो भवत्येवं वेदादिति चक्षुरित्युक्तम् । सनातनं शाश्वतं नित्यम् । अनेनापुरुषकृतत्वमाह । पुरुषकृतत्वे हि तत्प्रामाण्यात् प्रमादोऽपीत्यत्र न प्रामाण्यमस्ति । अतः पुरुषगतगुणदोषसद्भावनिश्चयात्तदभावादपौरुषेय-त्वेन वेदः प्रमाणम् । अतो वेदप्रामाण्यात् दृश्यार्थस्य न कश्चन विरोधः । “ ननु च यद्येवमुपदिशेदग्निना सिंचेदुदकेन च दीपयेत् किं न भवेद्विरोधः ” । विषम उपन्यासः । तत्र हि दृष्टया पदार्थशक्त्या दृष्ट एवार्थः कर्तव्यतयोपदिश्यते । तत्र प्रमाणान्तरगोचरत्वं तस्यार्थस्य तद्विपर्ययाद्युक्तं तदेतदुक्तम् । इह तु विधिपरत्वात् वाच्यानां प्रमाणान्तराणां च विधिविषयत्वाभावात् सिद्धस्वरूपवस्तुगोचरत्वेनासत्येक-विषयत्वे कुतो विरोधः । इह ह्यनात्मभूतानामाभासतो भावानामात्मत्वेन दर्शनं विधीयते स्वराज्यफलाय । तत्र यत्राधिकं भेददर्शनं तस्याभ्यासत: शक्यमन्यथाकर्तुम् । तथा हि रागादयश्चित्तधर्माभाव-नातिशययोगाङ्गाभ्यासेन शक्यन्ते नियन्तुम् । द्वेष्यमपि मैत्रादिना द्वेष्यताबुद्धिर्निवर्तत इति सर्वस्यैतत्स्वसंवेद्यं दृष्टं च । भावनाया अविद्यमानवस्तुस्वाभाव्यमवभासते सामर्थ्यात् । यथा विप्रलम्भे कामिनः सर्वत्र कामिनीवत्पश्यन्ति किमंग यत्र तात्त्विकमेकत्वमस्ति । तत्कथं भेदेन विरुद्धत्वादवभासते । तद्रूपा हि सर्वभावना सा भिन्नाविद्यते । ईदृशं चात्र दर्शनं समत्वेन विधीयते, यत्र ममेतन्नेदं ममेति बुद्धेरनुपपत्तिः । यथोक्तं ' ममेति द्व्यक्षरो

पृष्ठ 760

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 760 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२० मनुस्मृतिः [ द्वादश: मृत्युर्न ममेति च शाश्वतम् ' इति । तस्मान्नास्ति विरोधः । पितृदेवमनुष्याणामित्यादीनि श्रुतिपदानि । देवादयोऽपि रिध्यन्ति संयुक्ता न चेदृक् तेऽतीन्द्रियमर्थं पश्यन्ति श्रुतिमन्तरेण ज्ञातुमशक्यत्वात् । अप्रमेयं चापरिमाणम् । अनन्तत्वाद्वेदशाखानाम् । अथ च प्रमातुं अशक्य-मर्थतो वेदांगं वेदाः ॥९ ४ ॥ हिन्दी — पितर, देव तथा मनुष्यों का सनातन नेत्र वेद ही है, यह वेद अपौरुषेय ( किसी पुरुष का नहीं बनाया हुआ ) और अप्रमेय ( मीमांसा, न्याय आदि से निरक्षेप है; ऐसी शास्त्र - व्यवस्था है ॥९ ४ ॥

वेदबाह्य स्मृत्यादि की निन्दा-या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।

सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ ९ ५ ॥

भाष्य- - पूर्वं त्वपौरुषेयत्वेन वेदस्य प्रामाण्यमुक्त्वेदानीं पौरुषेयाणां वेदानाम-प्रामाण्यम् । अथ वेदबाह्या वेदविरुद्धा अवेदमूला: श्रुतयो ग्रन्थसंदृब्धेषु ' नोदनाश्चैत्यवन्दनेन स्वर्गो भवेति ' इत्याद्याः निर्ग्रन्थशोभादिसिद्धान्ताः प्रसिद्धाः । कुदृष्टयः असत्तर्कदर्शनानि । वेदकर्तुः साधनमपूर्वदेवतादिनिराकरणमेवमाद्याः कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य | प्रकर्षं प्राप्य । संनिरूपितहेतुदृष्टान्ताः । अन्ततो निष्फला उक्ता: । तत्र युक्तीनामाभासरूपत्वात् । ताश्च युक्तयोन्यवति वर्त्मनि रात्रीयंति महाग्रन्थविस्तारा भवन्ति संक्षेपरूपाः । तथा पौरुषेयाणामुपदेशेन प्रामाण्यं, पुरुषाणामतीन्द्रियार्थदर्शनशक्त्यभावात् । सत्या-मपि शक्तौ उपदेशिकस्य प्रमाणाभावात् । ' अयं सर्वज्ञस्तेनायमागमः प्रणीत इति ' न किञ्चिदत्र प्रमाणं क्रमते । विद्यमानेऽपि कर्तृपूर्वत्वे दृष्टार्थादृष्टकल्पनाप्रसंगस्तत्प्रमाणत्वे देवतात्वसिद्धिः । अतस्ता युक्तयो व्यामोहमूला इत्यर्थः । अन्ये तु व्याचक्षते । प्रेत्य मृतस्य ता निष्फलाः । तमोनिष्ठास्तामसयोनिहेतुत्वात् । अस्मिन् पक्षेऽसमानकर्तृकत्वत्प्रेत्येति दुर्लभत्वम् । निष्ठान्ताद्वा सप्तमी पठितव्या प्रेते इति ॥ ९ ५ ॥ हिन्दी — जो स्मृतियाँ वेदबाह्य ( अवेदमूलक ) हैं तथा जो कोई कुदृष्टि ( चार्वाकादि-