साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 41–50
साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी- व्याख्योपेता २५ च, विषयः पुरुषः । तथा सामान्यं व्यक्तमव्यक्तं च, असामान्यः पुरुषः । अचेतनं व्यक्तमव्यक्तं च, चेतनः पुरुषः, सुखदुःखमोहांश्चेतयति सञ्जानीते तस्माच्चेतनः पुरुष इति । प्रसवधर्म व्यक्तं प्रधानं च अप्रसवधर्मी पुरुषः, न हि किचित् पुरुषात् प्रसूयते । तस्मादुक्तं तद्विपरीतः पुमानिति । तदुक्तं तथा च पुमान् ' इति । तत् पूर्वस्यामार्यायां प्रधानमहेतुमद् यथा व्याख्यातं तथा च पुमान्, तद् यथाहेतुमदनित्यमित्यादि व्यक्तं तद्विपरीतमव्यक्तं तत्र हेतुमद् व्यक्तमहेतुमत् प्रधानं, तया च पुमानहेतुमान् अनुत्पाद्यत्वात् । अनित्यं व्यक्तं नित्यं प्रधानं, तथा च नित्यः पुमान् । अव्यापि व्यक्तं व्यापि प्रधानम्, तथा च व्यापी पुमान्, सर्वगत-त्वात् । सक्रियं व्यक्तमक्रियं प्रधानम्, तथा च पुमानक्रियः, सर्वगतत्वादेव । अनेकं व्यक्तमेकमव्यक्तं, तथा च पुमानप्येकः २ । आश्रितं व्यक्तमनाश्रितमव्यक्तं तथा च पुमाननाश्रितः लिङ्ग व्यक्त लिङ्गं प्रधानं तथा च पुमानप्यलिङ्गः-: -न क्वचिल्लीयत इति । सावयवं व्यक्तं निरवयवमव्यक्तं तथा च पुमान् निरवयवः, न हि पुरुष शब्दादयोऽवयवाः सन्ति । किंच परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं, तथा च पुमानपि स्वतन्त्रः, आत्मनः प्रभवतीत्यर्थः ॥११ ॥
अन्वयः -- व्यक्तम्, तथा प्रधानम्, त्रिगुणम्, अविवेकि, विषय: सामान्यम्, अचेनम्, प्रसवर्धाम ( भवति ) तथा च पुमान्, तद्विपरीतः भवति ) । व्याख्या — व्यक्तम् = समस्तं चराचरात्मकं जगत् । तथा = तथैव च । प्रधानम् = प्रकृतिरपि एतद्द्वयमेवेत्यर्थः । त्रिगुणम् = सुख - दुःखमोहरूपत्रिगुणवत् । अविवेकि = विवेकहीनम् । विषयः = उपभोगसाधनम् । सामान्यम् = सर्वपुरुष-साधारणम् । अचेतनम् = जडस्वभावम् । प्रसवधम = प्रतिक्षणं परिणामि, कार्योत्पादनशालीत्यर्थः । हिन्दी- - इस कारिका से व्यक्त और अव्यक्त का साधर्म्य तथा उनसे पुरुष का वैधर्म्य बतलाया जा रहा है — महत्तत्व से लेकर पृथिवीपर्यन्त समस्त व्यक्त १. अत्र व्यक्ताव्यक्ताभ्यां वैधर्म्यमभिधायाव्यक्तसाधर्म्य माहेति अपेक्षितम् एतदेव विवृणोति - तदिति । २. एक इति चिन्त्यमिदं पुरुषबहुत्वस्य वक्ष्यमाणत्वात् । तथा चैकत्वं विहाय अहेतुमत्त्व नित्यत्वव्यापकत्व निष्क्रियत्वा नाश्रितत्वा लिङ्त्वनिरवयवत्वस्व-तन्त्रत्वादिधर्मवत्त्वेन पुरुषस्य प्रधानसाधर्म्यमनेकत्वं च व्यक्तसाधर्म्यमिति अत्र व्याख्या युक्तेति विभावनीयम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
