साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ — पृष्ठ 81–90
साङ्ख्य कारिका ईश्वरकृष्ण - गौड़पाद भाष्य, ज्वाला प्रसाद गौड़ · Chaukhamba Vidya Bhavan Varanasi · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
संस्कृत - हिन्दी- व्याख्योपेता ६५ परस्पराकूतहेतुकाम् ' आकूतमादरसम्भ्रम ' इति, प्रतिपद्यन्ते पुरुषार्थ करणाय बुद्धयहङ्कारादयः । बुद्धिरहङ्काराकूतं ज्ञात्वा स्वविषयं प्रतिपद्यते । ' किमर्थमिति चेत् पुरुषार्थ एव हेतु:, पुरुषार्थः कर्तव्य इत्येवमर्थं गुणानां प्रवृत्तिः, तस्मा-देतानि करणानि पुरुषार्थं प्रकाशयन्ति, " यद्यचेतनानीति कथं स्वयं प्रवर्त्तन्ते? ' न केनचित् कार्यंते करणम्, पुरुषार्थ एवैकः कारयतीति वाक्यार्थः, न केन-चित्, ईश्वरेण पुरुपेण वा कार्यते प्रबोध्यते करणम् ॥ ३१ ॥
अन्वयः - ( करणानि ) परस्पराकृतहेतुकाम्, स्वाम्, स्वाम् वृत्तिम् प्रतिपद्यन्ते, ( अत्र ) पुरुषार्थ एव हेतु:, केनचित् करणम्, न कार्यते ॥ ३१ ॥
व्याख्या— ( करणानि ) । परस्पराकूतहेतुकाम् = परस्परम् । ( करणानाम् ) यत् आकूतम् = संकेतः । यथा - " मनसः संकल्पः, अहंकारस्य अभिमानः, बुद्धेरध्यवसायः पः, चक्षुः श्रोत्रादीनां दर्शनश्रवणादिकम् वाक्पाणि - आदिकर्मेन्द्रिया-दीनां वचन - आदान - आदिकम् " तादृशसंकेत एव हेतुर्यत्र ताम् इत्यर्थः, स्वां स्वाम् = स्वकीयाम् - स्वकीयाम् । वृत्ति = व्यापारम् । प्रतिपद्यन्ते = प्राप्नुवन्ति । ( यत्र = वृत्त्युत्पत्ती को हेतु: ) इत्यत्राह - पुरुषार्थं एव = भोगापवर्गस्वरूपः पुरुषार्थ एव । हेतुः: कारणम् । केनचित् = भोगापवर्गरूपपुरुषार्थातिरिक्तेन चेतनेन । करणम् =
वक्ष्यमाणं त्रयोदशविधम् इन्द्रियादिरूपम् । न कार्यंते न हि प्रेर्यंते ॥ ३१ ॥
हिन्दी- - दश चक्षु आदि बाह्य इन्द्रियाँ तथा मन, अहंकार, बुद्धि - ये तेरह ( १३ ) प्रकार के करण परस्पराकूतहेतुक ( परस्पर का आकुत संकेत है कारण जिसमें ऐसे ) अपने - अपने व्यापार को जीवित शरीर में रहकर निरपेक्ष रूप से स्वयं १. आकूत शब्दार्थमाह - आकृति । प्रवृत्त्युन्मुखत्वमित्यर्थः, अचेतने-ष्वभिप्रायरूपस्याकृतस्यासम्भवात् । २. अनेनेन्द्रियव्यपाराधीनत्वान्मनसोऽहङ्कार महतोर्मनोहङ्कारव्यापाराधीन-त्वाच्च पूर्वोक्तो युगपद्द्द्वृत्तिपक्षो न संभवतीति पूर्वपक्षो निरस्तो वेदितव्यः । ३. आक्षेप्ता पृच्छति - यदीति । यदि सांख्यमते करणान्यचेतनानि कथं तेषां प्रवृत्तिरिति प्रश्नार्थः । स्वभाववादमाश्रित्य समाधत्तेन केनचिदिति । भोगा-पवर्गलक्षणपुरुषार्थस्यैवाचेतनकरणप्रवृत्तिप्रयोजकत्वात्स्वभावतस्तेषां प्रवृत्ति-रित्यर्थः, ' वत्सविवृद्धिनिमित्तमित्यत्रैतदग्रे स्वयं विवेचयिष्यते । ५ स ं ०. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
६६ सांख्यकारिका सम्पन्न करते रहते हैं जिससे कि पुरुष का भोगापवर्गरूप अर्थ ( प्रयोजन ) सिद्ध होता रहे । जिस प्रकार सैनिकयोद्धा लोग शत्रु पर विजय प्राप्त करने के लिए जिन - जिन शस्त्रास्त्रों को चलाने में कुशल होते हैं उन्हीं उन्हीं अपने- अपने शस्त्र को लेकर युद्ध करते हैं । इसी प्रकार इन तेरह प्रकार के करणों के जो उनके अपने - अपने व्यापार हैं जैसे दशविधा चक्षु आदि बाह्य इन्द्रियों के व्यापार आलोचन आदि हैं, मन का संकल्प, अहंकार का अभिमान तथा बुद्धि क निश्वयात्मक व्यापार है । इन व्यापारों को इन्द्रियों के द्वारा संपन्न करने पुरुष का भोगापवर्गरूप अर्थ ( प्रयोजन ) ही कारण है । यह नहीं है कि इ कारणों को अपने - अपने व्यापारों को सम्पन्न करने के लिए ईश्वर रूप चेतन तत प्रेरित करता हो ॥ ३१ ॥
प्रश्न --करण कितने हैं और उनका कार्य क्या - क्या है?
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधा हार्यं धार्यं प्रकाश्यञ्च ॥ ३२ ॥
गौ ० - बुद्धयादि कतिविधं तदित्युच्यते - करणं त्रयोदशविधं बोद्धव्यम् महदादित्रयं पञ्च बुद्धीन्द्रियाणि चक्षुरादीनि पञ्च कर्मेन्द्रियाणि वागादीनीति त्रयोदशविधं करणम् । तत् किं करोतीत्येतदाह ' तदाहरणधा रणप्रकाश करम् तत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति, प्रकाशं बुद्धीन्द्रियाणि । कतिविः कार्यं तस्येति तदुच्यते - कार्यं च तस्य दशधा, तस्य करणस्य कार्यं कर्त व्यमिति दशधा दशप्रकारम्, शब्दस्पर्शरूपरसगन्धाख्यं वचनादान विहरणोत्सर्गा नन्दाख्यमेतद्दशविधं कार्य, बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ ३२ ॥
१. कारक विशेषस्य करणत्वाद्वयापारावेशं विना कारकत्वासम्भवाद्वयापास वेशमाहेत्यर्थः । २. आहरणं कर्मेन्द्रियाणाम्, धारणं महदहङ्कारमनसां स्ववृत्तिप्राणादि पञ्चकद्वारा देहधारणात्, प्रकाशो बुद्धीन्द्रियाणां व्यापार इति मिश्रादयः । ३. मिश्रादिमते प्राणादिलक्षणया वृत्त्या शरीरमन्तःकरणत्रयमेव धारयतीति तस्यैव धार्यं कार्यं वोद्धव्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपेता ६७ अन्वयः — करणम्, त्रयोदशविधम्, तत्, आहरण - धारण, प्रकाशकरम्, च, तस्य, कार्यम्, दशधा, आहार्यम्, धार्यम्, च, प्रकाश्यम् ॥ ३२ ॥
ज्याख्या = करणम् = व्यापारवत् कारणम् । त्रयोदशविधम् = चक्षुरादिपञ्च-ज्ञानेन्द्रियाणि आहरणकराणि - यतस्तानि विषयान् आहरन्ति अर्थात् विषयाणां ग्रहणात्मिकां क्रियां सम्पादयन्ति मनोऽहंकारबुद्धयः धारणकराणि एते प्राणादि-द्वारा शरीरं धारयन्ति, ज्ञानेन्द्रियाणि प्रकाशकराणि अर्थात् विषयाणां ज्ञानात्मिकां क्रियां संपादयन्ति । च । तस्य = त्रयोदशविधकरणस्य । कार्यम्, दशधा = दशप्रकार-कम् । ( वर्तते ) आहाय्यं = आहरणयोग्यम्, ग्रहणयोग्यमित्यर्थः । धार्यम् = धारण-योग्यम् । च प्रकाश्यम् = ज्ञातुं योग्यम् । अयमाशयः - कर्मेन्द्रियाणां ये वचन आदान - विहरण- उत्सर्ग - आनन्दस्वरूपाः कर्मेन्द्रियैर्ग्राह्याः पञ्च विषयाः सन्ति ते दिव्य अदिव्यभेदेन दशधा वर्त्तन्ते, तत्र देवताप्रभृतीनां वचनादयो दिव्याः, अस्मदादीनाञ्च अदिव्याः । एवं ज्ञानेन्द्रियैर्धारणयोग्याः रूप - रस- गन्ध - स्पर्श- शब्दात्मकाः पञ्च विषया अपि दिव्यादिव्यभेदाद्दशधा भवन्ति । दिव्या देवानामदिव्याश्चास्मदादीनाम् । एवमेव मनोऽहंकारबुद्धिभिर्धारणयोग्या ये पाञ्चभौतिकशरीरस्वरूपाः पञ्च विषयाः सन्ति तेऽपि दिव्यादिव्यभेदेन दशधा भवन्ति, तत्र देवादीनां शरीराणि दिव्यानि अस्मदादीनाञ्च शरीराणि अदिव्यानि । हिन्दी - संसार के अन्दर किसी भी पदार्थ को ग्रहण करना, धारण करना या प्रकाश करना पूर्वोक्त त्रयोदशविध करण के अधीन होता है यह सांख्य का कहना है, परन्तु प्रकार भिन्न - भिन्न हैं जैसे कर्मेन्द्रियां वचन, आदान, विहण, उत्सर्ग और आनन्द इनका ग्रहण करती हैं अतः कर्मेन्द्रियों का वचन आदि का ग्रहण करना ही व्यापार है । मन अहंकार - बुद्धि - ये प्राणादि पाँच वायुओं के आधार पर शरीर को धारण करते हैं अतः इनका शरीर को धारण करना ही व्यापार है और चक्षु आदि पांच ज्ञानेन्द्रियाँ रूपादि तथा रूपादिमान् घट - पट आदि विषयों का प्रकाशन करती हैं । अतः उनका यही व्यापार है । और इन तेरह प्रकार के करणों का आहाय्यं धार्य्यं प्रकाश्य यह प्रत्येक दस प्रकार का कार्य होता है अर्थात् आहार्य भी दस प्रकार का, धार्य भी दस प्रकार का और प्रकाश्य भी दस प्रकार का है । जैसे वागादि पाँच कर्मेन्द्रियों के वचन आदि जो पाँच ग्राह्य विषय हैं वे दिव्य ( अलौकिक ) अदिव्य ( लौकिक ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
६० सांख्यकारिका भेद से दस प्रकार के हो जाते हैं । अर्थात् स्वर्गलोक में रहने वाले देवता लोगों के वचन आदि विषय दिव्य हैं और अस्मदादि के अदिव्य हैं । इसी प्रकार मन - अहंकार बुद्धि इनके द्वारा धारण किये जाने वाले देवता लोगों के पाँच भौतिक शरीर आदि दिव्य हैं और अस्मदादियों के अदिव्य हैं अतः वे भी दस प्रकार के हैं । ऐसे ही देवताओं की ज्ञानेन्द्रियों द्वारा प्रकाश्य शब्दादि पाँच विषय दिव्य है और हम लोगों के अदिव्य हैं अतः वे भी दस हैं ॥ ३२ ॥
पूर्वोक्त त्रयोदशविधकरणों के बाह्य आभ्यन्तर भेद से द्वैविध्य का प्रदर्शन करते हैं—
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकाल बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥
गौ ० — किञ्च - अन्तःकरणमिति । बुद्धयहङ्कारमनांसि त्रिविधं महदादि-भेदात् ', दशधा बाह्य ं च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत् करणं बाह्यम्, तत्त्रयस्यान्तःकरणस्य विषयाख्यं बुद्धयहङ्कारमनसां र भोग्यं साम्प्रतकालं — ’ श्रोत्रं वर्त्तमानमेव शब्दं शृणोति नातीतं न च भविष्यन्तं चक्षु-रपि वर्त्तमानं रूपं पश्यति नातीतं नानागतं, त्वग्वर्त्तमानं स्पर्श, जिह्वा वर्त्तमानं रसं, नासिका वर्त्तमानं गन्धं नातीतानागतं चेति । एवं कर्मेन्द्रियाणि वाग्वर्त्तमानं शब्दमुच्चारयति नातीतं नानागतं, पाणी वर्तमानं घटमाददाते नातीतम-नागतं च, पादौ वर्त्तमानं पन्थानं विहरतो नातीतं नाप्यनागतं, पायूपस्थौ च वर्त्तमानावुत्सर्गानन्दी कुरुतो नातीतो नानागतो, एवं बाह्यं करणं साम्प्रतकाल-१. अभ्यन्तरवृत्तित्वादन्तःकरणमित्युच्यत इत्यर्थः । २. व्यापारजनकम्, मनोऽहङ्कारबुद्धीनां व्यापारेषु बुद्धीन्द्रियव्यापारस्योप-योगात्, कर्मेन्द्रियव्यापारस्यापि ज्ञानेन्द्रियव्यापारद्वाराऽन्तःकरणव्यापारे उपयोगः, कर्मेन्द्रियव्यापारेण जनिते पदार्थे बुद्धीन्द्रियप्रवृत्त्यन्तःकरणप्रवृत्तेरित्यर्थः । ३. बाह्याभ्यन्तरकरणयोविशेषान्तरमाह - साम्प्रतकालमिति । तदेव विशद-मति श्रोत्रमिति । ४. नन्वयुक्तमेतत् उच्चारणविषयशब्दस्य पूर्वमसिद्धत्वेनानागतत्वात् कथं वागिन्द्रियस्थ वर्तमानविषयत्वमिति चेत् । ' वर्तमानसामीप्ये वर्तमानवद्वे ' ति पाणिनीयानुशासननियमेन वर्तमानसमीपस्थानागतस्यापि शब्दस्य वर्तमानत्वाभ्यु-पगमान्न दोषः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपता ६ ९ मुक्तम् । त्रिकालमाभ्यन्तरं करणम् बुद्धयहङ्कारमनांसि त्रिकालविषयाणि बुद्धिर्वर्तमानं घटं बुध्यते अतीतमनागतं चेति, अहङ्कारो वर्त्तमानेऽभिमानं करोत्यतीतेऽनागते च, तथा मनो वर्त्तमाने सङ्कल्पं कुरुतेऽतीतेऽनागते च, एवं त्रिकालमाभ्यन्तरं करणमिति ॥ ३३ ॥
अन्वयः –अन्तःकरणम्, त्रिविधम्, दशधा बाह्यम्, त्रयस्य विषयाख्यम्, बाह्यम्, साम्प्रतकालम्, आभ्यन्तरम्, करणम्, त्रिकालम् ॥ ३३ ॥
व्याख्या — अन्तःकरणम् = शरीराभ्यन्तरवति करणम् । त्रिविधम् = मनो-S हंकारबुद्धिरूपम् । दशधा = = दशविधम् करणम् । बाह्यम् = पञ्चज्ञानेन्द्रिय पञ्च-कर्मेन्द्रियरूपम् । त्रयस्य = मनोऽहङ्कारवुद्धीनाम् । विषयाख्यम् = विषयसमर्पकम् अर्थात् विषयसमर्पकतया सहकारि भवतीत्यर्थः । ( दशविधं करणं रूपादि घटादिविषयान् गृहीत्वा मनोऽहंकारबुद्धिम्यः समर्पयतीत्यर्थः, बाह्यम् = दशविधं बाह्यं करणम् । साम्प्रतकालम् = वर्तमानकालीन विषयग्राहकम् । आभ्यन्तरम् = शरीराभ्यन्तरवति । करणम् = मनोऽहंंकारबुद्धयः ) त्रिकालम् = भूत - भविष्यद्-वर्तमानकालीन विषयग्राहकम् ( वर्तते ) ॥ ३३ ॥
हिन्दी - मन अहंकार बुद्धि इन्हें शरीर के अन्दर रहने से अन्दर के करण कहा है । और चक्षु आदि पाँच ज्ञानेन्द्रियाँ तथा वाक् आदि पाँच कर्मेन्द्रियाँ ये दस प्रकार के बाह्यकरण रूपादि विषयों को ग्रहण करके मन- अहंकार बुद्धि इन तीन आभ्यन्तरकरणों के लिये समर्पित करते हैं । विशेषता यह है कि बाह्यकरण साम्प्रत ( वर्तमान ) कालीन विषयों के ही ग्राहक हैं, और आभ्यन्तर करण भूतभविष्यत् वर्तमान इन तीनों कालों के विषयों के ग्राहक हैं । अर्थात् अनुमान और शब्द की सहायता के आधार पर तीनों आभ्यन्तर करण भूत - भविष्य कालीन विषयों के ग्राहक हैं, और इन्द्रियों के द्वारा वर्तमानकालीन विषयों का ग्रहण करते हैं ॥ ३३ ॥
प्रश्न - पाँच ज्ञानेन्द्रिय पाँच कर्मेन्द्रियरूप दर्शविधकरणों में से कौन सी इन्द्रियाँ विशेष ( स्थूल ) विषय की ग्राहक हैं और कौन अविशेष ( सूक्ष्म ) विषयों की ग्राहक हैं? १. कर्मेन्द्रियस्य वर्तमानविषयत्वं बुद्धीन्द्रियद्वारेति चन्द्रिकाकारः । अनुमान-शब्दसह्कारेणातीतानागतं विषयकम् इन्द्रिय सहकारेण वर्तमानविषयकमिति केचित् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
७० सांख्यकारिका
बुद्धीन्द्रियाणि तेषां पञ्च विशेषा विशेष विषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥
गौ ० - इदानीमिन्द्रियाणि कति सविशेषं विषयं गृह्णन्ति, कानि निर्विशेष-मिति तदुच्यते ' - बुद्धीन्द्रियाणि तेषां सविशेषं विषयं गृह्णन्ति, सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धाम् सुखदुःखमोहविषययुक्तान् बुद्धीन्द्रियाणि प्रकाशयन्ति । देवानां निर्विशेषान् विषयान् प्रकाशयन्ति । तथा कर्मेन्द्रियार्णा मध्ये वाग्भवति शब्दविषया, देवानां मानुषाणां वाग्वदति श्लोकादीनुच्चार-यति तस्माद् देवानां मानुषाणां च वागिन्द्रियं तुल्यम् । शेषाण्यपि वाग्व्यति-रिक्तानि पाणिपादपायूपस्थसंज्ञितानि पञ्च विषयाणि, पञ्च विषयाः शब्दादयो येषां तानि पश्वविषयाणि, शब्दस्पर्शरूपरसगन्धाः पाणी सन्ति पञ्चशब्दादि-लक्षणायां भुवि पादो विहरति, परिवन्द्रियं पञ्चक्लृप्तमुत्सर्गं करोति, तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रमानन्दयति ॥ ३४ ॥
अन्वयः - तेषाम्, पञ्च, बुद्धीन्द्रियाणि, विशेपाविशेषविषयाणि, वाक्, शब्द-विषया, भवति, शेषागि, सु, पञ्चविषयाणि, ( भवन्ति ) । व्याख्या— तेषाम् = दशविधवा ह्येन्द्रियाणां मध्ये । पञ्च बुद्धीन्द्रियाणि = चक्षुरादिपज्ञानेन्द्रियाणि । विशेषावि शेषविषयाणि । विशेषाः = स्थूलाः रूपादयः अविशेषाः = तन्मात्रस्वरूपाः सूक्ष्मारूपादयः त एव विषया येषां तानि = स्थूल-सूक्ष्मोभयविधरूपादिविषयग्राहकाणीत्यर्थः । ( अस्माकं चक्षुरादीन्द्रियाणि स्थूल-रूपादिविषयान् गृह्णन्ति देवतानाञ्चेन्द्रियाणि सूक्ष्मान् ) / वाक् = वागिन्द्रियम् । शब्दविषया शब्दात्मकविषयग्राहिका । शेषाणि पाणि - पाद - प्रभृति - अवशिष्टानि कर्मेन्द्रियाणि । पचविषयाणि पञ्च विषयाः शब्दादयो येषां तानि । ( पाणि: १. साम्प्रतकालानां बाह्येन्द्रियाणां मध्ये केषां स्थूलशब्दादिग्राहकत्वं केषां वा सूक्ष्मशब्दतन्मात्रादिग्राहकत्वमिति विविच्यत इत्यर्थः । २. इदमुपलक्षणम्, ऊर्ध्वस्रोतसां योगिनां च बुद्धीन्द्रियाण्यतीन्द्रियविषयान् प्रकाशयन्तीति । ३. श्लोकाद्यात्मकं स्थूलशब्दं, न तु तन्मात्ररूपं तस्याहंकारजन्यत्वेन वागि-न्द्रियेणं सहैककारणकत्वादतः सर्वेषां वागिन्द्रियं समानमेतदेवाह — तस्मादिति । ४. पाण्याद्याहार्याणां घटादीनां पञ्चशब्दाद्यात्मकत्वात्पञ्चविषयत्वमित्यन्ये । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी व्याख्योपेता ७१ शब्दादिपञ्च विषयसहितं घटं गृह्णाति एवं पादादि इन्द्रियाण्यपि स्वस्त्र विषयान् गृह्णन्ति ) ॥ ३४ ॥
7 हिन्दी - पूर्वोक्त दस प्रकार की बाह्य इन्द्रियों में से चक्षु आदि पाँच ज्ञानेन्द्रियाँ शब्दादि पाँच विशेष ( स्थूल ) तथा अविशेष ( सूक्ष्म ) शब्दादि-विषयों को ग्रहण करती रहती हैं, जिनमें हमारी ज्ञानेन्द्रिय स्थूलशब्दादि विषयों की ग्राहक हैं और देवता तथा योगियों की ज्ञानेन्द्रियाँ सूक्ष्मस्थूल दोनों प्रकार के शब्दादि विषयों की ग्राहक हैं । कर्मेन्द्रियों में से ' वाक् ' इन्द्रिय एक. मात्र स्थूल शब्द का ही ग्रहण कर पाती है । और शेष पाणि - पाद आदि कर्मेन्द्रियाँ शब्दादि पाँच विषयों को ग्रहण करती हैं कारण कि वे जब शब्दादि विषयों से सहित घट - पट आदि विषयों का ग्रहण कर लेती हैं ॥ ३४ ॥
अब हम तेरह प्रकार के करणों में दशविध बाह्य इन्द्रियरूप करणों की अप्र-धानता और तीन प्रकार आभ्यन्तर करणों की प्रधानता को सहेतुक चतलाते हैं-सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥
गौ ० - सान्तःकरणा ' बुद्धि:, अहङ्कारमनः सहितेत्यर्थः यस्मात् सर्वं विषयमवगाहते गृह्णाति, त्रिष्वपि कालेषु शब्दादीन् गृह्णाति तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि करणानीति वाक्यशेषः ॥ ३५ ॥
अन्वयः —– यस्मात्, सान्तःकरणा, बुद्धिः, सर्वम्, विषयम्, अवगाहते, तस्मात् त्रिविधम्, करणम्, द्वारि, शेषाणि, द्वाराणि ॥ ३५ ॥
व्याख्या -- यस्मात् = यस्मात् कारणात् । सान्तःकरणा = = मनोऽहंकाररूप-अन्तःकरणसहिता । बुद्धिः । सर्वम् | विषयम् = त्रिकालवृत्तिम् समस्तमपि विषयम् । अवगाहते = निश्चिनोति । तस्मात् = तस्मात् कारणात् । त्रिविधम् । करणम् = मनोऽहंंकारबुद्धयः । द्वारि = व्यापारवत्, ( प्रधानम् ) । शेषाणि = अवशिष्टानि करणानि बाह्येन्द्रियस्वरूपाणि । द्वाराणि = व्यापाराणि, अप्रधान-भूतानि सन्तीति शेषः । १. त्रयोदशकरणेषु बाह्येन्द्रियाणामप्राधान्यमन्तःकरणत्रयस्य प्राधान्यं च वक्तुमाह — सान्तः करणेति । २. बाह्येन्द्रियैरुपनीतं सर्वविषयं समनोहंकारा बुद्धिर्यस्मादध्यवस्यतीत्यर्थ., तत्रापि विशेषमाह — त्रिष्वपीति । द्वारि प्रधानम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
७२ सांख्यकारिका अयमाशयः - - चक्षुरादिबाह्येन्द्रियाणि घट - पट - आदि - विषयान् गृहीत्वा अन्तःकरणाय ( मनसे ) समर्पयन्ति अतो बाह्येन्द्रियाणि द्वाराणि मनो द्वारि मना तेषु पदार्थेषु मध्ये संकल्पविकल्पादिकं कृत्वा तान् पदार्थान् अहंकाराय समर्पयति अतोऽत्र मनो द्वारम् अहङ्कारश्च द्वारी, अहङ्कारश्च मनोद्वारा समर्पितान् तान् पदार्थान् अभिमत्य बुद्धयै समर्पयति अत्र अहंकारस्य द्वारत्वं बुद्धेश्च द्वारित्वम्, बुद्धिरपि तान् पदार्थान् सम्यग् विनिश्चित्य आत्मभूताय पुरुषाय समर्पयति अत्र च बुद्धेर्द्वारत्वं पुरुषस्य च द्वारित्वं समुपपन्नम् । परन्तु बाह्यकरण- आभ्यन्तर-करणयोर्मध्ये आभ्यन्तरकरणानामेव द्वारित्वम् ( प्राधान्यम् ), बाह्यकरणानाञ्च द्वारत्वम् ( अप्राधान्यम् ) आभ्यन्तरकरणानां च मध्ये बुद्धरेव सर्वथा प्राधान्यम् । हिन्दी - मन तथा अहंकार सहित बुद्धि जिस कारण सभी बाह्य इन्द्रियों से प्राप्त किये विषयों का पुरुष के भोग के लिये निश्चय करती है, इस कारण तीनों भीतरी करण द्वारि — प्रधान हैं और बाकी के दस बाह्य इन्द्रिय द्वार अप्रधान हैं, क्योंकि साक्षात् या परम्परा से बाह्येन्द्रियों के द्वारा ही भीतरी करण विषयों में अपना - अपना व्यापार करते हैं ॥ ३५ ॥
बुद्धि केवल बाह्येन्द्रियों की अपेक्षा ही प्रधान नहीं है अपितु मन अहंकार को अपेक्षा भी वह प्रधान ही है - इसी बात को बतलाते हैं—
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥
गौ ० — किञ्चान्यत् - यानि करणान्युक्तानि एते गुणविशेषाः, किविशिष्टाः? प्रदीपकल्पाः प्रदीपवद्विषयप्रकाशकाः, परस्परविलक्षणा असदृशा भिन्न-विषया इत्यर्थः । गुणविशेषा इति । गुणविशेषा गुणेभ्यो जाताः ' । कृत्स्तं पुरुषार्थं बुद्धीन्द्रियाणि कर्मेन्द्रियाण्यहङ्कारो मनश्चैतानि स्वं स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्वन्तीत्यर्थः २ यतो बुद्धिस्थं सर्वं विषय-सुखादिकं पुरुष उपलभ्यते ॥ ३६ ॥
१. सत्त्वरजस्तमसां विकास इत्यर्थः । गुणानां भेदाः सत्त्वाद्या येषु ते तथोक्ता इति चन्द्रिकाकारः । २. यथा ग्रामाध्यक्षः कौटुम्बिकेभ्यः करमादाय विषयाध्यक्षाय प्रयच्छति, विषयाध्यक्षश्च सर्वाध्यक्षाय, स च भूपतये, तथा बाह्येन्द्रियाण्यालोच्य मनसे तच्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
सस्कृत - हिन्दी- व्याख्योपता ७३ अन्वयः - एते परस्पर विलक्षणः गुणविशेषाः, प्रदीपकल्पाः, पुरुषस्य, कृत्स्नम्, अर्थम्, प्रकाशं, बुद्धौ प्रयच्छन्ति ॥ ३६ ॥
व्याख्या - परस्पर विलक्षणाः = परस्परविरोधिविषयग्राहकाः । गुणविशेषाः = सत्त्वरजस्तमसां परिणामभूताः । एते = चक्षुरादिवागिन्द्रियदशकं मनोऽहंकारा द्वादश । प्रदीपकल्पाः = प्रदीपवद् विषयप्रकाशकाः ( ग्राहकाः ) । पुरुषस्य = आत्मनः । कृत्स्नं = समस्तं । अर्थ = विषयजातम् । प्रकाश्य = प्रकाशं नीत्वा । बुद्धौ = महत्तत्त्वे प्रयच्छन्ति अर्पयन्ति । ( बुद्धिश्च पुनः तत् समस्तं भोग्यजातं पुरुषाय समर्पयति । यथा ग्रामाध्यक्षा ग्रामीणव्यक्तिभ्यः करं गृहीत्वा जनपदाध्यक्षाय ( जिलाध्यक्षाय ) प्रयच्छति, स च स्वोपरिवर्तिने, सोऽपि राज्यमण्डलस्य सर्वे-षामध्यक्षभूतानामुपरिवर्तिने प्रधानमन्त्रिणे ददाति, प्रधानमंत्री च तादृशसमस्त-देशस्वामिने राज्ञे प्रयच्छति । एवमेव दशविधाबाह्येन्द्रियाणि स्वस्वविषयमालोच्य स्वाध्यक्षभूताय मनसे समर्पयन्ति, मनश्च " इदमेवं नैव " मिति संकल्प्य जिला-ध्यक्षस्थानीयाहंकाराय, स च प्रधानमंत्रिस्थानीयबुद्धये समर्पयन्ति, बुद्धिश्व सर्वतोभावेन विनिश्चित्य भूपतिस्थानीयपुरुषाय प्रयच्छति । ) तदेवोक्तम्— " कृत्स्नं पुरुषस्यार्थमित्यादि " हिन्दी - सत्त्वगुण - रजोगुण तमोगुण इन तीनों गुणों के परिणाम - भूत परस्पर विरोधी विषयों के ग्राहक तथा दीपक के समान विरोधी विषयों से सम्पन्न होते हुए भी एकत्र मिलकर कार्य करने वाले ये दशविध बाह्य इन्द्रिय, मन और अहंकार पुरुषार्थ साधनभूत सांसारिक समस्त घट - पट आदि विषयों को ग्रहण कर बुद्धि के लिये समर्पण कर देते हैं ॥ ३६ ॥
बुद्धि के सबकी अपेक्षा प्रधान होने में दूसरी युक्ति भी बतलाते हैं-सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥
गौ ० — इदञ्चान्यत् ' सर्वेन्द्रियगतं त्रिष्वपि कालेषु सर्वं प्रत्युपभोगमुप-सङ्कल्प्याहङ्काराय स चाभिमत्य सर्वाध्यक्षरूपायां बुद्धी प्रयच्छतीत्यर्थः । बुद्धिस्थ-करणे हेतुमाह - यत इति । १. बुद्धिरपि न स्वार्था किन्तु परार्थेत्याह- सर्वमिति नारायणः । कस्मात्पुन-बुद्धो प्रयच्छन्ति न तु बुद्धिरहङ्काराय द्वारिणे मनसे वेत्यत आहेति मिश्राः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
७४ साख्यकारिका भोगं प्रति देवमनुष्य तिर्यग्बुद्धीन्द्रियद्वारेण सान्तःकरणा बुद्धिः साधयति सम्पाद-यति ' यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोर्विषयविभागं करोति, प्रधानपुरुषान्तरं नानात्वमित्यर्थः, सूक्ष्ममित्यनधिकृत तपश्चरणरप्राप्यम्, इयं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था इयं बुद्धिरयमहङ्कार एतानि पञ्चतन्मा-त्राण्येकादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येवं बोध-यति बुद्धिः, यस्यावापादपवर्गो भवति ॥ ३७ ॥
अन्वयः - यस्मात् बुद्धि:, सर्वम्, प्रत्युपभोगम्, पुरुषस्य, साधयति, सैव च, पुनः सूक्ष्मम्, प्रधानपुरुषान्तरम्, विशिनष्टि ॥ ३७ ॥
व्याख्या - यस्मात् = यस्मात् कारणात् । बुद्धिः । सर्वम् । प्रत्युपभोगम् = सुख - दुःखादि- समस्त विषयाणां साक्षात्कारम् । पुरुषस्य = पुरुषस्य कृते । साधयति == साम्पादयति । च । सैव = बुद्धिरेव । पुंसः । सूक्ष्मम् = अंज्ञायमानम् । प्रधान-पुरुषान्तरम् = प्रधान - पुरुषयोर्मध्ये भेदम् । विशिनष्टि = करोति । हिन्दी - जिस कारण से बुद्धि सुख - दुःख एवं उनके साधन सम्बन्धी समस्त विषयों का उपभोग का संपादन पुरुष के लिए करती रहती है, और आखिर में फिर वही बुद्धि पुरुष को सांसारिक बन्धन से छुड़ाने के लिये प्रकृति और पुरुष में भेदज्ञान को उत्पन्न कर देती है ॥ ३७ ॥
प्रश्न - पहिले ३४ वीं कारिका में जो विशेष और अविशेष दो प्रकार के विषय बतलाते हैं - वे कौन हैं?
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥
१. पुरुषसान्निध्यात्तच्छायापत्त्या प्राप्तचेतनेव बुद्धिस्सर्वविषयं सुखदुःखानुन-भवात्मकं भोगं पुरुषस्य सम्पायतीति भावः । २. अन्तरं विशेषं विशिनष्टि करोति, यथौदनपाकं पचतीति, करणं च प्रतिपादनम्, विद्यमानमेवान्तरमविवेकेनाविद्यमानमिव बुद्धिर्बोधयति न तु करोतीत्यर्थः, एतेन प्रधानपुरुषयोरन्तरस्य कृतकत्वादनित्यत्वं मोक्षस्य स्यादिति परास्तम् । सूक्ष्मं दुर्लक्ष्यं तदन्तरमिति वाचस्पतिमिश्राः । ३. प्राप्तेः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.