Shatapathabrahman 1 1 — पृष्ठ 271–280
शतपथ ब्राह्मणम् भाष्य - १-१ - मोतीलाल शास्त्री · पृष्ठ 271–280
पृष्ठ 271
पाठ पढ़ें पाठ छिपाएँ
शतपथभाष्य १६ आधारब्राह्मण ४ अ ० ५ ब्रा ० ४ प्र ०१ ब्रा ० २० प्रवरब्राह्मण ५ श्र ० १ ब्रा ० ४ प्र ०२ ब्रा ० २१ स्रुग्ब्राह्मण ५ अ ० २ ब्रा ० ४ प्र ० ३ ब्रा ० २२ प्रयाजब्राह्मण ५ ० ३ ब्रा ० ४ प्र ० ४ ब्रा ० २३ ५ श्र ० ४ ब्रा ० ४ प्र ० ५ ब्रा ० 33 २१ ६ ० १ ब्रा ० ४ प्र ० ६ ब्रा ० 99 २५ पुरोडाशब्राह्मण ६ श्र ० २ ब्रा ० ५ प्र ० १ ब्रा ० २६ ६ अ ० ३ ब्रा ० ५ प्र ०२ ब्रा ० " २७ सान्नाय्य ब्राह्मण ६ अ ० ४ ब्रा ० ५ प्र ० ३ ब्रा ० २८ ७ अ ० १ ब्रा ० ५ प्र ० ४ ब्रा ० " २६ अवदानब्राह्मण ७ अ ० २ व्रा ० ५ प्र ० ५ ब्रा ० ३० ३१ स्विष्टकृद्ब्राह्मण ७ श्र ० ३ ब्रा ० प्राशित्रत्राहाण ७ श्र ० ४ ना ० .६ प्र ०१ ब्रा ० ६ प्र ० २ ना ० ३२ इडात्राह्मण ८ ० १ ब्रा ० ६ प्र ० ३ ब्रा ० ३३ अनुयाजब्राह्मण ८ ०२ ब्रा ० ६ प्र ० ४ व्रा ० ३४ सूक्तवाक - शंयुबाक् ब्रा ० ८ अ ० ३ ब्रा ० ७ प्र ०१ ब्रा ० ३५ " ३६ ३७ ६ ० १ ब्रा ० पत्नीसंयाजब्राह्मण ६ अ ० २ ब्रा ० ७ प्र ० २ ब्रा ० ७ प्र ० ३ ब्रा ० याजमानाब्राह्मण ६ ० ३ ब्रा ० ७ प्र ० ४ ब्रा ० ( तदित्थं प्रथमकाण्डे सप्तत्रिंशत् ( ३७ ) ब्राह्मणानि - प्रथमकाण्डानुगता विज्ञानानुबन्धिनी निगम - अनुगम - सूची ( अकारादिक्रमेण ) १ - न देवानां व्रतपतिः । १५० १ ब्रा ० २ कण्डिका ( सर्वत्र एष एव क्रमः ) २- अग्निनैं देवानां नेदिष्ठम् । ५।१।११ । ३ - श्रग्निर्वै देवानामद्धातमाम् । ५: १।६ । ४ - अग्निर्वै देवानां मृदुहृदयतमः । ५।१।१० । ५ - अग्निनैं योनिर्यज्ञस्य, स ततः प्रजायते । ४ । ३ । ११ । ६ – अग्निर्वै स देवः । तस्यैतानि नामानि ' शर्व ' इति - यथा प्राच्या आचक्षते, ' भव ' ६
पृष्ठ 272
पाठ पढ़ें पाठ छिपाएँ
पारिभाषिक सूचनाएँ इति - यथा वाहीकाः, पशूनाम्पती रुद्रोऽग्निरिति । तान्यस्य - अशान्तान्येव - इतराणि नामानि । अग्निरित्येव शान्ततम् । ६ । १ । ८ । ७- श्रग्निर्वै सर्वा देवताः । ५।१।८ । ८- अग्नि होता । ३।३।२४ । ६- अग्नीषोमीयं हि पौर्णमासं हविर्भवति । ७ । १।२ । १०- अथ यदब्रवीत् - इन्द्रशत्रुर्वद्ध स्वेति, तस्मादु हैनमिन्द्र एव जघान | ५ | २ | १० | ११ - यथैषा गतिरेषा प्रतिष्ठा - य एष तपति । तस्य ये रश्मयः - ते सुकृतः । अथ यत्परं भा: - प्रजापतिर्वा स स्वर्गो वा लोकः । तदेवमिमाँल्लोकान्त्समारुह्य - श्रथैतां गति-मेतां प्रतिष्ठां गच्छति | ७ | ४ | १० | १२ - अदन्तकः पूषा । .६।२ | ७ | १३- अद्भिर्वा इदं सर्वमाप्तम् । १।१।१४ । १४- अनिरुक्तः प्रजापतिः । १।१।१३ । १५ - अनिरुक्तो वै प्रजापतिः, अनिरुक्तान्याज्यानि ( अन्तरिक्षलोका: ) । ४।६।२० । १६- अनुवाक्या - अथ याज्या - अथ वषट्कारः । अथ सा देवता, यस्यै देवतायै हविर्भवति । तदवदानं – यत् पञ्चमम् । ५।४।७ ) १७ - अन्तरिक्षं वा अनुरतश्चरति - मूलमुभयतः परिच्छिन्नम् । यथायम्पुरुषोऽमूल-मुभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति | १ | २ | ४ | १८ - अन्धो भगः | ६ | २ | ६ | १६ - अन्धो वा, बधिरो वा भविष्यसि । इत्येता वै मुख्यार्त्तयः Xx X अप्रति-ष्ठितो दरिद्रः क्षिप्रेऽमुळे लोकमेष्यति इति । ४ । ६ । १६-१७-१ = । २० – अपि हि भूयाँसि शताद् वर्षेभ्यः पुरुषो जीवति । ७।४।१६ । २१- श्रमृतं वा आपः । ७।४।७ । २२. अमेध्यो वै पुरुषः- यदनृतं वदति । १ । १ । १ । २३ - अयं लोको बर्हिः । ३।३।२४ । २४ - अश्रद्धा मनुष्यान् विवेद - ये यजन्ते, पापीयाँसस्ते भवन्ति । य उ न यजन्ते, श्रेयाँसस्ते भवन्ति - इति । २।३।२४ । २५- अष्टाक्षरा वै गायत्री । ६ । १ । २३ ।
पृष्ठ 273
पाठ पढ़ें पाठ छिपाएँ
शतपथभाष्य २६ - अस्ति चैं पल्या अमेध्य - यदवाचीनं नाभेः । २।४।१३ । २७ - आपो हि कुशा, ब्रह्म यजुः ।२।४।३ १८- इदमप्सु पयो हितम् । इदं हि यदा वर्षति, अथौषधयो जायन्ते । श्रोषधी-! जग्ध्वा, आपः पीत्वा तत एष रसः सम्भवति । २।४।२५ । २६ – इन्द्रः सर्वा देवताः । ४।२।२२ । ३० - इयं वै पृथिवी प्रतिष्ठा । ७४-११ ३१ - इयं वै पृथिव्यदितिः । २।४।१५ ३२- उभयं वा एतदग्निर्देवानां होता च दूतश्च । ४।१।३ । ३३ - ऋणं ह वै जायते - योऽस्ति । स जायमान एव देवेभ्यः - ऋषिभ्यः- पितृम्यः-मनुष्येभ्यः । ५।५।१-२-३--४-५ ॥ ३४ - ऋतत्रो ह वै प्रयाजाः तस्मात् पञ्च भवन्ति । पञ्च ह्य तवः × × × वसन्तो वै समित्, ग्रीष्मो वै तनूनपात्, वर्षा वा इडः, शरदु वै बर्हिः, हेमन्तः × × × स्वाहा स्वाहेति । ४।४।१, ६--१३ । ३५ - एकादशाक्षरा वै त्रिष्टुप् । ६ । १ । २४ । ३६ - एतं हविर्यज्ञं ददृशुः यद्दर्शपूर्णमासौ । ५ । ५ । २३ । ३७ एतद्वै देवानां प्रियं धाम - यदाज्यम् । २ । ५ । १७ । ३८ - एतद्वै सम्वत्सरस्य स्त्रं पयः, यदाज्यम् । ४।४।५ । ३६ – एतानि वै तेषामग्नीनां नामानि यद् भुवपति - भुवनपति - भूतानाम्पतिः | २ | ६ | १७ | ४०- एति दक्षिणामन्वारभ्य यजमानः । ७ । ४ । १ । ४१ - एते वै त्रयो देवाः- यद्वसवः, रुद्राः, आदित्याः । ३।१।१२ । ४२ - ए - पुरोडाशमेव कूर्म्म भूत्वा सर्पन्तं ते ह सर्व एव मेनिरेऽयं वै यज्ञ इति । ५।१।३ । ४३ - एष उ वा इमाः प्रजाः प्राणो भूत्वा विभर्त्ति । तस्माद्ववाह भारतेति । ३।४।२ । ४४- एष एव वृत्रो यच्चन्द्रमाः । ५।३।१३ । ४५ - एष यज्ञो देवलोकमेवाभिति । ७ । ४ । १ । ४६ - एष वै श्रेष्ठो रश्मिर्यत् सूर्यः । ७ । ४ । १६ । ४७– ऐन्द्राग्नं ह्यामावास्यं हविर्भवति । ७ । १ । ४ । ४८ - किं देवत्य / ज्यानि - इति, प्राजापत्यानीति ब्रूयात् । ४।६।२ ।