२६ साख्यकारिका पदार्थ तथा अव्यक्त ( प्रकृति. ) ये दोनों ही ' त्रिगुण ' —अर्थात् सत्त्व - रज - तम इन तीन गुण से युक्त हैं । एवं ' अविवेकि ' अर्थात् यह घट है - यह पट है इत्यादि ज्ञानशून्य हैं क्योंकि दोनों जड़ हैं । तथा ' विषय ' हैं अर्थात् उपभोग के साधन हैं जैसे घट - पट आदि पदार्थ सब के उपभोग के साधन हैं वैसे ही प्रकृति भी पुरुष के उपभोग का साधन है क्योंकि पुरुष प्रकृति का उपभोग करता है । ' सामान्य ' हैं, सर्वपुरुष साधारण हैं— अर्थात् सब पुरुषों से भाग्य हैं । अचेतन जड़ स्वभाव वाले हैं । ' प्रसवधर्म ' प्रतिक्षण परिणामशाली हैं, जैसे मिट्टी घटरूप से तन्तु पटरूप से परिणत होते रहते हैं ऐसे ही प्रकृति भी महदाकारेण परिणत होती है । प्रश्न- यदि यह कहा जाय कि जब अहेतुमत्व तथा नित्यत्व यह प्रकृति का साधर्म्य पुरुष में है, और अनेकत्व व्यक्त का साधर्म्यं पुरुष में है तब " तद्विपरीत-स्तथा च पुमान् " यह ईश्वरकृष्ण का कथन अप्रमाणिक है । उत्तर – “ तथा च " यहाँ पर ' च ' शब्द का ' अपि ' अर्थ है, अर्थात् अहेतुम-त्त्वादि यद्यपि अव्यक्त वगैरह का साधर्म्य पुरुष में हैं फिर भी अगुण्य आदि रूप व्यक्त तथा अव्यक्त का वैधर्म्य भी पुरुष में हैं ॥ ११ । ५ प्रश्न - पूर्वकारिका में व्यक्त और अव्यक्त का " त्रिगुणत्व " आदि को जो साधर्म्य बतलाया गया है सो उन तीनों गुणों का लक्षण क्या है? तथा उनका प्रयोजन क्या है? और उनका व्यापार क्या है?
प्रोत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभाषाश्रयजनन मिथुनवृत्तयश्च गुणाः ॥१२ ॥
गौ ० — एवमेतदव्यक्तपुरुषयोः साधर्म्य व्याख्यातं पूर्वस्यामार्यायाम्, व्यक्त-प्रधानयोः साधर्म्यं पुरुषस्य वैधर्म्यं च त्रिगुणमविवेकीत्यादि प्रकृत्यार्यायां व्याख्यातम् । यत्र यदुक्तं ' त्रिगुणमिति व्यक्तमव्यक्तं च ' तत् के ते गुणा इति तत्स्व-रूपप्रतिपादनायेदमाह- प्रीत्यात्मका अप्रीत्यात्मका विषादात्मकश्च, गुणा ं सत्व-रजस्तमांसीत्यर्थः । तत्र प्रोत्यात्मकं सत्वं, प्रीतिः सुखं तदात्मकमिति । अप्रीत्यात्मकं रजः, अप्रीतिदुःखम् । विषादात्मकं तमः, विषादो मोहः । तथा प्रकाशप्रवृत्तिनिय १. अत्र प्रकृतार्यायामिति युक्तः पाठः, अथवा प्रकृतिसम्बन्धिन्यामित्यर्थे-नायमपि समीचीन एव, प्रकृत्य प्रस्तुत्येति वा । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी - व्याख्योपेता २७ मार्थाः । अर्थशब्दः सामर्थ्यवाची, प्रकाशार्थं सत्त्वं, प्रकाशसमर्थमित्यर्थः । प्रवृ-. त्त्यर्थं रजः, प्रवृत्तिसमर्थमित्यर्थः । नियमार्थं तमः स्थितो समर्थमित्यर्थः । प्रकाश कियास्थितिशीला गुणा इति । तथाऽन्योन्याभिभवाश्रयजननमिथुनवृत्त-यश्च । अन्योन्याभिभवाः अन्योन्याश्रयाः अन्योन्यजननाः अन्योऽन्यमिथुनाः अन्योन्य वृत्तयश्च ते तथोक्ताः । अन्योऽन्याभिभवा इति - अन्योऽन्यं परस्परमभिभवन्तीति प्रीत्प्रीत्यादिभिर्धराविर्भवन्ति, यथा यदा सत्त्वमुत्कटं भवति तदा रजस्तमसी अभिभूय स्वगुणेन प्रीतिप्रकाशात्मकेनावतिष्ठते ' यदा रजस्तदा सत्त्वतमसी अप्रीतिप्रवृत्त्यात्मना धर्मेण यदा तमस्तदा सत्त्वरजसी विशादस्थित्यामकेन इति । तथाऽन्योन्याश्रयाश्च द्वणुकवद् गुणाः । २ अन्योन्यजननाः - यथा मृत्पिण्डो घट जनयति । तथाऽन्योन्यमिथुनाश्च यथा स्त्रीपुंसो अन्योन्यमिथुनी तथा गुणाः । उक्तं च-अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥
तमस चापि मिथुने ते सत्त्वरजसी उभे । उभयोः सत्त्वरजसोमिथुनं तम उच्यते ॥
नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ॥
परस्परसहाया इत्यर्थः । अन्योन्यवृत्तयश्च परस्पर वर्त्तन्ते ' गुणा गुणेषु वर्तन्त ' इति ' वचनात् । यथा सुरूपा सुशीला स्त्री सर्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः, सैव रागिणां मोहं जनयति एवं सत्त्वं रजस्तमसोवृत्तिहेतुः । यथा राजा सदोद्-युक्तः प्रजापालने दुष्टनिगृहे शिष्टानां सुखमुत्पादयति, दुष्टानां दु खं मोहं च, एवं रजः सत्त्वतमसोवृत्ति जनयति । तथा तमः स्वरूपेणाव रणात्मकेन सत्त्वरजसो -१. आविर्भवति इदमग्रिमवाक्यद्वयेऽप्यनुपञ्जनीयम् । २. यथा द्वयणुका परस्परं परमाण्वाश्रितास्तथैते गुणा अप्रीत्यर्थः । सत्त्वं प्रवृत्तिनिय मात्राश्रित्य प्रकाशयति, रजः प्रकाशनियमावाश्रित्य प्रवर्तयति, तम प्रकाशप्रवृत्ती आश्रित्य नियमयति, त्रिदण्डविष्टम्भवदमी वेदितव्या इति माठरः । ३. अत्र ‘ जननं ' गुणानां सदृशरूपः परिणामो ग्राह्यः, सांख्यमते आरम्भ-रूपस्य तस्यासम्भवादिति बोध्यम् । ४. अन्योन्यमिथुनवृत्तयः, अविनाभाववृत्तय इति मिश्राः । एतन्मते वृत्ति-पदस्य द्वन्द्वान्ते श्रूयमाणस्यान्योन्याभिभववृत्तय इत्यादिचतुर्णां भेदोदाहरणानि बोध्यानि । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
२८ साख्यकारिका वृत्तिं जनयति, यथा मेघाः खमावृत्य जगतः सुखमुत्पादयन्ति ते वृष्टया कर्ष. काणां कर्षणोद्योगं जनयन्ति, विरहिणां मोहम् एवमन्योन्यवृत्तयो गुणाः ॥ १२ ॥
अन्वयः - गुणाः, प्रीत्यप्रीतिविषादात्मकाः, प्रकाशप्रवृत्तिनियमार्थाः, अन्यो-न्याभिभवाश्रय जननमिथुनवृत्तयश्च ( भवन्ति ) ॥ १२ ॥
व्याख्या - गुणाः = सत्त्वरजस्तमांसि ' एते ' त्रयो ' गुणाः ' । प्रीत्यप्रीतिविषा. दात्मकाः = प्रीतिश्च अप्रीतिश्च विषादश्चेति प्रीत्यप्रीतिविषादाः, त एव आत्मानः स्वरूपाणि येषां ते प्रीत्यप्रीतिविषादात्मकाः = सुख - दुख - मोहस्वरूपाः, अर्थात् सत्त्व-गुणः प्रीत्यात्मकः ( सुखस्वरूप: ) रजोगुणः अप्रीत्यात्मक: ( दुःखरूपः ) तमोगुणः विषादात्मकः । मोहरूप: ) । लक्षणम् ( स्वरूपम् ) उक्त्वा प्रयोजनमाह - प्रकाश-प्रवृत्तिनियमार्था: - सत्त्वगुणस्य प्रकाशः = प्रकाशकरणम् रजोगुणस्य प्रवृत्तिः = चालनम्, तमोगुणस्य नियमः = प्रतिबन्धः अर्थः = प्रयोजनम् ( अस्ति ) अन्यो-न्याभिभवाश्रयजननमिथुनवृत्तयश्च = ( च = ओर ) । वृत्तिर्व्यापारः । अन्योन्यपद वृत्ति-पदं च प्रत्येकमभिसम्बध्यते अर्थात् अन्योन्याभिभववृत्तयः, अन्योन्याश्रयवृत्तयः, अन्योन्यजननवृत्तयः, अन्योन्यमिथुनवृत्तयः ( भवन्ति ) । हिन्दी – सत्त्वगुण - रजोगुण- तमोगुण ये तीनों गुण प्रीति ( सुख ) अप्रीति ( दुःख | विषाद ( मोह ) स्वरूप हैं, और उनसे सत्त्वगुण का प्रयोजन प्रकाश करना है, अर्थात् सत्त्वगुण रजोगुण और तमोगुण को दुर्बल बनाकर अपने घट-पट आदि के प्रकाशात्मक ( ज्ञानरूप ) कार्य को सम्पन्न करता है । क्योंकि घट-पट आदि विषयों का ज्ञान कराना ही सत्त्वगुण का प्रयोजन है और विभिन्न कार्यों के करने में प्रवृत्तिशील बना देना रजोगुण का प्रयोजन है तथा कार्य करते हुये व्यक्ति को विश्राम पाने के लिये रोक देना यह तमोगुण का प्रयोजन है और इसके अतिरिक्त ये तोनों गुण अपने २ कार्य को सम्पन्न करने के लिये परस्पर में अपने से इतर दो गुणोंको अभिभूत कर देते हैं । अतः वहाँ इनका अभिभव ही व्यापार हो जाता है, जैसे सत्वगुण, रजोगुण तथा तमोगुण को अभिभूत कर करके अपने प्रकाशरूप कार्य का सम्पन्न करता है । इसी प्रकार रजोगुण भी सत्वगुण - तमोगुण इन दोनों को अभिभूत करके ही अपने प्रवृत्तिरूप कार्य का सम्पादन करता है । तथा वैसे ही तमोगुण को भी दूसरे दोनों गुणों को दबाकर CC - 0. ' JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपेता २ ९ ही अपने नियमन ( प्रवृत्ति प्रबन्ध ) रूप कार्य को सम्पन्न करना होता है इस लिए यह इनका ' अभिनव ' रूप व्यापार । वृत्ति ) हो जाता है । और इनमें से प्रत्येक गुण को अपने २ कार्य को सम्पन्न करने के लिए दूसरे दो गुणों का सहारा लेना पड़ता है यह इनका " अन्योन्याश्रय " व्यापार है । और इन तीनों गुणों में से प्रत्येक गुण अपने से इतर दो गुणों को निर्बल बनाकर ही अपने २ कार्य का जनन कर पाते हैं, इसलिये ये तीनों गुण अन्यो-न्यजननरूप व्यापार वाले भी हैं । तथा ये तीनों गुण परस्पर में मिल जुलकर पति पत्नी के समान अपने २ कार्य का सम्पादन करते हैं अतः आपस में मिलजुलकर कार्य करना ही इनका " अन्योन्यमिथुन " व्यापार कहलाता है । जिस प्रकार संसार में स्त्री - पुरुष मिथुन के द्वारा पुत्रादिरूप कार्य का उत्पादन करते हैं उसी प्रकार ये भी मिथुनीभूत होकर ही सृष्टिरूप कार्य को उत्पन्न करते हैं ॥ १२ ॥
अब प्रश्न यह होता है कि पूर्व में व्यक्त - अव्यक्त का " त्रिगुणत्व " साधर्म्य बतलाया और उन तीनों गुणों के प्रकाश प्रवृत्ति - नियम ये तीन प्रयोजन बतलाये थे । सो वे तीन गुण कौन २ हैं, और उनमें किसका कौन २ प्रयोजन है? तथा अपने २ व्यापार का संपादन किस प्रकार से करते हैं?
सत्वं लघु प्रकाशक मिष्टसुपष्टम्मकं चलश्च रजः ।
गुरु वरणकमेव तम, प्रदोषवचचार्थतो वृत्तिः ॥ १३ ॥
गौ ० — किञ्चान्यत् - सत्त्वं लघु प्रकाशकं च, यदा सत्त्वमुत्कटं भवति तदा लघुन्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति, उपष्टम्भकं चलं च रजः, उपष्टभ्नातीत्युपष्टम्भकमुद्योतकं, यथा वृषो वृषदर्शने उत्कटमुपष्टम्भं करोति एवं रजोवृत्तिः । तथा रजश्च चलं दृष्टं, रजोवृत्तिश्चलचित्तो भवति । गुरु वरणकमेव तमः, यदा तम उत्कटं भवति तदा गुरूण्यङ्गान्यावृतानीन्द्रियाणि भवन्ति स्वार्थासमर्थानि अत्राह ' ' यदि गुणाः पस्परं विरुद्धाः स्वमतेनैव कमर्थं निष्पादयन्ति, तर्हि कथं? २ प्रदीपवच्चार्षतो वृत्तिः, प्रदीपेन तुल्यं प्रदीपवत् १. पूर्वपक्षीत्यर्थः । २. समाधत्ते — प्रदीपवदिति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
० सांख्यकारिका अर्थत: ' साधना वृत्तिरिष्टा, यथा प्रदीपः परस्परविरुद्ध तैलाग्निवर्तिसंयोगा-दर्थप्रकाशान् जनयति एवं सत्त्वरजस्तमांसि परस्परं विरुद्धान्यर्थं निष्पादयन्ति । अन्वयः - सत्त्वम् लघु, प्रकाशकम्, ( सांख्यः ) इष्टम् रजः उपष्टम्भकम्, चलञ्च, ( इष्टम् ) तमः गुरु, वरणकमेव, ( इष्टम् ) ( एतेषां ) वृत्तिः, अर्थतः, प्रदीपवत् ( वर्त्तते ) ॥ १३ ॥
व्याख्या -- सत्त्वम् = सत्त्वगुणः । लघु = लघुस्वभावम् । तवियत को हल्की बनाने तथा रखने वाला ) । प्रकाशकम् = घट - पट - आदिविषयप्रकाशकम् । सांख्यैः इष्टम् = अभिमतम् । २ जः = = रजोगुणः । उपष्टम्भकम् = ततत्कार्येषु प्रवृत्तिप्रयोज-- कम् । च । चलम् = सक्रियम् । ( सांख्यैः ) इष्टम् = स्वीकृतम् | तमः = तमोगुणः । गुरुस्वभावम् ( तबियत को भारी बनाने तथा रखने वाला ) । वरण-कम् = आवरणशालि प्रवृत्ति - विरोधि ( सांख्य: स्वीकृतम् ) । शङ्कते यद् परस्परं विरोधशीला गुणाः कथ मिलित्वा स्वस्वकार्यं कर्तुं प्रभविष्यन्ति इत्यत आह— “ प्रदीपवच्चार्थत ” ( एतेषां त्रयाणां गुणानाम् ) वृत्तिः = प्रवृत्तिः । अर्थतः । पुरु-पार्थतः । प्रदीपवत् अर्थात् वर्त्तितै लाग्नयः परस्परं विरोधशीला अपि मिलित्वा स्वीयं प्रकाशस्वरूपं कार्य प्रकुर्वन्ति यथा वा वातपित्तश्लेष्माणः परस्पर विरो-धिनोऽपि शरीरस्वास्थ्यसम्पादनात्मकं कार्यं कुर्वन्ति तथैव परस्परं विरोधिनोऽपि इमे यो गुणा अन्योन्यं मिलित्वा भोगापवर्गरूपं पुरुषार्थं सम्पादयन्ति ॥ १३ ॥
हिन्दी -- सत्वगुण लघु है अर्थात् शरीर - मस्तिष्क तथा इन्द्रियों आदिको को हलका रखने वाला है । तथा घट - पट आदि समस्त विषयों का प्रकाश कराने वाला है अर्थात् सत्वगुण के आधिक्य होने पर इन्द्रियां झटिति विषय का ग्रहण कर लेती हैं । इसलिये सांख्यमत में सत्वगुण के ' लघुत्व ' और ' प्रकाश-कत्व ' ये दो लक्षण बन जाते हैं । और रजोगुण उपष्टम्भक अर्थात् प्रवृत्ति का कारण तथा चल अर्थात् चला-त्मक और क्रियावाला होता है अतः उपष्टम्भकत्व ( प्रवर्त्तकत्व ) तथा सक्रि-यत्व रजोगुण के लक्षण हुये । तथा तमोगुण को शरीर इन्द्रिय - मस्तिष्क आदि में गुरुत्व ( भारीपन ) होने के कारण, तथा किसी भी प्रकार के कार्य की रुकावट होने में कारण माना है । क्योंकि शरीर आदि में भारीपन तथा कार्य मात्र की रुकावट एकमात्र आलस्यजन्य १. पुरुषार्थवशादित्यर्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी - व्याख्योपता ३१ हैं और आलस्य तमोगुणजन्य है । अतः गुरुत्वप्रतिबन्धकत्व ये तमोगुण के लक्षण हुये । अब प्रश्न यह होता है कि परस्पर में विरोधी स्वभाववाले ये तीनों गुण आपस में मिलकर किसी भी कार्य को कैसे सम्पन्न कर सकेंगे? उत्तर- जिस प्रकार दीपक के अन्दर बत्ती - तेल- अग्नि ये तीनों परस्पर में विरोधी होते हुए भी आपस में मिलकर प्रकाशरूप कार्य को सपन्न करते हैं उसी प्रकार ये तीनों गुण आपस में मिलकर ही भोगापवर्गरूप कार्य को करते हैं ॥१३ ॥
प्रश्न - ११ वीं कारिका में कथित अविवेकित्व विषयत्व अचेतनत्व आदि धर्मो को सिद्ध प्रकृति में कैसे हुयी?
अविवेवयादिः सिद्ध स्त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥१४ ॥
गौ ० — अन्तरप्रश्नो भवति - ' त्रिगुणमविवेकि विषय ' इत्यादिना प्रधानं व्यक्तं च व्याख्यातं, तत्र प्रधानमुपलभ्यमानं महदादि च त्रिगुणम्, अविवेक्यादीति च कथमवगम्यते? ' तत्राह - योऽयमविवेक्यादिगुणः स त्रैगुण्यात् । ' महदादी व्यक्त नायं सिद्धयति ' अत्रोच्यते तद्विपर्ययाभावात्, तस्य विपर्ययस्तद्विपर्ययस्तस्याभाव-स्तद्विपर्ययाभाव:, तस्मात् सिद्धमव्यक्तम् ' । यथा यत्रैव तन्तवस्तत्रैव पटः, अन्ये तन्तवोऽन्य: पटो न, कुतः? तद्विपर्ययाभावात् । एवं व्यक्ताव्यक्तसम्पन्नो भवति २, दूरं प्रधानमासन्नं व्यक्त, यो व्यक्तं पश्यति स प्रधानमपि पश्यति, तद्विपर्ययाभवात् । इताश्वान्यक्त सिद्ध कारणगुणात्मकत्वात् कार्यस्य, लोके यदात्मकं कारणं तदात्मकं कार्यमपि यथा कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति । एवं महदादिलिङ्गमविवेकि विषयः सामान्यमचेतनं प्रसवधर्म, यदात्म-कमव्यक्तमपि सिद्धम् ॥१४ ॥
अन्वयः - अविवेक्यादेः, सिद्धि:, त्रैगुण्यात्, तद्विपर्ययाभावात् ( भवति ) कार्यस्य, कारणगुणात्मकत्वात्, अव्यक्तमपि, सिद्धम् । व्याख्या - अविवेक्यादेः = अविवेकित्वादिधर्मस्य | सिद्धिः = निश्चयः । त्रैगुण्यात् = त्रिगुणत्वरूपहेतुतः, ( त्रैगुण्यरूप हेतुकानुमानात् ) भवति इति शेष: । ( अनुमानश्च-१. अत्रैगुण्याभावाद् अव्यक्तमविवेक्यादिगुणवदिति सिद्धमित्यर्थः । २. आविवेक्यादिर्गुण इति शेषः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
३२ साख्यकारिका प्रधानम् ( अव्यक्तम् ) " अविवेकित्वादिधर्मवत् —– सुख - दुःख - मोहात्मकत्रैगुण्यात् घटादिवत् यत्र २ सुख - दुःख- मोहात्मकं त्रैगुण्यं वर्तते तत्र २ अविवेकित्वादिधर्माः अपि यथा घटपटादिव्यक्तेषु । ) व्यतिरेकव्याप्तिमपि दर्शयति " तद्विपर्ययाभावात् " तस्य = अविवेकित्वादि-साध्यरूपधर्मस्य, विपर्ययो यत्र ( पुरुष ) तत्र त्रैगुण्यरूपहेतोरपि अभावो वर्त्तते । अर्थात् यत्र अविवेकित्वादिरूपं साध्यं नास्ति तत्र त्रैगुण्यरूप हेतुरपि नास्ति यथा पुरुषे । तथा च इदमनुमानं संपन्नम् " व्यक्ताव्यक्ते अविवेकित्वादिधर्मवती त्रैगण्यात् यन्नैवं तन्नैवं यथा पुरुषः " इति व्यतिरेक्यनुमानतोऽपि अविवेकित्वादिधर्माणां सिद्धिर्बोद्धव्या । ननु अव्यक्तमेव तु नेदानीं सिद्धम् - कुतस्तत्राऽविवेकित्वादिधर्माणां सिद्धिः स्यात्, अत आह — कारणगुणात्मकत्वात् कार्यस्य । अर्थात् कार्यस्य = घटपटादि-रूपमहत्तत्त्वपर्यन्तकार्यस्य । कारणगुणात्मकत्वात् = कारणगुणानुरूपत्वात्, अर्थात् यादृशं कारणं भवति तादृशमेव कार्यं ततः समुत्पद्यते इति लोके दृश्यते, यथा मृत्तिका रूपकारणतः मृन्मय एव घटः समुत्पद्यते न तु सौवर्णो घटः, एव तन्तुरूप-कारणेभ्यः पट एवोत्पद्य ते नापि घटः, तत्रापि रक्ततन्तुभ्यो रक्तपट एवोत्पद्यते न तु शुक्लः पटः । एवं सुखदुःखमोहरूपत्रिगुणात्मकस्य कार्यस्य कारणमपि त्रिगु-णात्मकमेव भवितुमर्हति तच्च कारणम् अव्यक्तमेवेति भावः । तदेवोक्तम् - अव्यक्त-मपि सिद्धम् ॥१४ ॥
हिन्दी ( - -- - अव्यक्त ( प्रकृति ) में " अविवेकित्व - विषयत्व - सामान्यत्व अचेत-नत्व- प्रसवधर्मित्व ' इन धमों की सिद्धि त्रैगुण्यहेतु से ( त्रैगुण्यहेतुकानुमान से ) होती है । अर्थात् " यत्र २ गुण्यं तत्र २ अविवेकित्वादयो धर्माः ' जैसे घट - पट आदि में, यहाँ यह अन्वयव्याप्ति है और इस अन्वयव्याप्ति के आधार पर यह अनुमान सम्पन्न हो जाता है कि अव्यक्त अविवेकित्व - विषयत्व आदि धर्मो वाला है — त्रिगुण होने से घट - पट आदि की तरह । यह अन्वयव्यतिरेकी अनुमान होने के नाते अन्वयव्याप्ति तथा व्यतिरेक-व्याप्ति दोनों से साध्य है । अन्वयव्याप्ति बतला चुके अब यतिरेकव्याप्ति को बतलाते हैं - ' तद्विपर्ययाभावात् ' अर्थात् जहाँ अविवेकित्व विषयत्व आदि साध्यस्व-रूपधर्मों का विपर्यय ( अभाव ) है वहाँ त्रैगुण्य का भी अभाव है, जैसे पुरुष में, अत: व्यक्त और अव्यक्त - त्रैगुण्यरूप हेतुवाली होनेसे अविवेक - वविषयत्व - सामान्यत्व आदि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी - व्याख्योपता ३३ साध्यरूपधर्म वाले हैं - ( यन्नैवं तन्नैवम् ) अर्थात् जहाँ अविवेकित्व आदि साध्य-धर्म नहीं हैं वहाँ त्रैगुण्यरूपहेतु भी नहीं है जैसे पुरुष में । प्रश्न- अभीतक जब कि अव्यक्त ( प्रकृति ) ही सिद्ध नहीं हुआ तबतक उसमें अविवेकित्व आदि धर्मो की सिद्धि कैसे हो सकती है । उत्तर- “ कारणगुणात्मकत्वात् कार्यस्य " अर्थात् समस्त कार्य घट - पट आदि जब कि सुखदुःखमोहरूप त्रिगुणात्मक हैं तब इसका कारण भी ऐसा ही होना चाहिये जो स्वयं भी त्रिगुणात्मक हो सो इस त्रिगुणात्मक कार्य का जो भी त्रिगु-त्मक कारण है वही अव्यक्त ( प्रकृति ) है, इस प्रकार से अव्यक्त की भी सिद्धि हो जाती है ॥ १४ ॥
प्रश्न- जब कि परमाणुओं से ही द्व्यणुकादिक्रम से पृथ्वी आदि व्यक्त सृष्टिरून कार्य उत्पन्न हो सकता है तथा कारणगुणक्रम से पृथिवी आदि में रूप इत्यादि गुण उत्पन्न हो सकते हैं तब तो व्यक्त से ही व्यक्त की उत्पत्ति हो गयी फिर व्यक्तोत्पत्ति के लिये क्या आवश्यकता है अव्यक्त की?
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्य विभागादविभागाद् वैश्वरूपस्य ॥ १५ ।
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रय विशेषात् ॥१६ ॥
गौ ० — ' त्रैगुण्याद् विवेक्यादिव्यंक्ते सिद्धस्तद्विपर्ययाभावात्, एवं कारणगुणात्म-कत्वात् कार्यस्याव्यक्तमपि सिद्धमित्येतन्मिथ्या, लोके यन्नोपलभ्यते तन्नास्ति, इति न वाच्यम्, सतोऽपि पाषाणगन्धादेरनुपलम्भात्, एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते, तदाह - कारणमस्त्यव्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परि-माणात् - -लोके ल यत्र कर्तास्ति तस्य परिमाणं दृष्टं यथा कुलाल: परिमितमृत्पिण्डैः परिमितानेव घटान् करोति, एवं महदपि महदादिलिङ्ग परिमितं भेदतः प्रधान-कार्यमेका बुद्धिरेकोऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानी-त्येवं भेदानां परिमाणादस्ति प्रधानं कारणं यद् व्यक्तं परिमितमुत्पादयति, यदि प्रधानं न स्यात् तदा निष्परिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदा-३ सां ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
३४ साख्यकारिका नामस्ति प्रधानं यस्माद् व्यक्तमुत्पन्नम् । तथा समन्वयात् इह लोके प्रसिद्धि दृष्टा, यथा व्रतधारिणं वटु ं दृष्ट्वा समन्वयति ' नूनमस्य पितरौ ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्ग ं दृष्ट्वा साधयामो s स्य यत् कारण २ भविष्यतीति अतः समन्वयादस्ति प्रधानम् । तथा शक्तितः प्रवृत्तेश्च इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्तते यथा कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथा अस्ति प्रधानं कारणं, कुतः? कारणकार्यविभागात्-करोतीति कारणम् क्रियत इति कार्यम् कारणस्य च विभागो यथा -- घटो दधि-मधूदकपयसां धारणे समर्थो न तथा तत्कारणं मृत्पिण्डः, मृत्पिण्डो वा घट निष्पादयति न चैवं घटो मृत्पिण्डम् एवं महदालिङ्ग दृष्ट्वानुमीयते —अस्ति विभक्तं तत्कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद् वैश्व-रूपस्य --- विश्वं जगत् तस्य रूपं व्यक्तिः, विश्वरूपस्य भावो वैश्वरूपं, तस्यावि-भागादस्ति प्रधानम्, यस्मात् त्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां पर-स्परं विभागो नास्ति महाभूतेष्वन्तर्भूतास्त्रयो लोका इति, पृथिव्यापस्तेजो वायु-राकाशमिति एतानि पञ्चमहाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रेषु परिणामिषु तन्मात्राण्येकादशेन्द्रियाणि चाहङ्कारे अहङ्कारो बुद्धी बुद्धिः प्रधाने, एवं त्रयो लोकाः प्रलयकाले प्रकृतावविभागं गच्छन्ति, तस्मादविभागात् क्षीरदधिवद् * व्यक्ताव्यक्तयों रस्त्यव्यक्तं कारणम् ॥ १५ ॥
१. समानरूपं कारणं साधयति । २. तत्रिगुणं भविष्यतीत्यर्थः । ३. कारणे कार्यस्य सत्त्वाद्यथा कर्मशरीरे सन्त्येवाङ्गानि निःसरन्ति विभज्यन्ते, एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते, तथा पृथिव्यादीन्यपि तन्मात्रादिरूपकारणादाविर्भवन्ति विभज्यन्त इति अव्यक्तपर्यन्तं स्वस्वकारणाद्विभाग इति मिश्राः । ४. प्रतिसर्गे तु मृत्पिण्डं सुवर्णपिण्डं वा घटमुकुटादयो निविशंमानास्तिरो-भवन्ति तत्कारणरूपमेबान भिव्यक्त कार्यापेक्षयाऽव्यक्तमिति व्यवह्रियते एवं पृथि व्यादयोऽपि तन्मात्रादिकारणं विशन्त स्वस्वकारण मव्यक्तयन्तीति सोऽयमविभागो वैश्वरूपस्य कार्यस्येति वाचस्पतिमतम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA