साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 131–140
साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 131–140
पृष्ठ 131
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी- व्याख्योपेता ११५ कराना प्रारम्भ कर दे? तब तो पुरुष के भोगापनिबन्धन सृष्टिक्रम हमेशा ही चलता रहेगा?
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥६१ ॥
गौ ० - निवृत्ता च किं करोतीत्याह ' – लोके प्रकृतेः सुकुमारतरं न किञ्चिदस्तीत्येवं मे मतिर्भवति, येन परार्थ एव मतिरुत्पन्ना, कस्मात्? अहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसः पुनर्दर्शनं नोपैति, पुरुषस्यादर्शनमुपयाती-त्यर्थः । तत्र सुकुमारतरं वर्णयति । केचिदीश्वरं कारणं ब्रुवते -अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकमेव वा ॥ ४ अपरे स्वभावकारणिका ब्रुवते -' केन शुक्लीकृता हंसा मयूरा कैन चित्रिताः । स्वभावेनैव -- इति । " अत्र सांख्याचार्या आहुः - निर्गुणत्वादीश्वरस्य कथं सगुणः प्रजा १. स्यादेतत् नर्तकी नृत्यं सभ्येभ्यो दर्शयित्वा धनप्राप्त्या निवृत्तापि पुनः कुतूहलात् यथा प्रवर्तते तथा प्रकृतिरपि पुरुषमात्यानं दर्शयित्वा विवेकेन निवृत्तापि पुनः प्रवर्त्स्यते इत्यत आह- प्रकृतेरिति मिश्रादयः । २. सुखदुःखमोहात्मकभोग्यविषयम् अन्यत् ईश्वरस्वभावकालादिकं लोके नास्तीत्यर्थः । तत्र हेतुमाह - येनेति । प्रकृतेः परार्थमतो हेतुं प्रश्नपूर्वक माहा-हमनेनेति । ३. प्रकृतावेवोक्तविधं सुकुमारतरत्वं प्रदर्शयितुमन्यत्र तन्निषेधार्थं मता-न्तराणि निरूपयतीत्यर्थः । अज्ञ इति । स्वसुखदुःखभोगयोरसमर्थोऽयं जीव ईश्वरप्रेरणयैव स्वर्गनरकसुखदुःखादि भुङ्क्तेऽत ईश्वरः कारणमितीश्वरकारण-तामाह एकः । ४. निषेध्यं मतान्तरमाह - अपर इति । हंसादीनां स्वभावतः शुक्लानां शुक्लत्वं स्वभावतश्चित्राणां मयूराणां चित्रत्वं च स्वभावेनैवातः स्वभावत एवास्य जगत उत्पत्तिरिति स्वभाव कारणतावादोऽपरः । ५. मतद्वयं निषेदुधुं सांख्याचार्यमतमाहात्रेति । संगुणतः – सुखदुःखा-fayek 5-0. Sanskrit ईश्वरकारणतावादं Academy, Jammmu निरस्य. Digitized जीवकारणतावादमपि by S3 Foundation USA प्रसङ्गान्नि-
पृष्ठ 132
पाठ पढ़ें पाठ छिपाएँ
११६ सांख्यकारिका जायेरन्? कथं वा पुरुषान्निर्गुणादेव, तस्मात् प्रकृतेर्युज्यते, यथा शुक्लेभ्यस्त-तुभ्य: शुक्ल एव पटो भवति, कृष्णेभ्यः कृष्ण एव – इति, एवं त्रिगुणात् प्रधानात् त्रयो लोकास्त्रिगुणाः समुत्पन्ना इति गम्यते, ' निर्गुण ईश्वर:, सगुणानां लोकानां तस्मादुत्पत्तिरुक्तेति । अनेन पुरुषो व्याख्यातः । तथा केषाञ्चित् काल: कारणमिति । उक्तं च-' काल: पचति भूतानि कालः संहरते जगत् । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः ॥ ' व्यक्ताव्यक्तपुरुषास्त्रयः पदार्थः तेन कालोऽन्तर्भूतोऽस्ति स हि व्यक्तः सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं स्वभावोऽप्यत्रैव लीनः, तस्मात् कालो न कारणम् नापि स्वभाव इति । तस्मात् प्रकृतिरेव कारणं, न प्रकृतेः ' कारणान्तरमस्तीति न पुनर्दर्शनमुपयाति पुरुषस्य, अतः प्रकृतेः सुकुमारतरं सुभोग्यतरं न किश्विदीश्वरादिकारणमस्तीति मे मतिर्भवति । तथा च लोके रूढम् ॥ ६१ ॥
