Shatpath Brahman 1 2 — पृष्ठ 871–880

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री · पृष्ठ 871–880

पृष्ठ 871

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 871 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय सामिधेनीब्राह्मण प्रथमकाण्ड स यावदस्य वशः स्यात् - एवमेवानुवित्रक्षेत् । तस्यैतस्य परिचना, उत साम्यवान्याद्,

अनवानन्ननुविवक्षस्तत्कर्म विवृत । सा परिचचा ॥ १४ ॥

सद्य तन्नोदाशंसेत - अप्येकैका मेवा नावानन्ननु यात् । तदेकैकयैवेमाँल्लोकान् सन्तनोति । एकैकयेमाँल्लोकान् स्पृणुते | अथ यत्प्राणं दधाति - गायत्री ने प्राणः, स यत् कृत्स्नां गायत्रीमन्वाह -- तत् कृत्स्नं प्राणं दधाति । तस्मादेकैकामेवानवानन्न-नुब्र ूयात् ॥ १५ ॥

तासन्तता अव्यवच्छिन्ना अन्वाह । संवत्सरस्यैवैतदहोरात्राणि सन्तनोति । तानीमानि सम्वत्सरर स्याहोरात्राणि सन्ततान्यव्यवच्छिन्नानि परिप्लवन्ते । द्विषत उ

चैतद् भ्रातृन्याय नोपस्थानं करोति । उपस्थानं ह कुर्याद् -- यदसन्तता अनु यात् ।

तस्माद सन्तता अव्यवच्छिन्ना अन्वाह ॥ १६ ॥

इति - प्रथमकाण्डे तृतीयाध्याये पञ्चमं ब्राह्मणम् ततीयप्रपाठके च द्वितीयं ब्राह्मणम् [ सामिधेनी - ब्राह्मणानुगतञ्च प्रथमं ब्राह्मणम् ] १ तृतीयोऽध्यायश्चात्र समाप्त; ३ " ११३६

पृष्ठ 872

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 872 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्रीः अथ- शतपथब्राह्मण - हिन्दी - विज्ञानभाष्ये चतुर्थोऽध्यायः ४ - प्रथमकाण्डे चतुर्थाध्याये प्रथमं ब्राह्मणम् तृतीयप्रपाठके च तृतीयं ब्राह्मणम् [ सामिधेनी - ब्राह्मणानुगतञ्च द्वितीयं ब्राह्मणम् ] हिङ कृत्यान्वाह । नासामा यज्ञोऽस्तीति वा आहुः । न वा अहिङ कृत्य साम गीयते । स यद्धिङ्करोति, तद्विङ्कारस्य रूपं क्रियते । प्रणवेनैव साम्नों रूपमुपगच्छति -ओ ३ म् ओ ३ म् इति । एतेनो हास्यैष सर्व एव ससामा यज्ञो भवति ॥ १ ॥

यद्वव हिङ्करोति । प्राणो ने हिङ्कारः । प्राणो हि वें हिङ्कारः, तस्माद् - अपिगृह्य नासिके न हिङ्कर्त्तु ं शक्नोति । वाचा वा चमन्याह । वाक् च वै प्राणश्च मिथुनम् । तदेतत्पुरस्तान्मिथुनं प्रजननं क्रियते सामिधेनीनाम् । तस्माद्वं हिङ ्मकृत्यान्वाह ॥ २ ॥

सवा उपांशु हिङ्करोति । अथ यदुच्चे हिंङ कुर्यात, अन्यतरदेव कुर्यात्, वाचमेव I तस्मादुषांशु हिङ्करोति ॥ ३ ॥

म वा एतच प्रेतिचान्याह । गायत्री मेवैतदवची च पराचीं च युनक्ति । पराच्य देवेभ्यो यज्ञं वहति अर्वाची मनुष्यानवति । तस्माद्वा एति च नेति चान्वाह ॥ ४ ॥

११४०

पृष्ठ 873

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 873 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय सामिधेनीब्राह्मण शतपथब्राह्मगा यद्व ेवेति च प्रति चान्वाह: प्रति वै प्राण: एत्युदानः, प्राणोदानावेवैत्तद्दधाति । तस्माद्वा एति च प्रेति चान्वाह ॥ ५ ॥

यद्वेवेति च प्रेति चान्वाह । प्रति नै रेतः सिच्यते, एति प्रजायते । प्रति पशवो वितिष्ठन्ते, एति समावर्त्तन्ते । सर्वे वा इदमेति च प्रेति च । तस्माद्वा एति च प्रति चान्वाह || ६ || सोऽन्वाह - ' प्र वो बाजा अभिव्यव ' इति । तन्न प्रेति भवति । अग्न आयाहि

वीतय ' इति । तद्व ेति भवति ॥ ७ ॥

तदु हैक हु: - उभयं वा एतत् प्र ेति संपद्यत इति । तदु तदातिविज्ञान्यमिव । ' प्र

वो वाजा अभिद्यव ' इति - तन्न प्रेति । ' अग्न पाहि वीतय ' इति तद्वेति ॥ ८ ॥

I सोऽन्वाह - ‘ प्र वो बाजा अभिद्यव ' इति - तन्न प्रेति भवति । बाजा इति । अन्न ं नैं वाजाः, अन्नमेवैतदभ्यनूक्तम् | हविष्मन्त इति । पशवो हविष्मन्तः, पशूनेवैत -दभ्यनूक्तम् ॥ ६ ॥

धृताच्या इति । विदेघो ह माथवोऽग्नि वैश्वानरं मुखे बभार । तस्य गोतमो राहूगण ऋषिः पुरोहित आस । तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति - नेन्मेऽग्निर्वै-श्वानरो मुखान्निष्पद्याता इति ॥ १० ॥

मृगयितु ' ' - ' वीतिहोत्रं त्वा कवेद्य मन्तं समिधीमहि । अग्ने बृहन्त मध्वरे - विदेघ ' इति ॥ ११ ॥

सन प्रतिश्राव । ' उग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तत्र ज्योतिँ व्यर्चयो - ' विदेघा २ इति ॥ १२ ॥

स ह नैव प्रतिशुश्राव | ' तन्त्वा घृतस्नवीमहे इत्येवाभिव्याहरत् - अथास्य घृत कीर्त्तावेवाग्श्विानरो मुखादुज्जज्वाल । तं न शशाक धारयितुम् । सोऽस्य मुखान्नि-' पेदे । स इमां पृथिवीं प्रापदः ॥ १३ ॥

तर्हि विदेघो माथवास सरस्वत्याम् । स तत एव प्राङ दहन्नभीयायेमां पृथि -वीम् । तं गौतमश्च राहूगणो विदेषश्च माथत्रः पचादहन्तमन्वीयतुः । स इमाः सर्वा ११४१

पृष्ठ 874

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 874 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय सामिधेनीब्राह्मण प्रथमकाण्ड नदीरतिददाह | सदानीरेत्युत्तराद् गिरेर्निर्द्धावति, तां हैव नातिददाह । तां हस्मतां पुरा ब्राह्मणा न तरन्ति, अनतिदग्धाऽग्नि वैश्वानरेणेति ॥ १४ ॥

तत एतर्हि प्राचीनं बहनो ब्राह्मणाः । तद्धाक्षेत्रतरमिवास, स्रावितरमिवास्वदित-मग्निना वैश्वानरेणेति ॥ १५ ॥

तदु तर्हि क्षेत्रतरमिव । ब्राह्मणा उ हि नूनमेनद्यज्ञैरसिध्वदन । सावि जघन्ये नैदा घे समिनैव कोपयति तावत्, शीताऽनतिदग्धा ह्याग्निना वैश्वानरेण ॥ १६ ॥

स होवाच विदेघो माथवः - क्वाहं भवानीति । अत एव ते प्राचीनं भुवनमिति

होवाच । सैंपाप्येतहिं कोसलविदेहानां मर्यादा । ते हि माथवाः ॥ १७ ॥

अथ होवाच । गोतम राहूगणः - कथन्न न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति । स होवाचाग्निर्मे वैश्वानरो मुखेऽभूत् स नेन्मे मुखान्निष्पद्यातै, तस्माचे न प्रत्य-श्रौषमिति ॥ १८ ॥

तदु कथमभूदिति । यत्रैव त्वं ' घृतस्नवीमहे ' इत्यभिव्याहार्षीः, तदेव मे घृतकी -विनिश्वानरो मुखादुदज्वालीत्, तन्नाशकं धारयितुम, स मे मुखान्निरपा-दीति ॥ १६ ॥

स यत्सामिधेनीषु घृतवत् - सामिधेनमेव तत् । समेवैनं तेनेन्धे, वीर्यमेवास्मिन् दधाति ॥ २० ॥

तदु घृताच्येति । ' देवा - जिगाती सुम्नयु ' इति । यजमानो ने सुम्नयुः, स हि

देवान् जिगीपति, स हि देवाञ् जिघांसति । तस्मादाह -- देवाञ् जिगाति सुम्नयुरिति ।

सैपाग्नेयी सत्यनिरुक्ता । सर्वं वा अनिरुक्तम, सर्वेर्णेनैतत्प्रतिपद्यते ॥ २१ ॥

' अग्न आहि वीतये ' इति । तद्व ेति भवति । वीतय इति समन्तिकमिव हवा इमेऽग्र े लोका आसुः, इत्युन्मृश्या हैव द्यौरारा ॥ २२ ॥

ते देवा अकामयन्त - कथन्नु न इमे लोका वितरां स्युः, कथन्नु इदं वरीय इञ स्यादिति । तानेतैरेव त्रिभिरक्षरैर्व्यनयन् - - वीतय इति । त इमे विदुरं लोकाः, ततो देवेभ्यो वयोऽभवत् । वरीयो हवा अस्मै भवति -- यस्यैनं विदषु एतामन्वा-हुत इति ॥ २३ ॥

११४२

पृष्ठ 875

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 875 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय - चतुष्व व्यध्याय सामिधेनीब्राह्मण प्रथमकाण्ड गुणानो ' पदातये ' इति । यजमानो नै हन्यदातिः । गृणानो यजमानायेत्ये-चैतदाह । नि होता सत्सि बर्हिषि ' इति । अग्निर्गे होता, अयं लोको बर्हिः । अस्मि--तल्लोकेऽग्निदधाति । सोऽयमस्मिल्लोकेऽग्निर्हितः । सैपेममंत्र लोकमभ्यनूक्ता, इममेनैतया लोकं जयति - यस्यैनं विदुष एतामन्वाहुः ॥ २४ ॥

' तत्वा समिद्भिरडिर ' इति । समिद्भिों तमङ्गिरस ऐन्धत । अङ्गिर इति । अङ्गिरा उ ह्यग्निः । ' घृतेन वर्द्धयाममीति ' । तत्सामिधेनं पदम् । समेनैनं तेनेन्धे, वीर्यमेवास्मिन्दधाति ॥ २५ ॥

' बृहच्त्रोचा गविष्टच ' इति । बृहदु ह्येष शोचति समिद्धः । यविष्ठ्ये ति - यविष्ठो ह्यग्निः । तम्मादाह - यविष्ठ्येति । मपा एतमेव लोकमभ्यनूक्ता - अन्तरिक्षलोकमेव । तस्मादाग्नेयी सत्यनिरुक्ता । अनिरुक्तो ह्यप लोकः । एतमेवैतया लोकं जयति - यस्यैवं विदुप एतामन्वाहुः ॥ २६ ॥

" स नः पृथु श्रवाय्यम् " इति । दो वै पृथु - यस्मिन् देवाः । एतत् श्रवाय्यम्--यस्मिन् देवा: । ' अच्छा देव विवाससि ' इति । अच्छ देव विवाससि - एतन्नों गमय --इत्येवैतदाह ॥ २७ ॥

' वृहदग्ने सुवीर्यम् ' इति । अदो बृहद् - यस्मिन् देवाः, एतत् सुवीर्यम् -- यस्मिन् देवाः । सैषा एतमेत्र लोकमभ्यनूक्ता दिवमेव । एतमेवैतया लोकं जयति - यस्यैव विदुष एतामन्वाहुः ॥ २८ ॥

सोऽन्वाह - ' ईडेन्यां नमस्यः ' इति । ईडेन्यो ह्यपः, नमस्यो ह्यपः । ' तिरस्तमांसि दशन: ' इति । तिर इव ह्येष तमांसि समिद्धो ददृशे । ' समग्निरिध्यते वृषा ' इति । सं वृषा । वृषो अग्निः समिध्यते ' - इति सं हीध्यते ॥ २६ ॥

' अश्वो न देववाहनः ' - इति अश्वों हवा एप भृत्वा देवेभ्यो यज्ञ वहति ।

यति ऋचि - ओमिति तत् । तस्मादाह -- ' अश्वो न देववाहन ' इति ॥ ३० ॥

' नं हविष्मन्त ईडते ' – इति । हविष्मन्तो ह्येतं मनुष्या ईडते । तस्मादाह-- ' तं हविष्मन्त ईडते ' इति ॥ ३१ ॥

११४३

पृष्ठ 876

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 876 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय - चतुर्थ - अध्याय सामिधेनीब्राह्मण शतपथवादाग

' वृषणं त्वा वयं वृषन् वृष ( पा ) गः समिधीमहि ' इति । सं ह्य ेनमिन्धते ।

' अग्ने दीयतं बृहद् ' इति । दीदयेव ह्येष बृहत् समिद्धः ॥ ३२ ॥

तं तं वृण्वन्तं त्रिमन्वाह - आग्नेय्यो वा एताः सर्वाः सामिधेन्यो भवन्ति । इन्द्रो व यज्ञस्य देवता, इन्द्रो वृषा । एतेन उ ह अस्यैताः सेन्द्राः सामिधेन्यो भवन्ति । तस्माद् वृषण्वन्तं त्रिचमन्वाह ॥ ३३ ॥

सोऽन्याह- ' अग्नि दृतं वृणीमहे ' इति । देवाश्च वा असुराश्च उभये प्राजापत्याः पस्पृधिरे । तान् स्पर्द्धमा सा ' मानान गायत्र्यन्तरा तस्थौ । या सा गायत्र्यासीद् इयं पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदाञ्चक्र: - ' यतरान् वै न इयमुपा-वति ते भविष्यन्ति परेतरे भवष्यिन्ति ' इति । तामुभय एवोपमन्त्रयाञ्चक्रिरे । नरेव देवानां दुत प्रास, सहरक्षा इत्यसुररक्षसमसुराणाम् । साग्निमेवानुप्रयाय । तस्मादन्याह - ' अग्निं दुतं वृणीमहे ' इति । स हि देवानां दूत आसीत् । ' होतारं विश्ववेद-सम् ' इति ॥ ३४ ॥

: -तदु हैकेऽन्वाहुः - होता ' यो विश्ववेदसः ' इति । नेद् अरमित्यात्मानं ब्रवाणीति । तदु तथा न ब्रूयाद् | मानुषं ह ते यज्ञ कुर्वन्ति, व्यृद्ध वै तद् य॒ज्ञस्य -- यन्मानुषम्, नेद् व्यृद्ध यज्ञ करवाणीति । तस्माद्यथैवचऽनूत्तमेवमेवानुत्र, याद् - ' होतारं विश्ववेदसम् ’ इत्येव । ' अस्य यज्ञस्य सुक्रतुम् ' इति । एष हि यज्ञस्य सुक्रतुः --यदग्निः । तस्मादाह-अस्य यज्ञस्य सुक्रतुमिति । सेयं देवानुपाववत, ततो देवा अभवन् " पराऽसुराः । भवति हवा आत्मना, परा अस्य सपत्ना भवन्ति यस्यैव विदुष एतामन्वाहुः ॥ ३५ ॥

तां वा अष्टमीमनुयात् । गायत्री वा एषा निदानेन । अष्टाक्षरा वै गायत्री ।

तस्माद् - अष्टमीमनुत्र यात् ॥ ३६ ॥

तद्ध्के पुरस्ताद् धाय्ये दधति - ' अन्नं धारये, मुखत इदमन्नाद्य ं दध्म ' इति वदन्तः । तदु तथा न कुर्यात् । अनवक्लृप्ता ह तस्यैषा भवति यः पुरस्ताद्वाय्ये दधाति । दशमी वाहि तर्हि एकादशी वा संपद्यते । तस्यो ह एवैषा वक्लृप्ता भवति यस्यैतामष्टमी-मन्त्राहुः । तस्मादुपरिष्टादेव धाय्ये दध्यात् ॥ ३७ ॥

' समिध्यमानो अध्वरे ' इति । अध्वरो वै यज्ञः । समिध्यमानो यज्ञं - इत्येवैतदाह । ' अग्निः पावक ईड्यः ' इति । पावको ह्य ेषः, ईड्यो ह्यपः । ' शोचिष्केशस्तमी महे ' इति । ११४४

पृष्ठ 877

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 877 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय सामिधेनीब्राह्मण प्रथमकाण्ड शोचन्तीव हि एतस्य केशाः समिद्धस्य । ' समिद्धो यान आहुत ' इति । अतः प्राचीनं सर्गमिध्ममभ्याद्ध्याद् -- यदन्यत्ममिधः । पक्त इव ह्य ेतद् होता । यद्वा अन्यत्समिध इध्मस्यातिरिच्यते -- अतिरिक्त तद् । यद्वै यज्ञस्यातिरिक्त - द्विपन्तं हास्य तत् भ्रातृव्यमभ्य-तिरिच्यते । तस्माद् श्रुतः प्राचीनं सर्वमिध्ममभ्यादध्याद् -- यदन्यत्समिधः ॥ ३८ ॥

' देवान् यति स्वध्वर ' इति । अध्वरो वै यज्ञः । देवान् यक्षि सुयज्ञिय इत्येवैतदाह । ' त्वं हि हव्यवासि ' इति । एप हि हव्यवाड् यदग्निः । तस्मादाह - त्वं हि हव्यवाड्सीति । ' आजुहोता दुवस्यत । अग्नि प्रयत्यध्वरे । वृणीध्वं हव्यवाहनम् ' इति । सम्प्रध्य-त्येतया आजुहुत च यजत च यस्मै कामाय समैन्धिद्गं तत्कुरुतेत्येतदाह । ' अग्नि प्रयत्यध्वर ' इति । अध्वरो वै यज्ञः । अग्नि प्रयति यज्ञ इत्य चैतदाह । ' वृणीध्वं हव्यवाहनमिति । एष हि हव्यवाहनो - यदग्निः । तम्मादाह- वृणीध्वं हव्यवाहन मिति ॥ ३६ ॥

तं वा एतं अध्वन्तं त्रिचमन्वाह । देवान् ह वै यज्ञ ेन यजमानान् सपत्ना असुर । दुधूपञ्चिकुः । ते दुधूर्पन्त एव न शेकुधू ' वितुम्, ते परावभृत्रुः । तस्माद्यज्ञो ऽध्वरो नाम । दुन् ह वा एनं सपत्नः पराभवति यस्यैव विदुषोऽध्वरवन्तं त्रिचमन्वाहुः । यावद्वे व सौम्येनाध्वरेणेष्ट्वा जयति, तावज्जयति ॥ ४० ॥

इति प्रथमकाण्डे चतुर्थाध्याये प्रथमं ब्राह्मणं तृतीयप्रपाठके च तृतीयं ब्राह्मणं ( मामिधेनी - ब्राह्मणानुगतञ्च द्वितीयं ब्राह्मणं ) उपरतम् २ ११८५

पृष्ठ 878

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 878 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ निगदानुवचनम अथ प्रायानुवचनम् -अथ - निवित्पाठ: -श्रीः ३ १ ९ ४६ थ - प्रथमकाण्डे चतुर्थाध्याय द्वितीयं ब्राह्मणम् तृतीयप्रपाठके च चतुथं ब्राह्मणम ( सामिधेनी - ब्राह्मणानुगतञ्च - तृतीयं ब्राह्मणम् ) एतद्ध वै देवा श्रग्नि गरिष्ठे युञ्जन् यद्धोतृत्वे- ' इदं नो हव्यं वह ' इति । तमेतद् गरिष्ठे युक्त्वोपमदन् ' वीर्यवान त्वमसि अलं वै त्वमेतस्मा असि ' इति - वीर्ये समादधतः । यथेदमप्येतर्हि ज्ञातीनां यं गरिष्ठे युञ्जन्ति, तमुपमदन्तिवीर्यवान् त्वमसि अलं वै त्वमेतस्मा असीति वीर्ये समादधतः । स यदत ऊर्ध्वमन्त्राह उपस्तीत्येवैनमेतत्, वीर्यमेवास्मिन् दधाति ॥ १ ॥

' अग्ने महाँ २ ॥ अमि ब्राह्मण भारत ' - इति । ब्रह्म ह्यग्निः । तस्मादाह ब्राह्मणेति । भारतेति । एष हि देवेभ्यो हव्यं भरति, तस्माद् भरतोऽग्निरित्याहुः । एप उ वा इमाः प्रजाः प्राणो भूत्वा विभर्त्ति तस्माद्ववाह भारतेति ॥ २ ॥

अथार्षेयं प्रवृणीते । ऋषिभ्यश्च वैनमेतद्द वेभ्यश्च निवेदयति- ' अयं महावीर्यो - यो

यज्ञं प्रापदिति ' । तम्मादार्षेयं प्रवृणीते ॥ ३ ॥

परस्तादर्वाक् प्रवृणीते । परस्ताद्वयर्वाच्यः प्रजाः प्रजायन्ते, ज्यायसम्पतय उ चैवैतं निहृत, इदं हि - पितेवाग्रे, अथ पुत्रः, अथ पौत्रः तस्मात्परस्तादर्वाक् प्रवृणीते ॥ ४ ॥

स आर्षेयमुक्त्वाह - ' देवेद्धो मन्विद्धः ' ( तै. बा. ३. ५. ३. १ ) इति । देवा ह्यतमग्र ऐन्ध | तस्मादाह - देवेद्ध इति । मनु तमग्र ऐन्ध । तम्मादाह -मन्विद्ध इति || ५ ||

पृष्ठ 879

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 879 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय तृतीय- चतुर्थ - ब्राह्मण प्रथमकाण्ड ' ऋषिष्टुतः ' ( ३.५. ३. २ ) इति ऋषयों ह्येोतमग्रे स्तुवन् । तस्मादाह-ऋषिष्टुत इति ॥ ६ ॥

' विप्रानुमदिनः ' ( ३.५. ३. ३ ) इति । एते वै विप्राः यद्यषयः । एते ह्यतम-न्वमदन् । तस्मादाह विप्रानुमदित इति ॥ ७ ॥

' कविशस्तः ' ( ३. ५. ३. ४ ) इति । एते वे कवयो यहपयः । एते ह्य े

तमशंसन् ।

ह - कविशस्त इति ॥ ८ ॥

तस्मादाह-ब्रह्मसंशितः ( ३. ५. ३. ५ ) इति । ब्रह्मसंशितो ह्येोपः । ' घृताहवनः '

( ३. ५. ३. ६ ) इति । घृताहवनों पः ॥ ६ ॥

' प्रणीर्यज्ञानां रथीरध्वराणाम ' ( ३.५. २. ७ ) इति । एतेन वै सर्वान् यज्ञान्

प्रणयन्ति, ये च पाकयज्ञाः, ये चेतरे । तस्मादाह - प्रणीर्यज्ञानामिति ॥ १० ॥

रथीरध्वराणामिति । रथो हवा एप भूत्वा देवेभ्यो यज्ञं वहति । तस्मादाह-रथीरध्वराणामिति ॥ ११ ॥

' होता व्यवा ' ( ३.५.३.८ ) इति । न ह्येतं रक्षांसि तरन्ति । तस्मादाह - तूर्ती होतेति । तूर्हिव्यवाडिति 1

। सर्वे ह्येष पाप्म नं तरति ।

तस्मादाह - तूर्णिहंत्र्यवाडिति ॥ १२ ॥

' आस्पात्रं जुहुर्देवानाम् ' ( तै ० ब्रा ० ३ ५ ३.६ ) इति । देवपात्रं वा एप दग्निः । तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति । देवपात्रं ह्यपः । प्राप्नोति ह बैं तस्य पात्रम् यस्य पात्रं प्रप्सति य एवमेतद्वेदे ॥ १३ ॥

' चमसो देवपान: ' ( ३. ५. ५.१० ) इति । चमसेन हवा एतेन भूतेन देवा भक्षयन्ति । तस्मादाह - चमसो देवपान इति ॥ १४ ॥

' अ २ ॥ इवाग्ने नेमिर्देवांस्त्व परिभूरसि ( ३.५.३.११ ) इति ।

यथारान्नेमिः सर्वतः परिभूः, एवं त्वं देवान् सर्वतः परिभूरसि - इत्येवैतदाह ॥ १५ ॥

११८७

पृष्ठ 880

शतपथ ब्राह्मणम् भाष्य - १-२ - मोतीलाल शास्त्री, पृष्ठ 880 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीय- चतुर्थ अध्याय यथ - देवतावाहनम् — तृतीय- चतुर्थ ब्राह्मण शतपथब्राह्मण ' आवह देवान्यजमानाय ' ( तै ० वा ० ३. ५. ३ ) इति । तस्मै यज्ञाय देवानवोढवा आह || १ || ' अग्निमग्न आह ' ( ३।५।३ ) इति । तदाग्ने थापाज्य -भागायाग्निमावोवा ग्रह || २ || ' सांममावह ' ( ३ ५ ३ ) इति । तत्सौम्यायाज्य-भागाय सोममावोढवा आह । ' अनिमावह ' ( ३. ५. ३ ) इति । तब एप उभयत्राच्युत आग्नेयः पुरोडाशो भवति ॥ ३ ॥ तस्मा अग्निमावोह ॥ ४ ॥ ॥ १६ ॥

अथ यथावतम् || ५ || देवाँ ' २ || आज्याँ आवह ' ( ३. ५. ३ ) इति । तत्प्रयाजा-नुयाजानाववाह | प्रयाजानुयाजा नै देवा आज्यपाः || ६ || अग्निहोत्रायायह ( ३. ५. ३ ) इति । तदर्जिन होत्रायावोढवा आह ॥ ७ ॥ स्वं महिमानमात्रह ( ३.५.३ )

इति । तत्स्नं महिमानमावोढवा श्राह । वाग् वा अस्य स्वो महिमा । तद्वाचमावोवा आह ॥ ८ ॥ ' आच बह जातवेदः सुयजा च यज ' ( ३.५.३ ) इति । तद्या

एतदेवता वोढवा आह, ता एवैतदाह । आा चैना वहानुष्ठया च यजेति यदाह - सुयजा च यजेति ॥ ६ ॥ १७ ॥

सवै तिष्ठन्नन्वाह । अन्वाह ह्य ेतद्, असौ नुवाक्या, तदसावेनैतद् भूत्वाऽन्याह ।

तस्मात्तिष्ठन्नन्वाह ॥ १८ ॥

अमीनो याज्यां यजति । इयं हि याज्या, तस्मान्न कश्चन तिष्ठन् याज्यां यजति ।

इयं हि याज्या, तदियमेवैतद् भृत्वा यजति । तम्मादासीनो याज्यां यजति ॥ १६ ॥

इति - प्रथमकाण्डे चतुर्थाध्याय द्वितीयं ब्राह्मणं तृतीयप्रपाठके च चतुर्थं ब्राह्मणं ( सामिधेनी ब्राह्मणानुगतञ्च तृतीयं ब्राह्मणं ) उपस्तम् 3 ११४८