साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 21–30
साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 21–30
पृष्ठ 21
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी - व्याख्योपेता तथा चोक्तम् - षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनदूनानि पशुभिस्त्रिभिः ॥ इति । इत्थं यद्यपि तिस्मृतिविहितो धर्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति ।
तथा - बहूनीन्द्रसहस्राणि देवानां च युगे युगे ।
कालेन समतीतानि कालो हि दुरतिक्रमः ॥ इति ॥
एवमिन्द्रादिनाशात् क्षययुक्तः । तथाऽतिशयो विशेषस्तेन युक्तः । विशेषगुप-दर्शनादितरस्य २ दुःखं स्यादिति । एवमानुश्रविकोऽपि हेतुदृष्टवत् । ' कहि श्र ेयानि ' ति? उच्यते – तद्विपरीतः श्रयान् ताभ्यां दृष्टानुश्रविकाभ्यां विपरीतः श्रेयान् प्रशस्यतर इति, अविशुद्धिक्षयातिशयायुक्तत्वात् । कथमित्याह — व्यक्ता-व्यक्तज्ञ विज्ञानात् । तत्र व्यक्तं महदादि - बुद्धिरहङ्कारः पञ्चतन्मात्राणि एकादशे-न्द्रियाणि पञ्चमहाभूतानि, अव्यक्तं प्रधानम्, ज्ञः पुरुषः, एवमेतानि पञ्चविंशति-तत्त्वानि व्यक्ताव्यक्तज्ञाः कथ्यन्ते, एतद्विज्ञानात् श्रेय इति । उक्तं च ' पञ्चविंशति-तत्त्वज्ञ ' इत्यादि ॥ २ ॥
अन्वयः - आनुश्रविकः, ( अपि ) दृष्टवत्, ( अस्ति ) हि सः अविशुद्धि-क्षय - अतिशययुक्तः, ( अस्ति ) ( अतः ) तद्विपरीत:, ( उपायः ) श्रेयान् ( वर्त्तते ) ( स च उपाय: ) व्यक्ताव्यक्तज्ञ विज्ञानात्, ( भवति ) । व्याख्या - आनुश्रविकः = गुरुपाठात् अनुश्रूयते इति अनुश्रवो वेद: तंत्र भव आनुश्रविकः ज्योतिष्टोमादियागादिरूपो वैदिकः कर्मकलाप इत्यर्थः । दृष्टवत् = पूर्वोक्तदृष्टोपायतुल्य एवास्तीति भावः । हि = यतः । सः = आनुश्रविक उपायः । अविशुद्धिक्षयातिशययुक्तः = अविशुद्धिदोषयुक्तः यथा मनुष्यः कस्यचित् प्राणिनो हिंसां विधाय अविशुद्धिदोषयुक्तो भवति तथा यज्ञेऽपि पशुहिंसा कृत्वापि तादृश-दोषवान् भवतीति भावः । क्षयदोषयुक्तश्च स्वर्गादिरूपफलस्य भोगेन नाश्यत्वात् पुनः पतनसंभवात्, यथा ' क्षीणे पुण्ये मर्त्यलोकं विशन्ति ' इति श्रूयते । १. पशुवधजन्य पापफलदुःखयुक्तत्वात् स्वर्गादिरूपयागफलजनको धर्मो न इत्यर्थः । वैधहंसाभिन्नहिसैव पापजनिकेत्यत्र भिन्नान्तत्वनिवेशे प्रमाणाभावात् । २. हीनगुणसम्पदः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 22
पाठ पढ़ें पाठ छिपाएँ
६ साख्यकारिका अतिशयदोषयुक्तोऽपि यथा विज्ञकर्मका ण्डिनं दृष्ट्वा मूर्खकर्मकाण्डी दुःखी भवति, धनिनं दृष्ट्वा दरिद्रो दुःखी भवति, एवं सुन्दरं पुरुषं दृष्ट्वा कुरूपो दुःखी भवति, तथा स्वर्गेऽपि इन्द्रासनासीनं जीवं दृष्ट्वा अपरे दुःखिनो भवन्ति । अतः अनुश्रविकेणापि यागादिकर्मकलापेन नैकान्तिकी - नात्यन्तिकी च दुःखनिवृत्ति-भवितुमर्हति इति भावः । ( अतः ) तद्विपरीतः = तस्मात् - आनुश्रविकोपायात्, विपरीत: । ( उपायः ) अर्थात् ' सांख्यशास्त्रजन्यतत्त्वज्ञानरूप ' उपायः । श्रयान् = प्रशस्तः ( स ' च ' तत्त्व-ज्ञानरूपोपायः ) व्यक्ताव्यक्तज्ञ विज्ञानात् = व्यक्तश्च अव्यक्तश्च ज्ञश्च तेषां विज्ञानात् अर्थात् - पञ्चविंशतितत्त्वानां सख्यिशास्त्र जन्ययथार्थज्ञानात् । ( भवति ) ॥ २ ॥
