मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 771–780
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 771–780
पृष्ठ 771
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७३१
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ ११६ ॥
भाष्य – प्रतिज्ञातधर्मोपसंहारः श्लोकोऽयम् । ‘ धर्मान्नो वक्तुमर्हसि ' इति यत्पृष्टं ‘ महर्षीन् श्रूयतामिति ’ तद्वक्तव्यतया प्रतिज्ञातं तत्सर्वं कथितमिति शास्त्रपरिसमाप्तिमाह । “ ननु च परस्तादप्यस्ति शास्त्रं हंतव्यादिशास्त्रं सा च विधितः श्रूयते । तत्र विधि-विषये कश्चिदिति कथमुच्यते शास्त्रमुपसंह्रियत इति । वक्तुर्न करोति प्राय उपसंहारः । ” परस्ताच्च कर्मशेषात्स्वप्रधानाशुद्धैव विद्योपदिश्यत इति न विरोधः । सर्वत्र श्रेयसी शास्त्रार्थधर्मलक्षणा विद्येत्युपसंहृत्याभिधाने प्रयोजनम् ॥ ११६ ॥
हिन्दी – ( भृगुजी महर्षियों से कहते हैं कि मैंने ) आप लोगों से परमकल्याणकारक यह ( १२।१०८-११५ ) धर्म कहा, इस धर्म से भ्रष्ट नहीं होनेवाला अर्थात् सर्वदा इसका पालन करनेवाला विप्र श्रेष्ठ गति को प्राप्त करता है ॥ ११६ ॥
एवं स भगवान्देवो लोकानां हितकाम्यया ।
धर्मस्य परं गुह्यं ममेदं सर्वमुक्तवान् ॥ ११७ ॥
भाष्य – स भगवान् मनुरिदं शास्त्रं सर्वं लोकहिताय प्रोक्तवानिति भृगुः शिष्यानाह । अनेनाधिकाराकांक्षा निवर्तते । गुह्यं यदध्यात्मं तदपि मनुर्मामुपदिश्य प्रकाशयांचक्रे । मयापि यथागमं भवतां प्रकटीकृतमिति न कार्याऽधिकाऽकांक्षा ॥ ११७ ॥
हिन्दी— ( भृगुजी पुन: महर्षियों से कहते हैं कि ) इस प्रकार भगवान् मनु देव ने संसार के हित की कामना से धर्म का सब परम रहस्य मुझ ( भृगु ) से कहा ॥११७ ॥
आत्मज्ञान को पृथक् करके उपदेश—
सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः ।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मतिम् ॥ ११८ ॥
भाष्य — सर्वं जगत्सदसद्रूपमुत्पत्तिविनाशधर्मकम् । अथवा असत् शशविषाणादि-वत् सच्च नित्यमाकाशादिवत् सर्वमात्मनि संपश्येदात्मनि व्यवस्थितमुपासीत । संदर्शनार्थस्य स्पष्टार्थस्य साक्षात्करणपर्यन्तयोपासनया विज्ञायते । न हि सकृद्दर्श-नेन साक्षात्कारः सम्भवति । तथोपदिश्यते रहस्यशास्त्रम् । तत्रात्मध्यानायैतदुक्तं भवति ‘ श्रोतव्यो मंतव्यो निदिध्यासितव्य ' ( बृहदारण्यक, अ ०२ ब्रा ०५ ) इति ध्यानपर्यन्तता सद्दर्शनस्य । आत्मध्यानं यथोपदिष्टज्ञानाभ्यासो विजातीयप्रत्ययानन्तरितमुच्यते । अथवा सामर्थ्यादभ्यासाक्षेपः । यतः संस्कारकर्माणि च संस्कार्ये विशेषाधानेन संपन्नस्वार्थानि
पृष्ठ 772
पाठ पढ़ें पाठ छिपाएँ
७३२ मनुस्मृतिः [ द्वादश: भवन्ति । यथा ‘ व्रीहीनवहन्तीति ' अश्रुतोपन्यासः तुषकणविप्रमोकफलेभ्यस्तत्संदर्शनेन ह्यदृष्टार्थता स्यात् । तथा च कर्मविधित्वात् षष्ठिसंस्कारकर्मताहानिश्च । अतः संपश्येदिति ज्ञेयान्तरविषय - ज्ञाननिराकरणेन तदेकज्ञेयनिष्ठामनुब्रूयात् । अत्रात्मनीति विवदन्ते । कोऽयमात्मा नाम । यदि तावदयं देहाधिकरण: क्षेत्रज्ञः तत उत्तरं विरुध्येत ‘ प्रशासितारं रुक्माभम् ' इति । न हि कर्मत्वशरीरस्य मृत्वोत्पत्तिः श्रूयते — ' एतस्य वाऽक्षरस्य प्रशासने गार्गी द्यावापृथिव्यौ विधृते तिष्ठत ' इति ( बृहदा-रण्यक ३।८।९ ) तस्मान्नाहंप्रत्ययप्रमेये आत्मन्यपि संसारविधिः । अतोऽन्या काचित्तस्य स्वरूपसिद्धिर्वक्तव्या । किंचैवं सति ' पश्येदिति आदिना बाह्यात्मनामप्याधिभूतादि-दैवभावेन व्यवस्थितानामाध्यात्ममुपसंहारः । शिष्यते च श्रौतमतोस्तरागः साधनतया कारणात्मनार्जितस्य सम्बन्धितां प्रतिपद्यते । ननु यः सर्वं जगत्कारणपुरुषावच्छेदमुक्तं सदा प्रत्यात्मनि संपश्येदिति, तत्र कीदृशमात्मनो दर्शनमात्मनीति वक्तव्यम् । अन्ये तु मन्यन्ते शरीरात्मन एवैतत्संनिवेशनं युक्तम् । तस्य हि श्रोतृसंनिवेशेन तद्वत्ता युक्ता । तत्रोच्यते । आत्मशब्दस्तावत्परमात्मविषयतया दर्शितवाक्यान्तरसमन्वयप्रमाणः । यत्तु स्वरूपसिद्धिर्वक्तव्येति तत्र किमन्यच्छक्यं वक्तुमन्यदतः श्रौतत्वज्ञानविधेः । तानि च वाक्यानि प्रतिशाखं सर्वोपनिषद्भ्योऽवगन्तव्यानि । प्रमाणान्तराणामप्ये-कत्वप्रतिपादनपरत्वादेव ग्राहिण: प्रत्यक्षस्य मिश्रः कृत एव क्लेशः । उक्तं च वाक्यपदीये ‘ न तदस्ति च तन्नाम्नि ' इत्यादि । विध्यवगम्यता च शरीरावरकादवसातव्या । यदप्युक्तमसत्कथं दृश्यत इति सच्चासच्चेत्ययमर्थः स्यात् । ' सदिति ' विकारग्रामस्य निर्देशः । ‘ असदिति ' अप्रत्यक्ष व । ' सूक्ष्मतयाऽशक्यावधारणत्वात् यदप्युक्तं नास्ति परमात्मनः श्रोत्रसम्बन्ध इति ॥ किमत्र सम्बन्धि सर्वस्य जगत्-स्थित्युत्पत्तिविनाशानां तत्कारणतयोपपादित्वात् । यश्चायं संनिवेशविधिस्तस्यायमर्थः — यावद्यत्किंचिद्भेदवदवभासते तत्सर्वमद्वैतिकत्वे प्रविलापयेत् । सर्वमात्मस्थमित्येतत्परमात्मनो विरतिसामान्ये हेतुर्विद्यत इति । समाहितः । समाधिर्नाम चित्तवृत्तिनिरोधोपायो योगशास्त्रादागमयितव्य इत्यर्थः । नाधर्मे कुरुते मतिं बुद्धिचेतसोर्निश्चलताभावः । तावदभ्यसेद्यावद्वादिभिश्चेतो नापह्रियेत । अतश्च यावत्कश्चिद्भेदकत्वे प्रतिविलापयेत् ॥ ११८ ॥
हिन्दी — ब्राह्मणसावधान चित्त होकर समस्त सत् तथा असत् को आत्मा में वर्तमान देखे, सब ( सत् तथा असत् ) को आत्मा में वर्तमान देखता ( जानता ) हुआ वह ब्राह्मण अधर्म में मन को नहीं लगाता है ॥ ११८ ॥
पृष्ठ 773
पाठ पढ़ें पाठ छिपाएँ
• अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७३३
आत्मा की प्रशंसा-आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ ११ ९ ॥
भाष्य — सर्वत्र यागादिक्रियाः स्वर्गादयो देवता आत्मत्वेन द्रष्टव्याः । योऽयमग्नि-र्देवता अग्नेरियमन्यात्मैवासौ नान्योऽग्निर्देवताऽस्तीति । तदप्युक्तम् ' एक आत्मा बहुधा श्रूयत ' इति । यत्र युक्त ' एक एवाहमात्मा देववेति । तथा ( ऋ ० वे ० १।१६४।४६ ) ‘ इन्द्रं मित्रं वरुणमग्निमाहुः एकं सद्विप्रा बहुधा वदन्ति बहुरूपपरमात्मनोऽन्यां देवतां पश्यन्ति । सतां परादा’दित्यनेन कर्माङ्गदेवतानामात्मदृष्टिर्विधीयते । “ किं तर्हि, न तस्य देवतादिकृत्यमस्ति ” । आत्मतयैव सर्वसिद्धिः । कथम्? नार्थात्मनि जनयत्येषामिति । कर्मयोगे कर्मफल-सम्बंध: । स आत्मा तेषां निष्पादयति । नान्या देवता न तद्गुणकमिति ॥ ११ ९ ॥ हिन्दी – ( इन्द्र आदि ) सब देवता आत्मा अर्थात् परमात्मा ही है, सब संसार आत्मा में ही अवस्थित है और आत्मा ही इन देहियों ( जीवों ) के कर्मसम्बन्ध को उत्पन्न करता है ॥११९ ॥
वायु, आकाश आदि का लयकथन-खं सन्निवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२० ॥
भाष्य — यान्येतानि नवच्छिद्राणि तेषु बाह्यमाकाशं नियच्छेत् । ‘ बाह्यमाकाशं तदेव तन्न बाह्यं किञ्चिदस्तीति ' । अनिलो वायुः । तं सन्निवेशयेत् । चेष्टते स्पन्दते तत्र काचिच्छरीरावस्था हस्तपादाद्युक्तविहरणलक्षणायाश्चायम् । स्पर्शो बाह्यादिलक्षणः । तत्र वायुं संनिवेशयेत् । पक्तिर्जाठराग्निकृता । दृष्टिश्च । तयोः निवे-शयेत् । तेजः परं कृत्स्नमादित्यात्मनावस्थितम् ।
स्नेहे भेदो मज्जादिरूपे संनिवेशयेदिति वर्तते ।
गां पृथिवीं मूर्तिषु शरीरभागेषु ॥१२० ॥
एवं महाभूतानामुपसंहारः । इदानीं देवतानामाधानमुपसंहरिष्यते । हिन्दी – ( इस समय आगे ( १२।१२१ ) कहे जानेवाले ब्रह्मध्यान के लिए विशेष उपयोगी होने से दैहिक आकाशादि का ब्राह्य आकाशादि में लय होना कहते हैं - ) नासिका उदर आदि सम्बन्धी शारीरिक आकाश में बाह्य आकाश को, चेष्टा तथा
पृष्ठ 774
पाठ पढ़ें पाठ छिपाएँ
७३४ मनुस्मृतिः [ द्वादश: स्पर्शरूप शारीरिक वायु में बाह्य वायु को, उदर सम्बन्धि और नेत्र सम्बन्धी शारीरिक तेज में उत्कृष्ट ( सूर्य - चन्द्र - सम्बन्धी ) बाह्य तेज को, शारीरिक स्नेह ( जल ) में बाह्य जल को, शारीरिक पार्थिव ( पृथ्वी - सम्बन्धी ) भागों में बाह्य पृथ्वी को ॥ १२० ॥
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ १२१ ॥
भाष्य – योऽयमिन्दुश्चन्द्रमास्तं मनसि संनिवेशयेत् । नैष चन्द्रो गगनसंचारी । किं तर्हि? मम ' मनसि ' व्यवस्थितः । याश्च दिशः श्रोत्रेन्द्रियशक्तौ । क्रान्ते विष्णुं यो यत्राल्पमपि क्रामति विष्णुरेव क्रान्तिकर्मणा सन्निविष्टः । एवं बले हरम् । हनुरेतो द्रागप्युत्थानं स चेन्द्रियावकाशः कालाकृतिरिन्द्रिय-कर्मैव तत् । यं एवं वागग्नेरेवायमुत्सर्गो वाय्वाद्यैर्मन्त्रैः पश्येत् । एवमध्यात्ममुपसंहृत्य सर्वं परमात्मनि पश्येत् । एवमात्मको हेतुः परमात्मनि व्यव-स्थितो ‘ नाहं कश्चित्ततो भिन्न इति ' । एवमेषा सर्वोपासना | कर्तव्या ॥ १२१ ॥
हिन्दी— मन में चन्द्रमा को, कानों में दिशाओं को, चरणों में विष्णु को, बल ( सामर्थ्य ) में शिव को, वचन में अग्नि को, गुदा में मित्र को, शिश्न में प्रजापति को लीन ( हुआ समझकर ) एकत्व की भावना करे ॥ १२१ ॥
प्रशासितारं
आत्मा का स्वरूप-सर्वेषामणीयांसमणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२२ ॥
भाष्य — एवमेवाह । प्रशासितारं नियन्तारम् । सर्वेषां ब्राह्मणादिशूद्रपर्यंतानाम् । योऽयमग्न्यादीनामौष्-ण्यादिस्वभावनियमो यच्चादित्यादीनामनिशमन्तःपरमोजः जगत्भ्रमणप्रकाशनादिषु व्या-पारो यश्च कर्मणां फलं प्रतिनियमः स सर्वस्तस्मिन्नियंतरि सति । यदुक्तमे ' तस्यैवाक्षरस्य प्रशासने गार्गी'त्यादिना । तथा ' तत्सूर्यस्तपति च यावद्वर्षति चन्द्रमाः । भयादग्निश्च । वायुश्च मृत्युर्धावति पंचम: ' ( कठोपनिषद् ) इति । अणीयांसमणोरपि इति । यः कश्चिद्दारानिरतिशयवालाग्रशतभागादिस्तत्ते तृती-यांश - परिमाणकत्वमसत्प्रतिपाद्यते । ' अस्थूलमनण्वित्यादि ( बृहदा ० ३।८।८ ) सर्वधर्म-प्रतिषेधात्, हिं तर्हि? कुशाग्रीयाया बुद्धेर्गम्यत्वात् । एतदुक्तं भवति । यो नात्यन्तं
पृष्ठ 775
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता कुशलो न च तदभ्यासे परिष्वक्तः ॥१२२ ॥
७३५ हिन्दी – ( इस प्रकार ( १२।१२० - १२१ ) आत्मा में लीन बाह्य भूतों ( आकाशा-दिकों ) की भावना करके ) सम्पूर्ण चराचर जगत् का शासक, सूक्ष्म से भी अधिक ‘ सूक्ष्मतम ’, ( उपासना ( ध्यान ) के लिए ) सुवर्ण के समान ( देदीप्यमान ), स्वप्नबुद्धि के ( प्रसन्न मन से ) ग्रहण करने योग्य उस श्रेष्ठ पुरुष ( परमात्मा ) का चिन्तन ( ध्यान ) करे ॥१२२ ॥
विमर्श - ब्रह्म - स्तम्बपर्यन्त चेतनाचेतन जाति का, अग्नि आदि के उष्ण होने एवं सूर्य - चन्द्र आदि के नित्य भ्रमण करने का जो नियम है तथा कर्मों का जो फल नियम है, वह सब कुछ परमात्मा के अधीन है । अतएव वह परमात्मा ही चराचर समस्त जगत् का शासक है । यद्यपि वह परमात्मा शब्द, स्पर्श, रूप आदि से रहित है तथापि उपासना के लिए वह तपाये गये शुद्ध सुवर्ण के सदृश देदीप्यमान माना गया है । जिस प्रकार स्वप्न-बुद्धि नेत्रादि बाह्य इन्द्रियों के क्रियाशून्य होने पर केवल मन से उत्पन्न होती है, उसी प्रकार परमात्मबुद्धि भी ' । अतएव व्यास ने परमात्मा को नेत्रादि इन्द्रियों से अग्राह्य तथा सूक्ष्म - दर्शियों द्वारा केवल प्रसन्न मन से ग्राह्य बतलाया है ।
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२३ ॥
हिन्दी - इस ( परम पुरुष परमात्मा ) को कुछ लोग ( याज्ञिक - अध्वर्यु ) अग्नि, कुछ लोक ( सृष्टिकर्त्ता ) प्रजापति मनु, कुछ लोग ( ऐश्वर्यसम्पन्न होने से ) इन्द्र, कुछ लोग प्राण तथा कुछ लोग शाश्वत ( सनातन अर्थात् नित्य ) ब्रह्म कहते हैं ॥१२३ ॥
विमर्श - इस प्रकार परमात्मा की मूर्त तथा अमूर्त ( क्रमशः सगुण तथा निर्गुण ) सर्वविध उपासना वेदों में प्रसिद्ध है ।
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२४ ॥
हिन्दी - यह ( परमात्मा ) सम्पूर्ण प्राणियों में शरीरों को आरम्भ करने वाली पञ्च १. तथा च श्रुतिः -' बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवेति विज्ञेयः स चानन्त्याय कल्पते ॥ ' इति । २. तदुक्तं व्यासेन— ' नैवासौ चक्षुषा ग्राह्यो न च शिष्टैरपीन्द्रियैः । मनसा तु प्रसन्नेन गृह्यते सूक्ष्मदर्शिभिः ॥ ' इति ।
पृष्ठ 776
पाठ पढ़ें पाठ छिपाएँ
७३६ मनुस्मृतिः [ द्वादश: मूर्तियों ( पृथ्वी, जल, तेज, वायु तथा आकाशरूप पञ्चमहाभूतों ) से व्याप्त होकर उत्पत्ति, स्थिति और विनाश ( क्रमश: - जन्म, स्थिति तथा मरण के द्वारा ( निरन्तर परिवर्तनशील रथ के ) पहिए के समान संसारियों को सर्वदा बनाता रहता है ॥ १२४ ॥
परमात्मदर्शन की अवश्यकर्त्तव्यता-एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । फ स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२५ ॥
भाष्य – ब्रह्माभ्येति ब्रह्मभावमापद्यते । मैत्राद्यवभासेन रागद्वेषक्षयमनुवदति । अनेन चाविजातीयप्रत्ययान्तरितात्मैकत्वज्ञानमनुष्ठेयमाह । न हि विजातीयप्रत्ययोत्यत्तौ सर्व-समता भवति । अतश्चैतदुक्तं भवति । अहं ममेति त्यक्ताहंकारममकारस्य तदेकज्ञाननियत-तया निरतिशयपरमानन्दरूपं ब्रह्म प्राप्नोति । अनिष्टनिवृत्तिः शास्त्रप्रदर्शिताभिप्रेतनियम-स्य प्राप्तिश्च फलसिद्धिर्भवति इत्यर्थः ॥ १२५ ॥
हिन्दी – इस प्रकार ( १२।११८-१२४ ) सम्पूर्ण जीवों में स्थित आत्मा ( परमात्मा ) को आत्मा के द्वारा जो देखता है, वह सब में समानता प्राप्त कर ब्रह्मरूप परमपद ( मोक्ष ) को प्राप्त करता है ॥१२५ ॥
[ चतुर्वेदसमं पुण्यमस्य शास्त्रस्य धारणात् । भूयो वाऽप्यतिरिच्येत पापनिर्यातनं महत् ॥ १० ॥ ]
[ हिन्दी - इस ( मानव - मनुप्रतिपादित ) शास्त्र के धारण ( अध्ययन ) करने अर्थात् जानने से चारों वेद ( के अध्ययन ) के समान पुण्य होता है अथवा महान् तथा पापनिवारक यह उससे भी अतिरिक्त ( श्रेष्ठ ) होता है । ( वास्तविक में वेद से अधिक श्रेष्ठ किसी वचन के नहीं होने से प्रशंसार्थ यह वचन कहा गया है ) ॥ १० ॥ ]
इस शास्त्र के पढ़ने का फल-इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः ।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२६ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वादशोऽध्यायः ॥ १२ ॥
इतिः शास्त्रसमाप्तिमाह । पठन् भवत्याचारवान् । अन्यो अध्याहार्य आचारः । यथा पठितशास्त्रात् शास्त्रानुष्ठानम् । एवंविधश्चेद्भवति यथेष्टां देवतादिलक्षणां गतिम् ॥ १२६ ॥
मान्या कापि मनुस्मृतिस्तदुचिता व्याख्या हि मेधातिथेः सा लुप्तैव विधिर्वशात् क्वचिदपि प्राप्यं न यत् पुस्तकम् ।
पृष्ठ 777
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] क्षीणीन्द्रो ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता मदनः र्जीणोद्धारमचीकरत्तत सहारणसुतो देशान्तरादाहृतै-इतस्तत्पुस्तकैर्लेखितैः ॥ इति श्रीभट्टवीरस्वामिसूनुमेधातिथिविरचिते मनुभाष्ये द्वादशोऽध्यायः ॥ ७३७ हिन्दी – भृगुजी के द्वारा कहे गये इस मानव ( मनु द्वारा प्रतिपादित ) शास्त्र को पढ़ता हुआ द्विज ( इसमें विहित कर्मों का आचरण तथा वर्जित कर्मों का त्याग करने से ) सदाचारी होता है और यथेष्ट ( अपनी इच्छा के अनुसार, स्वर्ग तथा मोक्ष आदि ) गति को प्राप्त करता है ॥ १२६ ॥
[ मनुः स्वायंभुवो देवः सर्वशास्त्रार्थपारगः । तस्यास्यनिर्गतं धर्मं विचार्य बहुविस्तरम् ॥ ११ ॥ ]
[ हिन्दी – स्वयम्भू ( ब्रह्मा ) के पुत्र, देव ( प्रकाशशील ) मनु सम्पूर्ण शास्त्रों के तत्त्वों के पारदर्शी हैं, उनके मुख से निकले हुए अर्थात् उनके द्वारा कहे हुए बहुत विस्तृत ( विशद रूप से वर्णित ) धर्म को विचार करके || ११ || ] [ ये पठन्ति द्विजाः केचित्सर्वपापोपशान्तिदम् । ते गच्छन्ति परं स्थानं ब्रह्मणः सद्म शाश्वतम् ॥ १२ ॥ ]
[ हिन्दी - सम्पूर्ण पापों का नाश करनेवाले इस ( धर्मशास्त्र ) को जो कोई द्विज पढ़ते हैं, वे शाश्वत ( नित्य ) ब्रह्मलोकरूप परमपद अर्थात् मोक्ष को जाते हैं ॥ १२ ॥ ]
मानवे धर्मधास्त्रेऽस्मिल्लोकगत्यादिवर्णनम् ।
पितृपादप्रसादेन द्वादशे पूर्णतामगात् ॥१२ ॥
॥ समाप्तैषा मनुसंहिता ॥
O
चतुर्भुजोऽपि द्विभुजत्वमाप्य श्रीरामनाम्ना नरतां गतो यः ।
विजित्य विंशद्भुजमत्र धर्मं संस्थापयामास स शं करोतु ॥
॥ सम्पूर्णम् ॥
॥ शुभं भवतु ॥
पृष्ठ 778
पाठ पढ़ें पाठ छिपाएँ
किसी मन
पृष्ठ 779
पाठ पढ़ें पाठ छिपाएँ
परिशिष्ट, परिशिष्ट
पृष्ठ 780
पाठ पढ़ें पाठ छिपाएँ
III