साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 71–80

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 71–80

पृष्ठ 71

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपता ५५ व्याख्या - वैकृतात् = सात्त्विकात् । अहङ्कारात् । सात्त्विकः = सत्त्वगुण विशिष्टः । एकादशकः - = एकादशेन्द्रिय समुदाय: । प्रवर्तते = उत्पद्यते । भूतादे: = तामसात्, ( अहङ्कारात् ), तन्मात्रः = तन्मात्रसंज्ञक पञ्चको गणः । ( प्रवर्तते ) यत: - सः तन्मात्रात्मको गणः । तामस = तमोगुणप्रधानाहङ्कारजन्यः । तैजसात् = राजसात् - अर्थात् रजोगुणप्रधानात् अहङ्कारात् । उभयम् = उभया-मिका सृष्टिर्भवति अर्थात् वक्ष्यमाणपञ्चज्ञानेन्द्रिय - पञ्चकर्मेन्द्रिय – मनः स्वरूपा सृष्टिर्भवति ॥ २५ ॥

हिन्दी – सत्त्वगुणप्रधान अहंकार से सात्त्विक ११ एकादश इन्द्रिय समुदा-यात्मक सृष्टि होती है । और तमोगुण से युक्त अहंकार से शब्दतन्मात्रादि-स्वरूपा सृष्टि होती है । तैजस अर्थात् रजोगुण से विशिष्ट अहंकार से दोनों प्रकार की सृष्टियाँ होती हैं । अर्थात् एकादशइन्द्रिय - गणात्मिका तथा तन्मात्र-गणस्वरूपा ये दोनों सृष्टियाँ होती हैं ॥ २५ ॥

अब हम एकादश इन्द्रियगणात्मक सृष्टि के अन्तर्गत १० बाह्य इन्द्रियों को बतलाते हैं—

( १ ) बुद्धीन्द्रियाणि चक्षः श्रोत्रप्राणरसनस्पर्शनकानि ।

वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥

गौ ० - सात्त्विक एकादश इत्युक्तः, यो वैकृतात् सात्त्विक एकादशक: ± सा-त्त्विकादहंकारादुत्पद्यते तस्य का संज्ञेत्याह चक्षुरादीनि स्पर्शनपर्यन्तानि बुद्धी-न्द्रियाण्युच्यन्ते, स्पृश्यतेऽनेनेति स्पर्शनं त्वगिन्द्रियं तद्वाची सिद्धः स्पर्शनशब्दो-ऽस्ति, तेनेदं पठ्यते - स्पर्शनकानीति ४ शब्दस्पर्शरूपरसगन्धान् पञ्च विषयान् १. इन्द्रियाणां प्रकाशकत्वेन प्रकाशधर्म कसत्त्वगुणकार्यत्वानुमानात्सात्त्वि-काहंकारोपादानकत्वं पूर्वकारिकायामुक्तं तत्र कानि पुनस्तानीन्द्रियाणीत्याह- बुद्धी-न्द्रियाणीति । बुद्धिसाधनानि बुद्धीन्द्रियाणि कर्मसाधनानि कर्मेन्द्रियाणीत्यर्थः । २. / एकादशक इन्द्रियगणः । ३. अत्र सात्त्विकाहङ्का रोपादान कत्वमिद्रियसामान्यलक्षणं साङ्ख्यमतेन द्रष्टव्यम् । ४. वाचस्पत्यमतेनात्र मूले स्पर्शनेन्द्रियस्य त्वक्स्थानत्वात् ' रसनत्वना-पानि ' इति पाठान्तरं द्रष्टव्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 72

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ साख्यकारिका वुध्यन्ते अवगच्छन्तीति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मों-न्द्रियाण्याहुः कर्म कुर्वन्तीति कर्मेन्द्रियाणि तत्र वाग्वदति, हस्तौ नाना व्यापारं कुरुतः, पादी गमनागमनं, पायुरुत्सर्गं करोति, उपस्थ आनन्दं प्रजोत्पत्त्या ॥ अन्वयः - • चक्षुः श्रोत्र घ्राण - रसन- त्वगाख्यानि बुद्धीन्द्रियाणि, आहुः, वाक्पाणिपादपायु - उपस्थानि कर्मेन्द्रियाणि, आहुः ॥ २६ ॥

