साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 101–110

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 101–110

पृष्ठ 101

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी - व्याख्योपेता ८५ आश्रित हैं, तथा इनके परिणामभूत कललवृद्बुद आदि एवं बाल्य - यौवन - वाद्ध क्य आदि अवस्था - विशेष स्थूलशरीरात्मक कार्य के आश्रित हैं ॥ ४३ ॥

ये आठ भावपदार्थ किस - किस कार्य का संपादन करते हैं इस बात को बतलाते हैं—

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।

ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥

गौ ० — निमित्तनैमित्तिकप्रसंगेनेति ' यदुक्तमत्रोच्यते - धर्मेण गमनंमूर्ध्वम्, र धर्मं निमित्तं कृत्वोर्ध्वमुपनयति ऊर्ध्वमित्यष्टौ स्थानानि गृह्यन्ते तद्यथा - ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धवं याक्षं राक्षसं पैशाचमिति तत् सूक्ष्मं शरीरं गच्छति पशुमृगपक्षिसरीसृपस्थावरान्तेष्वधर्मो निमित्तम् । किं च ज्ञानेन चापवर्गः, अपवर्गश्च पञ्चविंशतितत्त्वज्ञानम्, तेन निमित्तेनापवर्गो मोक्षः ततः सूक्ष्मं शरीरं निवर्तते परमात्मा उच्यते । विपर्ययादिष्यते बन्ध: अज्ञानं निमित्तम्, स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकच बन्ध इति वक्ष्यति पुरस्ताद्, यदिदमुक्तं- ' प्राकृतेन च बन्धनं तथा वैकारिर्केण च । दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते ' ॥ ४४ ॥

१. ४२ कारिकायाम् । २. धर्मेणेति । अभ्युदय हेतुना धर्माख्यभावेनोर्ध्वं स्वर्गलोकादी गमनं भवतीत्यर्थः । एतदेवाह- धर्ममिति । उपनयति प्रापयति सूक्ष्मशरीरमात्मानमिति भावः । अथवा उपयाति इति सरलं पाठान्तरमत्र पुस्तकान्तरे द्रष्टव्यम् । ३. अधस्तादित्यस्यार्थमाह - पशुमृगेति । पातालादौ पश्वादिषु वाऽधर्मेण गतिर्भवतीत्यर्थः । ४. अपवर्गश्चेति । पञ्चविंशतिपदार्थतत्त्वज्ञानेन सत्त्वपुरुषान्यताख्यातिद्वारा मोक्षो भवतीत्यर्थः । ततो मोक्षात् । ज्ञानेनात्मसाक्षात्कारेण मोक्ष इत्यन्ये । ५. अज्ञाननिमित्तोद्भवः स चैष बन्धः प्राकृतादिभेदेन त्रिविध इत्यग्रे वक्ष्यतीत्यर्थः । अत्र प्राचीनानां सम्मतिमाह - प्राकृतेनेति । आत्मबुद्धया प्रकृत्यु-पासननिबन्धनः प्राकृतः, आत्मबुद्धयेन्द्रियोपासननिबन्धनश्च वैकारिकः पुरुषमजा-नतः कामनया इष्टापूर्तकर्मानुष्ठाननिबन्धनस्तु दाक्षिणिक इत्येषां स्वरूपमन्यत्र द्रष्टव्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 102

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ साख्यकारिका अन्वयः - धर्मेण, ऊर्ध्वं गमनम्, भवति, अधर्मेण, अधस्तात्, गमनम् ( भवति ), ज्ञानेन, च, अपवर्ग:, ( भवति ) विपर्ययात्, बन्धः, इष्यते ॥ ४४ ॥

व्याख्या - धर्मेण । ऊर्ध्वम् = उपरि विद्यमानेषु स्वर्गादिलोकेषु । गमनम् । भवति । अधर्मेण । अधस्तात् = अधोविद्यमानेषु पातालादिलोकेषु । गममम् । ( भवति ) । ज्ञानेन = पञ्चविंशतितत्त्वज्ञानेन । च । अपवर्गः == मोक्षः । ( भवति ) । विपर्ययात् = अज्ञानात् । बन्ध: = - सांसारिक विषयवासनाजन्यबन्धनम् । इष्यते = जीवस्येति शेषः ॥ ४४ ॥

हिन्दी - धर्मरूप भावपदार्थ से जीव का ऊपर के स्वर्ग आदि लोकों में गमन होता है । और अधर्म करने से यह जीव नीचे के लोकों में भ्रमण करता रहता है । ज्ञान से मोक्ष अर्थात् सांसारिक बन्धन से छुटकारा प्राप्त होता है, और ज्ञान के विपर्ययभूत अज्ञान से सांसारिक बन्धन की प्राप्ति जीव को होती रहती है ॥ ४४ ॥

वैराग्यात् प्रकृतिलयः संसारों भवति राजसाद्रागात् ।

ऐश्वर्याद विधातो विपर्ययात् तद्विपर्यासः ॥४५ ॥

गौ ० - तथाऽन्यदपि निमित्तम् - यथा कस्यचिद्वैराग्यमस्ति न तत्त्वः ज्ञानं तस्मादज्ञानपूर्वाद्वैराग्यात् प्रकृतिलयो मृतोऽष्टासु प्रकृतिषु प्रधानबुद्धध • हङ्कारतन्मात्रेषु लीयते न मोक्ष: २ ततो भूयोऽपि संसरति 2 । तथाऽयं राजसो रागः - यजामि दक्षिण ददामि येनामुष्मिन् लोकेऽत्र यद्दिव्यं मानुषं सुख-मनुभवाम्येतस्माद्राजसाद्रागात् संसारो भवति । यथा ऐश्वर्यादविघातः, एतदैश्वर्यमष्टगुणम् अणिमादियुक्तं ४ तस्मादैश्श्वर्यनिमित्तादविघातो नैमित्तिको १. निमित्तनैमित्तिकेत्यत्रान्यदपि धर्मादिवत्तदुभयं प्रदर्शयन्नाह —- तथेति । २. तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति श्रुत्वा पुरुषज्ञस्यैव मोक्षवर्णनादन्यस्य तदभावकथनाज्ज्ञानरहितस्य विरक्तंस्यापि न मोक्ष इत्याशयः । ३. दृष्टानुश्रविकविषयेष्वलं बुद्धिरूपाद्वैराग्यान्महदादिप्रकृतिपदवाच्येष्वात्म-बुद्ध्योपास्यमानेषु लयो भवति ततश्च कालान्तरेण पुनः संसरति सूक्ष्मशरीर-मित्यर्थः । ४. अणिमा- महिमा - लघिमा गरिमा प्राप्ति - प्राकाम्य - ईशित्व - वशित्वात्म- फमष्ट विधमैश्वर्यमित्यर्थः, अस्य निमित्तस्य नैमित्तिकमाह- ' CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 तुस्मादिति USA

पृष्ठ 103

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपेता ८७ भवति ब्रह्मादिषु स्थानेष्वैश्वर्यं न विहन्यते । किञ्चान्यत् विपर्ययात् तद्विप-र्यासः, तस्याविघातस्य विपर्यासो विघातो भवति, अनैश्वर्यात् सर्वत्र विहन्यते । अन्वयः -- वैराग्यात्, प्रकृतिलयः भवति, राजसात्, रागात्, संसारः, ( भवति ), ऐश्वर्यात्, अविवात:, ( भवति ), विपर्ययात् तद्विपर्यासः ( भवति ) । व्याख्या - वैराग्यात्: = = सांसारिकविषयेषु अनासक्तेः । प्रकृतिलयः = प्रकृति-महत्तत्त्व अहङ्कारादिषु, लयः = सूक्ष्मशरीरेण सह प्रवेशः । अर्थात् किञ्चित्काल-पर्यन्तं प्रकृति महत्तत्त्व- अहङ्कारादिषु प्रवेशं कृत्वा विश्रामञ्च लब्ध्वा पुनः स जननमरणादिरूपव्यवस्थया सम्पन्नो भवति न तु वास्तविकं मोक्षं प्राप्नोति इति भावः । राजसात् = रजोगुणकार्यात्. रागात् = अवैराग्यात्, अर्थाद सांसारिक-विषयेषु प्रेमवशात् । ( तस्य पुरुषस्य ) संसारः = बारम्बारं जननमरणादिरूपः संसारः । ( भवति ) ऐश्वर्यात् = अणिमा - गरिमा - आदि - अष्टविध सिद्धिसामर्थ्यात् । अविघातः = इच्छाया गतेश्च प्रतिबन्धाभावः । स्वेच्छया सर्वत्र गमनम् अर्थात् अणिमाद्रि - अष्टविध सिद्धि सम्पन्नस्य पुरुषस्य सर्वत्रयोनी सर्वेषु च लोकेषु यमनं भवितुमर्हतीत्यर्थः । विपर्ययात् = ऐश्वर्यविपर्ययात् अनैश्वर्यात् । तद्विपर्यासः -तस्य = स्वेच्छया सर्वत्र गमनस्य, विपर्यासः = वैपरीत्यम् । अर्थात् स्वातन्त्र्यस्य सर्वथा व्याघातो भवतीत्यर्थः ॥ ४५ ॥

हिन्दी --अवशिष्ट चार भावपदार्थों में से वैराग्यसंज्ञक भावपदार्थ से प्रकृति में लय होता है, अर्थात् जो केवल वैराग्यसंपन्न पुरुष है और तत्त्व ज्ञान से विहीन है वह प्रकृति महत्तत्त्व अहङ्कार- पञ्चतन्मात्राओं में प्रवेश कर कुल काल तक के लिये वहीं विश्राम कर फिर वह जनन - मरण - जननीजठरशयन आदि के जाल में फँस जाता है जिससे कि वह वास्तविक मोक्ष को प्राप्त नहीं कर पाता है । और रजोगुण के कार्यभूत सांसारिक प्रेमस्वरूप अवैराग्य से तो उसे हमेशा ही संसार में बना रहता है अर्थात् कभी भी वह विश्व के प्रपंच से छुटकारा प्राप्त कर विश्राम ही नहीं प्राप्त कर पाता है । ' ऐश्वर्य संज्ञक सप्तम भाव पदार्थ से इच्छा का और गमनागमन का कभी भी विघात नहीं हो पाता है । अर्थात् अणिमा आदि अष्टविधसिद्धिरूप ऐश्वर्य से संपन्न पुरुष अपनी इच्छा से स्वतन्त्र होकर सर्वत्र विचरण कर सकता है । उसे किसी भी योनि अथवा लोक में जाने की रुकावट नहीं होती है । और ऐश्वर्य के विपर्ययस्वरूप अनश्वर्य से पहिले के विपरीत ही होता है अर्थात् सर्वत्र रुकावटें ही आती रहती हैं! अर्थात् पद - पद पर इच्छा का विघात एवं विघ्न - बाधाएं ही उपस्थित होती रहती हैं ॥ ४५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 104

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ साख्यकारिका प्रकृति के कार्यबुद्धि की सृष्टि का निरूपण करते हैं—

एष प्रत्ययस विपर्ययाशक्तितुष्टि सिद्धयाख्यः ।

गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत् ॥। ४६ ॥

गौ०- ० - एवं निमित्तैः सह नैमित्तिकः षोडशविधो व्याख्यातः, स किमात्मक इत्याह - यथा एष षोडशविधो निमित्तनैमित्तिकभेदो ' व्याख्यात एष प्रत्ययसगं उच्यते । प्रत्ययो र बुद्धिरित्युक्ता - अध्यवसायो बुद्धिर्धमों ज्ञानमित्यादि च प्रत्ययसर्गश्चतुर्धा भिद्यते - विपर्ययाशक्तितुष्टिसिद्धयाख्य-भेदात् । तत्र संशयोऽज्ञानं विपर्यय: 3 । यथा कस्यचित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः । ४ अशक्तिर्यथा तमेव स्थाणुं सम्यग् दृष्ट्वा संशयं छेत्तुं न शक्नोतीत्यशक्तिः । एवं तृतीयस्तुष्ट्याख्यो यथा तमेव " स्थाणुं ज्ञातुं संशयितुं वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिद्धयाख्यो यथा आनन्दितेन्द्रियः स्थाणुमारूढां वल्लि पश्यति शकुनि वा तस्य सिद्धिर्भवति स्थाणुरयमिति । एवमस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत् योऽयं सत्त्वरजस्तमोगुणानां वैषम्यं विमर्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति ॥ ४६ ॥

१. बुद्धिधर्माधर्मादीनष्टौ भावान् समासव्यासाभ्यां मुमुक्षूणां हेयोपादेयान् दर्शयितुं प्रथमं तावत्समासाहेति मिश्राः । २. प्रत्ययशब्दार्थमाह — प्रत्यय इति । प्रतीयन्ते विषया अनेनेति व्युत्पत्त्या प्रत्ययपदवाच्या बुद्धिरित्युक्ता, कुत्रेत्यत आह - अध्यवसाय इति । स चोक्तो धर्मादिषोडशगणो बुद्धिसर्गो विपर्ययाशक्तितुष्टि सिद्धिभेदात्संक्षेपतश्चतुर्धेति भावः । एष गणो वुद्धिजन्यो वुद्धितत्त्वे प्रविष्टो न तत्त्वान्तरम्, कार्यकारणाभेदात्तस्य च पञ्चाशद्भेदा वक्ष्यन्त इति नारायणी । ३. ‘ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ' इति योगसूत्रोक्तस्यातद्रूपप्रति-ष्ठत्वस्य संशयेऽपि सत्त्वादत स्मिस्तज्ज्ञानवत्संशयोऽपि विपर्यय इत्यर्थः । तत्र मिथ्याज्ञानस्य शुक्तिरूप्यादेः प्रसिद्धत्वात्संशयोदाहरणमाह - यथेति । ४. इन्द्रियवैकल्येनेति शेषः, तथा च करणवैकल्यहेतुको बुद्धिधर्म एवाशक्ति-रिति भावः । ५. आध्यात्मिक्यश्चतस्र इति वक्ष्यमाणतुष्टिसिद्धिभेदानां सामान्यतो लौकिको-बाह्रणान्याह यथा तमेवेति । ६. सत्त्वरजस्तमसां न्यूनाधिकभावरूपं यद्वैषम्यं स एव विमर्दस्तेन बुद्धिसर्गस्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 105

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपेता ८ ९. अन्वयः - एषः, प्रत्ययसर्गः, ( संक्षेपात् ) विपर्ययाशक्तितुष्टिसिद्धयाख्यः, ( चतुर्धा भवति ) च, तस्य, गुणवैषम्यविमर्यात्, पञ्चाशत्, भेदा:, ( भवन्ति ) । व्याख्या - एषः = पूर्वोक्तः धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्य-रूपोऽष्टविधो भावाख्यः । प्रत्ययसर्गः - प्रतीयन्ते = ज्ञायन्तेऽर्था अनेनेति प्रत्ययो बुद्धिः तस्य सर्गः = बुद्धिसृष्टिरित्यर्थः । संक्षेपात् विपर्ययाशक्तितुष्टिसिद्धयाख्यः - विपर्ययः = अज्ञानम् - मिथ्याज्ञानादिकमित्यर्थः । अशक्तिः = इन्द्रियादीनां वैकल्यम्, यथा - चक्षुषोऽन्धत्वम्, श्रोत्रस्य बाधिर्य्यम्, घ्राणस्य अजिघ्रत्वम् ( सूंघने की शक्ति का अभाव, ) त्वचः कुष्ठित्वम् ( स्पर्शन शक्ति शून्य हो जाना ), रसनस्य जडत्वम्, ( रसज्ञानशून्यत्वम् ) तुष्टिः = सांसारिकप्रसन्नता, सा च मोक्षविरोधिनी । सिद्धिः = ज्ञानसंपादिका । एतदाख्यप्रत्ययसर्गः चतुर्धा भवति ) ननु विपर्यया-शक्तितुष्टिसिद्धयाख्यस्य चतुर्विधसर्गस्य पञ्चाशद्भेदाः कथं जायन्ते इत्यत आह-गुणवैषम्यविमत्सत्त्व - रजस्तमोरूपगुणानां यद् वैषम्यं = न्यूनाधिकभावः, तज्जन्यो यो विमर्द्दः स्वस्वकार्यजननासामर्थ्यम्, तस्मादित्यर्थः । पञ्चाशत् । भेदः

= प्रकाराः । भवन्तीति शेषः ॥ ४६ ॥

हिन्दी- - यह बुद्धि की सृष्टि यद्यपि संक्षेप से चार प्रकार की है तथापि इस सृष्टि के गुणों के न्यूनाधिक होने के कारण परस्पर के इनके विमर्दन से पचास भेद हो जाते हैं । और पूर्वोक्त आठ भाव पदार्थों का भी इन्हीं में अर्थात् विपर्यय-अशक्ति - तुष्टि सिद्धि इन्हीं चारों में अन्तर्भाव भी हो जाता है । जैसे अज्ञान का विपर्यय में, ज्ञान का सिद्धि में और धर्म - वैराग्य - ऐश्वर्य का तुष्टि में तथा अधर्म-अवैराग्य- अनैश्वर्य का अशक्ति में अन्तर्भाव है ॥ ४६ ॥

अब बुद्धि सृष्टि के पचास भेद बतलाते हैं—

पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।

अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥४७ ॥

गौ ० — तथा ' क्वापि सत्त्वमुत्कटं भवति रजस्तमसी उदासीने, क्वापि पञ्चाशद्भेदा भवन्तीत्यर्थः । गुणानां वैषम्यमेकैकस्याधिकबलता द्वयोर्द्वयोर्वा एकैकस्य न्यूनबलता द्वयोर्द्वयोर्वा, ते च न्यूनाधिक्ये मन्दमध्याधिमात्रतया यथाकार्यमुन्नीयेते तदिदं गुणानां वैषम्यम्, तेनोपमर्दः एकैकस्य न्यूनबलस्य द्वयोर्द्वयोर्वाऽभिभवः, तस्मात्तस्य भेदाः पञ्चाशदिति मिश्राः । १. तमोमोहादिपञ्चविधविपर्ययादिभेदे पूर्वोक्तमेव गुणवैषम्य विमर्द.पं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 106

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ० सांख्यकारिका रजः क्वापि तम इति भेदाः कथ्यन्ते - पञ्च विपर्ययभेदास्ते यथा— तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति एषां भेदानां नानात्वं वक्ष्यते. ऽनन्तरमेवेति । अशक्तेस्त्वष्टाविंशतिभेदा भवन्ति करणवैकल्यात् तानपि वक्ष्यामः २ तथा तुष्टिर्नवधा - ऊर्ध्वस्रोतसि राजसानि ज्ञानानि । तथाऽष्टविधा सिद्धिः, सात्त्विकानि ज्ञानानि तत्रैवोर्ध्वस्रोतसि ॥ ४७ ॥

अन्वयः - विपर्ययभेदाः, पञ्च भवन्ति, करणवैकल्यात्, अशक्तिश्च, अष्टा-विशतिभेदा, ( भवति ) तुष्टिः, नवधा, सिद्धिश्व, अष्टधा ( भवति ) । व्याख्या — विपर्ययभेदा: - विपर्ययस्य = मिथ्याज्ञानस्य, भेदाः = प्रकाराः । पञ्च । भवन्ति । यथा तमो मोह - महामोह - तामिस्र - अन्धतामिस्राव | योग-दर्शनेऽपि एतान् " अविद्याऽस्मितारागद्वेषाऽभिनिवेशा: ' इति रूपेण वर्णितवन्तः । करणवैकल्यात् —करणानाम् = पूर्वोक्त- एकादशेन्द्रियाणाम्, वैकल्यात् = अन्ध-त्व - बधिरत्वादिदोषात् । अशक्तिश्च अशक्तिपदार्थश्च । अष्टाविंशतिभेदा । ( भवति ) ( ये च भेदा ४ ९ कारिकायां वक्ष्यमाणाः सन्ति ) तुष्टि: = सुष्टिपदार्थश्च । नवधा = वक्ष्यमाणनवप्रकारा । सिद्धिः = सिद्धिपदार्थः । अष्टधा = वक्ष्यमाण- अष्ट प्रकारा ( भवति ) तथा च विपर्ययस्य ५, अशक्तेः २८, तुष्टेः ६, सिद्धेः ८, भेदाः सन्ति । मिलित्वा च ५० भेदाः जायन्ते इति भावः । हिन्दी - विपर्यय के. ५ भेद हैं, एकादश इन्द्रिरूपकरणों के वैकल्य ( अन्धत्व-बधिरत्व आदि ) दोषों के कारण अशक्ति के २८ भेद हैं जिन्हें हम ४६ वीं हेतुमुपलक्षयन्नाह – तथेति । कथ्यन्त इति । गुणवैषम्य हेतुकाः पञ्चाशत्संख्याका भेदा अवान्तरविभागेन गण्यन्त इत्यर्थः । १. एषामेव समानतन्त्रे योगदर्शने ' अविद्यास्मितारागद्वेषाभिनिवेशा ' इति पञ्चविधविपर्ययसंज्ञा । तत्र अनित्याशुचि - दुःखानात्मसु नित्यशुचिसुखात्मख्याति-रविद्या तमः । पुरुषबुद्धयोरेकात्मतेवास्मितामोहः । सुखतृष्णा रागः ' महा-मोहः ' । दुःखजिघांसा द्वेषो ' तामिस्र: ' । सर्वस्य प्राणिनः स्वाभाविको मरण-श्रासोऽभिनिवेशोऽ'न्धतामिस्र ' इति मिश्राः । वक्ष्यते ' भेदस्तमस ' इत्यग्रिम-कारिकायाम् । २. एकादशानामिन्द्रियाह्वकरणानां वैकल्यात् कुण्ठितत्वात् स्वस्वविषय-ग्रहणसामर्थ्यात एकादश, बुद्धिगतानां नवतुष्टीनां विपर्यया नव, अष्टसिद्धीनां च अष्टाविति मिलित्वाऽष्टाविंशतिभेदाऽशक्तिरिति' एकादशेन्द्रियवधा ' इत्यत्र वक्ष्याम इति भावः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 107

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपता ९ १ कारिका में कहेंगे । और तुष्टि के ९, तथा सिद्धि के आठ भेद हैं जो कि. वक्ष्यमाण हैं ॥ ४७ ॥

विपर्यय के जो तम - मोह - महामोह इत्यादिरूप से ५ भेद बतलाये के अब

उनके अवान्तर भेद बतलाते हैं-भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।

तामिसोऽष्टादशधा तथा भवत्यन्धतामिसः ॥४८ ॥

गौ ० - एतत् ' क्रमेणैव वक्ष्यते, तत्र विपर्ययभेदा उच्यते - तमसस्त-दष्टधा भेद: प्रलयोऽज्ञानाद्विभज्यते - सोऽष्टासु प्रकृतिषु लीयन्ते प्रधान-बुद्ध्यहङ्कारपञ्चतन्मात्राख्यासु तत्र लीनमात्मानं मन्यते मुक्तोऽहमिति तमोभेदः एषः । अष्टविधस्य मोहस्य भेदोऽष्टविध एवेत्यर्थः, यत्राष्टगुणमणिमाद्यैश्वयं तत्र सङ्गादिन्द्रादयो देवा न मोक्षं प्राप्नुवन्ति, पुनश्च तत्क्षये संसरन्त्येषोऽष्टविधो मोह इति । दशविधो महामोहः, शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्च विषया: सुखलक्षणाः, मानुषाणामप्येत एव शब्दादयः पञ्च विषयाः, एवमेतेषु दशसु महामोह इति । तामिस्रोऽष्टादशधा - अष्टविधमैश्वर्य " दृष्टानुश्रविका विषया दश, एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदन्ते एषोऽष्टादशविधो विकल्पस्तामिस्र: । यथा तामिस्रोऽष्टगुणमैश्वर्यं दृष्टानुश्रिविका दश विषयास्त-थान्धतामिस्रोऽप्यष्टादशभेद एव, किन्तु विषयसम्पत्तौ सम्भोगकाले य एव म्रियते-१. उद्दिष्टं बुद्धिभेदानां पञ्चाशत्संख्यावत्वम् । २. तमःशब्दार्थमाह— ह - प्रलय इति । विभज्यते - अज्ञानम्, प्रलयशब्दार्थो विविच्यते । स इति । प्रकृत्यांद्यष्टसु लयमात्रेणात्मानं येन मुक्तं जानामि स एषोऽज्ञानमूलकः प्रलयोऽष्टविधविषयत्वादष्टविधो तमोभेद इति भावः । ३. अष्टविधविषयस्य । कथमष्टविधत्वन्तदाह — यत्रेति । ४. दिव्यादिव्यतया दशविधरञ्जनीयशब्दादि विषयकत्वेन दशविधो महामोह ' इत्यर्थः । ५. तामित्रस्याष्टादशत्वं कथन्तत्राहाष्टविधमिति । स्वरूपत उपायतया चानभिभूताः शब्दादयोऽणिमादयश्चाष्टादशरागजनकाः, देवैरुपहन्यमानाश्च द्वेषविषया भवन्तीत्यष्टादश विषयत्वात्ता मिस्रोऽष्टादशविध इत्यर्थः । विषया इति । इत्यष्टादश विषयस्ता मिस्रस्तथाऽन्धतामिस्रोऽपि मरणदैवतोपघातादिभय-एवेत्यर्थः । इममेव विशेषमाह - किन्त्वित्यादिना । जनितदुःखात्मकोऽष्टादशविध CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 108

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ २ सांख्यकारिका ऽष्टगुणैश्वर्याद्वा भ्रश्यते ततस्तस्य महद्दुःखमुत्पद्यते सोऽन्धतामिस्र इति । एवं विपर्ययभेदास्तमःप्रभृतयः पञ्च प्रत्येकं भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति ॥ व्याख्या — तमसः — अविद्याया: । अयं भावः - प्रकृति - महत्तत्त्व - अहङ्कार-पञ्च - तन्मात्रेषु अनात्मसु आत्मबुद्धिरेव अविद्या सैव तमः शब्देन कथ्यते, सा चाविद्या अष्टविधा, तथाहि - आत्मा प्रकृत्याऽभिन्नः, आत्मा महत्तत्त्वाभिन्नः, आत्मा अहंकाराभिन्नः, आत्मा शब्दतन्मात्राभिन्नः, आत्मा स्पर्शतन्मात्राभिन्नः, आत्मा रूपतन्मात्राभिन्नः, आत्मा रसतन्मात्राभिन्नः, आत्मा गन्धतन्मात्राभिन्नः । तादृशात्मबुद्धेः प्रकृत्यादिगन्धतन्मात्रपर्यन्त अष्टविधपदार्थविषयत्वात्तमोऽष्ट-विधम् | ( मोहस्य च = अस्मितायाश्च अष्टविधो भेदः । अयं भावः --- तपोवलेन देवादीनामष्टविध - ऐश्वर्यशालित्वात् मोहस्वरूपाया अस्मिताया अष्टौ भेदा भवन्ति, तथाहि - अणिमात्मक - ऐश्वर्यवानहम्, गरिमात्मक - ऐश्वर्यवानहम्, लघिमात्मक - ऐश्वर्यवानम्, महिमात्मक - ऐश्वर्यवानहम्, प्राप्तिरूप - ऐश्वर्यवानहम्, प्राकाम्यरूप - ऐश्वर्यवानहम्, वशित्वरूप - ऐश्वर्यवानहम्, ईशित्वरूप - ऐश्वर्यवानहम् । महामोहः: = रागः । दशविधः । अयमाशयः - शब्दादयः पञ्च ये च पञ्च-तन्मात्राशब्देनोच्यन्ते ते दिव्यादिव्यभेदेन दशविधा जायन्ते, तत्र ये शब्दादयो देवानां सुखजनकरागभूताः सन्ति ते दिव्याः, ये चाऽस्माकं सुखजनकरागभूता-स्तेऽदिव्याः सन्ति । तामिस्रः = द्वेषः । अष्टादशधाः । अयमाशयः - शब्दादयः पञ्च दिव्या: -पञ्च अदिव्याः पूर्वोक्ता वेदितव्याः, एवं च मिलित्वा दशविधा भवन्ति । एवं तादृशशब्दादिसाधनभूतम् अणिमादिरूपमैश्वर्यमपि अष्टविधं पूर्वोक्तं वेदितव्यम् । अन्धतामिस्रः = अभिनिवेश: । ( अपि ) तथा = अष्टादशधा । भवति । अयमाशयः — सत्त्वगुणबहुला हि देवादिप्रभृतयः प्राणिनोऽणिमादिकमष्टविधमैश्वर्यं प्राप्य शब्दादिदशविधविषयान् भुञ्जते । एवञ्च मिलित्वा विपर्ययस्य द्विषष्टि भेदाः जायन्ते । यथा तमसो मोहस्य च प्रत्येकस्य अष्टौ भेदा वर्त्तन्ते, महामोहस्य दशभेदाः, तामिस्रस्य अष्टादशभेदाः, अष्टादश एव भेदाः सन्ति अन्धतामिस्रस्य । हिन्दी —– अनात्मभूतपदार्थों में आत्मबुद्धि करना ही तम ( अविद्या ) कहलाता है । जैसे – आत्मा की प्रकृति से महत्तत्त्व से, अहंकार से, शब्द-तन्मात्रा से, स्पर्श तन्मात्रा से, रूपतन्मात्रा से, रसतन्मात्रा से तथा गन्धतन्मात्रा से अभिन्न समझना ही तम है । इस प्रकार वह तम प्रकृतितत्त्व से लेकर गन्ध-तन्मात्रापर्यन्त आठ पदार्थों को विषय करने के नाते आठ प्रकार का हो जाता है । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 109

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपता ९ ३ मोह - इसी प्रकार मोह भी आठ प्रकार का है । देवता लोग अणिमा-गरिमा लघिमा - महिमा - प्राप्ति प्राकाम्य वशित्व ईशित्व रूप आठ प्रकार के ऐश्वर्य को प्राप्त करके " हम सिद्ध है " " हम अजर - अमर हैं " इस प्रकार के अभिमान-जन्य मोह के वशीभूत होकर उन सिद्धियों को स्थायी समझ लेते हैं । इस दृष्टि से वह मोह भी अणिमा से लेकर ईशित्वपर्यन्त अष्टविध सिद्धियों को विषय करने के नाते आठ प्रकार का हो जाता है । महामोह - इसे राग, प्रेम आदि शब्दों से भी कहते हैं, यह दस प्रकार का है । शब्द प्रभृति पञ्चतन्मात्राएँ दिव्य और अदिव्य भेद से दशविध हैं । देवता लोग स्वर्ग में जिन शब्दादिकों का व्यवहार करते हैं वे दिव्य हैं और हमलोग जिनका व्यवहार करते हैं वे अदिव्य है सो उन शब्दादि पंचतन्मात्राओं में से जो शब्दादि देवताओं के लिये सुख के कारणीभूत रागस्वरूप हैं वे दिव्य हैं, और जो हमारे सुख के कारण हैं वे अदिव्य हैं । तामिस्र - इसे द्वेष भी कहते हैं, यह १८ प्रकार का होता है । दिव्यादिव्य भेद से दशविध शब्दादि पाँच तन्मात्राएँ तथा इनका साधनीभूत अणिमादि . रूप अष्टविध ऐश्वर्य इन दोनों को मिलाकर १८ भेद होते हैं । अन्धतामिस्र - इसे अभिनिवेश अथवा भय भी कहते हैं । यह भी पूर्वोक्त दशविध शब्दादितन्मात्राएँ तथा अष्टविध ऐश्वर्य के भेद से १८ प्रकार का होता है ॥ ४८ ॥

अशक्ति के २८ भेदों को बतलाते हैं-एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा । बधा बुद्धेविपर्ययात्तुष्टिसिद्धीनाम् ॥४६ ॥

सप्तदश गौ ० — अशक्तिभेदाः कथ्यन्ते– ' भवन्त्यशक्तेश्च करणवैकल्यादष्टा-विंशतिभेदा ' इत्युद्दिष्टम्, तत्रैकादशेन्द्रियवधाः ' – बाधिर्यमन्धता प्रसुप्ति-रुपजिह्विका घ्राणपाको मूकता कुणित्वं खाअयं गुदावर्त्तः क्लैब्यमुन्माद इति । सह बुद्धिवधैरशक्तिरुद्दिष्ट्रा ये बुद्धिवधास्तैः सहाशक्तेरष्टाविंशतिभेदा १. वाधिर्यमिति । बधिरभावः कर्णशक्तिनाश इत्यर्थः, अन्धता नेत्रशक्ति-विनाशः, प्रसुप्तिः त्वक्शक्तिशून्यता, उपजिह्विका रसनाशक्तिहीनता, घ्राणशक्तिनाश:, मूकता वागिन्द्रियशक्तिविरहः, कुणिता घ्राणपाकोऽजिघ्रता कुणी तस्य भावः कौण्यम् करशवत्यभावः, खाञ्ज्यं कौण्यम् कुणोऽस्यास्तीति CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 110

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४ सांख्यकारिका भवन्ति । सप्तदश वधा बुद्धेः, सप्तदश ' वधास्ते तुष्टिभेदसिद्धिभेदवैष-रीत्येन तुष्टिभेदा नव सिद्धिभेदा अष्टौ ये तद्विपरीतैः सह एकादशविधा, एवमष्टाविंशतिविकल्पा अशक्तिरिति ॥ ४ ९ ॥ अन्वयः -एकादश, इन्द्रियबधा:, ( सप्तदशसंख्याकै: ) बुद्धिबधैः, सह, ( मिलित्वा ) अशक्तिः, ( अष्टाविंशतिधा ) उद्दिष्टा, तुष्टिसिद्धीनाम्, विपर्ययान, बुद्धेः, बधा:, सप्तदश, ( भवन्ति ) ॥ ४ ९ ॥ व्याख्या - एकादश । इन्द्रियबधा: - इन्द्रियाणाम् = चक्षुः श्रोत्र त्वक् - रसन-घ्राण - वाक् - पाणि पाद - पायु- उपस्थ मनसाम् । बधाः = दोषाः । यथा चक्षुपो-ऽन्धत्वम्, श्रोत्रस्य बधिरत्वम्, घ्राणस्य अजिघ्रत्वम्, त्वचः कुष्ठित्वम्, रसनस्य जडत्वम्, वाचोऽवक्तृत्वम्, करयोः ( हस्तयोः ) करशक्त्यभाव: ( लूलापन ), पादयोगं मनादिशक्तेरभाव: ( लंगड़ापन ), पायोः उदावर्त्तः, उपस्थस्य नपुंसक -त्वम् इत्यादि । ( सप्तदश संख्या कै: ) बुद्धिबधः - तुष्टि सिद्धीनां विपर्ययस्वरूपैः बुद्धिदोषैः । सह ( मिलित्वा ) अशक्तिः = अशक्तिपदार्थ: । ( अष्टाविंशतिधा ) उद्दिष्टा = कथिता । तुष्टिसिद्धीनाम् । विपर्ययात् = वैपरीत्यात् । अर्थात्, प्रकृति-उपादान - काल - भाग्य - शब्दोपरम स्पर्शोपरम - रूपोपरम- रसोपरम - गन्धोपरमनाम्नीनां नवतुष्टीनां बधा अपि नवैव भवन्ति । यथा - अप्रकृतिः - अनुपादाना - अकाला-अभाग्या - शब्दानुपरमा - स्पर्शानुपरमा - रूपानुपरमा- रसानुपरमा- गन्धानुपरमाश्च । एवं ऊह - शब्द अध्ययन - आध्यात्मिकदुःखाभाव - आधिभौतिक दुःखाभाव - आधि-दैविक- दुःखाभावरूप - दुःखविघातत्रय- सुहृत्प्राप्ति दान स्वरूप अष्टसिद्धीनां बधा अपि अप्टो एव भवन्ति । यथा - अनूह - अशब्द - अनध्ययन - आध्यात्मिक दुःख-आधिभौतिकदुःख - आधिदैविकदुःख- सुहत्प्राप्त्यभाव - दानाभावाश्च । एवं च सर्वं मिलित्वा तुष्टिसिद्धीनां सप्तदशबधा जायन्ते, ११ बधाश्च इन्द्रियाणाम्, एवं क्रमेण अष्टाविंशतिभेदा अशक्तिर्भवति ॥ ४ ९ ॥ हिन्दी- - चक्षु आदि ११ इन्द्रियों के बध ( कुण्ठितत्व ) भी ११ ही हैं, जैसे चक्षु का अन्धत्व, श्रोत्र का बधिरत्व, त्वचा का कुष्ठित्व ( कोढ़ हो जाना ), रसना का जडत्व ( जिह्वाशक्ति का विनाश ) घ्राणका अजिघ्रत्व, वाणी का पङ्गुत्वं पादशक्त्यभावः गुदावर्तः पायुशक्त्यभावो उदावर्तापरपर्यायः, क्लैब्यं षण्ढता रतिशक्तिविरहः, उन्मादः मनसः सङ्कल्पशक्त्यभाव इत्येते बुद्धिवधहेतु-कत्वेन निर्दिष्टा एकादशेन्द्रियवधा इत्यर्थः । १ स्वरूपतो बुद्धिवधाः कतीत्यत आह - सप्तदशेति । कु CC - 0. JK Sanskrit Academy, Jammmu. Digitized su