अन्वयः - प्रकृतेः, सुकुमातरं न किञ्चित्, अस्ति, इति मे मतिः, भवति, या दृष्टा, अस्मि इति, पुनः, पुरुषस्य, दर्शनं, न, उपैति । व्याख्या– प्रकृतेः = प्रकृत्यपेक्षया । सुकुमारतरम् = = अतिलज्जाशीलम्, पुरुषान्तरदर्शनानपेक्षि इत्यर्थः । न । किञ्चित् । अस्ति । इति । मे = ईश्वरकृष्णस्य । मतिः = निश्चयः । भवति = वर्तते । या = प्रकृतिः । दृष्टा = पुरुषान्तरेण अहं दृष्टा । अस्मि । इति = एवं ज्ञात्वा । पुनः । पुरुषस्य । दर्शनम् । न । उपैति । रस्यति कथं वेति । निर्गुणाज्जीवात्कथं सगुण कार्यजातमुत्पद्येतेत्यर्थः । प्रकृति-कारणतावादमुपसंहरति, तस्मादिति । सगुणकारणात्सगुणकार्योत्पत्ती दृष्टान्त-प्रदर्शनेन प्रकृतिकारणतावादं द्रढयति-- यथेति । १. प्रकृतिकारणतावादं संस्थाप्येश्वरात्मकारणतावादनिराकरणमुपसंहरति-निर्गुण इति । २. कैश्चिदङ्गीकृते जगद्धेतो कालेऽपि प्रकृतिवत्सुकुमारतरत्वं न सम्भवतीि प्रदर्शयितुं कालकारणतावादिमतं निरूपयति - तथेति । स्वभाववत् कालस्यापि व्यक्ततया तद्धेतुप्रधानकारणतावादेनैव तयोः कारणत्वं निरस्तमिति भावः । तेन तत्र, कथमन्तर्भाव इत्याह - स हीति । ३. प्रकृतिहेतुतावादमुपसंहरति तस्मादिति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 133
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपेता ११७ अयं भावः - असूर्यम्पश्या हि कुलवधूः अत्यन्तं लज्जावती अत एव मन्द-गामिनी अनवधानतया विमलित शिरोऽखला निरीक्ष्यते चेत् पुरुषान्तरेण तदा इयम् एवं यतते यत् पुनम परपुरुषो न पश्येत्, प्रकृतिस्तु कुलवधूतोऽप्याधिका-तिमन्दाक्षमन्थरा अतः पुनः कदापि परपुरुषस्य दृष्टिगोचरतां नायात्येव । हिन्दी - जिस प्रकार कोई अत्यन्त लज्जाशील कुलाङ्गना के मस्तक के ऊपर का घूंघट असावधानी के कारण जब हट जाता है और परपुरुष उसे देख लेता है तथा परपुरुष के देखने का ज्ञान उसे यदि हो जाता है तो फिर वह ऐसी लज्जा से नतानन होकर वहाँ से हटती है कि फिर परपुरुष समक्ष नहीं आती है, इसी प्रकार कुलाङ्गना से अधिक लज्जाशील प्रकृति को पुरुष के द्वारा अपने देख लेने का ज्ञान जिस क्षण हो जाता है उसी क्षण से वह फिर कभी भी पुरुष के समक्ष नहीं आती, न आने से ही पुरुष का भोगापवर्ग तथा तन्निमित्तक सृष्टिक्रम दोनों ही बन्द हो जाते हैं ॥ ६१ ॥
प्रश्न – जबकि सांख्य पुरुष निर्गुण और निर्विकार है तव पुरुष का मोक्ष कैसे हो सकता है, क्योंकि मोक्षशब्दार्थ है बन्धन से छुटकारा पाना, सो बन्धन के कारणीभूत वासना - क्लेश कर्म आदि धर्म जबकि अपरिणामी पुरुष में संभव ही नहीं है तब उसे बन्धन कैसा? और बन्धन के न होने से फिर मोक्ष भी कैसा? तब फिर ५८ वीं कारिका में " पुरुषस्य विमोक्षार्थम् " अर्थात् पुरुष के मोक्ष के लिये ही सृष्टि होती है यह कथन सर्वथा व्यर्थ है-तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२ ॥
गौ ० - ' पुरुषो मुक्तः पुरुषः संसारी ' इति चोदिते आह्'- तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति, यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चेति । " अथ मुक्त एव स्वभावात् स सर्वगतञ्च कथं संसरति? ' १. ननु पुरुषश्चेदगुणोऽपरिणामी कथमस्य सुखदुःखादिरूपो बन्ध:, अतो न मोक्षोऽपि तस्य बन्धेन सामानाधिकरण्यात् तस्मात्पुरुषविमोक्षार्थमितिरिक्तं वचः, इतीमामाशङ्कामुपसंहारव्याजेनाभ्युपगच्छन्नपाकरोति तस्मादित्यन्ये । २. यदि स्वभावतो मुक्त एव पुरुषस्तदा सर्वगतस्य तस्य कथं संसार इत्याशयेनाक्षिपति — अथेति । समाधत्ते - अप्राप्तेति । निःसङ्गत्वेन अप्राप्तस्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA. )
पृष्ठ 134
पाठ पढ़ें पाठ छिपाएँ
११८ सांख्यकारिका अप्राप्तप्रापणार्थं संसरणमिति, तेन पुरुषो बध्यते पुरुषो मुच्यते पुरुषः संसरतीति व्यपदिश्यते येन संसारित्वं विद्यते, सत्त्वपुरुषान्तरज्ञानात् तत्त्वं पुरुषस्याभिव्य-ज्यते, तदभिव्यक्ती केवलः शुद्धः मुक्तः स्वरूपप्रतिष्ठः पुरुष इति । ' ' अत्र यदि पुरुषस्य बन्धो नास्ति ततो मोक्षोऽपि नास्ति । अत्रोच्यते - प्रकृतिरेवात्मानं बध्नाति मोचयति च यत्र सूक्ष्मशरीरं तन्मात्रकं त्रिविधकारणोपेतं त्रिविधेन बन्धेन बध्यते, उक्तञ्च— ' प्राकृतेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते ॥ ' तत् सूक्ष्मं शरीरं धर्माधर्मसंयुक्तम् ॥ ६२ ॥
अन्वयः - तस्मात्, अद्धा, कश्चित्, ( पुरुषः ), न संसरति, न वध्यते प्रकृतिरेव, नानाश्रया सती, संसरति, बध्यते, मुच्यते ( च ) । व्याख्या -- तस्मात् = पुरुषस्य निर्गुणत्वात् - निर्धर्मकत्वाच्च । अद्धा = निश्चयेन कश्चित् = कोऽपि पुरुषः । न संसरति = न जन्ममरणवान् भवति, अर्थात् न जायते नापि म्रियते इत्यर्थः । न वध्यते = न बन्धनवान् भवति । न मुच्यते । किन्तु ) प्रकृतिरेव । नानाश्रया सती भोग्य भोग- तत्साधन- तदायतनरूप अनेक आश्रया सती । संसरति । बध्यते । मुच्यते च । शब्दाद्युपभोगस्य प्राप्तये बुध्यादिभेदाग्रहात् तद्गतसंसरणमात्मनि प्रतीयते, भेदप्रतीती च पुरुषगतनिःसङ्गत्वादिप्रतीत्या स स्वतो न बद्धो न मुक्त इत्यादि-पुरुषस्वरूपाभिव्यक्त्या स्वरूपप्रतिष्ठालाभ इति समाधानार्थः । १. पुन: शङ्कते अत्रेति । यदि न पुरुषस्य बन्धः संसारापरपर्यायस्तदा-ss त्मा मुक्त इति व्यवहारः कथं स्यात्, मुचेर्बन्धन विश्लेषार्थत्वादिति शङ्काकर्तु -रभिप्रायः । समाधत्ते अत्रोच्यते इति । असङ्गोऽप्यात्मा प्रकृतिसंसर्गादेवाभेदा-ग्रहमूलकं बन्धमात्मन्यारोपयति मुक्ति च यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते तदाश्रयेण भृत्यानां तद्भागित्वात्तत्फलस्य च शोकलाभादेः स्वामिनि सम्भवात्, तथा च प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाग्रहात्पुरुष-सम्बन्धसम्भवात् मुक्त आत्मेत्यादिव्यवहारोपपत्तिरिति समाधानार्थः प्रकृति-सङ्गात् कुत्रात्माऽऽत्मानं बध्नाति मोचयति चेत्यत्राह — यत्रेति । योनिविशेषे इत्यर्थः, त्रिविधकरणोपेतं महदाद्याभ्यन्ते रत्रिविधकरणसहितम्, तत् धर्माधर्म-संयुतं सूक्ष्मशरीरम्, बध्यते तत्र प्रकृत्यादिसंगादात्मनि बन्धादिव्यवहार इत्यभिप्रायः । त्रिविधबन्धमाह - प्राकृतेनेति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 135
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपता ११ ९ अयमाशयः --- यथा युद्धपरायण सैनिकानां जयपराजयी तेषां स्वामिनि राज्ञि उपचयते यत् " अमुकस्य राज्ञो जयो जातः " " अमुकस्य च पराजयः ” इत्यादि-रूपेण । एवमेव भोगापवर्गयोः परमार्थतः प्रकृतावेव सत्त्वेन प्रकृति - पुरुषयोर-भेदज्ञान निबन्धनीती, पुरुषे तूपचयेंते, पुरुषो वचः - पुरुषो मुक्तः पुरुषः संसरति इत्यादिरूपेण, अतः " पुरुषस्य - विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् " इत्युक्तं वचः सर्वथा समीचीनमेव ॥ ६२ ॥
हिन्दी - पुरुष निर्गुण और निर्धर्मक है इसलिये यह निश्चय है कि. कोई भी पुरुष न बन्धनग्रस्त होता है, न मुक्त ही होता है और न वह सांसारी ही बनता है । जन्ममरणरूपसंसार अथवा बन्धन और मोक्ष ये सब धर्म वास्तविक रूप में भोग्यभोग भोगसाधन भोगायतनभूत अनेक पदार्थों की आश्रयस्वरूपा प्रकृति के ही हैं, पुरुष में तो उनका एकमात्र उपचार ही होता है । जैसे युद्ध में वास्तव में जयपराजय सैनिकों की है राजा में तो उसका केवल आरोपमात्र ही है ॥ ६२ ॥
प्रश्न - प्रकृति किन - किन साधनों के द्वारा पुरुष को बन्धन में डालती है और किन साधनों के आधार पर बन्धन से मुक्त करती है?
रूपैः सप्तभिरेव तु बध्नात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
गौ०— ' प्रकृतिश्च बध्यते प्रकृतिश्च मुच्यते संसरतीति ' कथम् ' तदुच्यते— रूपैः सप्तभिरेव, एतानि सप्त प्रोच्यन्ते — धर्मो वैराग्यमैश्वर्यमधर्मोऽज्ञानमवैराग्य-मनैश्वर्यम्, एतानि प्रकृतेः सप्त रूपाणि, तैरात्मानं स्वं वध्नाति प्रकृतिः, आत्मना स्वेनैव सैव प्रकृतिः, पुरुषस्यार्थः पुरुषार्थ २ कर्त्तव्य इति विमोचयत्यात्मान-मेकरूपेण ज्ञानेन ॥ ६३ ॥
१. किसाधना प्रकृतिगता बन्धसंसारापवर्गा इति प्रश्नार्थः । २. भोगापवर्गरूपः । एकरूपेणेति । तथा च भोगरूपपुरुषार्थं प्रति धर्मादि-सप्तविधरूपैरात्मानं वध्नाति स्वरूपावस्थानरूपापवर्गं प्रति चैकेन केन ज्ञानरूपभावनैवात्मानं संसारान्मोचयतीति भावः । एतेन वैराग्याद्यभावेऽपि ज्ञानस्य मुक्तिहेतुत्वमिति सूचितम्, विषयजिज्ञासारूपवैराग्यस्य विषयदोषदर्शन-जन्यस्य भोगेष्वदीनतामात्रम्, तथा धीनिरोधरूपोपरमस्य च यमादिसाध्यस्य द्वैतादर्शनमात्रं फलं न मोक्षः ' तमेव विदित्वे ' त्यादिश्रुतिषु तस्य ज्ञानैकलभ्यत्व-वर्णनादिति तात्पर्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 136
पाठ पढ़ें पाठ छिपाएँ
१२० सांख्यकारिका अन्वयः - प्रकृतिः, पुरुषार्थं प्रति, आत्मना, सप्तभिरेव रूपैः आत्मानम्. नाति, सेव, च, एकरूपेण, आत्मानम्, विमोचयति । व्याख्या - प्रकृतिः । पुरुषार्थ प्रति = भोगापवर्गरूपपुरुषार्थं प्रति । आत्मना = स्वयमेव । सप्तभिः । रूपैः = धर्माधर्माज्ञान - वैराग्यावैराग्यैश्वर्यानश्वत्यैः आत्मा-नम् = स्वाम् । बध्नाति । सैव च = प्रकृतिरेव च । एकरूपेण = तज्ज्ञानात्मकेन
एकरूपेण । आत्मानम् । विमोचयति ॥ ६३ ॥
हिन्दी - वह प्रकृति पुरुष के भोगापवर्गरूप अर्थ को सम्पन्न करने के लिये स्वयं ही धर्म, अधर्म, अज्ञान, वैराग्य, अवैराग्य, ऐश्वर्य, अनैश्वर्य इन सात प्रकार के भावात्मकरूपों के द्वारा अपने को बन्धन में डालती है । और वही प्रकृति ज्ञानात्मक भावभूत एकरूप के द्वारा अपने को स्वयं सांसारिक बन्धन से छुड़ा लेती है, अर्थात् फिर उसी पुरुष के लिये भोगापवर्ग का सम्पादन नहीं करती है ॥ ६३ ॥
प्रश्न - यह तत्त्वज्ञान कैसे होता है?
एवं तत्त्वाभ्यासान्नास्मि न में नाऽहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
गो ० 11 ' कथं तज्ज्ञानमुत्पद्यते? – एवमुक्तेन क्रमेण पञ्चविंशतितत्त्वालोचना-भ्यासादियं प्रकृतिरियं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानीति पुरुषस्य ज्ञान-मुत्पद्यते, नास्मि नाहमेव भवामि, ' न मे मम शरीरं तत् यतोऽहमन्यः शरीर-मन्यत्, नाहमिति अपरिशेषम्, अहङ्काररहितम् अविपर्ययाद्विशुद्धं विपर्ययः १. कर्तृत्वादिविशिष्टं बुध्यादिकमहं न भवामीत्यर्थः, अनेनात्मनि आरोपितं कर्तृत्वं विशुद्धज्ञानोत्पत्तौ निवर्तते इति सूचितम् | कर्तृत्वाभावे च स्वामिस्त्वमपि निवर्तत इत्याशयेनाह - न मे इति । कर्ता हि स्वामित्वं लभेत तस्मास्वाभा-विकी स्वामिता कुत इति मिश्राः । अभेदज्ञानपर्यन्तं मे मम शरीरमिति ग्रहा-रस्वामित्वप्रतीतिर्भेदज्ञाने सा निवर्तत इति गौडपादाशयः । २. आत्मनि अध्यवसायादिसर्वव्यापार निषेधाच्च कर्तृत्वाभाव इत्याह— नाहमिति मिश्राः । अहङ्कारभेदग्रह विशिष्टमिति गौडपादाभिप्रायः । अपरिशेषं चरमम् इत्यन्ये । ३. संशय विपर्ययौ ज्ञानस्याविशुद्धी तद्रहितं विशुद्धमिति मिश्राः । व्यधिकरण-प्रकाराभावाद्विशुद्धं प्रमात्मकं मिथ्याज्ञानवासनोन्मूलनक्षममिति चन्द्रिकाकारः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 137
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपता १२१ संशयोऽविपर्ययाद्विशुद्धं केवलं ' तदेव नान्यदस्तीति मोक्षकारणमुत्पद्यतेऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्त्वज्ञानं पुरुषस्येति ॥ ६४ ॥
अन्वयः – एवम्, तत्त्वाभ्यासात्, नाऽस्मि, नाहम्, न मे, इति, अपरिशेषम्, अविपर्ययात्, विशुद्धम्, केवलम् उत्पद्यते । व्याख्या -- एवम् = पूर्वोक्तरीत्या | तत्त्वाभ्यासात् = पञ्चविंशतिपदार्थतत्त्वा-भ्यासात् । नास्मि = अह्नात्मा न व्यापारवान् किन्तु इन्द्रियादय एव व्यापारवन्तः । नाहम् = अहं न कर्त्ता, नाप्यहं भोक्ता इत्यादिरूपेण अहंप्रत्ययाभिमानशून्यः । न मे = स्वस्मिन् स्वामित्वभावशून्य:, ( अर्थात् संसार के अन्दर मेरा कुछ नहीं है ) । इति = व्यापारकत्र्त्तृत्त्व - स्वामित्व आदिधर्मशून्योऽहम् इत्याकारकम् । अपरिशेषम् = यत्र किमपि अज्ञातं नावशिष्येत् एवंविधम् । अविपर्ययात् = संशय विपर्यय-विकल्पात्मकज्ञानशून्यत्वात् । विशुद्धम् = सर्वथा परिशुद्धम् । केवलम् = प्रत्यात्मकम्,
अथवा कैवल्यसंपादकम् । ज्ञानम् = तत्त्वज्ञानम् । उपद्यते ॥ ६४ ॥
हिन्दी - इस प्रकार से २५ पदार्थतत्त्वों के ज्ञान का चिरकालपर्यन्त श्रद्धा; पूर्वक निरन्तर अभ्यास करने से " मैं पुरुष ( आत्मा ) व्यापार वाला नहीं हूँ अपितु इन्द्रियाँ आदि ही व्यापारवाली हैं, और न मैं कर्तृत्व- भोक्तृत्व धर्मवाला ही हूँ क्योंकि निधर्मक होने से, संसार के अन्दर मेरा कुछ नहीं है, यह मेरा है, मैं इसका मालिक हूँ इत्यादि स्वामित्वविषयिणी भावनाओं से मैं सर्वथा दूर हूँ " इस प्रकार का कैवल्यप्रयोजकीभूत तथा संशय विपर्यय आदि से शुन्य होने के कारण जिस ज्ञान के हो जाने के पश्चात् और कुछ ज्ञातव्य अवशिष्ट नहीं रह जाता है वह विशुद्धतत्त्व ज्ञान उत्पन्न होता है ॥ ६४ ॥
प्रश्न- इस तत्त्वज्ञान से फिर क्या होता है?
तेन निवृत्तप्रसवार्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृति पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छः ॥६५ ॥
गौ ० - ' ज्ञाने पुरुषः किं करोति? ' - तेन विशुद्धेन केवलज्ञानेन पुरुषः प्रकृति पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थः यथा रङ्गप्रेक्षको-१. पुरुषमात्र गोचरमिति नारायणतीर्थाः । विपर्ययासम्भिन्नमिति वाचस्पति-मिश्राः । २. किम्पुनरीदृशेन साक्षात्कारेण सिध्यतीत्याह -- तेनेति मिश्रा ' । ३. अवस्थितयो निष्क्रियः । स्वस्थ इत्यत्र स्वच्छ इति पाठो मिनमते, तस्य च रजस्तमोकलुषया बुद्धयाऽसम्भिन्न इत्यर्थस्तन्मते बोध्यः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 138
पाठ पढ़ें पाठ छिपाएँ
१२२ सांख्यकारिका ऽवस्थितो नर्तकीं पश्यति, स्वस्थः स्वस्मस्तिष्ठति स्वस्थः स्वस्थानस्थितः । कथं भूतां प्रकृतिम्? निवृत्तप्रसवां निवृत्तबुद्धयहङ्कारकार्याम् ' अर्थवशात् सप्तम-रूपविनिवृत्तां, निवर्तितपुरुषोभयप्रयोजनवशाद् यैः सप्तमीं रूपैर्धर्मादिभिरा-त्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तां प्रकृति पश्यति ॥ ६५ ॥
अन्वयः -- तेन, स्वच्छः, प्रेक्षकवत्, अवस्थितः, पुरुषः, अर्थवशात्, सप्त-रूपविनिवृत्ताम्, निवृत्तप्रसवाम्, प्रकृतिम् पश्यति । व्याख्या - तेन = पूर्वोक्तेन विशुद्धेन तत्त्वज्ञानेन । स्वच्छः = 1 = विशुद्धसत्त्व-प्रधानः, निर्मल इत्यर्थः । प्रेक्षकवत् = उदासीनवत् । अवस्थितः = सर्वथा निष्क्रियः । पुरुषः । अर्थवशात् = विवेकख्यातिरूपप्रयोजनवशात् । सप्तरूपविनिवृत्ताम् = धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यात्मक सप्तभावभूतरूपरहिताम् । निवृत्त-प्रसवाम् = भोगापवर्गरूपप्रसवशून्यां प्रकृतिम् । पश्यति ॥ ६५ ॥
हिन्दी - पूर्वोक्त विशुद्धतत्वज्ञान के प्रभाव से निर्मल एवं निष्क्रिय वह चेतन पुरुष रजोगुण एवं तमोगुण की वृत्तियों से सर्वथा शून्य होकर उदासीन-पुरुष के समान स्वस्थितिसंपन्न एवं भोगापवर्गरूपकार्य से नितान्त शून्य होता हुआ विवेकज्ञानरूपप्रयोजनवश धर्म, अधर्म, अज्ञान, वैराग्य, अवैराग्य, ऐश्वर्य, अनैश्वर्यरूप इन सात भावभूतपदार्थों से रहित प्रकृति को एकमात्र देखता रहता है ॥ ६५ ॥
शंका — जब कि प्रकृति और पुरुष के संयोग से ही सृष्टि और वियोग से मुक्ति होती है तब फिर प्रकृति को निवृत्तप्रसवा कैसे कहा जा सकता है क्योंकि प्रकृति - पुरुष का संयोग ही तो भोगापवर्गरूपत्रसव का कारण है और वह संयोग नित्य होने के नाते हमेशा मौजूद रहेगा अतः निवृत्तप्रसवा प्रकृति को पुरुष देखता है यह पूर्वोक्त कथन सर्वथा मिथ्या है ।
दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६ ॥
१. अहङ्कारकार्याणि भोगभेदसाक्षात्कारादयो निवृत्ता यस्यास्ताम् भोग-विवेकमाक्षात्कारो हि प्रकृत्या प्रसोतव्यौ तौ च प्रसूताविति नास्याः प्रसोतव्य-मर्वाशष्यत इति निवृत्तप्रसवा प्रकृतिरिति भावः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 139
पाठ पढ़ें पाठ छिपाएँ
सस्कृत हिन्दी - व्याख्योपता १२३ गौ ० 01. किश्च — रङ्गस्थ इति यथा रङ्गस्थ इत्येवमुपेक्षक एकः केवलः शुद्धः पुरुषः तेनाहं दुष्टेति कृत्वा उपरता निवृता एका एकैव प्रकृतिः त्रैलोक्य-स्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति मूर्तिविधे, जातिभेदात् एवं प्रकृतिपुरुषयोनिवृत्तावपि व्यापकत्वात् संयोगोऽस्ति न तु संयोगात् कृतः सर्गो भवति, सति संयोगेऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे प्रयोजनं नास्ति सर्गस्य सृष्टेः चरितार्थत्वात् प्रकृतेद्विविधं प्रयोजनं शब्द-विषयोपधपुरुषान्तरोपलब्धिश्च उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति ' प्रयोजनं यः पुनः सर्ग इति यथा दानग्रहणनिमित्तं उत्तमर्णाधमर्णयोर्द्रव्यविशुद्ध सत्यपि संयोगे न कश्चिदर्थसम्बन्धी भवति, एवं प्रकृतिपुरुषयोरपि नास्ति प्रयोजनमिति ॥ ६६ ॥
अन्वयः – एकः, मया, दृष्टा, इति, उपेक्षकः, अन्या, अहम्, दृष्टा, इति, उपरमति, तयोः संयोगे सत्यपि सर्गस्य, प्रयोजनम् नास्ति । व्याख्या – एकः = उत्पन्नविवेकज्ञानवान् चेतनः पुरुषः । मया = = पुरुषेण | दृष्टा = सर्वाङ्गसुन्दरी प्रकृति चाक्षुपप्रत्यक्षविपयीकृता । इति = एवं विवारवान् पुरुषः । उपेक्षक: === प्रकृतेरुपेक्षां करोति । अन्या = प्रकृतिः । अहम् = प्रकृतिः । । दृष्टा = नितान्तं सम्यक्ता भुक्ता । इति = इत्येवं विचारयन्ती । उपरमति = उपरामं करोति, सर्वथा व्यापारशून्या भवतीत्यर्थः । एवं च सति ' तयोः = १. ननु नित्ययोः प्रकृतिपुरुषयोः संयोगस्य विद्यमानत्वात् कथं तस्याः प्रसवनिवृत्तिस्तत्राह दृष्टेति । २. रङ्गस्थ इति पदं स्वयं व्याचष्टे यथेति । यथा रङ्गभूमिस्थः सभ्यः नर्तकीं दृष्ट्वा तद्दर्शनादुपरमते तथंक, पुरुषः स्वभिन्नेयं स्वसम्पर्काद् वध्नाती-त्येवंगुणा प्रकृतिर्मया दृष्टेत्युपेक्षको भवति तद्भोगाद्यावेशरहितो भवतीत्यर्थः । एवं प्रथमपादं व्याख्याय द्वितीयं व्याचष्टे - तेनाहमिति । गौडपादमते ' दृष्टाह-मित्युपरमत्येके ' ति पाठोऽत्र द्रष्टव्यः, अत एवाह - एकेति । न द्वितीयेत्यत्र हेतु-माह - मूर्ति इति । प्रकृतेर्जात्या भेदस्वीकारे मूर्तिनाशस्य हेतुत्वात्तस्य च परिणामवादेऽसम्भवात् इति भावः । ३. उत्तरार्धमवतारयति एवमिति । सति संयोगेऽपीत्यस्यार्थमाह — तयो-रिति । ४. सृष्टिचरितार्थत्वं विवृणोति. – प्रकृतेरिति । ५. पुनः प्रकृतिपुरुषयोः सृष्टिप्रयोजकसंसर्गाभावे दृष्टान्तमाह – यथेति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 140
पाठ पढ़ें पाठ छिपाएँ
१२४ सांख्यकारिका प्रकृतिपुरुषयोः । संयोगे सत्यपि = संयोगात्मकसम्बन्धे वर्तमानेऽपि । सर्गस्य = पुनः
सृष्टेः, भोगापवर्गरूपप्रसवस्य वा । प्रयोजनम् । नास्ति ॥ ६६ ॥
हिन्दी - जिन चेतन पुरुष को विवेकज्ञान उत्पन्न हो चुका है वह चेतन पुरुष मैं सर्वाङ्गसुन्दरी उस प्रकृति को अच्छी प्रकार देख चुका हूँ अब और क्या देखना है ऐसा विचार करके उस प्रकृति की उपेक्षा कर देता है । इधर प्रकृति को भी मैं पुरुष के द्वारा देखी जा चुकी हूँ ऐसा ज्ञान जब हो जाता है उसी समय से वह अत्यन्त सुकुमारतर प्रकृति लज्जावश पुरुष के समक्ष नहीं आती है । इस प्रकार प्रकृति - पुरुष के संयोग के मौजूद रहने पर भी सृष्टि का अथवा भोगापवर्ग-रूप प्रसव का कोई प्रयोजन ही नहीं रह जाता है क्योंकि पुरुष भी प्रकृति की देखभाल कर कृतकृत्य हो चुका है । इधर प्रकृति तो अत्यन्त लज्जाशील होने के नाते इतने से ही उपराम को प्राप्त हो गयी कि मुझे पुरुष ने देख लिया ॥ ६६ ॥
प्रश्न - यदि तत्त्वज्ञान के उत्पन्न होने मात्र से ही पुरुष मुक्त हो जाय तो उसके पश्चात् ही उसके स्थूल और सूक्ष्म दोनों शरीरों का विनाश हो जाय? तब फिर अदेह पुरुष प्रकृति को कैसे देख पायेगा जैसा कि ६५ वीं कारिका में " प्रकृति पश्यति पुरुषः " कहा है । यदि यह कहा जाय कि तत्त्वज्ञान हो जाने पर भी प्रारब्धकर्मों के क्षीण न होने के नाते पुरुष मुक्त नहीं हो पाता है, तब यह प्रश्न होता है कि प्रारब्धकर्मों का क्षय होता कैसे है? यदि भोग से होता है तो आश्चर्य की बात है कि " व्यक्त, अव्यक्त, ज्ञ इनके ज्ञान से उत्पन्न तत्त्वज्ञान से मोक्ष होता है " यह शास्त्रीय कथन ही मिथ्या जाता है । दूसरी बात यह है कि जिन असंख्य प्रारब्धकर्मों के फलोपभोग का काल अभी तक निश्चित ही नहीं है उनका भोग से क्षय होगा और फिर मोक्ष यह कथन भी एक मनोरथमात्र ही है?
सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशात् चक्रभ्रमिवद् धृतशरीरः ॥६७ ॥
गो ० – ' यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षो भवति ततो मम कस्मान्न भवती'-त्यत उच्यते ' यद्यपि पञ्चविंशतितत्त्वज्ञानं भवति तथापि संस्कारवशाद्धृतशरीरो १. ननु ' भिद्यते हृदयग्रन्थिरित्यादिश्रुत्या तत्त्वज्ञानानन्तरमेव मुक्तो सर्व-कर्मक्षयेण देहाद्यभावसूचनात् कथं प्रकृतिदर्शनम् । ज्ञाने देहस्य कारणत्वात्तत्राह सम्यगित्यपरे । ज्ञानस्य मोक्षे हेतुत्वप्रतिपादनाज्ज्ञानवतो मे मोक्षः कथं नेति गौडपादानतरणाशयः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA