Part I Atma Vigyanopanishad I - Motilal Shastri — पृष्ठ 11–20

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १ · पृष्ठ 11–20

पृष्ठ 11

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदवाचस्पति पं. मोतीलालजी शास्त्री [ वि. सं. १ ९ ६५ – २०१७ ]

पृष्ठ 12

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

30 स्तुत्यात्मक – स्वरूपवर्णनात्मक मांगलिक ' पितृस्वरूप ' संस्मरण

पृष्ठ 13

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पितृस्वरूपवर्णनात्मिका नैगमिकस्तुतिः

ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।

पूषा नः पातु दुरितास्तावृधो रक्षा माकिर्नो अघशंस ईशत ॥ १ ॥

प्र वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम ।

येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥२ ॥

त्वं सोमप्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् ।

तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥ ३ ॥

अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।

रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्सन ॥ ४ ॥

नकषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।

इन्द्र एषां हिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥५ ॥

अस्माकमत्र पितरो मनुष्या अभि प्रसेदुॠ तमाशुषारणाः ।

अश्मव्रजाः सुदुघा वन े श्रन्तरुदुखा श्राजन्नुषसो हुवानाः ॥ ६ ॥

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुवाणाः ।

शुचीदयन् दीधितिमुक्थशासः क्षामा भिन्दन्तो ग्ररुणीरप व्रन् ॥७ ॥

स्वादुषंसदः पितरो वयोधाः कृच्छ्र े

श्रितः शक्तीवन्तो गभीराः ।

चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥८ ॥

ग्रा नः पवस्वः वसुमद्धिरण्यवदश्ववद् गोमद्यवमत् सुवीर्यम् ।

यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ ९ ॥

अरूरुचदुषसः पृश्निरग्रिय उक्षा बिर्भात भुवनानि वाजयुः ।

मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥ १० ॥

पृष्ठ 14

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्धविज्ञान प्रथम खण्डे नगमिकस्तुति

यमो नो गातु प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।

यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥। ११ ॥

अङ्गिरसो नः पितरो नवग्वा प्रथर्वाणो भृगवः सोम्यासः ।

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ १२ ॥

प्रपेत वीत विच सर्पतातोऽस्मा एतं पितरो लोकमऋन् ।

होभिरद्भिरक्तुभिर्व्यक्त ' यमो ददात्यवसानमस्मै ॥१३ ॥

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोकं निदधन्मो हरिषम् ।

एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥ १४ ॥

महिम्न एषां पितरश्वनेशिरे देवा देवेष्वदधुरपि ऋतुम् ।

समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥ १५ ॥

द्विधा सूनवोऽसुरं स्वविदमास्थापयन्त तृतीयेन कर्म्मणा ।

स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥१६ ॥

य उदाजन् पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे बलम् ।

दीर्घायुत्वमङ्गिरसो वो प्रस्तु प्रतिगृभ्णीत मानवं सुमेधसः ॥१७ ॥

ध्रुवा एव वः पितरो युगे युगे क्षेमकामासः सदसो न युञ्जते ।

अजुर्यासो हरिषाचो हरिद्रव आद्यांरवेण पृथिवीमशुश्रुवुः ॥ १८ ॥

यो यज्ञो विश्वतस्तन्तुभिस्तत् एकशतं देवकर्मेभिरायतः ।

इमे वयन्ति पितरो प्र प्राययुः प्र वयाप वयेत्यासते तते ॥ १ ९ ॥

चाक्लृप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।

पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥ २० ॥

यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्या मय प्रविवेश ।

तस्मै सोमाय हविषा विधेम मृलीके अस्य सुमतौ स्याम ॥२१ ॥

- प्रीयतामनया स्तुत्या पितृदेवता १ – ऋक्सं ० ६।७५ । १० ॥ २ — ऋक्सं ०

४ – ऋ कसं ० १।१०६।३ ॥ ५ ऋक्सं ० ३।३६।४ ॥

४।२।१६ ॥ ८ - ऋक्सं ० ६ । ७५।६ ॥ ६ — ऋक्सं ०

११ – ऋक्सं ० १०।१४ । २ ॥ १२ – ऋक्सं ० १० १४ । ६ ॥

ऋक्सं ० १०।१८ । १३ ॥ १५ – ऋक्सं ० १० । ५६ । ४ ।

१०।६२।२ ॥ १८ – ऋक्सं ० १०।६४।१२ ॥

१०।१३०।६ ॥ २१ – ऋक्सं ० ८।४८।१२ ॥

१।६२।२ ॥ ३ – ऋक्सं ०

६ – ऋक्सं ० ४।१।१३ ॥

६।६६।८ ॥ १० – ऋक्सं ०

१३ — ऋक्सं ० १०।१४।६

१६ – ऋक्सं ० २०५६।६ ॥

१६ - ऋक्सं ० १०।१३०।१ ॥

११६१।१ ॥

७ - ऋक्सं ०

६।८३।३ ॥

॥ १४– १७ - ऋक्स ० २० – ऋक्स ० [ ३ 1

पृष्ठ 15

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्धविज्ञान प्रथम खण्ड आगमस्तुति श्राद्धानुगत- पितृयशोवर्णनात्मिका - आगमस्तुतिः

श्राद्धात् परतरं नान्यत् - श्रेयस्करमुदाहृतम् ।

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्य्याद्विचक्षरणः ॥१ ॥

तस्माच्छादं नरो भक्त्या शाकैरपि यथाविधि ।

कुर्वीत श्रद्धया तस्य कुले कश्विन्न सीदति ॥२ ॥

आचारमाचरेत्तत्र पितृमेधाश्रितं

नरः ।

श्रायुषा - धन - पुत्रैश्च वर्द्धते नैव संशयः ॥३ ॥

आयुः - पुत्रान् - यशः - स्वर्ग कीत्तिं - पुष्टि - बलं श्रियम् ।

पशून् - सौख्यं धनं धान्यं प्राप्नुयात् पितृपूजनात् ॥४ ॥

अरोगः प्रकृतिस्थश्च चिरायु: पुत्र - पौत्रवान् ।

अर्थवानर्थभोगी च श्राद्धकामो भवेदिह ॥५ ॥

परत्र च परां पुष्टि लोकांश्च विपुलान् शुभान् ।

श्राद्धकृत् समवाप्नोति यशश्च विपुलं नरः ॥६ ॥

ब्रह्म - न्द्र - रुद्र- नासत्य- सूर्य्या - ग्नि - वसु - मारुतान् ।

विश्वेदेवान् - ऋषिगणान् वयांसि मनुजान् पशून् ॥७ ॥

सरीसृपान् - पितृगणान् - यश्चान्यद् भूतसंज्ञकम् ।

श्राद्धं श्रद्धान्वितः कुर्वन् तर्पयत्यखिलं जगत् ॥ ८ ॥

धनं- वेदान् भिषक - सिद्धि - कुप्यं गा - अप्यजाविकम् ।

अश्वाना- युश्च विधिवद्यः श्राद्धं सम्प्रयच्छति ॥९ ॥

कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् ।

प्रास्तिकः श्रद्दधानश्च पितृन् श्राद्धेन तर्पिता ॥ १० ॥

प्रायुः प्रजां धनं विद्यां स्वर्ग - मोक्षं सुखानि च ।

प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ ११ ॥

यद्यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।

तत्तत् पितॄणां भवति परत्रानन्तमक्षयम् ॥१२ ॥

[ ४ ]

पृष्ठ 16

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्धविज्ञान प्रथम खण्ड यस्मादत्पत्तिरेतेषां ' ये च यैरुपचर्याः श्रीगमस्तति

सर्वेषामप्यशेषतः ।

नियमस्तान्निबोधत ॥ १ ॥

[ ५ ]

वसुरुद्रादितिसुता पितरः श्राद्धदेवताः ।

प्रीणयन्ति मनुष्याणां पितृन् श्राद्धेन तर्पिताः ॥१३ ॥

कर्म्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः ।

पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः ॥१४ ॥

पिता पितामहश्चैव तथैव प्रपितामहः ।

उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ १५ ॥

सन्तानवर्द्धनं पुत्रमुद्यतं पितृकर्म्मणि ।

देवब्राह्मणसम्पन्नमभिनन्दति पूर्वजाः ॥१६ ॥

तन्वन्ति पितरस्तस्य सुकृष्टैरिव कर्षकाः ।

यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥१७ ॥

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।

पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥ १८ ॥

कन्दमूलफलैर्वापि कर्त्तव्यं पितृतर्पणम् ।

अन्यथा दारुणं शापं दत्त्वा यान्ति बुभुक्षिताः ॥ १ ९ ॥

दिवस्याष्टमे भागे मन्दी भवति भास्करः ।

स कालः कुतपो ज्ञेयः पितृणां दत्तमक्षयम् ॥२० ॥

एवं सन्तर्पिताः कामैस्तर्पकांस्तपयन्ति च ।

ब्रह्म - विष्णु- शिवा - दित्य - मित्रा - वरुण - नामभिः ॥ २१ ॥

- स्मृतयः, पुराणानि च राजर्षिमनुः सम्मतं श्राद्धानुगतपितृस्वरूपोपवर्णनम्

मनोहरण्यगर्भस्य ये मरीच्यादयः सुताः ।

तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥।२ ॥

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।

अन्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥३ ॥

पृष्ठ 17

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्ध विज्ञान प्रथम खण्ड दैत्यदानवयक्षाणां

गन्धर्वोरगरक्षसाम् ।

सुपर्ण किन्नराणाञ्च स्मृता बर्हिषदोऽत्रिजाः ॥४ ॥

सोमपा नाम विप्राणां, क्षत्रिमारणां हविर्भुजः ।

वैश्यानामाज्यपा नाम, शूद्राणां च सुकालिनः ॥५ ॥

सोमपास्तु कवेः पुत्राः, हविष्मन्तोऽङ्गिरसः सुताः ।

पुलस्त्यस्याज्यपाः पुत्राः, वसिष्ठस्य सुकालिनः ॥ ६ ॥

अग्निदग्धानग्निदग्धान् काव्यान् बहिषदस्तथा ।

अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निद्दिशेत् ॥७ ॥

य एते तु गणा मुख्याः पितृणां परिकीत्तिताः ।

तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥८ ॥

राजतैर्भाजनैरेषामथो वा राजतान्वितैः ।

वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥९ ॥

दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।

पित्राद्यन्तं त्वहमानः क्षिप्रं नश्यति सान्वयः ॥१० ॥

अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि ।

विवेक्तषु च तुष्यन्ति दत्तेन पितरः सदा ॥। ११ ॥

यद्यद्ददाति विधिवत् सम्यक श्रद्धासमन्वितः ।

तत्तत् पितृणां भवति परत्रानन्तमक्षयम् ॥१२ ॥।

वसून् वदन्ति तु पितृन्, - रुद्रांश्चैव पितामहान् ।

प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी ॥१३ ॥

देवकार्य्याद् द्विजातीनां पितृकार्य विशिष्यते ।

देवं हि पितृकार्य्यस्य पूर्वमाप्यायनं श्रुतम् ॥१४ ॥

- मनुस्मृतिः [ ६ ]

पृष्ठ 18

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथम खण्ड आर्य्य सर्वस्व - ( पुराण ) - सम्मतं पितृसर्गस्वरूपोपवर्णनम्

पितृणां सम्भवं राजन्! कथ्यमानं निबोध मे ।

पूर्वं प्रजापतिर्ब्रह्मा सिसृक्षुविविधाः प्रजाः ॥१ ॥

एकाग्रमानसः सव्र्वास्तन्मात्रा मनसा बहिः ।

कृत्वा परमेकं ब्रह्म ध्यायन् सर्व्वेषु रूपकैः ॥२ ॥

तस्यात्मनि तदा योगं गतस्य परमेष्ठिनः ॥

तन्मात्रा निर्ययुद्देहाद् धूमवर्णकृतत्विषः ॥ ३ ॥

३ ॥

' पिबाम ' इति भाषन्तः सुरां सोममितोऽसकृत् ॥

ऊर्ध्वं जिगमिषन्तो वै अधः संस्थास्तपस्विनः ॥ ४ ॥

तान् दृष्ट्वा सहसा ब्रह्मा तिर्य्यक् संस्थास्तदोमुखान् ॥

भवन्तः पितरः सन्तु सर्वेषां गृहमेधिनाम् ॥ ५ ॥।

ऊर्ध्ववक्त्रास्तु तत्र ते नान्दीमुखसंज्ञिताः ॥

इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् ॥

दक्षिणायनसंज्ञन्तु पितृ णान्तु पितामहः ॥६ ॥

तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः ॥

वृत्ति नो देहि भगवान्! यथा विन्दामहे सुखम् ॥७ ॥

ब्रह्मोवाच अमावास्यादिनं वो s स्तु तस्यां कुश - तिलो - दकैः ॥ तर्पिता मानुषैस्तृप्ति परां गच्छत नान्यथा ॥८ ॥

तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः ॥ परमं तस्य सन्तुष्टाः परं यच्छत मा चिरम् ॥९ ॥

[ ७ ]

पृष्ठ 19

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्धविज्ञान प्रथम खण्ड प्रवर्त्तन्ते वराः केचिद्देवानां सोमवर्द्धनाः ॥ ते मरीच्यादयः सुताः सप्त स्वर्गे ते पितरः स्मृताः १० ॥ चत्वारो मूर्तिमन्तो वै त्रयस्त्वन्ये मूर्त्तयः ॥ तेषां लोकनिसर्गञ्च विस्तरेण निबोध मे ॥११ ॥

धर्ममूर्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ॥ तेषां नामानि लोकाश्च कीर्त्तयिष्यामि तच्छृणु ॥१२ ॥

लोकाः सन्तानकामाय यत्र तिष्ठन्ति भास्वराः ॥ श्रमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ १३ ॥

विराजस्य प्रजाः श्रेष्ठास्ते ' वैराजा ' इति स्मृताः ॥ देवानां पितरस्ते हि तान् यजन्तीह देवताः ॥१४ ॥

एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् ॥ पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ॥ १५ ॥

ते प्राप्यतां स्मृति भूयः सिद्धियोगमनुत्तमम् ॥ चिन्त्ययोगर्गात शुद्धां पुनरावृत्तिदुर्लभाः ॥ १६ ॥

एतेऽस्मिन् पितरः श्राद्धे योगिनां योगवर्द्धनाः ॥ श्राप्यायितास्तु ते पूर्व्वं येऽपि योगबले रताः ॥१७ ॥

तस्मात् श्राद्धानि देयानि योगिनां योगिसत्तमैः ॥ एष वै प्रथमः सर्गः सोमपानमनुत्तमः ॥१८ ॥

एतेत एकतनवो वर्त्तन्ते द्विजसत्तमाः ॥ भूर्लोकवासिनां याज्या भुवर्लोकनिवासिनः ॥ १ ९ ॥ स्वर्गलोका मरीच्याद्यास्तेषां याज्या महर्गताः ॥ कल्पवासिकसंज्ञानां तेषामपि जने स्थिताः ॥२० ॥

सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः ॥ तेषां सत्यगताः प्रोक्ता इत्येषा पितृसन्ततिः ॥२१ ॥

सप्तधा सप्तलोकेषु आदिमन्वन्तरक्रिया ॥ अन्येषां वसवः साध्या रुद्रादित्याश्विनाविति ॥२२ ॥

पृष्ठ 20

आत्म विज्ञानोपनिषत् - मोतीलाल शास्त्री १, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्राद्धविज्ञान प्रथम खण्ड अग्रतः सर्ववर्णानां साधारण्येन संस्थिताः ॥ ऋषयश्च तदुत्पन्ना इति सप्तविधा गरणाः ॥२३ ॥

तेषां कल्यास्तु संजाता महती पितृसन्ततिः ॥ श्रग्निष्वात्ताश्च मारीचा वैराजा बहिसंज्ञिताः ॥ २४ ॥

सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ॥ तेऽपि याज्या स्त्रिभिर्वर्णैर्न शूद्रेण पृथक् कृतम् ॥२५ ॥

वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्व्वान् पितृन् यजेत् ॥ न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ॥ २६ ॥

मुक्तचेतनका ब्रह्मन्! न दृश्यन्ते पितृष्वपि ॥ विशेषशास्त्रदृष्ट्या तु पुराणानाञ्च दर्शनात् ॥२७ ॥

एवं ऋषिस्तुतैः शास्त्रैर्ज्ञात्वा याजकसम्भवान् ॥ स्वयं सृष्ट्या स्मृतिर्लब्धा पुत्राणां ब्रह्मणा ततः ॥२८ ॥

परं निर्वाणमापन्नास्तेऽपि ज्ञानिन एव च ॥ वैश्यादीनां कश्यपाद्या वर्णानां वसवादयः ॥२९ ॥

प्रविशेषेण विज्ञेया गन्धर्व्वाद्या अपि ध्रुवम् ॥ एष ते पैतृक सर्ग उद्देशेन महामुने! कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ॥ ३० ॥

पितृस्तुति ( प्रीयतामनया पितृस्वरूपवर्णनात्मिकंया पितृस्तुत्या श्राद्धदेवता )

सर्वान्ते च-कामो जज्ञे प्रथमो नैनं देवा श्रायुः पितरो न मर्त्याः ।

ततस्त्वमसि ज्यायान् विश्वहा " महाँ " स्तस्मै ते काम-नम इत् कृणोमि ॥

अथर्व संहिता है ।२।१६ ।

दातारो नोऽभिवर्द्धन्तां वेदा: - सन्ततिरेव च ।

श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्तु ॥

ग्रन्नं च नो बहुभवेदतिथींश्च लभेमहि ।

याचितारश्च नः सन्तु मा च याचिश्म कञ्चन ॥

गोत्रं नोऽभिवर्द्धन्ताम्! [ ± ]