व्याख्या - चक्षुः श्रोत्र - घ्राण - रसन- त्वगाख्यानि = एतन्नामकानि बुद्धी. न्द्रियाणि = ज्ञानेन्द्रियाणि । आहुः = कथितानि । वाकपाणि पादपायूपस्थानि =

एतन्नामानि कर्मेन्द्रियाणि । आहुः ॥ २६ ॥

हिन्दी - चक्षु श्रोत्र ( कान ) घ्राण ( नाक ) रसन ( जीभ ) और त्वचा ये पाँच ज्ञानेन्द्रियाँ हैं । और वाक ( वाणी ) पाणि ( हाथ ) पाद ( पैर ) पायु ( गुदा ) उपस्थ ( लिङ्ग ) ये ५० कर्मेन्द्रियाँ है ॥ २६ ॥

अब एकादश इन्द्रियों में से इग्यारहवीं इन्द्रिय जो मन है उसका निरूपण करते हैं—

उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियञ्च साधर्म्यात् ।

गुणपरिणामविशेषान्नानात्वं बाह्यमेदाश्च ॥ २७ ॥

गौ ० - एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि मन एका-दशकं किमात्मकं किस्वरूपंचेति तदुच्यते – अत्रेन्द्रियवर्गे, मन उभयात्मकं बुद्धीन्द्रियेषु बुद्धीन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् । कस्माद्? बुद्धीन्द्रियाणां प्रवृत्ति कल्पयति कर्मेन्द्रियाणां च तस्मादुभयात्मकं मनः संकल्पयतीति सङ्कल्प-कम् । किञ्चान्यत् ' इन्द्रियं च साधर्म्यात् ' समानधर्मभावात्, सात्त्विकाह कारात् बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्य १. दानप्रतिग्रहाद्यात्मकम् । २. जनयति । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति क्रमेण चाक्षुषादिज्ञानजनने मनोधिष्ठितानामेव बुद्धीन्द्रियाणां च स्वत्वविषये प्रवृत्तेर्मन उभयात्मकमिति भावः । ३. इदमेवं नैवमिति सम्यक्कल्पयति विशेषणविशेष्यभावेन विवेचयतीति संकल्पकत्वं मनस इतरभेदकं लक्षणमित्यर्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 73

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपता ५७ प्रति, तस्मात् साधर्म्यान्मनोऽपीन्द्रियम् 1 एवमेतान्येकादशेन्द्रियाणि सात्त्विकद्वैकृतादहङ्कारादुत्पन्नानि । तत्र मनसः का वृत्तिरिति? संकल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयः । २ ' अथैता -नीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीश्वरेण उत स्वभावेन कृतानि, यतः प्रधानबुद्धयहंकारा अचेतनाः पुरुषोऽप्यकर्ते ' त्यत्राह - इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति, अत्रोच्यते गुणपरिणामविशेषान्नानात्वं बाह्य-भेदाश्च, इमान्येकादशेन्द्रियाणि, शब्दस्पर्शरूपरसगन्धाः पञ्चानां वचनादान-विहरणोत्सर्गानन्दाच पश्चानां संकल्पश्च मनसः एवमेते भिन्नानामेवेन्द्रियाणा-मर्थाः, गुणपरिणामविशेषात् - गुणानां परिणामो गुणपरिणामस्तस्य विशेषा-दिन्द्रियाणां नानात्वं वाह्यार्थभेदाच । अर्थतन्नानात्वं नेश्वरेण नाहूंकारेण न बुद्धयान प्रधानेन न पुरुषेण स्वभावात् कृतगुणपरिणामेनेति । 3 ‘ गुणानाम-चेतनत्वान्न प्रवर्तते—? प्रवर्तते एव । कथम्? वक्ष्यतीहैव-वत्स विवृद्धिनिमित्तं क्षीरस्य यथां प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ४ एवमचेतना गुणा एकादशेन्द्रियभावेन प्रवर्तन्ते, " विशेषोऽपि तत्कृत एव येनोच्चैः प्रदेशे चक्षुरवलोकनाय स्थितम् तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय । एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशाव-१. नियामिकानीति शेषः । २ शङ्कते -- अथेति । इन्द्रियाणां स्वस्वविषयग्राहकत्वमीश्वरकृतं स्वाभाविकं वा, येन स्वभावेनैव प्रधानादीनामचेतनत्वं चेतनत्वं च पुरुषस्येति शङ्कार्थः । समाधत्ते - इत्यज्ञाहेति । स्वाभाविकमिन्द्रियाणां भिन्नार्थग्राहकत्वमिति समा-धानाशयः । एतदेवोत्तरार्धेन प्रतिणदयन्नाह - अत्रोच्यत इति । समाधानार्थ-मुतरार्धव्याख्यानेन प्रतिपादयन्नाह - इमानीति । कृतगुणपरिणामेनेत्यन्तग्रन्थेन न न पुरुषादिकृतमिति शेषः । ३. आक्षेप्ता पृच्छति - गुणानामिति । सत्त्वादीनां गुणानां जडत्वात्तत्साम्या-वस्थात्मकं प्रधानं न प्रवर्तत किमिति प्रश्नार्थः । समाधत्ते प्रवर्त्तत एवेति । ४. गुणानां प्रवृत्तिप्रकारं दृष्टान्तेन विवृण्वन्नाह - एवमिति । ५. एकादशेन्द्रियेषु तत्तदिन्द्रियप्रवृत्तिप्रकारोऽपि । तत्कृत एव = अचेतन-गुणकृतएव । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 74

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ साख्यकारिका स्थितानि स्वभावतो गुणपरिणामविशेषादेव न तदर्था अपि ' यत उक्तं शास्त्रान्तरे – ‘ गुणागुणेषु वर्तन्ते ' गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यर्था ज्ञेया गुणकृता एवेत्यर्थः प्रधानं यस्य कारणमिति ॥ २७ ॥

अन्वयः - अत्र, संकल्पकम्, मन: ( तच्च ) उभयात्मकम् च इन्द्रियम्, ( मनसः ) साधर्म्यात्, ( तेषाञ्च ) गुणपरिणामविशेषात्, नानात्वम्, बाह्य-भेदाश्च ॥ २७ ॥

व्याख्या -अत्र = एकादशेन्द्रियमध्ये मनः = मनोरूपम् इन्द्रियम् । संकल्प-कम् = इदमेवम् नैवमिति संकल्पजनकम् । ( संकल्पविकल्पजनकत्वं मनसो लक्ष-णम् ) ( तच्च == मनः । उभयात्मकम् = ज्ञानेन्द्रियात्मकं कर्मेन्द्रियात्मकञ्च । ( अर्थात् मनः ज्ञानेन्द्रियाणां कर्मेन्द्रियाणाञ्च स्व - स्व - विषयेषु प्रवर्तृ कत्वात् उभयात्मकं भवति, यतः सुपुप्तौ मनसि पुरीतति नाड्यां प्रविष्टे कापि ज्ञानस्व-रूपा वृत्तिर्न जायतेऽतोऽनुमीयते यत ज्ञानेन्द्रियाणां - कर्मेन्द्रियाणाञ्च प्रवृत्ति-कारणं मन एवेति भावः । इन्द्रियञ्च मनः मनसइन्द्रियत्वं च । साधर्म्यात् = समानधर्मवत्त्वात्; सात्त्विकाहंका रोपादानकत्वमित्यर्थः । ( अर्थात् सात्त्विका-हंकारोपादानकत्वं यथा दशविधवाह्येन्द्रियाणमस्ति तथा मनसोऽपीति भावः ॥ तेषाञ्च इन्द्रियाणाम् ) गुणपरिणामविशेषात् = गुणानाम् = सत्त्वरजस्तम-साम् परिणामविशेषात् = अदृष्टरूपपरिणामभेदात् । नानात्वं = अनेकत्वम् । बाह्यभेदाश्च = बाह्यघटपटादीनां यथा अदृष्टभेदाद् भेदा जायन्ते ॥ २७ ॥

हिन्दी --इन -- ११ इन्द्रियों के मध्य में मन का ' वह बात ऐसी है ' ' यह बात ऐसी नहीं है ' इन संकल्प विकल्पों का कारण माना है, और वह मन उभयरूप है अर्थात् मन ज्ञानेन्द्रिय और कर्मेन्द्रिय इन दोनों प्रकार की इन्द्रियों को अपने अपने विषयों में प्रवृत्त करनेवाला है अतः यह मन दोनों इन्द्रियस्व-रूप है | अतः प्रश्न यह होता है कि मन इन्द्रिय क्यों है? इसका उत्तर दिया कि ' साधर्म्यात् ' अर्थात् सात्त्विक अहंकारोपादानकत्व जैसे दशविध बाह्य इन्द्रियों का धर्म है वैसे ही मन का भी, अर्थात् सात्त्विक अहंकार जैसे बाह्य १. प्रवर्तन्त इति शेषः । अब माठरमते बाह्यभेदाश्चेत्यत्र ग्राह्यभेदाश्चेति कारिकापाठः । इन्द्रियार्थैकादशभेदादपि इन्द्रियाणां भेद इति तदर्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 75

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी व्याख्योपता ५ ९ इन्द्रियों का समान रूप से उपादान कारण है वैसे ही मन का भी सात्त्विक अहङ्कार ही उपादान कारण है । अब फिर शंका यह होती है कि इकला सात्त्विक अहङ्कार इग्यारह प्रकार की इन्द्रियों को कैसे उत्पन्न करता है? इसका समाधान किया कि “ गुणपरिणामविशेषान्नानात्वम् " अर्थात् सत्त्व-रज - तम इन तीनों गुणों के विलाक्षण भोगों को प्रदान करनेवाले विभिन्न. अदृष्ट ( भाग्य ) रूप परिणाम के भेद से इन्द्रियरूप कार्य का भी भेद मानना आवश्यक है । जैसे घट - पट आदि बाह्यपदार्थों का अदृष्ट भेद से भेद देखने में आता है, एवं एक ही पिता के भाग्य भेद से पुत्र पौत्र आदि सन्तान भेद देखने में आता है ॥ २७ ॥

ज्ञानेन्द्रिय और कर्मेन्द्रियों के विशेषव्यापारों का प्रदर्शन करते हैं—

रूपादिषु पञ्चानामालोचनमात्र मिष्यते वृत्तिः ।

वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥

गौ ० - अथेन्द्रियस्य कस्य का वृतिरित्युच्यते- मात्रशब्दो विशेषार्थः, अविशे-षव्यावृत्त्यर्थो ' यथा - भिक्षामात्रं लभ्यते, नान्यो विशेष इति, तथा चक्षुः रूप-मात्रेनं रसादिपुर एवं शेषाण्यपि, तद्यथा - चक्षुषो रूप जिह्वाया रसः, घ्राणस्य गन्धः, श्रोत्रस्य शब्दः, त्वचः स्पर्श: । एवमेषां बुद्धीन्द्रियाणां वृत्तिः कथिता, कर्मेन्द्रियाणां वृत्तिः कथ्यते - वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणामित्यर्थः । वाचो वचनं, हस्तयोरादानं, पादयोर्विहरणं पादयोर्भुक्त-स्याहारस्य परिणतमलोत्सर्गः, उपस्थस्यानन्दः सुतोत्पत्तिर्विषयो वृत्तिरिति सम्बन्धः ॥ २८ ॥

अन्वयः - पञ्चानाम्, शब्दादिषु, आलोचनमात्रम् वृत्तिः, इष्यते, पञ्चानाम्, वचनादानविहरणोत्सर्गानन्दाश्च, ( वृत्तयः इष्यन्ते ) ॥ २८ ॥

१. आलोचनमात्रमित्यत्र मात्रशब्दार्थो विशेपोऽविशेषव्यावृत्त्यर्थं इत्यत्र दृष्टान्तमाह - यथेति । २. वृत्तिं लभत इति शेषः । ३. वृत्तिविषय इति शेषः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 76

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सांख्यकारिका व्याख्या – पञ्चानाम् = चक्षुरादिज्ञानेन्द्रियपञ्चकानाम् | शब्दादिषु = शब्द-स्पर्श - रूप - रस - गन्धात्मकेषु विषयेषु । आलोचनमात्रम् = ज्ञानमात्रम् । कृत्तिः = व्यापारः । इष्यते = स्वीक्रियते । पञ्चानाम् = वाक्पाणि - आदि पञ्चकर्मेन्द्रिया. णाम् । वचनादानविहरणोत्सर्गानन्दाश्च = वचनम् = कथनम्, आदानम् = ग्रहणम् .उत्सर्गः = परित्यागः, यथा मलस्य ) । आनन्दः = रतिः । ( वृत्तयः इष्यन्ते ) ॥ २८ ॥

हिन्दी - श्रोत्र चक्षु आदि पाँच बाह्य इन्द्रियों का अपने शब्द - रूप-स्पर्श आदि विषयों का प्रत्यक्ष करना ही वृत्ति ( व्यापार ) माना है । और वाक्पाणि आदि पाँच कर्मेन्द्रियों का वचन ( बोलना ), आदान ( लेना - देना ) विहरण ( भ्रमण ), उत्सर्ग ( टट्टी होना ), और आनन्द लेना ये पांच प्रकार के व्यापार बतलाये हैं ॥ २८ ॥

प्रश्न- मन - बुद्धि - अहङ्कार इन तीन प्रकार के अन्तःकरणों का कौन साधारण व्यापार है और कौन असाधारण व्यापार है इस बात को बतलाते हैं!

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २६ ॥

गौ ० - अधुना बुद्धयहंकारमनसामुच्यते ' स्वलक्षणस्वभावा स्वालक्षण्या अध्यवसायो बुद्धिरिति लक्षणमुक्तं सैव बुद्धिवृत्तिः, तथाऽभिमानोऽहंकार इत्यभिः मानलक्षणोऽभिमानवृत्तिश्च संकल्पकं मन इति लक्षणमुक्तं, तेन संकल्प एवं मनसो वृत्तिः, त्रयस्य बुद्धयहंकारमनसां स्वालक्षण्या च वृत्तिरसामान्या य प्रागभिहिता बुद्धीन्द्रियाणां च वृत्तिः साऽप्यसामान्यैवेति । इदानी सामान्या वृत्तिराख्यायते — सामान्यकरणवृत्तिः, सामान्येन करणानां वृत्ति १. वृत्तिरिति शेषः । २. एतन्मते माठ रमतेन कारिकार्या ' स्वालक्षण्या वृत्तिरिति पाठो द्रष्टव्यः । वृत्तिर्व्यापार इत्यर्थः एतदेवाह -अध्यवसाय इति । ३. असाधारणी । ४.पूर्वकारिकायामुक्ता चक्षुरादीनां स्वस्वविषयग्रहणलक्षणा वृत्तिरित्यर्थः एवं च कारिकायां त्रयस्येति बुद्धीन्द्रियाणामुपलक्षणमेतन्मते माठरमतेऽपि मिश्रमते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 77

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी - व्याख्योपता ६१ प्राणाद्या वायवः पञ्च, प्राणापानसमानोदानव्याना इति पञ्च वायव सर्वेन्द्रि याणां सामान्या वृत्तिः, यतः प्राणो नाम वायुर्मुखनासिकान्तर्गोचरः तस्य यत् स्पन्दनं २ कर्म तत् त्रयोदशविधस्यापि सामान्यवृत्तिः सृति प्राणे यस्मात् करणानामात्मलाभ इति, प्राणोऽपि पञ्जरशकुनिवत् सर्वस्य चलनं करोतीति प्राणनात् प्राण इत्युच्यते । तथाऽपनयनादपानः, तत्र यत् स्पन्दनं ४ तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदेशवर्ती य आहारादीनां समं नयनात् समानो वायुः, तत्र यत् स्पन्दनं " तत् सामान्यकरणवृत्तिः । तथा ऊर्ध्वारोहरणादुत्कर्षादुन्नयनाद्वा उदानो नाभिदेशमस्तकान्तर्गोचरः, तत्रोदाने यत् स्पन्दनं ं ंतत् सर्वेन्द्रियाणां सामान्यवृत्तिः । किञ्च शरीरव्याप्तिरभ्यन्तरविभा-गश्च येन क्रियतेऽसौ शरीरव्याप्याकाशवद् व्यानः, तत्र यत् स्पन्दनं तत् करण-जालस्य सामान्यवृत्तिरिति ' एवमेते पञ्चवायवः सामान्यकरणवृत्तिरिति व्याख्याता, त्रयोदशविधस्यापि करणसामान्यवृत्तिरित्यर्थः ॥ २ ९ ॥ १. साधारणी । जीवनादिद्वारा सर्वकरणव्यापारबीजत्वात्तदन्यव्यतिरेकानु-विधायित्वादिन्द्रियव्यापारस्य च तद्वयापारान्वयानुविधायित्वाच्च प्राणादिवायु-पञ्चकं साधारणीकरणवृत्तिरित्यर्थः, एतदेव विवृणोति - यत इत्यादिना । २. अन्नाशनादिक्रियात्मकम् । ३. मिश्रमते तु पञ्चप्राणादिरूपां सामान्यवृत्तिस्त्रयस्यैव, ' बोध्या त्रयाणा-मपि करणानामित्युक्ते ' । ४. मलमूत्रादेरपनयनम् । ५. रसानां नाडीष्वनुरूपनयनम् । ६. रसाद्यूर्ध्वनयनव्यापारः । ७ शरीरव्यापनम् । ८. उपसंहरति- एवमिति । व्यापारभेदवत् हृदि प्राणो गुदेऽपानः संमानो नाभिमण्डले । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥ इत्याद्युक्त दिशा स्थानभेदस्यापि प्राणादिभेदहेतुत्वं द्रष्टव्यम् । अत्रेदं तत्त्वम् एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि च । खं वायुर्ज्योतिरापश्च पृथिवी विश्वस्थ धारिणी ' तिश्रुतौ वायुः प्राणस्य पृथक्की'नात्प्राणानां वायुपरिणामविशेषत्वम् किन्तु संहतविहगानां पञ्जरचालनन्यायेन बुद्धयादिभिः स्वस्ववृत्तिरजोगुणेन शरीरस्य सदा चालना-2 २ तच्चालनरूपव्यापार एव प्राणादयो न तु पराभिमतपञ्चवायुभेदाः किन्तु बुद्धघा-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 78

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ साख्यकारिका अन्वयः -- त्रयस्य, स्वालक्षण्यम्, वृत्तिः, सा, एषा, असामान्या, भवति सामान्यकरणवृत्तिः प्राणाद्याः, पञ्चवायवः, ( भवन्ति ) ॥ २ ९ ॥ व्याख्या - त्रयस्य = बुद्धि - अहङ्कार - मनसाम् । स्वालक्षण्यम् = स्वानि स्वानि लक्षणानि एव । वृत्तिः = व्यापार: । ( यथा अध्यवसाय = निश्चय करना ), रूपं यद् बुद्धेर्लक्षणमुक्तं तद् बुद्धेर्व्यापारः अभिमानरूपं लक्षण महंकारस्य व्यापारः, संकल्प विकल्पात्मकं मनसो व्यापारः ) सा एप वा ( वृत्तिः ) असा-मान्या = असाधारणी, करणानाम् = बुद्धि अहंकार - मनसाम्, वृत्तिः । अर्थात् त्रिविधकरणानां साधारणो, व्यापारस्तु प्राणाद्याः = प्राण अपान - आदयः । पञ्च-वायवः ( एव भवन्ति ) ॥ २ ९ ॥ हिन्दी - बुद्धि - अहङ्कार - मन इन तीन प्रकार के अन्तःकरणों के अपने २ लक्षण ही व्यापार माने गये हैं, ( जैसे निश्चय करना बुद्धि का व्यापार है, अभिमान करना अहंकार का, संकल्प विकल्प करना मन का व्यापार है, ) और ये ( अपना २ लक्षण ) इनके ( तीन प्रकार के अन्तःकरणों के ) असाधारण ( विशेष ) हैं । प्राण अपान आदि पाँच प्रकार की वायुवों को इनका साधारण व्यापार माना गया है ॥ २ ९ ॥ बाह्येन्द्रिय - मन - बुद्धि- अहंकार इन चारों प्रकार के कारणों के व्यापारों के क्रमशः तथा एक साथ होने को बतलाते हैं—

युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।

दृष्ट, तथाप्यदृष्ट े त्रयस्य तत्पूविका वृत्तिः ॥ ३० ॥

गौ ० - युगपच्चतुष्टयस्य, बुद्ध यहङ्कारमनस मेकै केन्द्रियसम्बन्धे सति चतुष्टयं भवति चतुष्टयस्य दुष्टे प्रतिविपयाध्यवसाये युगग्वृत्तिः, ' बुद्धयहंकारमनश्चक्षूंषि दिभिः देहपालनमेव प्राणादयः तथा च वायुतुल्यसञ्चारवत्त्वेन वायुदेवताधिष्ठित-तया वा प्राणादीनां वायुशब्दवाच्यतेति । १. वाह्येन्द्रियेषु- कस्यचिदेकस्येन्द्रियस्य बुद्धयहङ्कारमनोरूपाभ्यन्तरकरणैः । संयोगे चतुष्टयं जायते तस्य प्रत्यक्षजनने एकदैव व्यापारा भवन्तीत्यस्य चक्षुपादी क्रमेणोदाहरणमाह - बुद्धीति । यथा विद्युत्संपाते स्थाणुव्याघ्रादाविन्द्रियसन्निकर्षे CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 79

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सस्कृत - हिन्दी- व्याख्योपेता ६३ युगपदेककालं रूपं पश्यन्ति स्थाणुरयमिति । बुद्धयहंकारमनोजिह्वा युगपद्रसं गृह्णन्ति । बुद्धयहंकार मनोघ्राणानि युगपद्गन्धं गृह्णन्ति । तथा त्वक्श्रोत्रे अपि । किञ्च क्रमशश्च तस्य निर्दिष्टा, तस्येति चतुष्टयस्य, क्रमशश्च वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेतिसंशये सति तत्रो-परूढं तलिङ्ग पश्यति शकुनि वा ततस्तस्य मनसा संकल्पिते संशये व्यवच्छेद- ' भूता ' बुद्धिर्भवति स्थाणुरयमिति अतोऽहंकारश्च निश्चयार्थः २ स्थाणुरेवेति, इत्येवं बुद्धयहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा, यथा रूपे तथा शब्दादिष्वपि बोद्धव्या । दृष्टे दृष्टविषये । किञ्चान्यत् तथाऽप्यदृष्टे त्रयस्य यत्पूर्विका वृत्तिः अदृष्टेऽनागतेऽतीते च काले बुद्धयहङ्कारमनसां रूपं चक्षुःपूर्विका त्रयस्य वृत्तिः स्पर्शे त्वक्पूर्विका, गन्धे घ्राणपूर्विका, रसे रसपूर्विका शब्दे श्रवणपूर्विका, बुद्ध्यहङ्कारमनसामनागते भविष्यति कालेऽतीते च तत्पूर्विका क्रमशो वृत्तिः, वर्त्त-माने युगपत् क्रमशश्चेति ॥ ३० ॥

अन्वयः - दृष्टे, चतुष्टयस्य तु वृत्तिः, युगपत् क्रमशश्च निर्दिष्टा तथा अदृष्टे, अपि, तत्पूर्विका, त्रयस्य, वृत्तिः युगपत् क्रमशश्च निर्दिष्टा ॥ ३० ॥

व्याख्या - दृष्टे = प्रत्यक्षविषयीभूतेषु पदार्थेषु । तस्य । चतुष्टयस्य = बाह्ये-न्द्रिय- बुद्धि- अहंकार - मनसाम् तु वृत्तिः = व्यापारः । युगपत् = एकस्मिन् काले । क्रमशश्च । निर्दिष्टा = कथिता । तथा = तथैव । अदृष्टेऽपि = अप्रत्यक्षविषयी-युगपदेव निर्विकल्पक सविकल्पकाभिमानाध्यवसाया उत्पद्यन्ते यतस्ततो झटित्य-पसरतीत्यर्थः । एवं रासनादिप्रत्यक्षेऽपि द्रष्टव्यम् । १ पुरुषको टिव्यावर्तिका । २. निर्णयफलकः, अध्यवसायजनक इति यावत्, ततश्च बुद्धिव्यापारोऽध्य-वसायो भवतीत्याह - स्थाणुरेवेति । ३. अदृष्टे परोक्षविषयेऽपि त्रयस्येन्द्रियरहितत्रयस्य युगपत्क्रमशइन व्यापारा भवन्ति, अनुमानशब्दयोर्विषये इन्द्रियाप्रवृतेस्वयस्येत्युक्तम्, तयोर्विषये निर्विकल्प-काभावात् प्रथमं मनस एंव व्यापार इति मिश्राः । अनुमानशब्दविषये वृत्तिर्हि तत्पूर्विका दृष्टपूर्विकेति विशेषः अनुमाने व्याप्तिज्ञानार्थं शब्दे च शक्त्यनुमाना-पेक्षया प्रत्ययपेक्षेति नारायणी । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 80

साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४ सांख्यकारिका भूतेऽपि पदार्थे । तत्पूर्विका = दृष्टपूर्विका । त्रयस्य = बुद्धि - अहंकार - मनसाम् । वृत्तिः = व्यापारः । ( युगपत्, क्रमशश्च भवन्ति इति सांख्यैः स्वीकृतम् ) ॥ ३० ॥

हिन्दी - प्रत्यक्ष विपयीभूतपदार्थों के विषय में चक्षु आदि बाह्य इन्द्रियां तथा मन - अहंकार - बुद्धि इन चारों के देखना संकल्प, अभिमान एवं निश्चयात्मक समस्त व्यापार कभी तो युगपत् ( एक काल ) ही में हो जाते हैं । और कभी क्रम से भी होते हैं । युगपत् जैसे घोर अन्धकार में बिजली की चमचमाहट से अचानक किसी शेर वगैरह को सामने देखकर वह देखने वाला व्यक्ति पूर्वोक्त देखना तथा संकल्प आदि सब व्यापारों को एक ही काल में सम्पन्न कर लेता है जिससे कि उसी क्षण वह वहाँ से भाग निकलता है । क्रमशः जैसे मन्द आलोक में सर्वप्रथम उस सामने वाली वस्तु को देखता है, इसके बाद यह चोर है ऐसा संकल्प करता है, फिर यह तो मेरी ही तरफ आ रहा है ऐसा अभिमान करता है, इसके अनन्तर " मुझे यहाँ से हट जाना चाहिए " ऐसा निश्चय करता है, ये सब व्यापार क्रमिक हैं । इसी प्रकार अदृष्ट ( अप्रत्यक्ष ) स्थलीय पदार्थों के विषय में भी बाह्य इन्द्रियों को छोड़कर मन अहंकार - बुद्धि - इन तीन कारणों के व्यापार में भी वैसे ही अर्थात् प्रत्यक्षस्थलीयं पदार्थों के समान ही होते हैं — अर्थात् युगपत् और क्रमशः । अन्तर इतना ही है कि परोक्षस्थलीय जो अनुमिति - शाब्दबोध - स्मृति रूप व्यापार हैं ये प्रत्यक्षपूर्वक ही होते हैं, जैसे अनुमिति व्याप्तिज्ञानरूप प्रत्य-क्षात्मकव्यापारपूर्वक हैं, शब्दबोध शक्तिज्ञानरूपप्रत्यक्षात्मकव्यापारपूर्वक है । स्मृति अनुभवरूपप्रत्यक्षात्मकव्यापारपूर्वक हैं ॥ ३० ॥

प्रश्न - - पूर्वोक्त चारों करण अपने - अपने व्यापार को क्या परस्पर में सापेक्ष होकर सम्पन्न करते हैं! अथवा निरपेक्ष होकर ।

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।

पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥ ३१ ॥

गौ ० - किश्व स्वां स्वामिति वीप्सा, बुद्धयहंकारमनांसि स्वां स्वां वृत्ति CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA