साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 61–70

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 61–70

पृष्ठ 61

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 61 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी - व्याख्योपता ४५ योऽयमधिकृतो बहुत्वं प्रति ' 1 गुणा एव कर्तारः प्रवर्तन्ते, साक्षी न प्रवर्तते नापि निवर्तत एव । किञ्चान्यत् कैवल्यं केवलभावः, कैवल्यमन्यत्वमित्यर्थः, त्रिगुणेभ्यः केवलोऽन्य: २ । माध्यस्थ्यं मध्यस्थभावः, परिव्राजकवत् मध्यस्थः पुरुषः । यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो मध्यस्थः, पुरुषोऽप्येवं गुणेषु प्रवर्तमानेषु न प्रवर्तते । तस्मात् द्रष्टृत्वमकर्तृ भावश्च यस्मान्मध्यस्थ-स्तस्माद् द्रष्टा तस्मादकर्ता पुरुषस्तेषां कर्मणामिति, सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृ भावेन प्रवर्तन्ते न पुरुषः, एवं पुरुषस्यास्तित्वं च सिद्धम् ॥ १ ९ ॥ अन्वयः — च, यस्मात्, विपर्यासात्, अस्य, पुरुषस्य, साक्षित्वम्, कैवल्यम्, माध्यस्थ्यम्, द्रष्टृत्वम्, अकतृ भावश्च, सिद्धम्, ( भवति ) । व्याख्या — च, तस्मात् = " त्रिगुणमविवेकि " इत्यादिकारिकोक्तधर्मेभ्यः । विपर्यासात् = विपरीतात्, अर्थात्, अत्रिगुणत्वात् । विवेकित्वात्, अविषयत्वात्, असाधारणत्त्रात्, चेतनत्वात्, अप्रसवधर्मित्वाच्च । अस्य = सांख्यमतसिद्धस्य पुरुषस्य आत्मनः । सः क्षित्वम् = ज्ञानस्वरूपत्वम् | कैवल्यम् = आत्यन्तिक-ऐकान्तिकदुःखत्रयराहित्यम् । माध्यस्थ्यम् = स्वपक्ष - परपक्षशून्यत्वम् । द्रष्टृत्वम् = कैवलं वस्तूनां दर्शनकर्तृत्वम् । अकर्तृ भावश्चः = कर्तृत्वशून्यत्वम् च । सिद्धम् =

अनुमितम् । ( भवति ) ॥ १ ९ ॥

हिन्दी - - " त्रिगुणमविवेकि " इत्यादि ११ वीं कारिका में प्रकृति ( अव्यक्त ) और व्यक्त के जो त्रिगुणत्व - विवेकित्व अविषयत्व आदि धर्मों से इस पुरुष का साक्षित्व - कैवल्य - माध्यस्थ्य द्रष्टृत्व और अकर्तृत्व सिद्ध हो जाता है । उनमें से चेतनत्व और अविषयत्व इन दो धर्मों से तो पुरुष का साक्षित्व और द्रष्टृत्व सिद्ध हो जाता है, क्योंकि चेतन और अविषयभूत पदार्थ ही साक्षी और द्रष्टा हुआ करते हैं, तथा अत्रिगुणत्व से उसका कैवल्य और माध्यस्थ्य सिद्ध होता है, एवं अप्रसवधर्मित्व धर्म के द्वारा पुरुष का अकर्तृत्व सिद्ध हो जाता है, क्योंकि अप्रसवधर्मी ही अकर्ता हुआ करता है ॥ १ ९ ॥ १. यः पुरुषः ' पुरुषबहुत्वं सिद्ध ' मित्यत्रोद्दिष्ट इत्यर्थः । २. अत्रैगुण्याच्चास्य कैवल्यम्, आत्यन्तिको दुःखत्रयाभावः कैवल्यम्, तच्च तस्य स्वाभाविकादेवात्रैगुण्यात्सुखदुःख मोह रहितत्वात्सिद्धमिति मिश्राः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 62

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 62 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ साख्यकारिका प्रश्न – “ चेतनोऽहङ्करोमि " इस प्रमाणभूत प्रतति के अधार पर चेतन पुरुष ही जबकि कर्ता सिद्ध हो रहा है तब " अकर्तृ भावश्च " इत्यादि १ ९ वीं कारिका से पुरुष का अकर्तृत्वधर्म कैसे बतलाया?

तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।

गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥

गौ०—१ यस्मादकर्ता पुरुषस्तत्कथमध्यवसायं करोति धर्मं करिष्याम्य-धर्मं करिष्यामीत्यत; कर्ता भवति, न च कर्ता पुरुष एवमुभयथा दोषः स्या-दिति, अत उच्यते - इह पुरुषश्चेतनावान् तेन चेतनावभाससंयुक्तं महदादि-लिङ्ग चेतनावदिव भवति, यथा लोके घट शीतसंयुक्तः शीतः, उष्ण संयुक्त उष्णः, एवं महदादिलिङ्ग तस्य संयोगात् पुरुषसंयोगाच्चेतनावदिव भवति, तस्माद् गुणा, अध्यवसायं कुर्वन्ति न पुरुषः । यद्यपि लोके पुरुषः कर्त्ता, गन्ते-त्यादि प्रयुज्यते तथाप्यकर्त्ता पुरुषः । कथम्? गुणकर्तृत्वे च तथा कर्तव भवत्युदासीनः । गुणानां कर्तृत्वे सति उदासीनोऽपि पुरुषः कर्तेव भवति, न कर्ता । अत्र दृष्टान्तो भवति यथाऽचौरवीरैः सह गृहीतश्वीर इत्यवगम्यते, एवं त्रयो गुणाः कर्तारः तैः संयुक्तः पुरुषोऽकर्ताऽपि कर्त्ता भवति कर्तृ संयोगात् एवं व्यक्ताव्यक्तज्ञानां विभागो व्याख्यातः २ ' यद्विभागान्मोक्षप्राप्तिरिति ॥ २० ॥

अन्वयः - तस्मात्, तत्संयोगात्, अचेतनम् लिङ्गम्, चेतनावदिव, भवति, तथा गुणकर्तृत्वेऽपि, उदासीनः कर्ता इव भवति ॥ २० ॥

व्याख्या — तस्मात् = यतः पुरुषश्चेतनः अत: । तत्संयोगात् = पुरुषसंयो-गात् । अचेतनन् = चेतनारहितम् । लिङ्गम् - बुद्ध्यादिः । चेतनावदिव = चेतन-सदृशम् | भवति । तथा = तद्वदेव | गुणकर्तृत्वेऽपि = गुणानाम् = सत्त्वरजस्त-मसाम्, कत्र्त्तृत्वेऽपि । उदासीनः । पुरुषः । कर्त्ता इव = तुल्यः । भवति ॥२० ॥

हिदी - सांख्यशास्त्र में बुद्धितत्त्व को कर्त्ता और भोक्ता माना गया है । क्योंकि वह त्रिगुण तथा प्रसवधर्मी है । उधर पुरुष को अत्रिगुण तथा अप्रसव-१. आक्षिपति - यस्मादिति । पुरुषस्य कर्तृत्वाङ्गीकारेऽध्यवसायानुपपत्तिस्तदुपप-त्तावकर्तृत्वस्य सांख्यमतसिद्धत्वानुपपत्तिरित्युभयतः पाशारज्जुरित्याक्षेपाशयः । २. व्यक्ताव्यक्तज्ञ विवेकात् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 63

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 63 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी- व्याख्योपेता ४७ धर्मी होने के कारण अकर्ता और अभोक्ता माना है । अव प्रश्न यह होता है कि तब फिर ' चेतनोऽहं करोमि यह सर्वानुभवसिद्ध प्रतीति कैसे होगी, क्योंकि जो चेतन है पुरुष - वह कर्त्ता नहीं और जो कर्तृत्व - सम्पन्न है बुद्धितत्त्व - वह चेतन नहीं । इस प्रश्न का उत्तर कारिका में दिया कि - पुरुष चेतन है इसीलिये उस पुरुष के संयोग से अचेतन लिङ्ग ( बुद्धितत्त्व ) चेतन के समान हो जाता है, जैसे राजा के संपर्क पुरोहित को ' पुरोहितोऽयं राजा संवृत्तः ऐसा कहा जाता है, अर्थात् वह पुरोहित राजा के सदृश हो गया, एवं रक्तपुष्प के सन्निधान से श्वेत होती हुई भी स्फटिक मणि जैसे रक्त की तरह मालूम पड़ने लगती है, इसी प्रकार गुण अर्थात् सत्त्वरजतम इन तीनों गुणों की समानावस्था प्रकृति तत्त्व ( बुद्धि ) ही कर्त्ता है परन्तु वास्तविक में उदासीन ( असङ्ग = पुष्करपलाशवत् निर्लेप - ) होता हुआ भी पुरुष प्रकृति के सम्बन्ध से अर्थात् प्रकृति के चंगुल में फँसकर अपने को ही कर्त्ता समझ बैठता है, जिससे अकर्ता होता हुआ भी पुरुष अपने को कर्त्ता मानने लगता है इसी से ' चेतनोऽहं ' करोमि ' यह प्रतीति वन जाती है ॥ २० ॥

प्रश्न - प्रकृति और पुरुष का सम्बन्ध क्यों होता है, तथा कैसे होता है?

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।

पङग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥

र्गौ ॰— ‘ अथैतयोः प्रधानपुरुषयोः किहेतुः सङ्घातः ' उच्यते -- पुरुषस्य प्रधा-नेन सह संयोगो दर्शनार्थं - प्रकृति महदादिकार्यं ' भूतपर्यन्तं पुरुष: पश्यति एतदर्थम्, प्रधानस्यापि पुरुषेण संयोगः कैवल्यार्थम्, स च संयोगः पवन्ध-वदुभयोरपि द्रष्टव्यः, यथा एकः पङ्गुरेकवान्ध एतौ द्वावपि गच्छन्तौ महता सामर्थ्येनाटव्यां सार्थस्य ' स्तेन कृतादुपप्लवात् स्वबन्धुपरित्यक्तौ देवादितश्चेतश्च चेरतुः स्वगत्या च तो संयोगमुपयातौ पुनस्तयोः स्ववचसोविश्वस्तत्वेन संयोगो गमनार्थं दर्शनार्थं च भवति, अन्धेन पङ्गुः स्कन्धमारोपितः एवं शरीरारूढ-पंगुदशितेन मार्गेणान्धो याति पंगुवान्धस्कन्धारूढः, एवं पुरुष दर्शनशक्ति र स्ति १. धनिकयूथस्य । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 64

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 64 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ साख्यकारिका पङ्गुवन्न क्रिया प्रधाने क्रियाशक्तिरस्त्यन्धवन्न दर्शनशक्तिः । यथा वाऽनयोः पङ्ग्व-न्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयो:, एवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते पुरुषोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति, तयोः कृतार्थयो विभागो भविष्यति । किञ्चान्यत् तत्कृतः सर्गः तेन संयोगेन कृतस्तत्कृतः, सर्गः सृष्टि:, यथा स्त्रीपुरुषसंयोगात् सुतोत्पत्तिस्तथा प्रधानपुरुषसंयोगात् सर्गस्यो-त्पत्तिः ॥ २१ ॥

अन्वयः - पुरुषस्य, दर्शनार्थम्, तथा, प्रधानस्य कैवल्यार्थम् उभयोः,

संयोगः, अपि पङ्ग्वन्धवत् ( भवति । तत्कृतः सर्गः ॥ २१ ॥

व्याख्या - पुरुषस्य - प्रधानस्येत्युभयत्र कर्मणि षष्ठी 1 कर्तृपदं चोभयत्र अध्याहार्यम् । एवं च - पुरुषस्य = पुरुषः । दर्शनार्थम् = स्वोपभोगार्थम् । ( प्रधानेन अपेक्ष्यते इति भावः ) तथा तथैव प्रधानस्य = प्रधानः - प्रकृतिः । कैवल्यार्थम् = स्वस्य मोक्षार्थम् ॥ पुरुषेण अपेक्ष्यते, अर्थात् पुरुषः स्वस्य मोक्षार्थं प्रधानम-पेक्षते ) ( एवं परस्परमपेक्षया ) उभयोः = प्रधानपुरुषयोः । संयोगः अपि = सम्बन्धोऽपि ( भवति ) पवन्धवत्ः = पंगुः गमनाशक्तः, अन्धश्च दर्शनाशक्तः, तथा च गमनाशक्तो हि पंगुः स्वाभीष्टदेशप्राप्त्यर्थमन्धमपेक्षते - एवमन्धोऽपि दर्शनाशक्तत्वात् मार्गप्रदर्शकं पंगुमपेक्षते - इत्येवं परस्परमपेक्षया पवन्धयोः संयोगो भवति । अर्थात् = पंगुरन्धस्कन्धा राहणरूपं संयोगं सह संपादयति । तत्कृतः = प्रधानपुरुषसंयोगकृतः । सर्गः = सृष्टिः । ( अस्तीति भाव: ) अर्थात् यथा स्त्रीपुरुषयोः संयोगात् सन्तानोत्पत्तिर्भवति तथैव प्रधानपुरुषयोः संयोगात् सृष्टिर्भवति ॥ २१ ॥

