मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 761–770
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 761–770
पृष्ठ 761
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता उन्ह ७२१ कृत शास्त्र ) हैं, वे सब परलोक में निष्फल है; क्योंकि उन्हें ( मनु आदि महर्षियों ने ) तमः प्रधान कहा है ॥ ९ ५ ॥
उत्पद्यन्ते विनश्यन्ति यान्यतोऽन्यानि कानिचित् ।
तान्यर्वाक्कालितया निष्फलान्यनृतानि च ॥ ९ ६ ॥
भाष्य – अतो वेदाद्यान्यन्यानि शासनानि तान्युत्पद्यन्ते विनश्यन्ति च । उत्पाद-विनाशित्वादनित्यानि । वेदस्तु तद्विपर्ययान्नित्यः । अर्वाक्कालिकतयेदानींतनेन पुरुषेण केनचित्कृतत्वादतो निष्फलान्यदृष्टस्य
फलस्याभावात् ।
यानि कानिचित् विप्रलम्भमूलकादिलक्षणानि (? ) ॥९ ६ ॥
हिन्दी- - इस ( वेद ) से भिन्न जो शास्त्र रचे जाते तथा नष्ट होते हैं, वे सब अर्वाचीन आधुनिक अर्थात् इस समय के ( रचे हुए ) होने से निष्फल तथा असत्य हैं ॥ ९ ६ ॥
वेद प्रशंसा-चातुर्वर्ण्य त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भवत् भविष्यं च सर्वं वेदात्प्रसिध्यति ॥ ९ ७ ॥
– इयमपि स्तुतिरेव । भाष्य-चातुर्वर्ण्य वेदात्प्रसिध्यति अधिकारित्वेनावतिष्ठते । ' वसन्ते ब्राह्मणो ग्रीष्मे राजन्य ' इत्यादि । स्वरूपं तु व्यवहारावगम्यं सर्ववर्णेषु तुल्यत्वादन्यत्र दर्शितम् । त्रयो लोका ‘ इतः प्रदानं देवा उपजीवन्ति ' अनेन त्रैलोक्यस्थितिहेतुत्वं वेदस्य सिद्धमेव वेदमूलत्वात्स्मृतीनां च । आश्रमोऽपि वेदादेव । भूतमतीतं जन्म सुखदुःखादि । यच्च भवद्वर्तमानं यच्च भविष्यं तत्सर्वस्य वेद एव शरणीयम् ॥९ ७ ॥ हिन्दी – पृथक् - पृथक् चारों वर्ण ( ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ), तीनों लोक ( स्वर्ग, मृत्यु और पाताल ), चारों आश्रम ( ब्रह्मचर्य, गृहस्थ, वानप्रस्थ और संन्यास ) और भूत, भविष्य तथा हो रहा है ) वह सब वेद से तथा वर्तमान ( क्रमश: जो ' कुछ हुआ होगा ही प्रसिद्ध होते हैं । ९ ७ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ ९ ८ ॥
भाष्य – शब्दादीनां भोग्यत्वेन सुखसाधनानां वेदादेव प्रसिद्धिः । वैदिककर्मानु-
पृष्ठ 762
पाठ पढ़ें पाठ छिपाएँ
७२२ मनुस्मृतिः [ द्वादश: ष्ठानाद्गीतादिशब्दोपपत्तिः तत्परित्यागाच्छ्रुतिकटुशब्दश्रवणम् । अतः शरीरारम्भकाः शब्दा-दयस्ताभ्यां स्वविषयत्वेनोपतिष्ठमाना वेदात् प्रसिध्यन्तीत्येतदभिप्रायम् । एतन्न पुनर्वेद उपादानकरणम् । अतः शरीरारम्भकाः शब्दादयस्ताभ्याम् । एतदेवाह प्रसूतिर्गुणकर्मतः । ‘ प्रसूतिः ’ शब्दादीनामुत्पत्तिः । तदर्थं ' गुणकर्म ' फलार्थत्वात्प्रधानकर्म च चित्रादि गुणकर्म इत्युक्तम् । पाठान्तरं ‘ प्रसूतिर्गुणधर्मतः ' इति । ' गुणा: ' सत्त्वादयस्तेषां ' धर्मो ' विपरिणामस्त-स्य या ‘ प्रसूतिः ’ साम्यावस्थायाः प्रच्युतिस्तदुद्रेको विष्वग्भावश्च । तत्र वेद एव हेतुर-दृष्टनिमित्तत्वात् । वैचित्र्यपाठान्तराणि निष्प्रयोजनत्वान्न लिख्यन्ते ॥ ९ ८ ॥ हिन्दी – ( इस लोक तथा परलोक में ) शब्द, स्पर्श, रूप, रस और पाँचवाँ गन्ध, ये सब गुण ( सत्त्व, रज और तम ) निमित्तक वैदिक कर्महेतुक होने से वेद से ही प्रसिद्ध होते हैं ॥९ ८ ॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् ॥ ९९ ॥
भाष्य — सर्वभूतभरणं च वेदशास्त्रस्य दर्शितं ब्राह्मणे तथा च ' हविरग्नौ हूयते सो-ऽग्निरादित्यमुद्वयति तत्सूर्यो रश्मिभिर्वक्ष्यति तेनार्त्तिर्भवति ततो ह वैनामुत्पत्तिस्थिति-वॆति हविर्ज्ञायत ' इति । इहाप्युक्तम् ' अग्नौ प्रास्ताहुति: सभ्यगादित्यमुपतिष्ठत ' इत्येवमादि । तस्मादेतत्परं मन्ये पुरुषार्थकारणम् । यद्येवं कारणेन जन्तोरस्य धर्मानुशासनमेत-स्मात्कारणात्तेषु यथा दर्शितोपपत्ति: ।
“ ननु च यद्यौपादानिकमर्थं किं तद्भेदमुक्तं लौकिकमर्थमिति ” ।
उच्यते । अनुष्ठानमस्य वैदिकं, कार्यं तु दृष्टत्वाल्लौकिकमेव ॥९९ ॥
हिन्दी — सनातन ( नित्य ) यह वेदशास्त्र सम्पूर्ण भूतों को धारण करता है, इस कारण से ( मैं ) इस जीव का उत्तम पुरुषार्थ - साधन वेद को मानता हूँ॥९९॥
वेदज्ञाता को सेनापति आदि होना-सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ १०० ॥
भाष्य — अतिस्तुतिरियम् ॥ । दण्डनेतारः दण्डनायका ग्रामनगरयोः कृताकृत-प्रेक्षणनियुक्ताः । सेना हस्त्यश्वरथपादातं तस्याः पतिः ।
पृष्ठ 763
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७२३
राज्यं मण्डलेश्वरत्वम् ।
सर्वलोकाधिपत्यं सार्वभौमत्वम् ॥१०० ॥।
हिन्दी — वेद ज्ञाता मनुष्य सेनापतित्व, राज्य, दण्डप्रणेतृत्व ( न्यायाधीश — जज आदि होने ) और सम्पूर्ण लोकों के स्वामित्व के योग्य है ॥१०० ॥
वेदज्ञाता की प्रशंसा —
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १०१ ॥
भाष्य — इयमपि पूर्ववत्स्पष्टा पदयोजना प्रसिद्धाश्च पदार्थाः ॥१०१ ॥
हिन्दी — जिस प्रकार प्रबल ( धधकती हुई ) अग्नि गीले ( नहीं सूखे हुए ) वृक्षों को भी जला देती है, उसी प्रकार वेदज्ञाता मनुष्य अपने निषिद्ध कर्मों ( से उत्पन्न पापों ) को भी नष्ट कर देता है ॥१०१ ॥
[ न वेदबलमाश्रित्य पापकर्मरुचिर्भवेत् । अज्ञानाच्च प्रमादाच्च दहते कर्म नेतरत् ॥ ८ ॥ ]
[ हिन्दी - मनुष्य को वेदबल का आश्रयकर पापकर्म करने की इच्छा नहीं करनी · चाहिये; ( क्योंकि वह वेद ) अज्ञान और प्रमाद से किये कर्म ( पाप ) को जलाता ( नष्ट करता ) है, दूसरे ( ज्ञानपूर्वक किये गये । कर्म को नहीं जलाता ॥ ८ ॥ ]
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ॥ १०२ ॥