पृष्ठ 274
पाठ पढ़ें पाठ छिपाएँ
पारिभाषिक सूचनाएँ ४६ - क्षत्रं वै जुहूः - विशः इतराः स्रुचः । उपर्य्यासीनं क्षत्रियमधस्तात् - इमाः प्रजाः उपासते । ३।१।१५ । ५०. -गृहा वै गार्हपत्यः | १।१।१६ । – ७ | ४ | १८ | ५१ - गृहा वै प्रतिष्ठा | १ | १ | १६ | ७ | ४ | १८ | ५२ - गृहा हि पशवः । ६।४।१४ । ५३ – चत्त्वारि वाचः – एहोति ब्राह्मणस्य, ग्रागहि - याद्रे बति वैश्यस्य च राजन्यवन्धोश्थ, धावेति शूद्रस्य । १।४।१२ । ५४ - चमसो देवपानः । ३।४।१४ । ५५ - छन्दांसि वा अनुयाजाः । ६ । ४ । १४ । ५६ - जघनार्दो वा एष यज्ञस्य, यत् पत्नी । २।४।१२ । ५७ - जायैव हविष्कृत् । १।४।१३ । ५८ - तदु तत् - अतिविज्ञान्यमिव । ३ । ३ । ८ । ५६ -तदु हाषाढ़: - सावयसोऽनशनमेव व्रतं मेने । १।१।७ । ६० – तर्दु होवाच याज्ञवल्क्यः, -- यदि नाश्नाति - पितृदेवत्यो भवति । यद्य अश्नाति -देवानत्यश्नाति । × × X तस्मादारण्यमेवाश्नीयात् । १।१।६, १० । ६१ - तदेतद्धोतुः कर्म्म, स यदि मन्येत - न होता वेदेति, अपि स्वयमेव यजमानोऽनु-. मन्त्रयेत | ६ | ४ | ४ | ६२ -तद्भयेव ब्राह्मणेनैष्टव्यं यद् ब्रह्मवर्चसो स्यादिति । ७।४।१६ । ६३ - तद्वा एष एवेन्द्रः, य एष तपति । अथैप एव वृत्रः- यच्चन्द्रमाः -५।३।१८ । ६४ - तद्वेवानत्रक्लृप्तं - यो मनुष्येष्वनष्वत्सु पूर्वोऽश्नीयात् । अथ किमु देवेष्वनष्वत्सु-पूर्वाऽश्नीयात् । तस्मादु नैवाश्नीयात् | १ | १ || ६५- तस्मात् त्र्यंङ्गुला वेदिः । २ । ३ ॥ ६६ – तस्मादिमा मानुष्यस्त्रियस्तिर इवैव पुंसो जिघत्सन्ति । ७ । ३ । १२ । ६७ – तस्मादेतेषां पशूनां नाशितव्यम् । अपक्रान्तमेधा हैते पशवः । २।१।६ । ६८ - तानि तानि ( ज्यानि ) यजमान देवत्यान्येव । यजमानो ह्येव स्वे यज्ञे प्रजापतिः । एतेन ह्युक्ता ऋत्विजस्तन्वते, तं जनयन्ति । ४ । ६ । २० । ६६ - तेजोऽसि, शुक्रमसि, अमृतमसि ( आज्य! ) । २।४।२८ । Ε
पृष्ठ 275
पाठ पढ़ें पाठ छिपाएँ
शतपथभाष्य ७० - त्रिवृत्प्रायणा हि यज्ञाः, त्रिवृदुदयनाः । ३२।५ । ७१ - त्वष्टा वै सिक्तं रेक्तो विकरोति । ७ । ३ । १० । ७२ - त्वष्ट र्ह वै पुत्रः - त्रिशीर्षा पक्ष आस । तस्य त्रीण्येव मुखान्यासुः । तद्यदेवं रूपं यास, तस्माद्विश्वरूपो नाम । ५ । २ । ६ । ७३ - दारुभिर्वा इतरं शवं व्यूषन्ति । ७ । १ । १८ । ७४ - दीर्घायुत्त्वमाशास्ते XXX सुप्रजास्त्वमाशास्ते XX भूयो हविष्करणमाशास्ते × × प्राणानाशास्ते X X दिव्यं धामाशास्ते X X पञ्चाशिशः करोति । ७ । २ । १३-१७ । ७५- देवानामन्नं यच्चन्द्रमाः । ५।३।५ । ७६ -- द्वन्द्व ं पात्राण्युदाहरति । १ । १ । २२ । ७७ – द्वादश वै मासाः सम्बत्सरस्य, पञ्चत्तव: । एष एव प्रजापतिः सप्तदशः | ३ | २ | ४० | ७८- द्वादश ' वै मासाः सम्वत्सरस्य, पञ्चवः, त्रयो लोकाः, तद्विंशतिः । एष एनै-कविंश:: - - य एष तपति । ३ । २।१ । ७६ - द्वादशाक्षरा वै जगती । ६ । १।२५ । ८० - द्वे वा श्राहुती - सोमाहुतिरेवान्या, श्राज्याहुतिरन्या । तत एषा केवली, यद् सोमाहुतिः । अथैषाज्याहुति: -- यत्- हविर्गज्ञः, यत् पशुः । ५।५।१० । ८१ -नव व्याहृतयो भवन्ति । नव वै पुरुषे प्राणाः । ४ । ३ । ५ । ८२- न वा एतेषां ( माषाणां ) हविगृह्णन्ति । १।१।१० । ८३ - नासामा यज्ञोऽस्ति । ३।३।१ । ८४ – पञ्च व्याहृतयो भवन्ति - श्र श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट् ”, इति । ४ । ३ । १६ । ८५ - पवित्रं वा आपः । १।१।१ । ८६- पशुर्ह वा एष आलभ्यते, यत् पुरोडाशः । २ । १ । ५ । ८७ - पशोस्तेदनीं न कुर्गन्ति । रक्षसां हि स भागः । ७ । ३ । ३५ । ८८ - पुरा विदूरमिवोदितः । अथैनां रात्रिमुपैव न्याप्लवते । सोऽस्य व्यात्तमापयते । तं ग्रसित्वोदेति । स न पुरस्तात् न पश्चात् - दहशे । ५।३।१८-१६ ।
८६- पुरुष ं ह वै देवा अग्रे पशुमालेभिरे । २ । १ । ६ ।
६० -पुरुषो वै यज्ञः । २ ॥ १ ।
१०
पृष्ठ 276
पाठ पढ़ें पाठ छिपाएँ
पारिभाषिकसूचनाएँ ६१ - पूर्वार्द्धा यज्ञस्याध्वर्युः, जघनाद्धः पत्नी । ७।३।३ । ६२ -- पूर्वार्द्धा वै शिरः । २।६।१२ । ६३ – पूर्वह्णे देवा अशनमभिहरन्ति, मध्यन्दिनेमनुष्याः, अपराह्णे पितरः । श २।१२ । ६४ - पौर्णमासं हविः | ५ | १ | ६ | ६५ - प्रजापतिर्यज्ञः । १११।१३ । ६६ -- प्रजा वैं नरः । ४।२।२० । ६७ - प्रतिष्ठा हि गृहाः | ६ | ४ | १४ | ८- प्रयाजानुयाजा वे देवा आज्यपाः । ३ । ४ । १७ । ६६ - प्राङ् प्र ेक्षते । प्राची हि देवानां दिक् । ७ । ४ । १३ । १०० - प्राची हि देवानां दिक् X x उदीची हि मनुष्याणां दिक् Xx । ५ । ४ । १२ । १०१ - प्राची हि देवानां दिक् । अथ - उदक्प्रवणः । उदीची हिं मनुष्याणां दिक् । दक्षिणतः पुरीषं प्रत्युद्रुहति । एषा वै पितृणां ( दिक् ) । २।३।१७ । १०२ - प्राणो वै वातः । १।१।१४ । १०३ - ब्रह्म चै पलाशः ।२।६।१६ । १०४ - ब्रह्माग्नि: । ३।४।२ । १०५ - ब्रह्म वा ऋत्विजां भिषक्तमः | ६ | २ | १ हा १०६ - ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते अभिगोप्ता । ६।२ । १८ । १०७ - ब्राह्मणो हि रक्षसामभिहन्ता । १ । ४ । ६ । १०८- मध्यं वै नाभिः । १।२।२३ । १०६ - मनश्च ह वै वाक् च युजौ देवेभ्यो हव्यं वहतः । ३।६।१ ।
११० ० - मनसा वा इदं सर्वमाप्तम् । मनसैवैतत् सर्वमाप्नोति । ६।२।२२ ।
१११ - मनो वै देववाहनम् । मनो हीदं मनस्विनं भूयिष्ठं बनीवाह्यते । ३ ॥ ६ ।
११२ - मस्तिष्क एव पिष्टानि । १।५।२ । ११३ – मिथुनं हि - एकश्च, एका च । XX मिथुनं हि - द्वौ च द्वे च । ×× मिथुनं हि - त्रयश्च, तिस्रश्च । × × । मिथुनं हि चचारश्च चतस्रश्च । X X नो ह्यत ऊर्ध्व ं मिथुनमस्ति । पञ्च- पञ्चेति ह्य वैतदुभयं भवति । ४।५।७ × ११ । ११४ - मेध्या वा श्रपः । १।१।१ । ११
पृष्ठ 277
पाठ पढ़ें पाठ छिपाएँ
शतपथमाध्य ११५ - य एव देवानामासीत्, सोऽयवा । XX योऽसुराणां - स यवा × + । सब्दमहः, सगरा रात्रिः, यव्या मासाः, सुमेकः सम्वत्सरः । ५ । ५ । २६ । ११६ - यच्छ्रुष्कं – तदाग्नेयम् । यदाद्र - तत् सौम्यम् । XX अग्नीषोमयोर्हेतावती विभृतिः, प्रजातिः | सूर्य्य एवाग्नेयः, चन्द्रमाः सौम्यः । अहरेवाग्नेयः, रात्रिः सौम्या । य एवापूर्यतेऽद्ध मास: - स आग्नेयः - योऽपक्षीयते - स सौम्यः ।५।२।२३,२४ । ११७ – यजमानो वै प्रस्तरः | ६।३।४४-७।१।११।११।१४।१६ । ११८ - यजमानो वै यज्ञपतिः । १।२।१२ । ११६ - जमनो वै हव्यदातिः | ३ | ३ | २४ | १२० – यज्ञ उवाच - ब्राह्मणैव तृप्तिमनु तृप्येयमिति । ६ । १ । २८ । १२१ - यज्ञो वा आपः । १।१।१२ । १२२ – यज्ञो वा ऋ तस्य योनिः । ३।१।१६ । ८ १२३ - यज्ञो वै विष्णुः । १।२।१३ । १२४ - यज्ञो वै श्रेष्ठतमं कर्म्म । ५ । ४ । ५ । १२५ - यज्ञो वै स्वरः । १।२।२१ । १२६ - यत् किञ्चनाग्नौ जुह्वति, तदवदानं नाम । ५।५।६ । १२७ - यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्यां समानमोदनं पचेत्, अजं वा । ५।३।३ । १२८ - यथा मधु मधुकृतो निद्धयेयुः । ५ । १ । १ । १२६ - यदस्यै पृथिव्या अनामृतं देवयजनमासीत्, तच्चन्द्रमसि न्यदधत् । तदेतत्- चन्द्रमसि कृष्णम् । २ | ३ | १८ | १३० - यद् त्र यात् - इदमहं सत्यादनृतमुपैमि इति तदु खलु पुनर्मानुषो भवति | ७ | ४।२३ । १३१ - यद्यपि बह्वच इव स्त्रियः सार्द्ध यन्ति य एव तास्वपि कुमारक इव पुमान् भवति, स एव तत्र प्रथम एति । २ । ४ । ६ । १३२ - यद्व ै नेत्यृचि, ओमिति तत् । ३ । ३ । ३० । १३३ – यवा च हि गऽश्रयवा यवेतीवाथ येनैतेषां होता भवति, तद् याविहोत्र - मित्या चक्षते | ५ | ५ | २६ | १३४ - यां वै काञ्च ऋत्विज आशिषमाशासते, यजमानस्यैव साः । ७ । २ । २१ । १२
पृष्ठ 278
पाठ पढ़ें पाठ छिपाएँ
पारिभाषिकसूचनाएँ १३५ - यावती वै वेदिः, तावती पृथिवी । २ । ६ । ६ । १३६ – यावद्वे वास्येह मानुषमायुः, तस्मा एवैतदुपतिष्ठते । ७।४।१८ । १३७ – येन वाहनेन धावयेत्, तद्विमुच्य ब्रूयात् - पाययतैनत्, सुहितं कुरुत इति । एष उ वाहनस्यापह्नवः । ६।४।६ । १३८ - योषा वा श्रापः, वृषाग्निः । १ । १ । १८ । १३६ - योषा वै पत्नी, रेत श्राज्यम् । २ । ४ । १८ । १४० - योषा वै वेदिः, वृषाग्निः । २।३।१५ । १४१ – योषा वै वेदिः, वृषा वेदः । ७।३।२१ । १४२ - रेतो वा आज्यम् | ७ | ३ | ७ | १४३ - वज्रो वा आज्यम् | ४ | ४ | ४ | १४४ - वज्रो वा आपः । १।१।१७ । १४५ - वाग्वै यज्ञः | १।२।२ । १४६ - वामनो हव. वि गुरास । २।३।५ । १४७ - विदेषो ह माथवो ऽग्निं वैश्वानरं मुखे बभार ॥ तस्मै ह स्मामन्ध्यमाणो + x ऽग्निर्वैश्वानरो मुखादुज्वज्वाल । तं न शशाक धारयितुम् । सो ऽस्य मुखा-निष्पेदे । × × । तर्हि विदेघो ( विदेहो ) माथव आस सरस्वत्याम् । स तत एव प्राङ् दहन्नभीयायेमां पृथिवीम् । xx । स इमाः सर्वा नदीरतिददाह -सदानीरे-त्युत्तराद् गिरेर्निर्द्धावति । तां हैव नातिददाह । तां ह स्मैतां पुरा ब्राह्मणा न तरन्ति-' अनतिदग्धाग्निना वैश्वानरेण ' इति ( वदन्तः ) । तत एतर्हि प्राचीनं बहवो : - ' तद्धाक्षेत्रतरमिवास, स्रावितरमिवास्वदितमग्निना वैश्वानरेण ' इति ( वदन्तः ) । तदु हैतर्हि क्षेत्रतरमिव । ब्राह्मणा उहि नूनमेनयज्ञैरसिष्वदन् । सापि जघन्ये नैदाघे समिवैव कोपयति तावच्छीतान विदग्धा ह्यग्निना वैश्वानरेण । स होवाच विदेघो माथवः - ' क्वाहं भवानि ' इति?, अतएव ते प्राचीनं भुवनमिति होवाच । सैषाप्येतर्हि ( याज्ञवल्क्यसमये ) कोसलविदेहानां मय्र्यादा । ते हि माथवाः ( तु मैथिला: ) ।३।३।१०-१७ । ब्राह्मणाः- ' १३
पृष्ठ 279
पाठ पढ़ें पाठ छिपाएँ
शतपथभाष्य १४८ - वृषा हि मनः, वृषा हि स्रुवः । xx । योषा हि वाक्, योषा हि स्रुक् । ३।६।३,४ १४६ - विपतितलोमेव पापः पुरुषो भवति । ४ । ५/५ । १५० - शान्तिरापः । ६।२।६ ।
१५१ - शिरो वै यज्ञस्य - - आहवनीयः । २।६।१२ ।
१५२ – शिश्नं वै शोचिष्केषम् । शिश्नं हीदं शिश्निनं भूयिष्ठं शोचयति । ३ । ५ ॥
१५३ - सम्वत्सरो वै पिता वैश्वानरः प्रजापतिः । ४।२।१६ । १५४ – संस्थिते यज्ञे ब्राह्मणं तर्पयितवै ( तर्पयितु ' ) ब्रूयात् । यज्ञमेवैत् तर्पयति | ६ | १ | २८ | १ ९ ५५ - स आज्यस्योपस्तीर्य द्विर्हविषोऽवदाय, अथ उपरिष्टादाज्यस्याभिघारयति, सैपाज्येन मिश्राहुतिहू'यते । ४।६।२१ । १५६ - स इन्द्रोऽब्रवीत् । × × । कृश इवास्मि, न वै मेदं धुनोति । यन्माधिनवतन्मे कुरुतेति । तथेति देवा अब्रुवन् । + × । न वा इममन्यत् सोमाद् धिनुयात् । सोममेवास्मै सम्भरामेति । ५।३।४,५ । १५७ – स एवं सर्वतोऽग्निभिर्गुप्यमानः स्वर्गं लोकं समश्नुते । ४।६।१५ । १५८ - स एष देवयानो वा पिठ्याणो वा पन्थाः । ७।४।२ । १५६ - स एषोऽग्निऋ तुष्वाभक्तः समिधोऽयग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्निमिति । ४।६।८ । १६० - स औष उत्थिते नावमापेदे | + x । तेनैतमुत्तरं गिरिमतिदुद्राव | XX । यावद्या-बदुदकं समवायात् । × × । तावत्तावदेवान्ववससर्प । तदप्येतदुत्तरस्य गिरेर्मनो -रवसर्पणमिति 1 । औघो ह ताः सर्वाः प्रजा निख्वाह । अह मनुरेवैकः परिशि-शिषे | ६ | ३ | ६ | १६१ - सङ्ग्रामो वा एष सन्निधीयते, यः प्रयाजैर्यजते । ४ । ४ । १७ । १६२ – सत्यं वै चक्षुः । सत्यं हि वै चक्षुः । तस्माद् यदिदानीं द्वौ विवदमानावेयाता-महमदर्श, अहमश्रौपमिति - य एव त्रयात् - अहमदर्शम् ' इति, तस्मा एव श्रद्दध्यामः, तत्सत्येनैवैतत् समर्द्धयति । २ । ४ । २७ । १६३ - सत्यमेव देवाः, अनृतं मनुष्याः | १ | ११४१-२-१७ । १४
पृष्ठ 280
पाठ पढ़ें पाठ छिपाएँ
पारिभाषिकसूचनाएँ १६४ – सप्तदशाक्षराणि । सप्तदशो वै प्रजापतिः । ४।३।१७ । * । १६५ – स यद् वर्त्तमानः समभवत्, तस्माद् वृत्रः । अथ यदपात् - समभवत्, तस्मादहिः । तं दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुः । तस्माद् दानव इत्याहुः । ५। २।हा १६६ – स यदिदं पुरा मानुषीं वाचं व्याहरेत्, तत्रो वैष्णवीमृचं यजुर्वा जपेत् | १ | ४।६ । १६७ – सर्वं वै पूर्णम् । सर्वेणैव । ७ । ४ । ३ । १६८ - सर्व वै प्रजापतिः । ३।२।१० । १६६ - सविता वै देवानां प्रसबिता । ६।२ । ८ । १७० - स हैष यज्ञ उवाच XX -- ब्राह्मणस्यैव तृप्तिमनु तृप्येयमिति । ६।१।२८ ।
१७१ - सान्नाय्यमामावास्यम् । ५ । १ । ६ ।
१७२ - सूर्य्यमुदीक्षते । सैषा गतिः, एषा प्रतिष्ठा । ७ । ४ । १५ ॥
१७३ – सैषा त्रयीविद्या यज्ञः । १।३।३ । १७४ – सोऽयं परोऽवरं यज्ञो ऽनूच्यते -- पितैव पुत्राय ब्रह्मचारिणे । ५।१।४ । १७५ - स्वेको ह वै नामैतत् -- यत् सुमेक इति । ५।५।२६ । १७६ -- हतो वृत्रः । स यथा दृतिर्निष्पीतः, एवं संल्लीनः शिष्ये । यथा निद्धूतसक्तुर्भस्त्रा, एवं संल्लीनः शिष्ये । ५।२।१६ । सैषा प्रथमकाण्डानुगता विज्ञानानुबन्धिनी निगम - अनुगम - सूची अकारादिक्रमेण - उपरता ऋ
* - चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः ॥
श्रो - श्रा - व - य, = अ - स्तु श्रौ - षट् = य -- ज = ये - य - जा - म - हे = वौ - पटू-१ २ ३ ४ १ २ ३ ४ १ २ १ २ ३ ४ ५ १ २ तदित्थंरूपेण सप्तदशाक्षरमृर्त्तिः सप्तदशो नै प्रजापतिः - वैधयज्ञानुगतः । १५