हिन्दी — जिस प्रकार किसी कामिनी स्त्री को अपने उपभोग के लिए पति अपेक्षित होता है इसी प्रकार प्रकृति भी अपने उपभोग के लिए पुरुष की अपेक्षा रखती है जिस अपेक्षावश उसे पुरुष से संयोग करना ही पड़ता है । वैसे ही पुरुष भी अपनी मुक्ति ( सांसारिकबन्धन से छुटकारा प्राप्त करने ) के लिए प्रकृति से सर्वथा सापेक्ष हैं जिस अपेक्षावश उसे भी प्रकृति से संयोग करना ही पड़ता है । जिस प्रकार गमनाशक्त एक लंगड़ा पुरुष अपने स्वार्थसाधन के लिए अन्धपुरुष से सापेक्ष हो उससे अपना सम्बन्ध स्थापित कर बैठता है, और इधर अन्धा भी दर्शनाशक्त होने की वजह से अपने मार्गप्रदर्शनरूप कार्य को सम्पन्न करने की CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 65

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 65 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी- व्याख्योपेता ४ ९ दृष्टि से लंगड़े से सम्बन्ध करना चाहता है, कि लंगड़े को अन्धा अपने कन्धे पर बैठा लेता है और दोनों का मतलब पूर्ण हो जाता है । उसी प्रकार परस्पर की अपेक्षा से सम्पन्न हुआ प्रकृति और पुरुष का संयोग सृष्टि को उत्पन्न करता है जिससे दोनों का भोगापवर्ग रूप मतलब सिद्ध होता है ॥ २१ ॥

सृष्टिक्रम को बतलाते हैं—

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।

तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥

गौ ० - इदानीं सर्वविभागदर्शनार्थमाह - प्रकृतिः प्रधानं ब्रह्म अव्यक्तं बहुधा-नकं मायेति पर्यायः । अलिङ्गस्य प्रकृतेः सकाशान्महानुत्पद्यते --- महान् बुद्धिरा-सुरी मतिः ख्यातिर्ज्ञानमिति प्रज्ञापर्यायैरुत्पद्यते । तस्माच्च महतोऽहङ्कार उत्पद्यते, अहङ्कारो भूतादिर्वे कृतस्तै जसोऽभिमान इति पर्यायाः । तस्माद् गणश्च षोडशकः, _ तस्मादहङ्कारात् षोडशकः षोडशस्वरूपेण गण उत्पद्यते स यथा - पश्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति तन्मात्रसूक्ष्म-पर्यायवाच्यानि, तत एकादशेन्द्रियाणि श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि, उभयात्मकमेकादशं मनश्र्च, एष षोडशको गणोऽहङ्कारादुत्पद्यते । किञ्च पञ्चभ्यः पञ्चभूतानि, तस्मात् षोडशकाद् गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्यु-त्पद्यन्ते । यदुक्तं – १ शब्दतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः गन्धतन्मात्रात् पृथिवी । एवं पञ्चभ्यः परमाणुभ्यः पञ्च महा-भूतान्युत्पद्यन्ते ॥ २२ ॥

अन्वयः — प्रकृतेः, महान्, अहङ्कारः, तस्मात्, षोडशक:, गणः, ( जायते ) तस्मादपि, षोडशकात्, पञ्चभ्यः, पञ्च, भूतानि, ( उत्पद्यन्ते ) ॥ २२ ॥।

व्याख्या – प्रकृतेः = प्रकृतितत्वतः महान् = महत्तत्वम् ( बुद्धितत्वम् ) ( उत्प-द्यन्ते ) । ततः = महत्तत्त्वतः । अहङ्कारः = अहङ्कारनामकं तत्त्वम्, ( समुत्पद्यते ) तस्मात् = अहङ्कारात् । षोडशकः = १६ संख्याकः । गणः पदार्थतत्वसमुदायः, १. सांख्यसमाससूत्रेषु । ४ सां ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 66

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 66 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० साख्यकारिका अर्थात् ज्ञानेन्द्रियपञ्चकम् - कर्मेन्द्रियपञ्चकम् - तन्मात्र पञ्चकम् - मनः एतानीत्यर्थः ॥ तस्मादपि षोडशकात् = पूर्वोक्तएकादशेन्द्रियसहितपञ्चतन्मात्रगणात् । पञ्चभ्यः = षोडशगणान्तर्गतपञ्चतन्मात्रेभ्यः 1 पञ्चभूतानि = पृथिवी - जल - अ / दिपञ्चमहा. भूतानि । ( उत्पद्यन्ते ) ॥ २२ ॥

हिन्दी - प्रधानकारणीभूत प्रकृति से महत्तत्त्व ( बुद्धितत्त्व ) उत्पन्न होता. है, और उस महत्तत्त्व से अहङ्कार अहङ्कारसे चक्षु श्रोत्र आदि ज्ञानेन्द्रियाँ तथा वाक् पाणि आदि पाँच कर्मेन्द्रियाँ मन और पाँच तन्मात्राएँ उत्पन्न होती हैं । षोडश १६ गणों के अन्तर्गत पाँच तन्मात्राओं से पृथिवी - जल आदि पाँच महाभू उत्पन्न होते हैं ॥ २२ ॥

प्रश्न - महत्तत्त्व ( बुद्धितत्व ' किसे कहते हैं अर्थात् उसका क्या लक्षण है, तथा उसके कितने धर्म हैं?

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।

सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥

गौ०— यदुक्तं व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष ' इति, तत्र महदादिभूतान त्रयोविंशतिभेदं व्यक्तं व्याख्यातम्, अव्यक्तगपि भेदानां परिमाणात् - इत्यादिन व्याख्यातं, पुरुषोऽपि सङ्घातपरार्थत्वात् इत्यादिभिर्हेतुभिर्व्याख्यातः । एवमे तानि पञ्चविंशतितत्त्वानि, यस्तैस्त्रैलोक्यं व्याप्तं जानाति तस्य भावोऽस्तित

तत्त्वं ' यथोक्तम्--पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।

जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥

तानि यथा -- प्रकृतिः पुरुषो बुद्धिरहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि इत्येतानि पञ्चविंशतितत्त्वानि । तत्रोक्तप्रकृतेर्महानुत्पद्यते तस्य महत किं लक्षणमित्येतदाह -- अध्यवसायो बुद्धिलक्षणम् । अध्यवसान मध्यवसायः, यथा बीजे भविष्यद्वृत्तिकोऽङ्कुरस्तद्वदध्यवसायोऽयं घटोऽयं प इत्येवम् अध्यवस्यतिः या सा बुद्धिरिति लक्ष्यते । सा च बुद्धिरष्टाङ्गि सात्त्विकतामसरूपभेदात् । तत्र बुद्ध ेः सात्त्विकं रूपं चतुर्विधं भवति-१. मुक्तिरित्यर्थः । २. अध्यवसायो बुद्धिरिति क्रियाक्रियावतोरभेदविवक्षयेदम् । सर्वो हि व्यर CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 67

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 67 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी व्याख्योपेता ५१ धर्मो ज्ञानं वैराग्यमैश्वर्यञ्चेति । तत्र धर्मो नाम दयादानयम नियमलक्षणः, १ तत्र यमा नियमाश्च पातञ्जलेऽभिहिताः - ' अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहा यमाः, ' ‘ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ' । २ ज्ञानं प्रकाशोऽव-गमो भानमिति पर्यायाः । तच्च द्विविधं बाह्यमाभ्यन्तरं चेति । तत्र बाह्यं नाम वेदाः शिक्षा कल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाख्यषडङ्गसहिताः, पुराणा न्यायमीमांसाधर्मशास्त्राणि चेति । आभ्यन्तरं प्रकृतिपुरुषज्ञानम् - इयं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्थाऽयं पुरुषः सिद्धो निर्गुणो व्यापी चेतन इति । तत्र बाह्यज्ञानेन लोकपङ्गिङ्क्तर्लोकानुराग इत्यर्थः । आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः । वैराग्यमपि द्विविधं वाह्यमाभ्यन्तरं च । बाह्यं दृष्टविपथवतृष्ण्य मर्जनरक्षणक्षय सङ्गहिंसादोषदर्शनाद् विरक्तस्य, मोक्षेप्सोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् ४ । ऐश्वर्यमीश्वरभावः, तच्चाष्टगुगम् - अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमी-शित्वं वशित्वं यत्रकामावसायित्वं चेति । अणोर्भावोऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति । महिमा महान् भूत्वा विचरतीति । लघिमा मृणाली तूलावयवा -हर्ताऽऽलोच्य मत्वात्वमधिकृत् इत्यभिमत्य कर्तव्यमेतन् मयेति यदध्यवस्यति, तत्र योऽयं कर्त्तव्याकारो निश्चयश्चितिसन्निधानादापन्नचैतन्याया इव बुद्धेर्धमंः सोऽध्यवसायो बुद्धेर्लक्षणमिति मिश्राः । १. अभ्युदयनिःश्रेयसहेतुर्धर्मः, तत्र यागदानाद्यनुष्ठानजन्योऽभ्युदय हेतुरष्टाङ्ग-योगानुष्ठानजनितश्च निःश्रेयसहेतुरिति तत्त्वकौमुदी । २. एवमप्रसिद्धौ यमनियमावभिधाय धर्मानन्तरं क्रमप्राप्तं ज्ञानं निरूपयति ज्ञानमिति । ३. द्विविधसात्त्विकज्ञानफलमाह — तत्रेति । ४. दृष्टादृष्टभेदेन यतमान- व्यतिरेक - एकेन्द्रिय - वशीका र संज्ञाभिश्चतुर्विधं प्रदर्शितं वाचस्पतिमिश्रः । तत्र विषयेषु इन्द्रियाणां परिपाचनाय प्रवृत्तिनिरा-सार्थो यत्नो यतमानसंज्ञा । परिपाचनानुष्ठानकाले पक्ष्यमाणेभ्यः पक्वानां व्यति-रेकावधारणं परिपाकसंज्ञा इन्द्रियप्रवृत्त्यसमर्थतयौत्सुक्य मात्रस्याप्युपरिस्थित-दृष्टादृष्टविषयेषु निवृत्तिर्व शीकारसंज्ञेति अत एवोक्तं पातञ्जलदर्शने ' दृष्टानुश्र-विकविषयवितृष्णस्य वशकारसंज्ञा वैराग्यम् ' ( १।१६ ) इति । ५. यतः शिलायामपि योगिनः प्रवेशो भवतीति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 68

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 68 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ सांख्यकारिका दपि लघुतया पुष्पकेसराग्रेष्वपि तिष्ठति ' । प्राप्तिरभिमतं वस्तु यत्र तत्रावस्थितः प्राप्नोति २ प्राकाम्यं प्रकामता यदेवेच्छति तदेव विदधाति । ईशित्वं प्रभु तया त्रैलोक्यमपीष्टे । वशित्वं सर्वं वशीभवति । यत्र कामावसायित्वं ब्रह्मादिस्तम्ब-पर्यन्तं यत्र कामस्तत्रैवास्य स्वेच्छ्या स्थानासनविहा रानाचरतीति । चत्वारि एतानि बुद्ध सात्त्विकानि रूपाणि । यदा सत्त्वेन रजस्तमसो अभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति । किश्श्वान्यत् तामसमस्माद्विपर्यस्तम्, अस्मा-द्धर्मादेर्विपरीतं तामसं बुद्धिरूपम्, तत्र धर्माद्विपरीतोऽधर्मः, एवमज्ञानमवैराग्य-मनेश्वर्यमिति । एवं सात्त्विकैस्तामसः स्वरूपैरष्टाङ्गा बुद्धिस्त्रिगुणादव्यक्ताः ' दुत्पद्यते ॥ २३ ॥

अन्वयः — अध्यवसायः बुद्धि:, धर्म, ज्ञानम्, विरागः, ऐश्वर्यम्, सात्विकम्, एतद्र ुपम्, ( च ) अस्मात् विपर्यस्तम् ॥ २३ ॥

व्याख्या - अध्यवसायः = निश्चयः । बुद्धि = बुद्धितत्वम् अर्थात् अध्यवसायत्व बुद्धेर्लक्षणम् । ( बुद्धेरष्टी धर्मा भवन्ति तत्र चत्वारः सात्त्विकाः चत्वारश्च तामसाः ) धर्माः । ज्ञानम् । विरागः = वैराग्यम् । ऐश्वर्यम् = अणिमा - महिमा गरिमा - लघिमा - प्राप्तिः - प्रकाम्यम् - ईशित्वम् वशित्वरूपमष्टविधम् । सात्विकम् = सत्त्वांशप्रधानम् । एतद्र ूपम् = इमे धर्माः तामसम् = तमोंऽशप्रधानम् । च, रूपम् ) अस्मात् = धर्मादेः विपर्यस्तम् = विपरीतम् । अर्थात्, अधर्म - अज्ञान अवैराग्य

अनैश्वर्यरूपम् । ( अस्ति ) ॥ २३ ॥

हिन्दी — किसी वस्तु के निश्चय करने को बुद्धि कहते हैं, और उस बुद्धि के धर्म - ज्ञान - वैराग्य - ऐश्वर्य ये चार सात्त्विक धर्म हैं | अभ्युदय - और निःश्रेयस के साधक को धर्म कहते है, वस्तुओं के प्रकाश करने वाले को ज्ञान कहते हैं, पुत्र - कलत्र आदि पदार्थों में राग न होना ही वैराग्य है । ऐश्वर्यस्पष्ट ही हैं और बुद्धि के चार जो तामसधर्म हैं वे इनके सर्वथा विपरीत हैं- जैसे - अधर्म - अज्ञान-अवैराग्य - अनैश्वर्य ॥ २३ ॥

१. यतः सूर्यमरीचीनवलम्ब्य सूर्यलोकं याति योगीति मिश्रा: । २. यतश्चन्दूमसमपि स्पृशति करेण योगीति । ३. यती जल इव भूमावप्युन्मज्जति निमज्जति निमज्जति च योगी । ४. सत्यसंकल्पतेति मिश्राः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 69

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 69 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

संस्कृत - हिन्दी - व्याख्योपेता ५३ प्रश्न – अहङ्कार का क्या लक्षण है तथा उससे किस दो प्रकार की सृष्टि की उत्पत्ति होती है?

अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः ।

एकादशकश्च गणस्तन्मात्रः पञ्चकस्यैव ॥ २४ ॥

गौ ० - एवं बुद्धिलक्षणमुक्तम्, अहङ्कारलक्षणमुच्यते ' एकादशकश्च गणः-एकादशेन्द्रियाणि तथा तन्मात्रो गणः पञ्चकः पञ्चलक्षणोपेतः शब्दतन्मात्रस्पर्श-तन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्रलक्षणोपेतः ॥ २४ ॥

अन्वयः --अभिमानः अहङ्कारः च, तस्माद्, द्विविधः सर्गः, प्रवर्त्तते, एका-दशकः, गणः च, तन्मात्रः पञ्चकः एव ॥ २४ ॥

व्याख्या - अभिमानः = अभिमानत्वधर्मवान् । अहङ्कारः = स्पष्टमेतत् । तस्मात् = अहङ्कारात् । द्विविधः = द्विप्रकारकः । सर्गः = सृष्टिः । प्रवर्त्तते = उत्पद्यते । एकादशकः = एकादश संख्याकः । गणः = चक्षुरादिपञ्चज्ञानेन्द्रियम्, वाक्पाणि आदिपंचकर्मेन्द्रियम्, मनः इत्येतन्नामकः समुदायः । च और । तन्मात्रपञ्चकः = सूक्ष्म - शब्दस्पर्शरूपरसगन्धात्मकः । एव ॥ २४ । हिन्दी -- किसी वस्तु के अभिमान करने को अहङ्कार कहते हैं और उस अहङ्कार से दो प्रकार की सृष्टि होती है, एक ११ एकादश इन्द्रिय ( ५ ज्ञाने-न्द्रिया - ५ कर्मेन्द्रियाँ - और १ मन ) रूपा सृष्टि, और दूसरी तन्मात्रस्वरूपा सृष्टि ॥ २४ ॥

प्रश्न – अकेले अहङ्कार से यह विलक्षण गणद्वयात्मिका सृष्टि कैसे होती है, क्योंकि एक अन्धकारमयी सृष्टि है तो दूसरी प्रकाशक सृष्टि है?

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।

भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥

१. आलोचनमननयोरन्ते तयोर्विषये योऽयम् ' अहमत्राधिकृत ' इत्यादिरूपेणा-भिमानः सोऽसाधारण व्यापारत्वादहंकारलक्षणमित्यर्थः । उत्तरार्धं व्याचष्टे एका-दशकश्चेति । ( ऐन्द्रिय एकादशकस्त मात्र पञ्चकश्चेति माठरसम्मतः, एकादशश्च गणस्तन्मात्र पञ्चकश्चेति च मिश्रसम्मतः पाठोऽत्र कारिकायां द्रष्टव्यः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 70

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 70 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ सांख्यकारिका गो ० -- किलक्षणात् सर्ग इत्येतदाह – १ सत्त्वेनाभिभूते यदा रजस्तम अहङ्कारे भवतस्तदा सोऽहङ्कारः सात्त्विकः तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति, तस्माद्वैकृतादहङ्कारादेकादशक इन्द्रियगण उत्पद्यते यस्मात् सात्त्वि. कानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि तस्मादुच्यते सात्त्विक एकादशक इति । किञ्चान्यत् – भूतादेस्तन्मात्रः स तामसः, २ तमसाभिभूते सत्त्वरजसी अहङ्कारे यदा भवतः, तदा सोऽहङ्कारस्तांमस उच्यते, तस्य पूर्वाचार्यकृता संज्ञा भूतादि:, तस्माद् भूतादेरहङ्कारात् तन्मात्रः पञ्चको गण उत्पद्यते भूतानामादि भूतस्तमोबहुलस्तेनोक्तः स तामस इति तस्माद् भूतादेः पञ्चतन्मात्रको गणः । ४ किञ्च तैजसादुभयम् " यदा रजसाभिभूते सत्त्वतमसी अहङ्कारे भवतः स्तदा तस्मा॑त् सोऽहङ्कारस्तेजस इति संज्ञां लभते तस्मात्तैजसादुभयमुत्पद्यते । ' उभयमिति -- एकादशो गणस्तन्मात्रः पञ्चकः । योऽयं सात्त्विकोऽहङ्कारो वैकृतिको भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजस महङ्कारं सहायं गृह्णाति सात्त्विको निष्क्रियः स तैजसयुक्त इन्द्रियोत्पत्ती समर्थः तथा तामसोऽहंकारो भूतादिसंज्ञितो निष्क्रियत्वात् तैजसेनाहंकारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति । तेनोक्तं तैजसादुभयमिति । एवं तैजसेनाहंकारेणेन्द्रियाण्येकादश पञ्चतन्मान त्राणि कृतानि भवन्ति ॥ २५ ॥

अन्वयः -- वैकृतात्, अहकारात्, सात्त्विकः एकादशकः, प्रवर्तते, भूतादे, तन्मात्रः, ( प्रवर्तते ), ( यतः ) स, तामसः तैजसात् उभयम् ॥ २५ ॥

१. वैकृतशब्दार्थमाह – सत्त्वेनेति । २. भूतादिशब्दस्यार्थं विवृणोति तमसेति । ३. तामसाहंकार कार्यस्य तन्मात्रस्य तामसत्वे युक्तिमाह - भूतानामिति । उप-संहरति तस्मादिति । ४. यद्यप्येकोऽहंकारस्तथापि गुणभेदोद्भावाभिभवाभ्यां भिन्नकार्यकारीति • मिश्राः । ५. अहंकारस्य तैजसत्वे युक्तिमाह - यदेति । ६. सात्त्विकतामसोभयविधकार्यजनने तैजसाहंकारस्योपोद्वलकत्व मा हो भय.. मितीति । CC ७. - 0. फलितमाह JK Sanskrit Academy मिति , Jammmu ।. Digitized by S3 Foundation USA