भाष्य – ब्रह्मभूमाय ब्रह्मभावाय ब्रह्मत्वप्राप्तये इति यावत् । यत्र तत्रेति व्युत्थाय व्युत्क्रमेणापि । यथोक्तं ' विद्वेषणाच्चाप्युत्थाय ब्राह्मणा भिक्षाचर्यमनुवेद्य व्रजन्तीति ' ॥१०२ ॥
हिन्दी – वेदशास्त्र के वास्तविक अर्थ को जाननेवाला जिस किसी आश्रम में रहता हुआ इसी लोक में ब्राह्मभाव के लिए समर्थ होता है ॥ १०२ ॥
वेदव्यवसायी की श्रेष्ठता-अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १०३ ॥
भाष्य - अज्ञा मूर्खा अनधीयानाः । ग्रन्थिनः विद्वांसो ग्रन्थमात्राभिधायिनः । तेभ्यो धारिण इत्येतद्यत्नेन पठन्तः । पूर्वे तु नातिप्रयत्नतः । ग्रन्थस्येति तत्रापि
पृष्ठ 764
पाठ पढ़ें पाठ छिपाएँ
७२४ सम्बध्यते ' ग्रन्थस्य धारिण ' इति । मनुस्मृतिः श्रेष्ठत्वमेतेषां जपप्रतिग्रहादिष्वधिकारात् । [ द्वादश: ज्ञानिनस्तु सर्वत्राधिकृता इति श्रेष्ठतराः । ज्ञानपूर्वं जपादयोऽनुष्ठीयमानाः फलाति-शयदायिनो भवन्ति । तदुक्तं ' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति ' । व्यवसायिनः अनुष्ठातारो निर्विचिकित्साः येषामेतदन्यथेति न शंक्यते । एतदपि स्तुत्यर्थम् । अध्ययनमात्रेण वेदाः पुरुषार्थाय प्रभवन्ति किंपुनस्तदर्थ-ज्ञानम् ॥१०३ ॥
हिन्दी — अज्ञों ( कुछ अंश पढ़े हुए ) से सम्पूर्ण ग्रन्थ पढ़े हुए लोग श्रेष्ठ हैं, उन ( सम्पूर्ण ग्रन्थ को पढ़े हुए लोगों ) से उस सम्पूर्ण ग्रन्थ को धारण करनेवाले श्रेष्ठ हैं, उन ( सम्पूर्ण ग्रन्थ धारण करनेवालों ) से ज्ञानी ( पढ़े हुए सम्पूर्ण ग्रन्थ के अर्थ को जानने वाले ) श्रेष्ठ हैं और उन ( ज्ञानियों ) से व्यवसायी ( वेद - विहित कर्मों का आचरण करने वाला ) श्रेष्ठ हैं ॥१०३ ॥
तप तथा विद्या से मुक्ति-तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥ १०४ ॥
भाष्य — अनेनैतद्दर्शयति - सत्यामपि विद्यायां नाक्षीणपापस्य मोक्षः, सत्यपि कर्म-क्षये नासत्यामात्मविद्यायाम् ।
अतो यदुक्तं ‘ ते स्वभावेन मुच्यन्त ' इति तदसत् ।
अमृतमपुनरावृत्तिर्येयं केवलानन्दरूपता ॥१०४ ॥
हिन्दी — तप ( ब्रह्मचर्य, गृहस्थादि आश्रमोक्त धर्म ) और विद्या ( आत्मज्ञान ) ये दोनों ब्राह्मण के लिए उत्तम मोक्षसाधन हैं; उनमें वह तप से पाप को नष्ट करता है तथा विद्या से मोक्ष को प्राप्त करता है ॥ १०४ ॥
प्रत्यक्ष, अनुमान तथा शास्त्ररूप प्रमाण का ज्ञान-प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ १०५ ॥
भाष्य — सुहृद्भूत्वोपदिशति लौकिकमर्थम् । धर्मो वेदार्थस्तस्य शुद्धिर्विवरणं पूर्वपक्षनिराकरणेन निश्चितसिद्धान्तव्यवस्थापनम् । एतत्प्रत्यक्षादिप्रमाणनिश्चये सति भवति । सुविदिते हि प्रत्यक्षे ज्वालादिवैषम्येण प्रत्यभि-
पृष्ठ 765
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७२५ ज्ञायते । शब्दनित्यत्वादिसिद्धिः । यस्य तु सम्यक् नास्ति विवेकः तस्योभयोरविशेषेण प्रत्यक्षमध्यवसायः स्यात् । ज्वालादिषु च प्रत्यक्षेण क्षयं दृष्ट्वा शब्देऽपि तथा संभावयेत् तथाऽनित्यशब्दसमुदायात्मको वेदः स्यात् । यस्य तु विहितानि कुशलप्रमाणेषु प्रशब्दोऽ-तद्ग्रहणनिबन्धनो नास्त्यभिज्ञानो मन्यमानो ज्वालाविदुषो भेदग्रहणनिबन्धनमिव सित-विशितं विशेषो न ज्वालाबाधेन शब्दे बाधं सम्भावयति । एवमनुमानमपि सुविवेचितं न भारतादिग्रन्थप्रमाणोपलक्षणत्वाच्च । तेन शौर्या-दिशास्त्रान्ते कर्मण्यतासिद्धिः । येन न विवेचितं ह्यनुमानं च पक्षविपक्षयोर्दर्शनादर्शन-मात्रेणानुमानप्रवृत्तिं मन्वानो वेदेऽपि कर्तारं कल्पयेत् । यदा तु निपुणमतिर्भवति तत्तत्प्रयो-जकस्य स्नातव्यलक्षणया तस्य कर्तृत्वस्वकरणस्याभावादपौरुषेयत्वमध्यवस्यति । शास्त्रं च विविधागमम् । शास्त्रे विविधविधिप्रतिषेधात्तस्य विविधोऽनेकप्रकार आगमो यत्रागम्यते स आगमः । बहुशाखत्वाद्वेदस्य श्रुतिस्मृतिभेदेन च विविधत्व-मुक्तम् । स चायमर्थः स्वाध्यायविध्याक्षिप्तः सुहृद्भावेनोपदिष्टः । न च द्वयमपि प्रशंसेव ॥ १०५ ॥
हिन्दी - धर्म के तत्त्व को जानने के इच्छुक को ( धर्म - साधनभूत द्रव्य - गुण - जातित्व के ज्ञान के लिए ) प्रत्यक्ष तथा अनुमान का और अनेकविधि धर्मस्वरूप के ज्ञान के लिए वेदमूलक विविध स्मृत्यादिरूप शास्त्र का ज्ञान अच्छी तरह करना चाहिए; ये ही तीनों ( प्रत्यक्ष, अनुमान तथा शास्त्र ) मनु - सम्मत प्रमाण हैं । ( उपमान, अर्थापत्ति आदि प्रमाणों का अनुमान में अन्तर्भाव समझना चाहिए ) ॥१०५ ॥
धर्मज्ञ का लक्षण-आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १०६ ॥
भाष्य — ‘ ऋषि’र्वेदस्तत्र भव: आर्षः । धर्मोपदेशो यो वैदिकः । यस्तर्केणानुमानान्तरेण युक्त्या निरूपयति स धर्मं वेदेति पदयोजना । तर्क ऊहापोहान्तर्यसिद्धिः । इदमत्र युक्तमूहितुमिदमपोहितुम् । यदा सौर्ये कर्मणि निर्वापमन्त्रे ‘ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा जुष्टं निर्वपामि ' ( वाजस ० सं ० २।११ ) इति प्रकृतितः प्राप्ते मन्त्रेऽग्निपदस्यार्थासमवायाद-पोहः सूर्यपदस्य च क्षेपः । अयं तर्को न विरुध्यते वेदेन । योऽप्येवं मन्यते “ सौर्ये कर्मण्यग्नेर्देवतायाः अभावादर्थेन च मन्त्राणां प्रयोज्यत्वा-देकदेशोपशमे च मंत्रत्वाभावात् कृत्स्नस्य वै मंत्रस्य लोपः ”, एष वेदार्थविरोधी तर्कः । यदुच्चारणं मंत्राणां प्रयोज्यत्वम्मन्यते अतश्चाविकृत एव मन्त्रः प्रयोक्तव्य " इति
पृष्ठ 766
पाठ पढ़ें पाठ छिपाएँ
७२६ सोऽपि शास्त्रविरोधी तर्कः । मनुस्मृतिः I ' [ द्वादश: न चायं विधिः । अयमर्थवादः । अस्यात्र तात्पर्यं ईदृश्युपेक्षा यदत्रैतच्च मीमांसातो ज्ञायतेऽतो धर्मशुद्ध्यर्थं मीमांसावेदनमेतेन चोदितम् । अन्ये तु व्याचक्षते । तर्केणेति तर्कप्रधाना ग्रंथा लौकिकप्रमाणनिरूपणपरा न्याय-वैशेषिकलोकायतिका उच्यन्ते । तत्र वेदविरुद्धानि बौद्धलोकायतिकनैर्ग्रन्थादीनि पर्युद-स्यन्ते । तानि वेदविरुद्धानि । न तत्र प्रमाणं वेदः । कपिलकणादक्रियामविरथतानिग्रहा-न्तादिषु हि शब्दः प्रमाणम् । तथा चाक्षपादसूत्रं ' प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ’ ( १।१।३ ) । वैशेषिक अपि ' तद्वचनादाम्नायस्य प्रामाण्य ' ( १।१।३ ) मित्याहुः । अत-स्तानि शास्त्राणि श्रोतव्यानीति च । तथा च महाभारते भगवता कृष्णद्वैपायनेन दर्शितम् ' श्रोत्रियस्यैव ते राजन् मंदक-स्याल्पबुद्ध्यः । अनुवाकहता बुद्धिर्नैषा सूक्ष्मार्थदर्शिनी ' । ' अनुवाकहते ' ति तर्ककृताम-प्युपपत्तिमाह केवलत्वादसत्तया । तथेदमपरमुत ' कश्चिन्न लोकायतिकान् ब्राह्मणान्स्मार्त सेवते । अनर्थकुशला ह्येते मूर्खाः पण्डितमानिन ' इति । अनेनासत्तर्कश्रवणं प्रतिषिद्धं पूर्वेण सत्तर्कानुज्ञानं तदेव तदिति । केचित् प्रामाण्यं वेदस्याहुरीश्वरप्रणेतृकतया । न च तस्यास्ति सम्भवः । न च तस्मिन् पक्षे वेदः प्रमाणं तस्य ह्यसावीश्वरः समयोपस्थापकः । एतेषु श्रूयमाणेषु अप्रामाणिको विपरीतोऽभिनिवेशो जायते । अतोऽसत्तर्का एव ते । न च वैदिकस्य वाक्यावबोधे कस्यचिदप्युपयुज्यन्ते । तथा च सांख्यः ‘ स ह्यविशुद्धिः क्षयातिशययुक्त ' ( सां ० का ० २ ) इत्याहुः । अक्षपादैरपि तदप्रामाण्यं मन्यते । तथा च याज्ञिकपूर्वपक्षे ( न्या ० सूत्र ० २।१।५७ ) निर्धारितं यदपि केनचित्पठितम् । कर्ममीमांसावेदान्तभाष्यमेवमविधानं यथाश्रुति विज्ञायते — ‘ देवा अस्माल्लोकादमुं लोकमायंस्तानृषयोऽन्वीयुस्तान्मनुष्या अब्रुवन् कथमथो भविष्यामः एभ्यः सर्वकर्मऋषयः प्रायच्छत् । तस्माद्यत् ब्राह्मणोत्तमास्तर्कयंत्यार्षमेव तद्भवति ' इति श्रुतेः । एषा यथोक्ततर्कपदार्थानुवादिनी ॥ १०६ ॥
हिन्दी — जो मनुष्य ऋषिदृष्ट वेद तथा तन्मूलक स्मृति शास्त्रों को वेदानुकूल तर्क से विचारता है, वही धर्मज्ञ है, दूसरा नहीं ॥१०६ ॥
नैःश्रेयसमिदं कर्म यथोदितमशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यमुपदेक्ष्यते ॥ १०७ ॥
भाष्य- -वक्ष्यमाणार्थादरातिशयोत्पत्त्यर्थः श्लोकोऽयं श्रोत्रियसम्बोधनार्थः । रहस्यं गुह्यम् । अतश्च न सर्वस्य प्रकाशयितव्यम् । यो न शुश्रूषापरो न च परमां
पृष्ठ 767
पाठ पढ़ें पाठ छिपाएँ
• अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ' भक्तिमुपेतो यश्च न स्थिरप्रकृतिर्न तस्मै प्रकाश्यम् ॥ १०७ ॥
७२७ हिन्दी— ( भृगुजी महर्षियों से कहते हैं कि ) मुक्तिसाधक इस ( १२।८३-१०६ ) सम्पूर्ण कर्म को ( मैंने ) यथावत् कहा, अब ( मैं ) इस मानव ( मनु भगवान् के रचे हुए ) शास्त्र के रहस्य ( गोपनीय विषय ) को ( १२।१०८ - ११५ ) कहता हूँ, ( उसे आपलोग सुनें ) ॥ १०७ ॥
अकथित धर्मस्थल में शिष्टवचनानुसार कर्त्तव्य-अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ १०८ ॥
भाष्य – “ ननु चानाम्नातेषु क: संदेहः 1 । नो जाने नेह कथं स्यादिति चेत् यतो नैव तेषां तत् ” । उच्यते । नेहेदृशमनाम्नातमभिप्रेतम् । किं तर्हि? यत्सामान्यत आम्नातं विशेष-ततस्तु न ज्ञायते । " ननु च तत्रापि कः संदेहः । सामान्यस्य विशेषमात्रापेक्षाद्येन केनचित्सिद्धं शास्त्रार्थं, ग्यथा ‘ अद्भिराचमेदिति ’ कूप्यस्यावरनादेयादिभेदेन भिन्नास्वप्सु ताः काश्चिदुपादीयमानाः ग्सम्पादयन्ति शास्त्रार्थम् । " सत्यम् । यत्र प्रतिषेधश्रुतिर्न च वैशेषिकं प्रायश्चित्तमुपदिष्टं यत्रेदमुपदिश्यते । यदा शूद्रोच्छिष्टं किञ्चित्पात्रं तदशुद्धं तत्सम्पर्कादशुचि तस्मिन्नकृते शुद्धे यदि केनचिद्भुक्तं स्स्यात्तदा किं प्रायश्चित्तमिति संदेहः । स हि जिज्ञासा च निश्चयावसानेन च प्रत्यक्षादिषु स्सम्यङ् निधिः स्त्रीशूद्रोच्छिष्टमेवेत्यदत्तं भवितुमर्हति । न च तच्छूद्रस्योच्छिष्टमिति शक्यं व्वक्तुम् । किं तेन तदुच्छिष्टमिति । एवमादौ संदेहे तु शिष्टवचनं प्रमाणीकर्तव्यम् । यथा य्ये शूद्रादयो विप्रांशास्तेषामयं धर्मसंदेहः । शिष्टोपदिष्टमेव युक्तं कर्तुम् । ततश्च न्यूनाधिक-भ्भावेन या कृता कल्पना स एव तत्र धर्मः । तेषामपि तथोपदिशतां न दोषः । यत आह- -स्स धर्मः स्यादशङ्कित इति । अधर्मं ब्रुवतो दोष:, धर्मे तु का विचिकित्सा । तथा ग्गोत्रप्रवरसंदेहे कथं च स्मृतिविच्छेदे ब्राह्मणवचनात् गोत्रप्रवरसिद्धिः । तत्र च प्रवरसंदेहे स्सर्वेषां मानवे संशय इत्युक्तम् । गोत्रसंशये तर्हि भविष्यति । तत्र च गोत्रसंशयाभावे कुत: प्र्प्रवरसंशयः । प्रतिगोत्रं प्रवराणां भेदेन पठितत्वात् । उपपद्यत एवमेतद्गोत्रनामधेयम् । प्र्प्रवराश्च भिन्ना नाना गोत्राणि । तत्र सत्यपि प्रवरनिश्चये गोत्रसन्देह उपपद्यते ॥ १०८ ॥
हिन्दी— ( सामान्य रूप से कथित, किन्तु विशेष रूप से ) अकथित धर्मस्थल में किस प्रकार का आचरण करना चाहिये ऐसा सन्देह होने पर जिस धर्म को शिष्ट ( ( १२।१० ९ ) ब्राह्मण बतलावें, वही धर्म सन्देहरहित है ( अतएव उसी शिष्टोक्त धर्म का आचरण करना चाहिये ) ॥१०८ ॥
मनु II 48
पृष्ठ 768
पाठ पढ़ें पाठ छिपाएँ
७२८ मनुस्मृतिः [ द्वादश: |
शिष्ट के लक्षण-धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥१० ९ ॥
भाष्य — शिष्टलक्षणमनेन कथ्यते । “ ननु चार्थकामेष्वसक्तानामित्यत्रोक्तमेव शिष्टलक्षणम् ' । अन्योऽपि तस्य तत्रार्थ आशंकितोऽतो न तस्य लक्षणपरतैव । यच्च वशिष्ठेनोक्तं ' शिष्टः पुनरकामात्मा ' इति तत्र विद्वत्ताया श्रुतत्वात् । यत्र परिपूर्णत्वादधिगतोऽर्थतश्च विदितः स स परिबृंहणः । तथा च भगवान्व्यासः ‘ इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत् ' इति । स्मृतयोऽप्येवं गृहीतार्था भवन्ति । ब्राह्मणग्रहणमनुवादस्तेषामेव धर्मप्रवचनाधिकारात् । श्रुतिप्रत्यक्षहेतवः । ‘ प्रत्यक्षं हेतवश्च ' प्रत्यक्षहेतवः । हेतुशब्देन प्रत्यक्षादन्य-प्रमाणान्युच्यन्ते । श्रुतिः प्रत्यक्षो हेतुश्च येषां ते श्रुतिप्रत्यक्षहेतवः । एतदुक्तं भवति । यथा प्रत्यक्षं निर्विवादं प्रमाणमेव तादृशीं श्रुतिं मन्यन्ते, यान्यपि हेतूत्थानि प्रमाणानि तेषु विश्वसन्ति; श्रुतिमेव तर्कं मन्यन्ते; हेतुशास्त्रश्रयणेन चेदं न प्रमाणीकुर्वन्ति । अथवा ‘ श्रुतिः ’ प्रत्यक्षश्रुतिः, ' प्रत्यक्ष ' शब्द: श्रौते प्रत्यये प्रत्यक्षतुल्यत्वात्प्रयुक्तः, सा च हेतुर्धर्माधर्मपरिज्ञाने कारणं येषां त एवमुच्यन्ते ॥१० ९ ॥ हिन्दी — धर्म से ( ब्रह्मचर्यादि आश्रम में निवासकर, व्याकरण - मीमांसादि शास्त्रों से ) परिस्फुट वेद को जिन्होंने पढ़ा है, वेद ( के तत्त्व ) को प्रत्यक्ष करनेवाले उन ब्राह्मणों को ' शिष्ट ' जानना चाहिए ॥ १० ९ ॥
परिषद्वर्णन-दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
त्र्यवरा वाऽपि वृत्तस्था तं धर्मं न विचालयेत् ॥ ११० ॥
भाष्य- - दशावरे यस्याः दशावराः । यदि बहवो न संनिधीयन्ते दशावश्यं संनिधातव्याः । तदभावे त्र्यवराः । वृत्तस्था इति । यदुक्तं ‘ अर्थकामेष्वसक्तानाम् ' इति तस्यैवायमनुवादः । न चैषा पुरुषसंख्याऽपि तु गुणसंख्या । तथा च वक्ष्यति ' एकोऽपि वेदवित् ' इति । एकस्य यतो गुणसमूहस्य बाहुल्येनासम्भवात् पुरुषप्रधानतया संख्याया निर्देशः कृतः । तानिदानीं परिषत्त्वहेतुगुणान् दर्शयति ॥११० ॥
हिन्दी - कम से कम दश ( १२।१११ ) सदाचारी ब्राह्मणों की सभा ( कमेटी ) या
पृष्ठ 769
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७२ ९ ( उतना नही मिलने पर ) तीन ( १२।११२ ) ब्राह्मणों की सभा जिस धर्म का निर्णय करे, उस धर्म का उल्लङ्घन नहीं करना चाहिए ॥ ११० ॥
[ पुराणं मानवो धर्मो साङ्गोपाङ्गचिकित्सकः । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ ९ ॥ ]
[ हिन्दी - पुराण, मानव ( मनु भगवान् द्वारा प्रतिपादित ) धर्म, साङ्गोपाङ्ग चिकित्सक और ( सज्जनों की ) आज्ञा से सिद्ध कार्य, इन चारों का हेतु अर्थात् तर्क से नाश ( उल्लङ्घन ) नहीं करना चाहिये ॥९ ॥ ]
दश ब्राह्मणों की सभा—
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ १११ ॥
भाष्य - पुरुषप्रधानेऽपि निर्देशे गुणपरतैव विज्ञेया । यस्त्रैविद्यो वेदत्रयस्याध्येता तदर्थस्य च वेदिता । अनुमानादिकुशलः तर्की अयमू-हापोहबुद्धियुक्तः । “ ननु च नैवंविदो वेदार्थवित्त्वमेव संभवतीत्युक्तम् ” । सत्यम् । परोपदेशादपि कस्यचिद्याचनावती वेदार्थमात्रा सम्भवत्यपि । अतश्च प्रत्ययेन विना वेदार्थग्रहणार्थहेतुकेन भातीत्युक्तम् । एतेन नैरुक्तो व्याख्यातः । धर्मपाठको मन्वादिस्मृतिशास्त्राणामध्येता । त्रयश्चाश्रमिणो ह्येते ह्यनुष्ठानपराः कुशलतरा धर्मेषु भवन्ति । पूर्वे । ब्रह्मचारी गृहस्थो भिक्षुरित्येके । तस्य हि ग्रामप्रवेशो नानिषिद्धो गौतमेन चेयमानुपूर्वी पठिता ' ब्रह्मचारी गृहस्थो भिक्षुर्वैखानस ' इति । अन्ये त्वाहुः - हिंसानुज्ञा नास्तीति ॥ कथमसौ धर्माश्रयेत्, तस्मात्तापससकाशमन्यैः सह गंतव्यम् ॥ १११ ॥
हिन्दी – तीनों वेद की तीनों शाखाओं, श्रुति - स्मृति के अविरुद्ध न्यायशास्त्र, मीमांसाशास्त्र, निरुक्त और मनु आदि महर्षियों द्वारा प्रणीत धर्मशास्त्रों को पढ़े हुए, प्रथम तीन ( ब्रह्मचर्य, गृहस्थ तथा वानप्रस्थ ) आश्रम में रहनेवाले दश ब्राह्मणों की परिषद् ( सभा-कमेटी, धर्म निर्णय करने में समर्थ ) होती है ॥ १११ ॥
तीन ब्राह्मणों की सभा-ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ ११२ ॥
पृष्ठ 770
पाठ पढ़ें पाठ छिपाएँ
७३० मनुस्मृतिः [ द्वादश: भाष्य — निरुक्तव्याकरणमीमांसाभिर्वेदार्थो ज्ञायते । ते च सर्वे साधारणाः । न हि
तत्रैकस्य वेदस्यार्थो ज्ञायते नान्यस्य नित्यमयं प्रकारोऽस्ति ।
अथ ऋग्वेदादीत्यादि कथं भेदोपपत्तिः । तथा तत्र गृह्यसूत्रभेदेन चेदमुक्तम् ॥११२ ॥
हिन्दी — ऋग्वेद, यजुर्वेद तथा सामवेद को पढ़ने और उसके तत्त्व को जानने वाले कम से कम तीन ब्राह्मणों की सभा धर्म - सम्बन्धी सन्देह के निश्चय करने में समर्थ होती है ॥ ११२ ॥
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ ११३ ॥
भाष्य — व्यवस्येन्निश्चित्य कथयेदित्यर्थः ।
नाज्ञानां मूर्खाणां अयुतैरप्युदितः । उदितः प्रागेव व्याख्यातः ॥११३ ॥
हिन्दी – ( अथवा तीन विद्वान् ब्राह्मणों ( १२।११२ ) के नहीं मिलने पर ) वेदतत्त्व-ज्ञाता एक भी ब्राह्मण जिसको धर्म निश्चित करे, उसे ही श्रेष्ठ धर्म समझना चाहिये, दश सहस्र मूर्खों से कहा हुआ धर्म नहीं है ॥११३ ॥
मूर्खपरिषद् को धर्मनिर्णय का निषेध—
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ ११४ ॥
भाष्य – अव्रतानामिति प्रागुक्त एवार्थो व्यतिरेकद्वारेण कथ्यते । व्रतिनो वेदा-ध्यायिनः यं निश्चयं ब्रुवते तत्र न विचिकित्सितव्यं विद्वद्भिरविद्वद्भिर्वा । अत एव न लघुपरिकल्पो गुणतुल्यवद्विकल्प्यते ॥११४ ॥
हिन्दी – ( सावित्री ब्रह्मचर्यादि ) व्रतों से हीन मन्त्र ( वेदाध्ययन से ) रहित और जाति-मात्र से ब्राह्मण कहलाकर जीनेवाले एकत्रित सहस्रों ब्राह्मणों की भी परिषद् ( सभा, धर्मनिर्णायक ) नहीं होती है ॥ ११४ ॥
यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः ।
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ॥ ११५ ॥
भाष्य — वक्तृणामविदुषां दोषकथनम् ॥११५ ॥
हिन्दी – अधिक तमोगुणवाले मूर्ख वेदोक्त धर्मज्ञान से शून्य ( ब्राह्मण नामधारी व्यक्ति ) जिस पुरुष को प्रायश्चित्त आदि धर्म का उपदेश देते हैं, उस पुरुष का वह पाप सौगुना होकर उन धर्मोपदेशकों को लगता है ॥११५ ॥