हिन्दी - अनुभव ( वेद ) में विहित यागादिरूप आनुभविक उपाय भी पूर्वोक्त दृष्ट उपाय के समान ही हैं, क्योंकि वह भी अविशुद्धिदोष क्षयदोष तथा अति-शय दोष - इन तीन प्रकार के दोषों से युक्त ही है । इसलिये उस आनुभविक उपाय से विपरीत ही उपाय दुःखत्रय की निवृत्ति के लिये श्रेयस्कर होगा —जो कि व्यक्त - अव्यक्त ( प्रकृति ) तथा ज्ञ ( पुरुष ) इनके अवान्तर भेद सहित पच्चीस तत्त्वों के यथार्थ ज्ञान से होता है और वह ज्ञान सांख्यशास्त्र के अध्ययन से होता है । इसी उद्देश्य से ईश्वरकृष्ण ने पञ्चशिखाचार्य से इस साख्यशास्त्र सम्बन्धी पञ्चविंशति तत्त्वज्ञान को लेकर कारिका के द्वारा अभिव्यक्त किया ॥ २ ॥
अब ईश्वरकृष्ण सांख्य - सम्बन्धी पच्चीस प्रकार के तत्त्वों के स्वरूप को पदार्थ - चतुष्टय के रूप में बतलाते हैं—
/ मूलप्रकृतिरधिकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिनं विकृतिः पुरुषः ॥ ३ ॥
( गो०- ० — ' अथ व्यक्ताव्यक्तज्ञानां को विशेष इति ' ' उच्यते - मूलप्रकृतिः प्रधानम् - प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात्, मूलं च सा प्रकृतिश्च मूलप्रकृतिः, अविकृतिः अन्यस्मान्नोद्यते, तेन प्रकृतिः २ कस्यचिद्विकारो न भवति । मह-१. पूर्वोक्तपञ्चविंशतितत्त्वानां संक्षिप्तचतुर्विधसांख्याभिमतपदार्थेषु अन्त-र्भावरूपविशेष उच्यत इत्यर्थः । २. प्रकर्षेण कार्यकरणात्प्रकृतिरिति वाचस्पतिमाठरौ । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 23
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी- व्याख्योपेता ७ दाद्याः प्रकृति विकृतयः सप्त । महान् बुद्धि:, बुद्ध्याद्याः सप्त - बुद्धिः १ अहङ्कारः १ पञ्चतन्मात्राणि ५ एताः सप्त प्रकृतिविकृतयः । तद् तथा प्रधानाद् बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति, संवाहङ्कारमुत्पादयति अतः प्रकृतिः । अहङ्कारोऽपि बुद्ध ेरुत्पद्यत इति विकृतिः स च पञ्चतन्मात्राण्युत्पादयतीति प्रकृतिः । तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तस्मादाकाशमुत्पद्यत इति प्रकृतिः । तथा स्पर्शतन्मात्रमहङ्कारादु - पद्यत इति विकृतिस्तदेव ' वायुमुत्पा-दयतीति प्रकृतिः । गन्धतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेव पृथिवीमुत्पा-दयतीति प्रकृतिः । रूपतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेव तेज उत्पादयतीति प्रकृतिः । रसतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवाप उत्पादयतीति प्रकृतिः । एवं महादाद्याः सप्त प्रकृतयो विकृतयश्च । षोडशकस्तु विकारः पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभूतानि एष पोडशको गणो विकृतिरेव विकारो विकृतिः । न प्रकृतिर्न विकृति पुरुषः २ ॥ ३ ॥
( अन्वयः - मूलप्रकृतिः, अविकृतिः, महदाद्याः, सप्त, प्रकृतिविकृतयः ( भवन्ति ) शक: ( गण ), विकारः, तु, पुरुषः न प्रकृतिः, न विकृतिः, ( अस्ति ) । व्याख्या – मूलप्रकृतिः = प्रकरोति - संसारं रचयति, इति प्रकृतिः, मूलञ्चासी प्रकृतिः मूलप्रकृतिः, संसारस्य मूलकारणं प्रधानमित्यर्थः । अविकृतिः न विकृतिरिति अविकृतिः, विकारशून्या इत्यर्थः । महदाद्या: = महत् आद्यं येषां ते महदाद्याः महत्तत्वम्, अहङ्कारतत्त्वम्, शब्द स्पर्श - रूप - रस- गन्धतन्मात्राणि इत्यर्थः । सप्त = सप्तसंख्याकाः । प्रकृति विकृतयः प्रकृतयश्च विकृतयश्चेति प्रकृति विकृतय कारण - कार्योभयरूपाः, अर्थात् कस्यचित् कारणानि कस्यचिच्च कार्याणि इत्यर्थः । भवन्तीति शेषः । षोडशकः = ज्ञानेन्द्रियपञ्चकम् कर्मेन्द्रियपत्रकम् - तन्मात्र पंचकम्-मनश्चेति षोडशसंख्याक: । ( गण ) विकारः = कार्यमेव । पुरुषः = जीवपदाभिधेयः
सांख्यपुरुषः । न प्रकृतिः = न कारणम् । न विकृति::: = न कार्यम् ( अस्ति ) ॥ ३ ॥
हिन्दी - संसार की रचना करनेवाली मूलभूत प्रकृति किसी की भी कार्य विकृति ) नहीं है अपितु वह समस्त चराचर विश्व की कारण ( अविकृति ) १. पूर्वोक्तशब्दतन्मात्ररीत्या, एवमग्रेऽपि । २. एवं च प्रकृति विकृतिरूपे जगति कचित्प्रकृतिरूप एव कश्चिद्विकृतिरूप एव कश्चिदुभयरूपः कश्चिदनुभयरूप एव पदार्थ इति भावः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 24
पाठ पढ़ें पाठ छिपाएँ
८ सांख्यकारिका ही है और महत् आदि संस्कृत - टोकोक्त सात पदार्थ किसी के कारण ( प्रकृति ), किसी के कार्य ( विकृति ), दोनों माने गये हैं तथा संस्कृति टीकोक्त १६ पदार्थ कार्य ही होते हैं और पुरुष न किसी का कारण है और न किसी का कार्य है । वह एकमात्र पुष्कर ( कमल ) पलाश ( पत्र ) के समान निर्लेप है । अभिप्राय यह है कि सांख्य में सामान्यत: चार पदार्थ माने गये हैं - १ - कारण २ -- कार्य, ३ - कार्यकारणोभयरूप, ४ - कार्यकारणानुभयात्मक । जिनमें कारण-भूतपदार्थ केवल प्रकृति है और कार्यभूतपदार्थ १६ हैं, चक्षु आदि ५ - ज्ञानेन्द्रियाँ वाणी आदि, ५- कर्मेन्द्रियाँ शब्द आदि ५ - तन्मात्राएँ और मन । और महत् अहंकार, ५- तन्मात्राएँ ये ७ पदार्थ कारण कार्य उभयरूप है और पुरुष न किसी का कारण है न किसी का कार्य है अतः वह अनुभयात्मक है । इस प्रकार इन चार प्रकार के पदार्थों के ही २५ भेद हो जाते हैं ॥ ३ ॥
इन पूर्वोक्त पदार्थों के साधक प्रमाण कितने हैं तथा कौन - कौन हैं? शंका का उत्तर देते हैं ।
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥। ४ ॥
( गौ ० - १ एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति, इह लोके प्रमेयवस्तु प्रमाणेन साध्यते, यथा प्रस्थादिभिर्ब्रहयस्तुलया चन्दनादि, तस्मात् प्रमाणमभिधेयम् २ । दृष्टमिति दृष्टं तथा श्रोत्रं त्वक् चक्षुजिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि, शब्दस्पर्शरूपरस गन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यम्, शब्दं श्रोत्रं गृह्णाति त्वक् स्पर्श, चक्षू रूपं, जिह्वा रसं, घ्राणं गन्धमिति, एतद् दृष्टमित्युच्यते प्रमाणम् ” । प्रत्यक्षेणानुमानेन वा योऽर्थो न गृह्यते स आप्तवचनाद् ग्राह्यः ४ यथा ' इन्द्रो १. प्रमेयोद्देशानन्तरम् । प्रमाणनिरूपणे सङ्गतिमाह - एवमिति । २. तद्दर्शयति - विभागलक्षणाभ्यां दृष्टमितीति शेषः । ३. प्रत्यक्षपूर्वकमनुमानं प्रसिद्धत्वाद्वक्ष्यमाणत्वाच्चात्रोद्देशप्रकरणे नोक्तम् । ४. आप्ता रागद्वेषरहिताः सनत्कुमारादयः श्रुतिर्वेदस्ताभ्यामुपदिष्टं तथेति श्रद्धेयमाप्तवचनमिति माठरः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 25
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी - व्यास्योपेता ९ देवराजः, उत्तराः कुरवः स्वर्गेप्सरसः ' इत्यादि । प्रत्यक्षानुमानाग्राह्यमप्याप्त-वचनाद् गृह्यते । अपि चोक्तम् ' -आगमो ह्याप्तवचन २ दोपक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं ब्रूयाद्धत्वसम्भावत् ॥ स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः । पूजितस्तद्विधैनित्यमाप्तो ज्ञेयः स तादृशः ॥ इति । एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमाणानि जैमिनिः । अथ कानि तानि प्रमाणानि? ' अर्थापत्तिः सम्भवः अभावः प्रतिभा ऐतिह्यम् उपमानं च ' इति षट् प्रमाणानि । तत्रार्थापत्तिद्विविधा — दृष्टा श्रुता च ) तत्र दृष्टा - एकस्मिन् पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव । श्रुता यथा - दिवा देवदत्तो न भुङ्क्ते, अथ च पीनो दृश्यते, अतोऽवगम्यते रात्रौ भुङ्क्त इति । सम्भवो यथा - प्रस्थ इत्युक्ते चत्वारः कुडवा: सम्भाव्यन्ते । अभावो नाम प्रामितरेतरात्यन्तसर्वाभावलक्षणः । प्रागभावो यथा - देवदत्तः कौमारयोवना-दिषुः ४ । इतरेतराभावः - पटे घटाभावः । अत्यन्ताभावः खरविपाणवन्ध्यासुत-खपुष्पवदिति । सर्वाभावः- प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधान्यदर्शनाद् वृष्टेरभावोऽवगम्यते । “ एवमभावोऽनेकधा । प्रतिभा यथा - ' दक्षिणेन च विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः ॥ ' एव-मुक्ते तस्मिन् प्रदेशे शोभनाः गुणाः सन्तीति प्रतिभोत्पद्यते, प्रतिभा च जानतां ज्ञानमिति ६ । ऐतिह्यं यथा - द्रवीति लोको यथाऽत्रवटे यक्षिणी प्रतिवसतीत्येव १. अत एवोक्तमित्यर्थः । २. आप्तवचनं लक्षयित्वा तद्घटितमाप्तत्वं निर्वक्ति - आप्तमिति । ३. सर्वप्रमाणसिद्धत्वादिति कारिकांशं व्याचष्टे - एतेष्विति । सिद्धानि-अन्त - भूतानि । ४. कुमारदेवदत्ते युवा भविष्यतीति यौवनप्रागभाव इत्यर्थः । ५. यथा — प्रतियोगितावच्छेदका रोप्य संसर्गभेदादेकप्रतियोगियोरत्यन्तान्यो-न्याभावयोर्बहुत्वम् । एवं विशिष्टाभावद्वित्वावच्छिन्नाभावसामान्याभावभेदे-नाप्यभावस्यानेकविधत्वं विभावनीयम् । ६. इन्द्रियलिङ्गाद्यभावे यदर्थभानं सा प्रतिभा सैव च प्राति भमार्षापर-पर्यायं ज्ञानमिति प्रशस्तपादाचार्याः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 26
पाठ पढ़ें पाठ छिपाएँ
१० साख्यकारिका ऐतिह्यम् । उपमानं यथा — गौरिव गवयः, समुद्र इव तडागः । एतानि पट् प्रमा-णानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्रानुमाने तावदर्थापत्तिरन्तर्भूता सम्भवा-भावप्रतिभैतिह्योपमानाश्वाप्तवचने । तस्मात् त्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं, तदाह - तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीति वाक्यशेषः । प्रमेयसिद्धिः प्रमाणाद्धि । प्रमेयं प्रधानं बुद्धिरहङ्कारः पञ्चतन्मात्राणि एका-दन्द्रियाणि पञ्चमहाभूतानि पुरुष इति एतानि पंचविशतितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते, तत्र किञ्चित् प्रत्यक्षेण साध्यं किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तम् ॥ ४ ॥
अन्वयः - दृष्टम्, अनुमानम् च, आप्तवचनम्, त्रिविधम् प्रमाणम्, इष्टम् सर्वप्रमाणसिद्धत्वात्, हि, प्रमेयसिद्धिः प्रमाणात्, ( भवति ) । व्याख्या - दृष्टम् = प्रत्यक्षम् । अनुमानम् । च । अप्तवचनम् = शब्दः । त्रिविधम् । प्रमाणम् । इष्टम् = अभिमतम् । सांख्यानामिति शेषः । ननु त्रिविध-प्रमाणातिरिक्तप्रमाणानां सत्त्वात्कथं त्रीण्येव प्रमाणानि उक्तानि इति चेन्न । सर्वप्रमाणसिद्धत्वात् । हिष्यतः । प्रमेयसिद्धिः = प्रमेयपदार्थानां घटपटादीनां
सिद्धिः = निश्चयः । प्रमाणात् । भवतीति शेषः ॥ ४ ।
हिन्दी - प्रत्य / दृष्ट ), अनुमान, आप्तवनन ( शब्द ) - ये तीन प्रकार के प्रमाण सांख्यों ने माने हैं । अन्य लोगों से स्वीकृत और सब प्रमाण इन्हीं तीन प्रमाणों में सिद्ध ( अन्तर्भूत ) हैं । प्रमाणों को स्वीकार करने की आवश्यकता इसलिये होती है कि घट - पट आदि प्रमेय पदार्थों की सिद्धि प्रमाण के आधार पर ही होती है ॥ ४ ॥
पूर्वोक्त प्रमाणों के लक्षण बतलाते हैं-प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तलिङ्गलिङग पूर्वमाप्तश्रुतिराप्तवचनं तु ॥५ ॥
१. जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिःसत्त्वकल्पनमर्थापत्तिरभिमता मीमां-सकानाम्, किन्तु देवदत्तो वहिःसत्तावान् जीवित्वे सति गृहेऽसत्त्वादहमिवेति व्यति-रेक्यनुमान एव तस्या अन्तर्भाव इत्यर्थ: 1 सम्भवेति । अत्र सम्भवाभावयोरनुमान्-प्रत्यक्षान्तर्भावस्य सकलदार्शनिक मतसम्मतत्वादाप्तवचनेऽन्तर्भावश्चिन्त्यः । २. दृष्टादित्रिविधप्रमाणेऽर्थापत्त्यादिप्रमाणन्तर्भावो भवतीत्यर्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 27
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी - व्याख्योपेता गौ ० — तस्य किं लक्षणमेतदाह - प्रतिविषयेषु श्रोत्रादीनां अध्यवसायो दृष्टं, प्रत्यक्षमित्यर्थः । त्रिविधमनुमानमाख्यातं -सामान्यतोदृष्टञ्चेति । पूर्वमस्यास्तीति पूर्ववद्, यथा मेघोन्नत्या पूर्वदृष्टवात् । शेषवत् यथा - समुद्रादेकं जलपलं ' लवणमासाद्य लवणभाव इति । सामान्यतोदृष्टम् - देशान्तराद्देशान्तरं प्राप्तं मच्चन्द्रतारकं चैत्रवत् यथा चैत्रनामानं देशान्तराद्देशान्तरं गतिमानयमिति तद्वच्चन्द्रतारकमिति, तथा पुष्पिताम्रदर्शनादन्यत्र ११ शब्दादिविषयेषु पूर्ववत् शेषवत् वृष्टि साध शेषस्याप्यस्ति दृष्टम् गति-प्राप्तमवलोक्य पुष्पिता आम्रा इति सामान्यतोदृष्टेन साधयति? एतत्सामान्यतो दृष्टम् । किञ्च तल्लिङ्ग-लिङ्गिपूर्वकमिति, तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते, यथा दण्डेन यतिः । लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते यथा —–दृष्ट्वा यतिमस्येदं त्रिदण्डमिति आप्तश्रुतिराप्तवचनं च । आप्ता आचार्या ब्रह्मादयः, श्रुतिर्वेदः, आप्ताश्च श्रुति आप्तश्रुतिः ४ तदुक्तमाप्तवचनमिति एवं त्रिविधं प्रमाण मुक्तम् ॥ ५ ॥
अन्वयः - प्रतिविषयाध्यवसायः, दृष्टम्, अनुमानम्, त्रिविधम्, आख्यातम्, तत्, लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुति, आप्तवचनम् तु ॥ ५ ॥
व्याख्या - प्रतिविषयाध्यवसायः = ' विषयं विषयं ' प्रति ' वर्तते ' ' इति ' प्रति-विषयम् = अर्थसन्निकृष्टमिन्द्रियम्, अध्यवसायः ज्ञानम्, इन्द्रियार्थसन्निकर्ष जन्य ज्ञानम् इत्यर्थः । दृष्टम् = प्रत्यक्षप्रमाणम् । अनुमानम् = अनुमानं प्रमाणम् । त्रिविधम् = पूर्ववत् - शेषवत् - सामान्यतोदृष्टञ्च । आख्यातम् = कथितम् । तत् = पूर्वोक्तम् अनुमानम् लिङ्ग लिङ्गिपूर्वकम् = लिङ्गम् व्याप्यम्, लिङ्गि व्यापकम् । १. पलपरिमाणं जलमित्यर्थः । लवणं - क्षारम् । २. अत्र अयं देशो भविष्यद्वृष्टिमान् मैघोन्नतिमत्वात् तद्देशवत्, समुद्रजलं क्षार मुदधिजलत्वाद्भुद्धृततज्जलवत्, चन्द्रतारकं गतिमत् देशान्तरप्राप्तिमत्वाच्चैत्र-दितिक्रमेण त्रिविधस्यानुमानस्य प्रयोगा द्रष्टव्याः । ३. लिङ्गं व्याप्यं, लिङ्गि · व्यापकं, लिङ्गलिङ्गिपदेन प्रत्ययोपलक्षणम्, लिङ्गिग्रहणावृत्या च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानं दर्शितम्, तेन व्याप्य-व्यापकभाव - पक्षधर्मताज्ञानपूर्वकमनुमानमित्यनु मानसामान्यलक्षणमिति मिश्राः । ४. द्वन्द्वसमासेन वेदवाक्यानामार्षाणां वाक्यानां च स्वतः प्रमाणत्वमुद्घोषितं तन्मूलत्वाच्चेतरेषां प्रमाणत्वमिति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 28
पाठ पढ़ें पाठ छिपाएँ
१२ सांख्यकारिका तत्पूर्वक्रम् अर्थात् व्याप्यव्यापकभावपूर्वकम्, लिङ्गिपदञ्च आवर्तनीयं तेन आवृत्तद्वितीयलिङ्गपदेन लिङ्गमस्यास्तीति व्युत्पत्या पक्षधर्मताज्ञानमपि ' लब्धं ' भवति तथा च व्याप्यव्यापकभावपूर्वकत्वे सति पक्षधर्मताज्ञानपूर्वकत्वम्, अनुमानसामान्यलक्षणम् । आप्तश्रुति = आप्तानाम् = वेदप्रामाण्याभ्युपगन्तृणाम् श्रुतिः = श्रवणेन्द्रियजन्य - शब्दज्ञानम्, तथा च ' आप्तपुरुषोच्चरितवाक्यजन्य-वाक्यार्थज्ञानत्वम् । आप्तवचनम् = अर्थात् शब्दप्रमाणसामान्यलक्षणम् । हिन्दी – सांख्यवालों ने प्रतिविषय अर्थात् अर्थसन्निकृष्ट इन्द्रिय से होने वाले अध्यवसाय ( वृत्तिरूप ज्ञान ) को हो प्रत्यक्ष प्रमाण माना है । उनका अभिप्राय यह है कि घट - पट आदि विषयों के साथ इन्द्रियों का सम्बन्ध होने पर बुद्धि के तमोगुणरूप आवरण का भंग होता है और फिर सत्त्वगुण स्वरूप प्रकाश का आविर्भाव होता है और उसके पश्चात् घटाकारवृत्तिरूप अध्यवसाय ( निश्चयात्मक वृत्ति ) का उदय होता है, वही निश्चयात्मिका अन्तःकरण ( बुद्धि ) की वृत्ति ' अयं घट: " इस प्रमाज्ञानस्वरूप पौरुषेय बोध का कारण होने से प्रमाण बनती है । सांख्यमत में अनुमान के स्वरूप का “ लिङ्गलिङ्गपूर्वकम् " कहकर शाब्दिक भेद अवश्य कर दिया है परन्तु आर्थिक स्वरूप अनुमान का वही है जो कि नैयायिकों ने माना है कि व्याप्तिविशिष्टपक्षधर्मताज्ञान ' । और इसी अर्थ में वाचस्पति मिश्र ने ' लिङ्गलिङ्गिपूर्वक ' का पर्यवसान भी किया है । और वह अनुमान - ( १ । पूर्ववत् ( २ ) शेषवत् ( ३ ) सामान्यतोदृष्ट-इस रूप से तीन प्रकार का है । कारण के द्वारा होनेवाले कार्यानुमान को पूर्ववत् अनुमान कहा है । जैसे बादलों से आच्छादित आकाश को देख कर तथा विजली की कड़कड़ाहट को सुनकर भाविकालीन वृष्टिरूप कार्य का अनुमान होता है । शेषवत् — शेषवत् अनुमान उसे कहते हैं जहाँ होता है । क्योंकि अन्तिमकार्य को ' शेष ' शब्द से लिंग से होनेवाले अनुमान को शेषवत् अनुमान कहा है ' वह्निमान् धूमात् ' । सामान्यतोदृष्ट - सामान्यतोदृष्ट वह अनुमान CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 कार्य से कारण का अनुमान कहा है और उस कार्य रूप है । इसका सुगम उदाहरण है जो कार्य और कारण इ Foundation USA
पृष्ठ 29
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी - व्याख्योपेत्ता १३ दोनों लिंगों से शून्य हो अर्थात् जहाँ हेतु में साध्य की व्याप्ति सामान्य रूप से दृष्ट हो चुकी हो । जैसे चक्षुः प्रमाणं प्रमाजनकत्वात् श्रोत्रवत् । आप्तवचनम् —यहाँ पर आप्तवचन यह लक्ष्य है और आप्त श्रुति यह लक्षण है । अर्थात् आप्तपुरुष के द्वारा उच्चरित यथार्थवाक्य से उत्पन्न वाक्यार्थज्ञान को ही शब्दप्रमाण कहा है । अतः वेदश्रुति स्मृति इतिहास - पुराण-धर्मशास्त्र एवं सामान्यशास्त्र आदि के वाक्यों से उत्पन्न हुए ज्ञानों का भी शब्दप्रमाण में अन्तर्भाव हो जाता है, बौद्धदर्शन प्रभृति वाक्यों के प्रामाण्य का निरास इसलिए हो गया कि वे अनाप्तोच्चरित हैं । प्रश्न - पहिले जो तीन प्रकार के प्रमाण बतलाये वे उनमें से प्रत्यक्ष-प्रमाण का देखना - सुनना आदि फल स्पष्ट ही है अतः इतर दो प्रमाणों का अर्थात् अनुमान और शब्दप्रमाण का फल दिखलाते - ' सामान्यतस्तु ' इत्यादि
ग्रन्थ से--सामान्यतस्तु दृष्टादतोन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥६ ॥
गौ ० — ‘ तत्र केन प्रमाणेन किं साध्यम् उच्यते - सामान्यतो दृष्टादनु-मानादतीन्द्रियाणामिन्द्रियाण्यतीत्य वर्तमानानां सिद्धिः । प्रधानपुरुषावतीन्द्रियो सामान्यतोदृष्टेनानुमानेन साध्येते, - - यस्मान्महदादिलिङ्गं त्रिगुणम्, यस्येदं त्रिगुणं कार्य तत् प्रधानमिति, यतश्चाचेतनं चेतनमिवाभाति अतोऽन्योऽधिष्ठाता पुरुष इति । व्यक्तं प्रत्यक्षसाध्यम्, तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् – ' यथेन्द्रो देवराजः, उत्तराः कुरुवः स्वर्गेऽप्सरस ' इति परोक्षमाप्त-वचनात् सिद्धम् ॥ ६ ॥
अन्वयः - सामान्यतस्तु दृष्टात्, अतीन्द्रियाणाम् अनुमानात् प्रतीतिः, ( भवति ) तस्मादपि, च, असिद्ध, परोक्षम्, आप्तागमात्, सिद्धम् ॥ ६ ॥
व्याख्या – सामान्यतोदृष्टात् । अनुमानात् । तु = एव । अतीन्द्रियाणाम् = इन्द्रियाग्राह्यपदार्थानाम् ( प्रधान - पुरुषादीनाम् ) । प्रतीति: ज्ञानम् । ( भवति ) च । तस्मादपि = सामान्यतो दृष्टानुमानादपि । असिद्धम् = अज्ञातम् । परोक्षम् = अप्रत्यक्षम् ( वस्तु ) । आप्तागमात् = शब्दप्रमाणात् । सिद्धम् = ज्ञातम् । भवतीति शेषः । हिन्दी - सामान्यतोदृष्ट अनुमान से ही प्रकृति - पुरुष आदि अतीन्द्रियपदार्थो CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 30
पाठ पढ़ें पाठ छिपाएँ
१४ सांख्यकारिका की प्रतीति होती है और सामान्यतोदृष्ट अनुमान से भी जिन स्वर्ग - नरक आदि अतीन्द्रियपदार्थों का ज्ञान नहीं हो पाता है उनका ज्ञान शब्दप्रमाण के आधार पर होता है । प्रश्न - जिस प्रकार आकाशपुष्प - कछुए के रोम- खरगोश के सींग आदि पदार्थों का प्रत्यक्षप्रमाण एव सामान्यतोदृष्ट अनुमान से भी ज्ञान ही न होकर उल्टा उनके अभाव का ज्ञान होता है उसी प्रकार प्रकृति और पुरुष का भी अस्तित्वाभाव ही क्यों न स्वीकार कर लिया जाय? तब फिर कैसे सामान्यता-दृष्ट अनुमान से प्रकृति - पुरुष की सिद्धि सांख्य कर सकेगा?
अतिदूरात् सामीप्यादिन्द्रिय घातान्मनोऽनवस्थानाच्च ।
सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारात् । ७ ॥
गौ ० ० - अत्र कश्चिदाह ' प्रधानं पुरुषो वा नोपलभ्यते, यच्च नोपलभ्यते लोके तन्नास्ति तस्मात् तावपि न स्तः यथा द्वितीयं शिरस्तृतीयो बाहुरिति । तदुच्यते- - अत्र सतामप्यर्थानामष्टधोपलब्धिर्न भवति । तद् यथा - इह सतामत्यर्था • नामतिदूरादनुपलब्धिर्दृष्टा, यथा – देशान्तरस्थानां चैत्रमैत्र विष्णुमित्राणाम् । सामीप्याद् यथा - - चक्षुषोऽञ्जनानुपलब्धिः । इन्द्रियाभिघाताद् - यथा-बिधिरान्धयोः शब्दरूपानुपलब्धिः मनोऽनवस्थानाद् यथा - व्यग्रचित्तः सम्यक्क-थितमपि नावधारयति । सौक्ष्म्याद् यथा - धूमोष्म जलनीहारपरमाणवो गगन-गता नोपलभ्यन्ते । व्यवधानाद् यथा – कुड्ये पिहितं वस्तु नोपलभ्यते ॥ अभिभवाद् यथा - सूर्यतेजसाऽभिभूताः ग्रहनक्षत्र तारकादयः नोपलभ्यन्ते । समानाभिहाराद् यथा— मुद्गराशौ मुद्गः क्षिप्तः कुवलयामलकमध्ये कुवलया-मलके क्षिप्ते, कपोतमध्ये कपोतो नोपलभ्यते समानद्रव्यमध्याहृतत्वात् । एव-मष्टधानुपलब्धिः सतामर्थानामिह दृष्टा ॥ ७ ॥
अन्वयः - अतिदूरात्, अतिसामीप्यात्, इन्द्रियघातात्, मनोऽनवस्थानात्, सौक्ष्म्यात् व्यवधानात् अभिभवात् समानाभिहारात् च, ( अनुपलब्धिर्भवतीति शेषः ) । व्याख्या - अतिदूरात् = अतिदूरत्वदोषात् । ( अनुपलब्धिः = अप्रत्यक्षं, भवति ) ( एवम् ) अतिसामीप्यात् । इन्द्रियघानात् = इन्द्रियस्य नष्टत्वात् । मनोन-१. तत्रोच्यत इत्यर्थ. । अत्र - जगति । २. बलवत्सजातीयग्रहण कृतमग्रहणमभिभवः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA