साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 91–100

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 91–100

पृष्ठ 91

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपता ७५ गौ ० - पूर्वमुक्तं विशेषाविशेषविषयाणि, तत् के ' विषयास्तान् दर्शयति-यानि पञ्च तन्मात्राण्यहङ्कारादुत्पद्यन्ते ते - शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रतन्मात्रं गन्धतन्मात्रम्, एतान्यविशेषा उच्यन्ते देवानामेते सुखलक्षणा विषया दुःखमोहरहिताः, तेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्तेजो-वाय्वाकाशसंज्ञानि यान्युत्पद्यन्ते एते स्मृता विशेषाः, गन्धतन्मात्रात् पृथिवी, रसतन्मात्रादापः, रूपतन्मात्रात् तेजः, स्पर्शतन्मात्राद्वायुः, शब्द तन्मात्रादाकाशम्, इत्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ताः-सुखलक्षणाः, घोराः - दुःखलक्षणाः, मूढाः - मोहजनकाः ४ यथाऽऽकाशं कस्य-चिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति, तदेव शीतोष्णवात-वर्षाभिभूतस्य दुःखात्मकं घोरं भवति, तदेव पन्थानं गच्छती वनमार्गाद् भ्रष्टस्य दिङ्मोहान्मूढं भवति । एवं वायुर्धमर्त्तस्य शान्तो भवति शीतार्त्तस्य घोरो

धूलिशर्कराविमिश्रोऽतिवान् मूढ इति । एवं तेजः प्रभृतिषु द्रष्टव्यम् ॥ ३८ ॥

अन्वयः - तन्मत्राणि, अविशेषाः, तेभ्यः, पञ्चभ्यः, पञ्च भूतानि, ( भवन्ति ) एते विशेषाः स्मृताः, शान्ता:, घोराश्च मूढाश्च ॥ ३८ ॥

व्याख्या - तन्मात्राणि । अविशेषा = सूक्ष्माः । तेभ्यः = पञ्चतन्मात्रेभ्यः । पञ्चभ्यः । पञ्च भूतानि = पृथिव्यप्तेजोवाय्वाकाशरूपाणि महाभूतानि । ( भवन्ति ) । एते = पञ्चमहाभूतानि । विशेषाः = स्थूलाः । स्मृताः = कथिताः । ( एते च पृथिव्यादिपञ्चमहाभूतपदार्थाः ) शान्ताः = सत्त्वोद्रेकात् शान्तिदायकाः, सुखदा इत्यर्थः । घोराः = रजोगुणोद्रेकात् दुःखदाः । च । मूढाः = तमोबाहुल्यात् मोहजनकाः । हिन्दी - तन्मात्राएँ सूक्ष्म. कही गयी हैं और उन पञ्चतन्मात्राओं से पृथ्वी-जल - तेज- वायु- आकाश ये पाँच महाभूत उत्पन्न होते हैं । इन पञ्चमहाभूतों को विशेष ( स्थूल ) कहा है । और ये सत्त्वगुण के प्रधान होने पर सुख शान्ति के प्रदान करने वाले होते हैं, रजोगुण की प्रधानता १. विशेषाविशेषरूपा ज्ञानेन्द्रियाणां विषया इत्यर्थः । २. शान्तघोरमूढत्वाद्युपभोगयोग्यत्वाभावादत एव च मात्रशब्देनैतेषां सूक्ष्मत्वं सूचितम् । ते केषां विनया इत्यत आह- देवानामिति । ‘ ३. उपभोगयोग्यशान्तादिमत्त्वं विशेषत्वं स्थूलमहाभूतेष्वेवातस्ते विशेषपद-वाच्या इत्यर्थः । एते केषां विषया इत्याह- मानुषाणामिति । ४. प्रत्येकं शान्तादिमत्त्वलक्षणस्य लक्ष्ये सङ्गति दर्शयति - यथेति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 92

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६ साख्यकारिका से दुःख - दारिद्र्य के देने वाले होते हैं और तमोगुण के प्राधान्य से मोह तथा अज्ञान को देने वाले होते हैं ॥ ३८ ॥

सांख्य ने विशेष को तीन श्रेणियों में विभक्त कर दिया है अर्थात् सांख्यमत में विशेष तीन प्रकार के होते हैं इसी बात को बतलाते हैं-सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३ ९ ॥ गौ ० — अथाऽन्ये विशेषाः -१ सूक्ष्मास्तन्मात्राणि यत्संगृहीतं तन्मात्रकं सूक्ष्म शरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्माः, तथा मातापितृजा स्थूलशरीरोपचायका — ऋतुकाले मातापितृसंयोगे शोणितशुक्र मिश्रीभावेनो दरान्तः सूक्ष्मशरीरस्योपचयं कुर्वन्ति, तत् सूक्ष्मशरीरं पुनर्मातुरशितपीत नाना विधरसेन नाभिनिबन्धेनाप्यायते, तथाप्यारब्धं शरीरं सूक्ष्मैर्मातापितृजैश्व स महाभूतैस्त्रिधा विशेषः, पृष्ठोदरजङ्घाकट्युरः शिरःप्रभृति षाट्कौशिकं ४ पाङ १. विविधविशेषान्तरे प्रथमं दर्शयति - सूक्ष्मा इत्यनेन । संसारनिदानभूत लिङ्गशरीराख्याः सूक्ष्मतन्मात्राद्यारब्धतया सूक्ष्मा येऽभिधीयन्ते सांख्यैः स प्रथमं विशेष इत्यर्थः । २. द्वितीयं तृतीयं च विशेषमेकवाक्येनाह - तथेति । मातापितृजशरीर रूपद्वितीयविशेषस्य स्थूलशरीरोपचायकत्वक्रमं दर्शयति - ऋतुकाल इत्यादिना । आप्यायत इति । सूक्ष्मशरीरोपचायकत्वद्वारा मातापितृजस्य स्थूलशरीरोपचायक त्वमिति भावः । ३. यद्यपि सूक्ष्ममातापितृजयोः परिणाम एव स्थूलशरीरन्तथापि त्रिविध विशेषारब्धन्तदित्याह - तथापीति । ४. षाट्कौशिकमिति । एवमारब्धं स्थूलशरीरं पृष्ठोदरादिषडङ्गम् इत्यर्थः । ‘ तंच्च षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्टं शिर इति सुश्रुतोक्तः, ए च लोमलोहित - मांसस्नाय्वस्थिमज्जानां षट्कोशत्वं वाचस्पत्युक्तमसङ्गतगिर प्रतिभाति, एतेषां शरीरलक्षणवर्गे पाठात्, तत्रापि स्थिरपितृजलोम्नां मातृत् त्वोक्तिर्मज्जायाश्च मृदुमातृजमध्यगणितायां पितृजत्वोक्तिमिश्रोक्ता विरुद्ध ‘ गर्भस्य केशश्मश्रुलोमास्थिनखदन्त सिरास्नायुधमनी रेतःप्रभृतीनि स्थिरा पितृजानि, मांसशोणितमेदोमज्जाहृन्नाभियकृत् प्लीहान्त्र गुदप्रभृतीि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 93

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपेता ७७ भौतिकं रुधिरमांसस्नायुशुक्रास्थिमज्जसम्भृतम् ' आकाशोऽवकाशदानाद्वायुर्वर्द्धनात् तेजः पाकादापः संग्रहात् पृथिवी धारणात् समस्तावयवोपेतं मातुरुदराद् बहि-भवति । एवमेते त्रिविधा: विशेषाः स्युः । अत्राह - ' के नित्याः कैवा अनित्या:? सूक्ष्मास्तेषां नियताः नियता नित्याः " सूक्ष्मास्तन्मात्रसंज्ञकास्तेषां मध्ये के वा तैरारब्धं शरीरमधर्मवशात्रे पशुमृगपक्षिसरीसृपस्थावरजातिषु संसरति, धर्मवशादिन्द्रादिलोकेषु एवमेतन्नियतं सूक्ष्मशरीरं संसरति न यावज्ज्ञान-मुत्पद्यते, उत्पन्ने ज्ञाने विद्वाञ्छरीरं त्यक्त्वा मोक्षं गच्छति, तस्मादेते विशेषाः सूक्ष्मा नित्या इति । मातापितृजा निवर्त्तन्ते, सूक्ष्मशरीरं परित्यज्यै हैव प्राण-त्यागबेलायां मातापितृजा: निवर्त्तन्ते, मरणकाले मातापितृजं शरीरमिहैव निवृत् भूम्यादिषु प्रलीयते यथातत्त्वम् ॥ ३ ९ ॥ अन्वयः - सूक्ष्माः, मातापितृजा:, प्रभूतैः, सह, विशेषाः, त्रिधा, स्युः, तेषाम् सूक्ष्माः, नियताः मातापितृजाः, निवर्तन्ते ॥ ३ ९ ॥ व्याख्या — सूक्ष्माः = सूक्ष्मशरीराणि । मातापितृजाः = स्थूल देहाः, ये माता-पितृभ्यां जायन्ते । प्रभूतैः - पर्वत- वृक्षादि - महाभूतपदार्थैः । सह = सह मिलित्वा । विशेषा: - = स्थूलाः । त्रिधा = त्रिविधाः । स्युः भवन्ति । तेषाम् = त्रिविध-विशेषाणां मध्ये | सूक्ष्मा: सूक्ष्मशरीराणि । नियताः = नित्याः । मातापितृजाः = स्थूल देहाः । निवर्तन्ते = नश्यन्ति ॥ ३ ९ ॥ हिन्दी - सूक्ष्मशरीर - स्थूलशरीर पर्वत वृक्षादिरूपमहाभूत ये तीन विशेष शब्दाभिधेय हैं । उनमें सूक्ष्म - प्रलयकालपर्यन्तस्थायी होने के नाते नियत ( नित्य ) है, अर्थात् सूक्ष्म शरीर ( लिङ्ग शरीर ) प्रलयकाल पर्यन्त ही स्थायी रह पाता है बाद में नष्ट हो जाता है अतः प्रलयकाल पर्यन्त स्थायित्वरूप नित्यत्व ही सूक्ष्मशरीर में माना गया है । और माता - पिता के रजवीर्य से उत्पन्न हुआ मातृजानीति ' शारीरकस्थानोक्तेः एवं चैतन्मते शोणित शुक्रयोर्मातापितृअत्वं वाचस्पतिमते मांसादीनामित्यवधेयम् । १. पाञ्चभौतिकत्वमेव स्फुटयति - आकाश इति । शारीरिक प्राणादिसमस्त-व्यापारसमर्थसकलावयवसम्प्रतिप्रयोजकत्वं पञ्चभूतानां स्थूलशरीरे प्रदर्शयति-समस्तेति । २. कर्मवशादिति पाठान्तरम् । ३. पार्थिवभागः पृथिव्यां जलभागो जल इत्यादिरीत्येत्यर्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 94

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ सांख्यकारिका यह स्थूल शरीर तथा पर्वत वृक्षादि रूप प्रभूत नामक विशेष उत्पन्न एवं नष्ट होते रहते हैं ॥ ३ ९ ॥ सूक्ष्म शरीर का विवेचन— पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । " संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥

गौ ० — ' सूक्ष्मं च कथं संसरति? " तत्राह - यदा लोका अनुत्पन्नाः प्रधानादि-सर्गे तदा सूक्ष्मशरीरमुत्पन्नमिति । किञ्चान्यत् - असक्तं न संयुक्तं तिर्यग्योनि-देवमानुषस्थानेषु, सूक्ष्मत्वात् कुत्रचिदसक्तं पर्वतादिषु अप्रतिहतप्रसरं संसरति गच्छति । नियतम्, यावन्न ज्ञानमुत्पद्यते तावत् संसरति । तच्च महदादि सूक्ष्मपर्यन्तम् । महानादौ यस्य तन्महदादि - बुद्धिरहङ्कारो मन इति, पश्च तन्मात्राणि सूक्ष्मपर्यन्तं तन्मात्रपर्यन्तं संसरति शूलग्रहपिपीलिकावत् त्रीनपि लोकान् निरुपभोगं भोगरहितं तत् सूक्ष्मशरीरं मातापितृजेन बाह्येनोपचयेन क्रियाधर्मंग्रहणाद्भोगेषु समर्थं भवतीत्यर्थः ' । " भावैरधिवासितं पुरस्ताद्भावान् धर्मादीन् वक्ष्यामः तैरधिवासितमुपरञ्जितम् । लिङ्गमिति - प्रलयकाले महदादि • सूक्ष्मपर्यन्तं करणोपेतं प्रधाने लीयते, असंसरणयुक्तं यत् आसर्गकालमत्र वर्त्तते, प्रकृतिमोहबन्धनबद्धं सत् संसरणादिक्रियास्वसमर्थमिति । पुनः सर्गकाले संसरति ' तस्माल्लिङ्गं सूक्ष्मम् ॥ ४० ॥

१. सूक्ष्मशरीरं विभजते इति मिश्राः । लिङ्गशरीरधर्मानाहेति नारायणी । २. प्रत्यात्मभिन्नमिति चन्द्रिका | आ चादिसर्गादा महाप्रलयादवतिष्ठत इति तत्त्वकौमुदी । ३. महदहङ्कारमनोदशेन्द्रियतन्मात्रसमुदायरूपं सूक्ष्मं शरीरमित्यन्ये । ४. स्थूल देहं बिना सूक्ष्मस्य भोगासमर्थत्वादिति भावः । ५. ननु धर्माधर्मयोः सूक्ष्मशरीरेऽसम्भवात्कथं तन्निमित्तं सूक्ष्मस्य संसरणमत थाह — भावैरिति । वक्ष्यमाणधर्माधर्मादिभावानां बुद्धी वर्तमानत्वात्तदन्वितस्य सूक्ष्मशरीरस्यापि संसारः सम्भवतीति न दोषः । वक्ष्यामः - त्रिचत्वारिंशत्कारि कायाम् ।. ६. बुद्धीन्द्रिय कर्मेन्द्रियसहितम् । ७. प्रधाने । प्रलये कुतो न संसरति सूक्ष्मशरीरमित्यत CC - 0. JK Sanskrit Academy, Jammmu. Digitized by रामत्यत आह आह प्रकृतीति ।

पृष्ठ 95

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी - व्याख्योपेता ७ ९ अन्वयः - लिङ्गम्, पूर्वोत्पन्नम्, असक्तम्, नियतम्, महदादिसूक्ष्मपर्यन्तम्, भावैरधिवासितम्, ( सत् ) निरुपभोगम्, संसरति ॥ ४० ॥

व्याख्या-- लिङ्गम् = सूक्ष्मशरीरम् । पूर्वोत्पन्नम् = सृष्ट्यारम्भकाले प्रधाना-दुत्पन्नम् । असक्तम् = अव्याहतगतिकम् अर्थात् परमाण्वादी शिलादी च प्रवेशन-शक्तिसम्पन्नम् । नियतम् = नित्यम् अर्थात् सृष्टिमारभ्य महाप्रलयपर्यंन्तं स्थायि । महदादिसूक्ष्मपर्यन्तम् = महदहङ्कार- एकादशेन्द्रिय पञ्चतन्मात्रपर्यन्त अष्टादशपदा-थैं विनिर्मितम् । भावैरधिवासितम् = भवति जगत् एभ्यस्ते भावाः, तैर्भावैः == धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपैः, अधिवासितम् = युक्तम् ( सत् ) । निरुपभोगम् = सुखदुःखादि - अन्यतरसाक्षात्काररूपभोगरहितम् । संसरति = पूर्व-पूर्वस्थूलशरीराणि परित्यज्य नवनवस्थूलशरीरेषु भोगार्थं गच्छति । हिन्दी - यह लिंग शरीर मन अहङ्कार पञ्चज्ञानेन्द्रिय - पाँच कर्मेन्द्रिय तथा पञ्चतन्मात्राओं के आधार पर प्रकृति के द्वारा सृष्टि के आरम्भकाल में सर्वप्रथम उत्पन्न होता है और यह अव्याहत - गतिशील तथा नित्य है अर्थात् यह परमाणु आदि कठिन पदार्थों के अन्दर भी बड़ी आसानी से प्रवेश कर जाता है, और सूक्ष्म से लेकर प्रलयकाल पर्यन्त स्थायी है यही इसका नित्यत्व है तथा धर्म-अधर्म - ज्ञान - अज्ञान - वैराग्य. अवैराग्य ऐश्वर्य अनैश्वर्य इन आठ प्रकार के भावों से युक्त होकर, स्थूल शरीर के बिना किसी भी विषय का उपभोग करने में सर्वथा असमर्थ होता हुआ पूर्व पूर्व स्थूल शरीरों को छोड़ कर नये नये अन्य स्थूल शरीरों के अन्दर प्रवेश करता रहता है ॥ ४० ॥

प्रश्न — अहङ्कार तथा एकादश इन्द्रियों के सहित बुद्धि को ही स्थूल शरीरों में गमन - आगमन करने वाली मान लिया जाय क्या आवश्यकता है सूक्ष्म शरीर की?

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।

तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥। ४१ ॥

गौ ० - ' किप्रयोजनेन त्रयोदशविधं करणं संसरती ' त्येवं चोदिते सत्याह-' चित्रं यथा कुडयाद्याश्रयमृते न तिष्ठति, स्थाण्वादिभ्यः कीलकादिभ्यो विना छाया न तिष्ठति, तैर्विना न भवति, आदिग्रहणाद् यथा शैत्यं विना नापो भवन्ति १. ननु तर्हि साहंकारेन्द्रियबुद्धित एव भोगोऽस्तु कृतं सूक्ष्मेणाधामाणिकेने-त्यत आह- चित्रं यथेत्यन्ये । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 96

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० सांख्यकारिका शैत्यं वाऽद्भिर्विना, अग्नि रूपं विना, वायुः स्पर्शं विना, आकाशमवकाशं विना तद्वदेतेन दृष्टान्तेन न्यायेन, ' विनाऽविशेषैरविशेषैस्तन्मात्रविना न तिष्ठति । अथ विशेषभूतान्युच्यन्ते, शरीरं पञ्चभूतमयम्, वैशेषिणा शरीरेण विना लिङ्गस्थानं चेति क्व एकदेहमुज्झति तदेवान्यमाश्रयति, निराश्रयमाश्रयरहितम्, लिङ्ग त्रयोदशविधं करणमित्यर्थः ॥ ४१ ॥

अन्वयः - यथा, चित्रम्, आश्रयम्, ऋते न तिष्ठति, यथा, छाया, स्थाण्वा-दिभ्यः, विना, न तिष्ठति, तद्वत्, लिङ्गम्, विशेषैः, विना, निराश्रयम्, न तिष्ठति ॥ व्याख्या - यथा = येन प्रकारेण । चित्रम् = मनुष्यादीनां चित्रम् ( फोटो ) । आश्रयम् = मनुष्यादिरूपाश्रयम् । ऋते = विना । न तिष्ठति । यथा छाया = वृक्षादीनां छाया । स्थाणु आदिभ्यः = वृक्षादिभ्यः । विना । न तिष्ठति = न स्थातुमर्हति । तद्वत् - तथैव । लिङ्गम् = बुद्धयादित्रयोदशविधं करणरूपम् लिङ्गम्, ( यच्च पुरुषस्यानुमापकम् ) । विशेषैः = सूक्ष्मशरीरम् । विना । निरा-श्रयम् = निराधारम् । न तिष्ठति ॥। ४१ ॥ हिन्दी - जिस प्रकार आश्रय के बिना चित्र का, वृक्ष आदिकों के बिना छाया का रहना सर्वथा असंभव है, उसी प्रकार सूक्ष्मशरीरों के बिना बुद्धि आदि त्रयोदशविधकरणों ( पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय - मन बुद्धि तथा अहंकारों ) का निराश्रय होकर रहना नितान्त अशक्य है, क्योंकि इन त्रयोदशों का आश्रय एकमात्र सूक्ष्मशरीर ही है अतः सूक्ष्मशरीर का स्वीकार नितान्त आवश्यक है । सूक्ष्म शरीर के अस्तित्व ( सत्ता ) को सिद्ध कर अब हम उसके संस्मरण ( गमनागमन ) तथा संसरण के हेतु को बतलाते हैं— १. अत्र जन्ममरणान्तराले बुद्धयादयः वर्तमानशरीराश्रिताः वर्तमानपञ्चतः मात्रवत्त्वे सति वुद्धघादित्वात् दृश्यमानशरीरवृत्तिबुद्धयादिवदित्यनुमानेन मरणा-नन्तरं पुनः स्थूलशरीरपरिग्रहपर्यन्तं बुद्धधादीनामाधारभूतं वर्तमानं किश्चिच्छरीरं वक्तव्यम्, दृश्यमानशरीरं च तदा बाधितमिति सूक्ष्मशरीरमवश्यं तन्मात्राख्य मङ्गी कर्तव्यमिति मिश्राः । २. अथेति । पञ्चभूतमयं स्थूलशरीरं विशेष भूतपदवाच्यमित्यर्थः, वैशेषिणा शरीरेण सूक्ष्मेण विना, क्व लिङ्गस्थानं चेतीत्यस्य विवरणं क्वैकस्थूलदेहं त्यजति तदेव त्रयोदशविधं करणमन्यस्थूलशरीरं स्वीकरोति वा सूक्ष्ममाश्रयः विनेत्यभिप्रायः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 97

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी व्याख्योपेता ८१

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।

प्रकृतेबिभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥। ४२ ॥

गो ० -- ' किमर्थम्? ' तदुच्यते ' पुरुषार्थः कर्त्तव्य इति प्रधानं प्रवर्तते, स च द्विविधः — शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दाद्यु · पलब्धिर्ब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः । गुणपुरुषान्तरोपलव्धिर्मोकर इति । तस्मादुक्तं — ' पुरुषार्थहेतुकमिदं सूक्ष्मशरीरं प्रवर्त्तते ' इति । निमित्त-नैमित्तिक प्रसङ्ग ेन निमित्तं धर्मादि, नैमित्तिकमूर्ध्वगमनादि पुरस्तादेव वक्ष्यामः ” । प्रसङ्गेन प्रसक्त्या ४ प्रकृतेः प्रधानस्य विभुत्वयोगात्, यथा राजा स्वराष्ट्रे विभुत्वाद् यद्यदिच्छति तत् तत् करोतीति, तथा प्रकृतेः सर्वत्र विभुत्वयोगान्निमित्तनैमित्तिकप्रसङ्गेन व्यवतिष्ठते पृथक् पृथग्देहधारणे लिङ्गस्य व्यवस्थां " करोति । लिङ्ग सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेव तिर्यग्योनिषु व्यवतिष्ठते । कथम्? नट-वत् । यथा नटः पटान्तरेण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुषः, पुनर्विदू-षकः, एवं लिङ्गं निमित्त नैमित्तिक प्रसङ्गेनोदरान्तः प्रविश्य हस्ती स्त्री पुमान् भवति ॥ ४२ ॥

अन्वयः - पुरुषार्थहेतुकम् इदम् लिङ्गम्, निमित्तनैमित्तिकप्रसङ्गेन, प्रकृतेः, विभुत्वयोगात्, नटवत्, व्यवतिष्ठते ॥ ४२ ॥

१. त्रयोदशविधं करणं सूक्ष्मशरीरेण सह किमर्थं किम्प्रयोजनं संसरतीत्येत-दुच्यत इत्यर्थः । २. तथा च भोगापवर्गात्मकः पुरुषार्थो हेतुः प्रयोजको यस्येति पुरुषार्थ-हेतुकमिदं सूक्ष्मशरीरं प्रवर्तत इत्यनेन तस्य संसरणे पुरुषार्थ एवोद्देश्यमिति सूचितम् । ३. धर्मेण गमनमूर्ध्वमिति चतुश्चत्वारिंशत्कारिकायाम् । ४. सहयोगेन सहचारभावेनेति यावत्, यदि धर्मादिना निमित्तेन नैमित्तिकेन तत्तत्स्थूलशरीरेण वा सहायोगः स्यात् न व्यवतिष्ठेत लिङ्गशरीरं किन्तु विलीयेतेति भावः । ५. प्रधानविभुत्वसामर्थ्य वशान्निमित्तनैमित्तिकसहचारेण लिङ्गशरीरं पृथक् पृथक्स्थूलशरीरधारणं करोतीति व्यवस्थेति भावः । इदमेव दृष्टान्तेन स्पष्टयति-कथमित्यादिना । ६ सतं- o. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 98

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ सांख्यकारिका व्याख्या - पुरुषार्थहेतुकम् – पुरुषार्थ: = पुरुषस्य ( आत्मनः ), अर्थः = प्रयो-जनम् भोगापवर्गरूपम्, स ( पुरुषार्थ: ) एव हेतुः = प्रयोजकः, यस्य तत् पुरुषाएं. हेतुकम् = सूक्ष्मशरीरस्य गमनागमने पुरुषार्थं एव उद्देश्यम् इति भावः । इदं लिङ्ग बुद्धि आदिभिर्विनिर्मितं सूक्ष्मं शरीरम् । निमित्तनैमित्तिकप्रसङ्गेन-निमित्ताः = अनेकविधशरीर कारणीभूता धर्माधर्माद्यष्टभावपदार्थाः, नैमित्तिकाः = स्थूलशरीरादयः, तेषां प्रसङ्गेन = धर्माधर्मादिकरणकनानाविधस्थूल शरीरधारणा त्मकव्यापारेण । प्रकृतेः प्रधानस्य । विभुत्वयोगात् = व्यापकत्वात् । नटवत् = नट इव । व्यवतिष्ठते = संसरति, मोक्षकालपर्यन्तम् अथवा प्रलयकालपर्यन्तं संस रणं करोत्येव । हिन्दी - पुरुष ( जीवात्मा ) के भोग तथा अपवर्गरूप पुरुषार्थ के कारण यह सूक्ष्म शरीर धर्म - अधर्म ज्ञान अज्ञान आदि निमित्तकारणीभूत अष्टविध भाव पदार्थों के आधार पर अनेकविधयोनियों में भ्रमण करता हुआ कभी देवशरीर, कभी मनुष्यशरीर, कभी पशु - पक्षी, कभी कीट - पतंग, कभी वृक्ष लता आदि नैमित्तिक स्थूलशरीरों के सम्बन्ध में अपने आवागमन रूपी व्यवहार को उसी प्रकार से सम्पन्न करता रहता है जैसे कि एक नट नाटक के अन्दर कभी राम, कभी परशुराम, कभी कृष्ण, कभी हरिश्चन्द्र आदि के स्वरूप को धारण कर उनके चरित्रों का प्रदर्शन करता है! प्रश्न - सूक्ष्मशरीर को नानाविध स्थूल शरीरों के अन्दर संसरण की शक्ति कैसे प्राप्त हुई? उत्तर- - " " प्रकृते विभुत्वयोगात् " अर्थात् प्रकृति के व्यापक होने के कारण, अभिप्राय यह है कि सांख्य ने कार्य और कारण का अभेद होने के नाते सूक्ष्म-शरीरात्मक कार्य तथा प्रकृतिरूप कारण का तादात्म्य माना है, अतएव प्रकृति के विभु होने के नाते सर्वत्र स्थूल शरीरों में सूक्ष्म शरीर का संसरण संपन्न हो जाता है । क्योंकि बिना कारण के कार्य की गति कैसे हो सकती है और इसी बल से कार्य और कारण के सामानाधिकरण्य का नियम भी बन जाता है । निमित्त ( कारण अर्थात् धर्माधर्म ) नैमित्तिक ( कार्य अर्थात् स्थूल शरीर ) के साथ सम्बन्धित होने के नाते यह सूक्ष्म शरीर बराबर संसरण करता रहता है यह कह चुके हैं –अब निमित्त और नैमित्तिक का कथन करते हैं— / सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 99

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपेता ८३ गौ ० — भावैरधिवासितं लिङ्ग संसरतीत्युक्तम्, तत् के भावा इत्याह-भावास्त्रिविधाश्चिन्त्यन्ते - सांसिद्धिकाः प्राकृताः वैकृताश्च । तत्र सांसिद्धिका यथा - भगवतः कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । प्राकृताः कथ्यन्ते- - ब्रह्मणश्चत्वारः पुत्राः सनक-सनन्दन- सनातन सनत्कुमाराः बभूवुः, तेषामुत्पन्नकार्यकारणानां शरीरिणां षोडश-वर्षाणामेते भावाश्चत्वारः समुत्पन्नाः, तस्मादेते प्राकृताः ' । तथा वैकृता यथा आचार्यमूर्ति निमित्तं कृत्वाऽस्मदादीनां ज्ञानमुत्पद्यते ज्ञानाद्वैराग्यं वैराग्या-द्धर्मः धर्मादैश्वर्यमिति, आचार्य मूर्तिरपि विकृतिरिति, तस्माद्वैकृता एते भावा उच्यन्ते, यैरधिवासितं लिङ्गं संसरति । एते चत्वारो भावाः सात्त्विकाः, तामसा विपरीताः, सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तमित्यत्र व्याख्याताः । एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मोऽज्ञानमवैराग्यमनैश्वर्यमिति । अष्टौ भावाः क्व वर्त्तन्ते? दृष्टाः करणाश्रयिणः । बुद्धिः करणं तदाश्रयिणः, एतदुक्तम्- ' अध्यवसायो बुद्धिधर्मो ज्ञानम् इति । कार्यं देहस्तदाश्रयाः कललाद्या ये मातृजा इत्युक्ताः, शुक्रशोणितसंयोगे विवृद्धिहेतुका: " कललाद्या बुदबुदमांस-पेशीप्रभृतयः, तथा कौमारयोवनस्थविरत्वादयो भावाः अन्नपानरसनिमित्ता निष्पद्यन्ते, अतः कार्याश्रयिण उच्यन्ते, अन्नादिविषयभोगनिमित्ता जायन्ते ॥ ४३ ॥

१. अन्ये तु भावा धर्माद्याः ये सांसिद्धिकाः स्वाभाविकास्त एव प्राकृतिकाः सहोत्पन्नाः, यावद्वस्तुस्थायिनो वा यथा महत्तत्त्वादहंकारादय इति । एतन्मते तु सहोत्पन्नाः सांसिद्धिकाः, उत्पन्नबुद्धितत्त्वशरीराणां सनकादीनां प्रकृत्योत्पन्नाः प्राकृता इति विशेषः । २. सांसिद्धिका उपायानुष्ठानेनोत्पन्नाः यथा प्राचेतसादीनां कदाचिद्-वृत्तयो वा वैकृता इति मिश्रादयः । एतन्मतेऽपि गुरूपदेशादिनोत्पन्ना भावा ज्ञानादयो वैकृता इति न कश्चिद्विशेषः किन्तु त्रैविध्यद्वैविध्य एव पूर्व प्रदर्शितो विशेषो बोध्यः । ३. त्रयोविंशकारिकायाम् । ४. करणस्येन्द्रियादेर्भावाधिकरणत्वायोगात् करणपदस्यार्थमाह- बुद्धिः करणमिति । एतदुक्तमिति । बुद्धिरूपकरणमुक्तमित्यर्थः । ५ स्थूलशरीरवृद्धिहेतुका इत्यर्थः । एता गर्भस्थस्य शरीरावस्थाः, बहिर्निर्गतस्य ता माह-- तथेति । ६. उक्तावस्थानां कार्याश्रयत्वे हेतुमाहान्नपानेति । कार्याश्रयिण इत्यस्यार्थमा-हानादीति । ७ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 100

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ सांख्यकारिका अन्वयः — भावाः, सांसिद्धिकाः, प्राकृतिकाः, वैकृताश्व, ( भवन्ति ), ( तत्र ) धर्माद्याः, करणाश्रयिणः, दृष्टाः, च, कललाद्याः कार्याश्रयिणः, दृष्टाः ॥ ४३ । व्याख्या - भावा: = - धर्माधर्मादि - अष्टविधभावपदार्था: ( द्विविधा भवन्ति ) सांसिद्धिकाः – स्वाभाविका: । ( अत एव ते प्राकृतिका अप्युच्यन्ते ) प्राकृतिकाः - प्रकृतिः = स्वभावः, स्वभावसिद्धा इत्यर्थः । यथा सर्गादी आदिविद्वान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य सम्पन्नो प्रादुर्बभूव इति श्रूयते । वैकृताश्च ( भावा: ) = असांसिद्धिकाः, नैमित्तिका इत्यर्थः । अर्थात् ये ईश्वराराधनरूप - उपायानुष्ठा-नात्मकनिमित्तेन उत्पन्ना इति भावः । यथा वाल्मीकिप्रभृतयो महर्षय ईश्वरा -राधनं कृत्वा धर्मज्ञानवैराग्यैश्वर्याणामुपार्जनं कृतवन्तः । एवमधर्म - अज्ञान अवैराग्य अनैश्वर्याण्यापि चत्वारि राक्षसप्रभृतीनां सांसिद्धिकानि, राक्षसप्रभृतीनां संसर्गेण समुत्पन्नानि वैकृतानि । एते धर्माधर्मादि - अष्टभावपदार्थाः कस्याश्रयिण इत्यत आह— " दृष्टाः करणाश्रयिणः " ( तत्र ) धर्माद्याः- धर्मादि- अष्टविधभावपदार्थाः । करणाश्रयिणः — करणम् = बुद्धितत्त्वम्, तदाश्रयिण इत्यर्थः । दृष्टाः = निश्चिताः । कललाद्याः = कललबुबु मांसपेशीकरण- करण्डाद्यङ्ग - प्रत्यङ्गव्यूहात्मकाश्च भावा-न्तरभूता विषयाः । कार्याश्रयिणः = कार्यम् — स्थूलशरीरम्, तदाश्रयिणः । दृष्टाः = - निश्चिताः सांख्याचार्यैरिति शेषः । अयमभिप्रायः धर्माधर्मादि - अष्टविधभावपदार्थाः बुद्धितत्त्वरूपं यत् अन्तः-करणं तदाश्रयिणः सन्ति एवम् एतेभ्योऽष्टविधभावपदार्थेभ्यश्च अतिरिक्तास्तेषां परिणामभूताः कललादयः पूर्वोक्ताः पदार्थाः स्थूलशरीराश्रयिणः सन्तीति भावः । हिन्दी – धर्म - अधर्म - ज्ञान - अज्ञान - वैराग्य - अवैराग्य - ऐश्वर्य - अनैश्वर्य ये अष्ट-विध भावपदार्थ दो प्रकार के माने गये हैं प्राकृतिक और वैकृतिक । प्राकृतिक वे भावपदार्थ हैं जो प्राणी के लिये सांसिद्धिक ( स्वाभाविक ) माने गये हैं । अर्थात् जो जन्मते ही उत्पन्न हो जाते हैं । जैसे — महामुनि कपिल धर्म, ज्ञान, वैराग्य, ऐश्वर्यं इन चतुर्विध भावपदार्थों से संपन्न होकर हो पैदा हुए थे । और वैकृतिक वे हैं जो ईश्वर की तपश्चर्या आदि के आधार पर होवें । जैसे वाल्मीकि मुनि ने रामनाम की रटन्त के आधार पर प्राप्त किया था । इसी प्रकार अधर्मं-अज्ञान- अवैराग्य - अनैश्वर्य ये राक्षस अथवा राक्षस प्रकृति वालों को तो प्राकृतिक माने गये हैं । और उनका संसर्ग करनेवालों ( चोर - डकैत आदि ) के वैकृतिक ( नैमित्तिक ) कहे गये हैं । और ये अष्टविध भावपदार्थ बुद्धितत्त्वरूपकरण के CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA