शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 151–160

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 151–160

पृष्ठ 151

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५६३ मण्डनमिति । प्रोषितभर्तृका प्रवासस्थपतिका नारी मण्डनं भूषणं वर्जयेत् तथा देवतानाम् आराधने रता भर्तुः हिते रता च तिष्ठेत् । किञ्च मङ्गलार्थानि न तु विलासार्थानीत्यर्थः, किञ्चित् अल्पानि किञ्चिदित्यव्ययम् आभरणानि कङ्कणादीनि धारयेच्च ॥ २ ९ ॥

नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।

विसृज्य धनसर्वस्वं भर्त्ता वै शरणं स्त्रियाः ॥ ३० ॥

अन्वयः — भर्तृसमः नाथः नास्ति, भर्तृसमं सुखं नास्ति । विसृज्य धनसर्वस्वं वै स्त्रियाः शरणं भर्त्ता ॥ ३० ॥

व्याख्या — भर्तृसमः = स्वामिना सदृशः, नाथः = अधिपतिः, नास्ति = न विद्यते, भर्तृसमम् = पत्युः तुल्यम्, सुखम् = आनन्दम्, नास्ति = न विद्यते । विसृज्य = विसर्जनं कृत्वा, धनसर्वस्वम् — धनम् = वित्तम्, सर्वस्वम् = अखिलं वस्तु च, वै = इति निश्चयेन, स्त्रियाः = नार्यः, शरणम् = आश्रयः, भर्त्ताः = पतिरेवास्ति ॥ ३० ॥

हिन्दी — पति के समान कोई दूसरा स्वामी नहीं है और पति की सेवा की तरह कोई दूसरा सुख नहीं है । अपनी सारी वस्तु एवं धन का परित्याग कर रहने वाली औरत का आश्रय केवल पति ही होता है ॥ ३० ॥

नास्तीति । भर्त्तृसमः पत्या तुल्यः नाथः आश्रयः न अस्ति, तथा भर्तृसमं पत्युः सदृशं सुखं न अस्ति । किञ्च विसृज्य अन्यत् सर्वं त्यक्त्वा स्थिताया इति शेषः, स्त्रियाः भर्त्ता वै पतिरेव शरणम् आश्रय इत्यर्थः, धनसर्वस्वं धनं सर्वस्वं सर्वं वस्तु च ॥३० ॥

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।

अमितस्य प्रदातारं भर्त्तारं का न पूजयेत्? ॥ ३१ ॥

अन्वयः — पिता मितं भ्राता मितं सुतश्च मितं ददाति । अतः का नारी अमितस्य प्रदातारं भर्त्तारं न पूजयेत्? ॥ ३१ ॥

व्याख्या – पिता = जनकः, मितम् = सीमितम्, भ्राता = सोदरः, मितम् = स्तोकम्, सुतः = पुत्रः, सीमितं सुखम् ददाति = प्रयच्छति । अतः = अस्मात्कारणात्, का = नारी, अमितस्य = निःसीमस्य सुखस्य प्रदातारम् = समर्पकम्, भर्तारम् = स्वामिनम्, न = नहि, पूजयेत् = पूजां कुर्यात् ॥३१ ॥

हिन्दी — पिता, भाई और बेटा सीमित सुख देने वाले हैं । अतः वह कौन नारी है, जो अमित सुखदाता पति को नहीं पूजती है? ॥ ३१ ॥

मितमिति । पिता मितं परिमितं, भ्राता मितं, सुतश्च मितं ददाति हिशब्दः अवधारणार्थः । अतः का नारी अमितस्य अपरिमितस्य प्रदातारं भर्त्तारं न पूजयेत् ॥ ३१ ॥

शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद् धर्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना I पुराणाद्युक्तमन्त्रैश्च नमोऽन्तैः कर्म केवलम् ॥ ३२ ॥

अन्वयः - वर्णः चतुर्थोऽपि शूद्रः वर्णत्वात् वेदमन्त्रैः स्वधास्वाहावषट्कारादिभिः विना केवलं नमोऽन्तैः पुराणाद्युक्तमन्त्रैः धर्मं केवलं कर्म अर्हति ॥ ३२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 152

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६४ शुक्रनीतिः व्याख्या — चतुर्थः = तुरीयः वर्णः = जातिः, शूद्रोऽपि = वृषलोऽपि वर्णत्वात् = वर्णविहितधर्माणां अवश्यकर्तव्यत्वात्, वेदमन्त्रैः = श्रुतिमन्त्रैः स्वधास्वाहावषट्कारादिभिः, विना = विहाय, केवलम् = मात्रम्, नमोऽन्तैः = मन्त्रान्ते नमः, पुराणादिषु = शिवमार्कण्डेय-पुराणादिषु, उक्तैः = कथितैः, मन्त्रैः धर्म्यम् = धर्मान्वितम्, कर्म = कृत्यम्, अर्हति = योग्यो भवति ॥ ३२ ॥

हिन्दी - शूद्र भी चौथा वर्ण कहा जाता है । अतः चतुर्थ वर्ण होने के कारण उसे भी धर्म करना उचित है । अतएव वह वेदमंत्र, स्वधा, स्वाहा एवं वषट्कार आदि का उच्चारण किये बिना केवल पुराण में कथित मंत्रों से अन्त में ' नमः ' पद जोड़कर कर्म करने योग्य होता है ॥३२ ॥

शूद्र इति । चतुर्थः वर्णः शूद्रोऽपि वर्णत्वात् वर्णविहितधर्माणामवश्यकर्त्तव्यत्वादिति भावः, वेदमन्त्रैः स्वधास्वाहावषट्कारादिभिः विना केवलं नमोऽन्तैः नममन्त्रावसानैः पुराणादिषु उक्तैः मन्त्रैः धर्म्यं धर्मयुक्तं कर्म अर्हति ॥ ३२ ॥

विप्रवद् विप्रविन्नासु क्षत्रविन्नासु क्षत्रवत् ।

प्रजाताः कर्म्म कुर्य्युर्वै वैश्यविन्नासु वैश्यवत् ॥ ३३ ॥

अन्वयः — विप्रविन्नासु प्रजाताः विप्रवत् क्षत्रविन्नासु क्षत्रवत् वैश्यविन्नासु वैश्यवत् कर्म कुर्यात् ॥ ३३ ॥

व्याख्या - विप्रविन्नासु = ब्राह्मणविवाहितासु, प्रजाताः समुत्पन्नाः, विप्रवद् = ब्राह्मण इव, क्षत्रविन्नासु = क्षत्रियपरिणीतासु, प्रजाताः, क्षत्रवत् = क्षत्रियतुल्यम्, तथा वैश्यविन्नासु = वैश्य- 50 विवाहितासु, प्रजाताः = समुत्पन्नाः, वैश्यवत् = वैश्य इव, कर्म = कृत्यम्, कुर्य्युः = विधेयुः ॥३३ ॥

हिन्दी — ब्राह्मण की विवाहिता पत्नी से उत्पन्न लोगों को ब्राह्मण की तरह, क्षत्रियों की परिणीता पत्नी से उत्पन्न लोगों को क्षत्रिय की तरह, वैश्यों की विवाहिता पत्नी से उत्पन्न लोगों को वैश्यों की तरह कर्म करने चाहिए ॥ ३३ ॥

विप्रेति । विप्रविन्नासु ब्राह्मणपरिणीतासु प्रजाताः उत्पन्नाः विप्रवत्, क्षत्रविन्नासु क्षत्रियपरिणीतासु प्रजाताः क्षत्रवत् तथा वैश्यविन्नासु प्रजाताः वैश्यवत् कर्म कुर्य्यः वै, वैशब्दोऽवधारणार्थः ॥३३ ॥

वैश्यासु क्षत्रविप्राभ्यां जातः शूद्रासु शूद्रवत् ।

अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ।

स शूद्रादनु सत् कुर्य्यान्नाममन्त्रेण सर्वदा ॥ ३४ ॥।

अन्वयः —– क्षत्रविप्राभ्यां वैश्यासु शूद्रासु जातः शूद्रवत् अधमात् उत्तमायां जातः शूद्रादपि अधमः स्मृतः । सः शूद्रादनु नाममन्त्रेण सर्वदा सत् कार्यं कुर्यात् ॥ ३४ ॥

व्याख्या – क्षत्रविप्राभ्याम् = ब्राह्मणक्षत्रियाभ्याम्, वैश्यासु, शूद्रासु = वृषलीषु नारीषु, जातः = उत्पन्नः, पुत्रः, शूद्रवत् कार्यम् = कर्म, कुर्युः, अधमात् = नीचवर्णात्, उत्तमायाम् = उत्कृष्टजात्याम्, जातः, शूद्रादपि अधमः = नीचः, जातः, स च शूद्रात् = वृषलात्, अनु = हीनः, नाममन्त्रेण सर्वदा सत्कार्यं कुर्यात् ॥ ३४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 153

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५६५ हिन्दी — ब्राह्मण या क्षत्रिय से वैश्य या शूद्र जाति की नारी से उत्पन्न शूद्र की तरह कर्म करे । अधम से उत्तम कुल की स्त्री में उत्पन्न लोग शूद्राधम कहे जाते हैं । अत: वे शूद्र से हीन होने के कारण मंत्र की जगह नाम लेकर सत्कर्म करे ॥३४ ॥

वैश्यास्विति । क्षत्रविप्राभ्यां ब्राह्मणक्षत्रियाभ्यां वैश्यासु शूद्रासु स्त्रीषु जातः पुत्रः शूद्रवत् कर्म कुर्य्यादिति शेषः । अधमात् निकृष्टजातैरित्यर्थः, उत्तमायाम् उत्कृष्टजात्यामित्यर्थः, जातः शूद्रादपि अधमः नीचः स्मृतः । स च शूद्रात् अनु हीनेन इत्यर्थः, नाममन्त्रेण सर्वदा सत् कार्य्यं कुर्य्यात् ॥ ३४ ॥

ससङ्करचतुर्वर्णा एकत्रैकत्र यावना:।

वेदभिन्नप्रमाणास्ते प्रत्यगुत्तरवासिनः ॥ ३५ ॥

अन्वयः – एकत्र ससङ्कराः चतुर्वर्णाः एकत्र यावनाः ते वेदभिन्नप्रमाणाः प्रत्यगुत्तर-वासिनः ॥ ३५ ॥

व्याख्या – एकत्र = निवसथस्यैकदेशे, ससङ्कराः = मिश्रजजातिसहिताः, चतुर्वर्णाः = ब्राह्मण-क्षत्रियवैश्यशूद्राः, तिष्ठन्ति, एकत्र = अन्यक्षेत्रे, यावनाः = म्लेच्छाः, तिष्ठन्ति, ते = म्लेच्छाः वेदभिन्नप्रमाणाः = यवनधर्मावलम्बिनः, तथा प्रत्यगुत्तरवासिनः = पश्चिमोत्तरे स्थिताः यूनानवासिनः ॥३५ ॥

हिन्दी — एक ओर संकीर्ण जातियों के साथ ब्राह्मण, क्षत्रिय, वैश्य और शूद्र रहते हैं तथा दूसरी ओर यूनानी वेद - विरुद्ध कुरान - धर्मावलम्बी मुसलमान लोग भी रहते हैं ॥ ३५ ॥

ससङ्करेति । एकत्र एकस्मिन् प्रदेशे ससङ्कराः सङ्कीर्णजातिसहिताः चतुर्वर्णाः चत्वारः वर्णा ब्राह्मणादयः, एकत्र अन्यत्रेत्यर्थः, यावनाः तिष्ठन्तीति शेषः । ते यावनाः वेदभिन्नप्रमाणाः वेदविरुद्धधर्मिणः तथा प्रत्यगुत्तरवासिनः पश्चिमोत्तरप्रदेशस्थिता इत्यर्थः ॥ ३५ ॥

तदाचार्य्यैश्च तच्छास्त्रं निर्मितं तद्धितार्थकम् ।

व्यवहाराय या नीतिरुभयोरविवादिनी ॥ ३६ ॥

अन्वयः — तत् आचार्यैः तत् हितार्थकं शास्त्रञ्च निर्मितम् । तथा व्यवहाराय उभयोः अविवादिनी नीतिः ॥ ३६ ॥

व्याख्या – तत् = तेषां यूनानवासिनाम्, आचार्यैः = यवनधर्मोपदेशकैः, तत् = = तेषां यवनानाम्, हितार्थकम् = मङ्गलार्थम्, शास्त्रम् = धर्मग्रन्थः, निर्मितम् = विरचितम्, तथा = = तेनैव प्रकारेण, व्यवहाराय = आचाराय, उभयोः = द्वयोर्लोकयोः, अविवादिनी = अविरोधिनी, नीतिश्च = नियमश्च, विनिर्मितम् ॥ ३६ ॥

हिन्दी — उन यवनों के धर्मगुरुओं ने उनके कल्याण हेतु शास्त्रों का भी निर्माण किया । उन शास्त्रों में उनके व्यवहार के लिए लोक और परलोक के विरुद्ध न पड़ने वाली नीति का वर्णन किया गया है ॥ ३६ ॥

तदाचार्य्यैरिति । तेषां यवनानाम् आचार्यैः गुरुभिः तद्धितार्थकं तेषां हितार्थं शास्त्रञ्च निर्मितं प्रणीतम् । तथा व्यवहाराय उभयोर्लोकयोरित्यर्थः, अविवादिनी अविरोधिनी नीतिश्च निर्मितेति शेषः ॥ ३६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 154

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६६ शुक्रनीति:

कदाचिद् बीजमाहात्म्यात् क्षेत्रमाहात्म्यतः क्वचित् ।

नीचोत्तमत्वं भवति श्रेष्ठत्वं क्षेत्रबीजतः ॥ ३७ ॥

अन्वयः — कदाचित् बीजानां माहात्म्यात् क्वचित् क्षेत्राणां माहात्म्यतः नीचोत्तमत्वं कदाचिच्च क्षेत्रबीजतः माहात्म्यात् श्रेष्ठत्वं भवति ॥ ३७ ॥

व्याख्या — कदाचित् = स्यात् सम्भवेद्वा, बीजानाम् = पुरुषाणाम्, माहात्म्यात् = महिम्नः, क्वचित् = कुत्रचित्, क्षेत्राणाम् = स्त्रीणाम्, माहात्म्यतः = गरिम्नः, नीचोत्तमत्वम् = अधमोत्कर्षत्वम्, कदाचिच्च = सम्भवेच्च, क्षेत्रबीजतः — क्षेत्रस्य = स्त्रियाः, बीजस्य = पुरुषस्य, चोभयोः माहात्म्यात् = गौरवात्, श्रेष्ठत्वम् = उत्तमत्वम्, भवति ॥ ३६ ॥

हिन्दी — कभी पुरुष की गुरुता से और कभी नारी की महत्ता से संतान नीचता या श्रेष्ठता प्राप्त करती है और कभी पुरुष - नारी दोनों की महत्ता से श्रेष्ठता प्राप्त करती है ॥३७ ॥

कदाचिदिति । कदाचित् बीजानां पुरुषाणामित्यर्थः माहात्म्यात् गौरवात्, क्वचित् क्षेत्राणां नारीणां माहात्म्यात् गौरवात् नीचोत्तमत्वम् अपकर्षोत्कर्षभावः, कदाचिच्च क्षेत्रबीजतः क्षेत्रस्य बीजस्य च उभयोरित्यर्थः माहात्म्यात् श्रेष्ठत्वं भवति ॥ ३७ ॥

विश्वामित्रो वशिष्ठश्च मतङ्गो नारदादयः ।

तपोविशेषैः सम्प्राप्ता उत्तमत्वं न जातितः ॥ ३८ ॥

अन्वयः — विश्वामित्रः वशिष्ठः मतङ्गः नारदादयश्च तपोविशेषैः उत्तमत्वं सम्प्राप्ताः, जातितः न ॥ ३८ ॥

व्याख्या — विश्वामित्रः = गाधिपुत्रः, वशिष्ठः = सूर्यवंशीय क्षत्रियाणां गुरुः, मतङ्गः = प्रसिद्ध ऋषिः, नारदादयश्च अनेके ऋषयः, तपोविशेषैः - विशिष्टतपसा, उत्तमत्वम् = श्रेष्ठत्वम्, सम्प्राप्ताः = अधिगताः, न तु जात्या = जातिमात्रेण, विश्वामित्रो हि क्षत्रियः, वेश्यापुत्रो वशिष्ठः, मतङ्गो हि सामान्ययोनिसमुत्पन्नः, नारदस्य दासीगर्भजत्वाच्चेति ॥ ३८ ॥

हिन्दी — क्षत्रिय से उत्पन्न विश्वामित्र, स्वर्ग की वेश्या से उत्पन्न वसिष्ठ, साधारण जाति में उत्पन्न मतङ्ग और दासी के पुत्र नारद प्रभृति विशेष तप से ही महत्त्व को प्राप्त किये, न कि उत्तम जाति के कारण ॥ ३८ ॥

विश्वामित्र इति । विश्वामित्रः वशिष्ठः मतङ्गः नारदादयश्च तपोविशेषैः उत्तमत्वं श्रेष्ठत्वं सम्प्राप्ताः जातितः जात्या न, विश्वामित्रस्य क्षत्रजत्वात् वशिष्ठस्य वेश्याजातत्वात् मतङ्गस्य सामान्ययोनिजत्वात् नारदस्य दासीगर्भजत्वाच्चेति भावः ॥३८ ॥

स्वस्वजात्युक्तधर्मो यः पूर्वैराचरितः सदा ।

तमाचरेच्च सा जातिर्दण्ड्या स्यादन्यथा नृपैः ॥ ३ ९ ॥

अन्वयः — यः पूर्वैः स्वस्वजात्युक्तधर्मः आचरितः सा जातिः सदा तम् आचरेत् । अन्यथा नृपैः दण्ड्या स्यात् ॥ ३ ९ ॥ व्याख्या — यः = जनः, पूर्वैः = पूर्वपुरुषैः, स्वस्वजात्युक्तधर्मः = निजनिजजातिविहित-धार्मिककृत्यः, आचरितः = अनुष्ठितः, सा जातिः = वर्णः, सदा = सर्वदा, तम् = धर्मम्, आचरेत् = व्यवहरेत् । अन्यथा नृपैः = भूभृद्भिः, दण्ड्याः = दण्डनीयाः, स्यात् = भवेत् ॥ ३ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 155

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५६७ हिन्दी — जिस व्यक्ति के पूर्वजों ने अपनी जाति के लिए विहित धर्म का सदा व्यवहार किया है, उसी का उसे आचरण करना चाहिए । अन्यथा आचरण करने पर उस जाति के लोग राजा द्वारा दण्डनीय होते हैं ॥ ३ ९ ॥ स्वेति । यः पूर्वैः पूर्वपुरुषैः स्वस्वजातिविहितः धर्मः आचरितः सा जातिः तज्जातीयो नः सदा तं धर्मम् आचरेत्, अन्यथा नृपैः दण्ड्या दण्डनीया स्यात् ॥ ३ ९ ॥

जातिवर्णाश्रमान् सर्वान् पृथक् चिनैः सुलक्षयेत् ।

यन्त्राणि धातुकाराणां संरक्षेद् वीक्ष्य सर्वदा ॥। ४० ॥

अन्वयः — पृथक् चिनैः जातिवर्णाश्रमान् सर्वान् सुलक्षयेत् । धातुकाराणां यन्त्राणि वीक्ष्य सदा संरक्षेत् ॥४० ॥

व्याख्या - पृथक् चिह्वैः = भिन्नलाञ्छनैः, जातीनाम् = ब्राह्मणादीनाम्, वर्णानाम्, आश्रमाणाम् = ब्रह्मचर्यादीनाम्, सर्वान् = सकलान्, धर्मान् सुलक्षयेत् = चिह्नयेत् । तथा धातुकाराणाम् = स्वर्णादिशिल्पकाराणाम्, यन्त्राणि, वीक्ष्य = अवलोक्य, सर्वदा = सततम्, संरक्षेत् = पालयेत्, नृप इति शेषः ॥ ४० ॥

हिन्दी – जाति, वर्ण और आश्रम के सभी लोगों को अलग - अलग चिह्नों द्वारा पहचान लेना चाहिए । सुनार आदि शिल्पकारों के औजारों का परीक्षण कर राजा को उनके पास रहने देना चाहिए ॥ ४० ॥

जातिवर्णाश्रमानिति । पृथक् चिनैः जातीनां सङ्कीर्णानां वर्णानां ब्राह्मणादीनाम् आश्रमाणां ब्रह्मचारिप्रभृतीनां सर्वान् धर्मान् सुलक्षयेत् । तथा धातुकाराणां स्वर्णादिशिल्पकाराणां यन्त्राणि वीक्ष्य परीक्ष्य सर्वदा संरक्षेत् नृप इति शेषः ॥ ४० ॥

कारुशिल्पिगणान् राष्ट्रे रक्षेत् कार्य्यानुमानतः ।

अधिकान् कृषिकृत्ये वा भृत्यवर्गे नियोजयेत् ॥। ४१ ॥

अन्वयः — कार्यानुमानतः राष्ट्रे कारुशिल्पिगणान् रक्षेत् । अधिकान् कृषिकृत्ये वा भृत्यवर्गे नियोजयेत् ॥४१ ॥

व्याख्या — कार्यानुमानतः—— कार्याणाम् = कृत्यानाम्, अनुमानेन = अभ्यूहनेन, राष्ट्रे = जनपदे, कारुशिल्पिगणान् = वर्द्धकिचित्रकारवर्गान्, रक्षेत् = निवासयेत् । तथा कृषिकृत्ये = हलभृत्यादिकार्ये, वा = अथवा, भृत्यवर्गे = सेवकसाध्यकायें, अधिकान् = बहुलान् जनान्, नियोजयेत् = नियुक्तं कुर्यात् ॥४१ ॥

हिन्दी - काम की अधिकता या कमी का विचार कर राज्य में राजा बढई या शिल्पकारों को बसाये । अगर इनकी संख्या अधिक हों तो इन्हें खेती के कामों में या सामान्य सेवकों के काम में राजा लगाये ॥ ४१ ॥

कारुशिल्पीति । कार्य्यानुमानतः कार्य्याणाम् अनुमानेन गौरवलाघवविवेचनेन इत्यर्थः, राष्ट्र राज्ये कारुशिल्पिगणान् रक्षेत् वासयेत् । तथा कृषिकृत्ये भूमिकर्षणादिकार्य्यं वा भृत्यवर्गसाध्ये कर्मणि निमित्ते अधिकान् जनान् नियोजयेत् राजेति शेषः ॥४१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 156

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६८ शुक्रनीतिः

चौराणां पितृभूतास्ते स्वर्णकारादयस्त्वतः ।

गञ्जागृहं पृथग् ग्रामात् तस्मिन् रक्षेत्तु मद्यपान् ॥ ४२ ॥

अन्वयः — स्वर्णकारादयस्तु चौराणां पितृभूताः, अतः ते प्रामात् पृथक् रक्षेत् । तस्मिन् तु ` गञ्जागृहं मद्यपान् रक्षेत् ॥ ४२ ॥

व्याख्या — स्वर्णकारादयस्तु = धातुकारादयस्तु, चौराणाम् = तस्कराणाम्, पितृभूताः = जनकस्थानीयाः, यतो हि ते चौरान् स्वपुत्रानिव पालयन्ति, अतः = अस्मात् कारणात्, तेः = स्वर्णकाराः, ग्रामात् = आवसथात्, पृथक् = दूरमेव, रक्षणीयाः = निवासनीयाः नृपेणेति । यच्च तस्मिन् = ग्रामाद्भिन्नक्षेत्रे, गञ्जागृहम् = मदिरालयमस्ति तस्मिन् = तत्र, रक्षेत् = वासयेत् राजेति ॥ ४२ ॥

हिन्दी – सुनार चोरों की रक्षा उनके बाप की तरह करते हैं, अतः ही रखना चाहिए और मदिरालय भी गाँव से बाहर रखकर उनमें चाहिए ॥ ४२ ॥

चौराणामिति । स्वर्णकारादय: चौराणां पितृभूताः पितृस्थानीयाः पितृवत् अतः ते ग्रामात् पृथक् रक्षणीया राज्ञा इति शेषः । यच्च तस्मिन् ग्रामात् गञ्जागृहं मदिरागृहम् अस्ति, तस्मिन् मद्यपान् रक्षेत् राजेति शेषः ॥ ४२ ॥

मद्यपान् = सुरापान्, उन्हें गाँव से बाहर शराबियों को रखना चौरान् पालयन्तीत्यर्थः, पृथक् प्रदेशे इत्यर्थः, न दिवा मद्यपानं तु राष्ट्रे कुर्य्याद्धि कश्चन ॥ ४३ ॥

अन्वयः— राष्ट्रे कश्चन दिवा मद्यपानं न तु कुर्यात् हि ॥ ४३ ॥

व्याख्या – राष्ट्रे = राज्ये, कश्चन = कोऽपि जनः, दिवा = दिवसे, मद्यपानम् = सुरापानम्, न तु = नैव, कुर्यात् ॥ ४३ ॥

हिन्दी — और राज्य में किसी को दिन में शराब पीने की स्वीकृति नहीं देनी चाहिए ॥ ४३ ॥

नेति । राष्ट्रे राज्ये कश्चन जनः दिवा दिवसे मद्यपानं न हि तु कुर्य्यात् ॥ ४३ ॥

ग्रा ग्राम्यान् वन्यान् वृक्षान् संरक्षयेन्नृपः ।

उत्तमान् विंशतिकरैर्मध्यमांस्तिथिहस्ततः ॥ ४४ ॥

सामान्यान् दशहस्तैश्च कनिष्ठान् पञ्चभिः करैः ।

अजाविगोशकृद्भिर्वा जलैर्मांसैश्च पोषयेत् ॥ ४५ ॥

अन्वयः — नृपः ग्रामे ग्राम्यान् वने वन्यान् वृक्षान् संरक्षयेत् । तेषु उत्तमान् विंशतिकरैः मध्यमान् तिथिहस्ततः सामान्यान् दशहस्तैश्च कनिष्ठान् पञ्चभिः करैः अजाविगोशकृद्भिः वा जलैः मांसैश्च पोषयेत् ॥ ४४-४५ ॥ व्याख्या – नृपः = राजा, ग्रामे = निवसथे, ग्राम्यान् = ग्रामे भवितुं योग्यान् वृक्षान्, वने = अरण्ये, वन्यान् = वने भवितुं योग्यान्, वृक्षान् = पादपान्, संरक्षयेत् = संरोपयेत् । तेषु = पादपेषु, उत्तमान् = उत्कृष्टान् बृहद्वृक्षान्, विंशतिहस्तान्तरालैः, मध्यमान् = सामान्यवृक्षान्, तिथिहस्ततः = पञ्चदशकरैः, ततो निकृष्टान् वृक्षान् दशकरैः, तथा कनिष्ठान् = लघुवृक्षान्, पञ्चभिः करैः, विच्छिद्य संरोपयेदिति, तांश्च वृक्षान्, अजानाम् = छागानाम्, अवीनाम् = मेषाणाम्, गवाञ्च, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 157

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५६ ९ शकृद्भिः = पुरीषैः, जलैः = सलिलैः, मांसैः = पिशितैश्च, पोषयेत् = संवर्द्धयेदिति ॥ ४४-४५ ॥ हिन्दी — गाँव में पनपने वाले पेड़ों को गाँव में, जंगल में उगने वाले पौधों को जंगल में राजा रोपण कराये । उनमें बड़े पेड़ों की परस्पर दूरी बीस हाथ, औसत सूक्ष्म दर्जे के पेड़ों की दूरी पन्द्रह हाथ, सामान्य पेड़ों की दूरी दस हाथ और छोटे - छोटे पेड़ों की दूरी पाँच हाथ होनी चाहिए । उन पेड़ों में बकरी, भेड़ और गाय के गोबर की खाद, पानी तथा मांस डाल कर संवर्द्धन करवाना चाहिए ॥ ४४-४५ ॥ ग्रामे इति । सामान्यानिति । नृपः ग्रामे ग्राम्यान् वने वन्यान् वृक्षान् संरोपयेत् । तेषु उत्तमान् वृक्षान् विंशतिहस्तैः, मध्यमान् वृक्षान् तिथिहस्ततः पञ्चदशकरैरित्यर्थः, सामान्यान् ततो निकृष्टान् दशहस्तैः तथा कनिष्ठान् अधमान् वृक्षान् पञ्चभिः करैः विच्छिद्य वासयेदिति शेषः । तांश्च अजानां छागानाम् अवीनां मेषाणां गवाञ्च शकृद्भिः पुरीषैः जलैः मांसैश्च पोषयेत् पुष्टिं नयेत् ॥ ४४-४५ ॥ उदुम्बराश्वत्थवटचिञ्चाचन्दनजम्भला: कदम्बाशोकबकुलबिल्वामृतकपित्थकाः ॥ ४६ ॥

राजादनाम्रपुन्नागतूदकाष्ठाम्लचम्पकाः 1 नीपकोकाम्रसरलदाडिमाक्षोटभिस्मटाः ॥ ४७ ॥

शिंशपाशिम्भुवदरनिम्बजम्बीर क्षीरिकाः खर्जूरदेवकरजफल्गुतापिञ्छसिम्भला: ॥ ४८ ॥

कुद्दालो लवली धात्री क्रमुको मातुलुङ्गकः ।

लकुचो नारिकेलश्च रम्भाद्याः सत्फला द्रुमाः ।

सुपुष्पाश्चैव ये वृक्षा ग्रामाभ्यर्णे नियोजयेत् ॥ ४ ९ ॥

अन्वयः— उदुम्बराश्वत्थवटचिञ्चाचन्दनजम्भलाः कदम्बाशोकबकुलबिल्वामृतकपित्थकाः राजादनाम्रपुन्नागतूदकाष्ठाम्लचम्पकाः नीपकोकाम्रसरलदाडिमाक्षोटभिस्मटाः शिंशपाशिम्भुवदर-निम्बजम्बीरक्षीरिकाः खर्जूरदेवकरजफल्गुतापिञ्छसिम्भला: कुद्दालः लवली धात्री क्रमुकः मातुलुङ्गकः लकुचः नारिकेलः च रम्भाद्याः अन्ये ये सत्फलाः द्रुमाः सुपुष्पाश्चैव वृक्षाः तान् ग्रामाभ्यर्णे नियोजयेत् ॥ ४६-४९ ॥ व्याख्या — उदुम्बराः = क्षीरवृक्षाः, अश्वत्थाः = पिप्पलाः वटाः = न्यग्रोधाः, चिञ्चाः = आम्लीकाः, चन्दनाः = गन्धसाराः, जम्भलाः = जम्बीराः, कदम्बाः = नीपाः, अशोकाः = रक्तपल्लवाः, बकुलाः = सिंहकेसराः, बिल्वाः = श्रीफलानि, अमृताः = आमलाः, कपित्थकाः = खदिराः, राजादनाः = चारबीजानि, आम्राः = रसालाः, पुन्नागाः, तूदकाष्ठाः = ब्रह्मकाष्ठाः, अम्लाः, चम्पका: = = हेमपुष्पाणि, नीपाः = कदम्बाः, कोकाम्राः = कोकमाः, सरलाः = पुष्पवृक्षाणि, दाडिमाः = शुकवल्लभाः, अक्षोटाः = अक्षोटवृक्षाणि, भिस्मटाः, शिम्भवः = शिंशपाः, वदराः = वदरिकाः, निम्बाः = तिक्तद्रुमाः, जम्बीराः = अम्लनीराः, क्षीरिकाः = पायसवृक्षाः, खर्जूराः = दुरारोहाः, देवकरजाः, शिघ्नु = रुचिराञ्जनाः, फल्गवः = अंजीरः, तापिच्छा: - तमालाः, सिम्भलाः, कुद्दालाः, लवली = हरिपवरयः, धात्री = आमलकी, क्रमुकः = पुगीफलम्, मातुलुङ्गकः = लकुचः रोचनः, दन्ताघातो वा, नारिकेलः रम्भाद्याः = कदलीफलप्रभृतयः, अन्ये = अपरे, ये सत्फलाः = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 158

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५७० शुक्रनीतिः उत्कृष्टफलशालिनः, सुपुष्पाश्च पादपाः सन्ति, तान् = सर्वान्, ग्रामाभ्यर्णे आवसथसमीपे, नियोजयेत् = रोपणं कुर्यात्॥४६-४९ ॥ हिन्दी — गूलर, पीपल, बरगद, इमली, चन्दन, जभीरीनीबू, कदम्ब, अशोक, बकुल, बिल्व, आमड़ा, कैथ, चिरौंजी, आम, पुंनाम, तूत, अमरा, चम्पा, जलकदम्ब, कोकम, चीड़, अनार, अखरोट, मिस्सट, शीशम, सहिजन, बैर, नीम, जमीरी नींबू, खिरजी, खजूर, देवकरंज, अंजीर, तमाल, शिम्भल, कुद्दाल, हरफारेवडी, आमला, सुपारी, बिजौरानींबू, बड़हर, नारियल, केला प्रभृति तथा अन्य भी अच्छे फलवाले जो पेड़ - पौधें हों, उन्हें गाँव के आसपास लगाना चाहिए ॥ ४६-४७ ॥ उदुम्बरेत्यादि । उदुम्बराः, अश्वत्थाः, वटाः, चिञ्चाः, चन्दनाः, जम्भलाः, कदम्बाः, अशोकाः, बकुलाः, बिल्वाः, अमृताः, कपित्थकाः, राजादनाः, आम्राः, पुन्नागाः, तूदकाष्ठाः, अम्लाः, चम्पकाः, नीपाः, कोकाम्राः, सरलाः, दाडिमाः, अक्षोटाः, भिस्मटाः, शिंशपाः, शिम्भवः, वदराः, निम्बाः, जम्बीराः, क्षीरिकाः, खर्जूराः, देवकरजाः, फल्गवः, तापिञ्छाः, सिम्भलाः, कुद्दालः, लवली, धात्री, क्रमुकः, मातुलुङ्गकः, लकुचः, नारिकेलः, रम्भाद्याः, अन्ये ये सत्फलाः, उत्तमफलशालिनः सुपुष्पाश्च वृक्षाः सन्ति, तान् ग्रामाभ्यर्णे ग्रामसमीपे नियोजयेत् रोपयेत्॥४६-४९ ॥ वामभागेऽथवोद्यानं कुर्य्याद् वासगृहे शुभम् ।

सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे ।

वसन्ते पञ्चमेऽह्नस्तु सेच्या वर्षासु न क्वचित् ॥ ५० ॥

अन्वयः – वामभागे अथवा वासगृहे शुभम् उद्यानं कुर्यात् । घर्मान्ते सायं प्रातश्च शीतकाले दिनान्तरे वसन्ते पञ्चमे अह्नस्तु सेच्याः, वर्षासु क्वचिदपि न सेच्येति ॥ ५० ॥

व्याख्या – वामभागे = वासगृहस्य सव्यभागे, अथवा = वा, वासगृहे = निवासभवने, शुभम् = कल्याणप्रदम्, उद्यानम् = वाटिकाम्, कुर्यात् = निर्मातव्यम् । किञ्च घर्मान्ते = निदाघान्ते, सायम् = सन्ध्याकाले, प्रातः = = प्रभाते, शीतकाले = शिशिर ऋतौ दिनान्तरे = दिवसावसाने, वसन्ते = ऋतुराजसमये, अह्नः = दिनस्य, पञ्चमे मुहूर्ते, सेच्याः = सेचनीयाः, वाटिका - वृक्षाः, वर्षासु = वर्षाऋतौ, क्वचिदपि = कदापि, न = नहि, सेच्या: = सेचनीयाः ॥ ५० ॥

हिन्दी — निवासगृह के बाँयी ओर अथवा घर के अहाते के भीतर ही सुन्दर उद्यान बनाना चाहिए । ग्रीष्म ऋतुओं में प्रात: और सायं काल दोनों समय, जाड़े में एक दिन के बाद, वसन्त ऋतु में दुपहरिया ढलने के बाद अथवा चार दिन के बाद पौधे की सिंचाई करनी चाहिए, किन्तु वर्षा ऋतु में सिंचाई कदापि उचित नहीं है ॥५० ॥

वामभागे इति । वामभागे वासगृहस्येति शेषः, अथवा वासगृहे वासभूम्यन्तरे इत्यर्थः, शुभम् उद्यानं कुर्य्यात् । किञ्च घर्मान्ते निदाघावसाने सायं प्रातश्च, शीतकाले दिनान्तरे दिनावसाने वसन्ते अह्नः दिवसस्य पञ्चमे मुहूर्ते इति शेषः, सेच्या: उद्यानवृक्षा इति शेषः, वर्षासु क्वचिदपि न सेच्या इति शेषः ॥५० ॥

फलनाशे कुलुत्यैश्च माषैर्मुद्गैर्यवैस्तिलैः ।

शृतशीतपयःसेकः फलपुष्पाय सर्वदा ॥ ५१ ॥

अन्वयः — फलनाशे कुलुत्थैः माषैः मुद्गैः यवैः तिलैः शृतशीतपयःसेकः सर्वदा फलपुष्पाय भवति ॥ ५१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 159

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५७१ व्याख्या – फलानाम् = वृक्षस्य प्रसवाणाम्, नाशे = उच्छेदे सति, कुलुत्थैः = कालवृन्तैः, माषैः = कुरुविन्दैः, मुद्गैः = सूपश्रेष्ठैः, यवैः = प्रवेटैः अश्वप्रियैर्वा, तिलैः = पूतधान्यैः, सह, शृतशीतपयःसेकः— शृतैः = उष्णीकृतैः, पश्चात् शीतैः = शीतलैः, पयोभिः = सलिलैः, सेकः = सिञ्चनम्, सर्वदा = सततम्, फलाय = शस्याय, पुष्पाय = कुसुमाय, भवतीति शेषः ॥५१ ॥

हिन्दी – यदि पेड़ के फल नष्ट हो तो उसके लिए कुलथी, उडद, जौ, मूंग तथा तिल में से किसी एक को पानी में डालकर उबाल ले । फिर पानी ठंडा कर उससे सिंचाई करने पर फल पेड़ में टिकेंगे ॥ ५१ ॥

फलनाशे इति । फलानां नाशे वृक्षस्येति शेषः, कुलुत्यैः, माषैः, मुद्गैः, यवैः, तिलैर्वा सह शृतशीतपयोभिः उष्णीकृतैः पश्चात् शीतलैः पयोभिः जलैः सेकः सर्वदा फलपुष्पाय फलानां पुष्पाणाञ्च अनाशाय भवति ॥ ५१ ॥

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनाम् ॥ ५२ ॥

अन्वयः— मत्स्याम्भसा सेकेन शाखिनां वृद्धिः भवति ॥५२ ॥

व्याख्या — मत्स्याम्भसा = मीनप्रक्षालनजलेन, सेकेन – सिञ्चनेन, शाखिनाम् = वृक्षाणाम्, वृद्धिः = संवर्द्धनं भवति ॥ ५२ ॥

हिन्दी — मछलियों के धोवन से सिंचाई करने पर पौधे बढ़ते हैं ॥ ५२ ॥

मत्स्याम्भसेति । मत्स्याम्भसा मत्स्यक्षालनजलेन सेकेन शाखिनां वृक्षाणां वृद्धिः भवति ॥ ५२ ॥

आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।

गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।

उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ ५३ ॥

अन्वयः– आविकाजशकृच्चूर्णं यवचूर्णं तिलानि गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् । उत्सेकः सर्ववृक्षाणां फलानां पुष्पाणाञ्च वृद्धिदः भवति ॥ ५३ ॥

व्याख्या — आविकाजानाम् = एडकानाम् अजानाञ्च यानि शकृन्ति = पुरीषाणि, तेषां चूर्णे = क्षोदे, यवचूर्णम् = यज्ञान्नपिष्टम्, तिलानि = पूतधान्यानि, गोमांसम्, उदकञ्च = जलञ्च, सम्मेल्य, सप्तरात्रम् = सप्तरात्रिपर्यन्तम्, निधापयेत् = वृक्षमूलेषु स्थायेत् । उत्सेकः = उक्तचूर्णादिमिश्रितजलसिञ्चनम्, सर्वेषाम् = सकलानां वृक्षाणाम्, फलानाम् = शस्यानाम्, पुष्पाणाम् = कुसुमादीनाम्, च, वृद्धिदः = वर्द्धको भवति ॥५३ ॥

हिन्दी – भेंड और बकरी की विष्ठा का चूर्ण, तिल और जौ के चूर्ण, गोमांस और पानी मिलाकर सात रात तक जिस पेड़ की जड़ में दिया जाय, उसकी वृद्धि निश्चित होगी ॥५३ ॥

आविकेति । आविकाजानां मेषछागलानां यानि शकृन्ति पुरीषाणि तेषां चूर्णं यवचूर्णं तिलानि गोमांसम् उदकञ्च सप्तरात्रं निधापयेत् वृक्षमूलेषु दद्यादित्यर्थः । उत्सेकः उक्तचूर्णादिदानं सर्वेषां वृक्षाणां फलानां पुष्पाणाञ्च वृद्धिदः वर्द्धकः ॥ ५३ ॥

ये च कण्टकिनो वृक्षाः खदिराद्यास्तथा परे ।

आरण्यकास्ते विज्ञेयास्तेषां तत्र नियोजनम् ॥ ५४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 160

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५७२ शुक्रनीति: अन्वयः — ये वृक्षाः कण्टकिनः अपरे खदिराद्याः ते आरण्यकाः विज्ञेयाः । तत्र तेषां नियोजयेत् ॥ ५४ ॥

व्याख्या — ये वृक्षाः = तरवः कण्टकिनः = कण्टकाकीर्णाः, अपरे = अन्ये, खदिराद्याः = कपित्थप्रभृतयः, ते = वृक्षाः, आरण्यकाः = वन्याः, विज्ञेयाः = ज्ञातव्याः । तेषाम् = वृक्षाणाम्, तत्र = अरण्ये एव, नियोजयेत् = रोपयेदिति ॥ ५४ ॥

हिन्दी — जो पेड़ कंटीले और कत्था आदि के हैं वे जंगली हैं । उन्हें चाहिए ॥ ५४ ये चेति विज्ञेयाः, तेषां ॥ । ये वृक्षाः कण्टकिनः कण्टकावृताः, तथा अपरे खदिराद्याश्च वृक्षाणां तत्र अरण्ये नियोजनं रोपणं कार्य्यमिति शेषः ॥५४ खदिराश्मन्तशाकाग्निमन्थश्योनाकबब्बुलाः 1 तमालशालकुटजधवार्जुनपलाशकाः ॥ सप्तपर्णशमीतुन्नदेवदारुविकङ्कताः I करमर्देइदी भूर्जविषमुष्टिकरीरकाः ॥

शल्लकौ काश्मरी पाठा तिन्दुको बीजहारकः ।

हरीतकी च भल्लात: शम्पाकोऽर्कश्च पुष्करः ॥

अरिमेदश्च पीतद्रुः शाल्मलिश्च विभीतकः ।

नरवेलो महावृक्षोऽपरे ये मधुकादयः ॥

प्रतानवत्यः स्तम्बिन्यो गुल्मिन्यश्च तथैव च ।

ग्राम्या ग्रामे वने वन्या नियोज्यास्ते प्रयत्नतः ॥

जंगल में ही लगाना ते आरण्यकाः वन्याः ॥ ५५ ॥ ५६ ॥ ५७ ॥। ५८ ॥ ५ ९ ॥ अन्वयः — खदिराश्मन्तशाकाग्निमन्थश्योनाकबब्बुलाः तमालशालकुटजधवार्जुनपलाशकाः सप्तपर्णशमीतुन्नदेवदारुविकङ्कताः करमर्देङ्गुदीभूर्जविषमुष्टिकरीरकाः शल्लकी काश्मरी पाठा तिन्दुकः बीजहारकः हरीतकी भल्लातः शम्पाकः अर्कः पुष्करः अरिमेदः पीतद्रुः शाल्मलिः विभीतकः नरवेलः महावृक्षः च तथा मधुकादयः अपरे ये वृक्षाः याश्च प्रतानवत्यः स्तम्बिन्यः गुल्मिन्यः ते ग्राम्याः ग्रामे वन्याः वने प्रयत्नतः नियोज्याः ॥ ५५-५९ ॥ व्याख्या– खदिरः = कपित्थः, अश्मन्तशाकः = सागवानः, अग्निमन्थः = अरणी, श्योनाकः = = श्येनिकः बब्बुलः = बर्बुरः कण्टालुश्चेति, तमालः = कालस्कन्धः, शालः = शङ्कुवृक्षः, कुटजः = आवखोटः, धवः = = 1 पिशाचवृक्षः, अर्जुनः = अरण्यवृक्षः, पलाशः = किंशुकः, सप्तपर्णः = सप्तच्छदः, शमी = शिवा_वा केशमथनी, तुन्नः = नदीवृक्षः, देवदारुः = अमर्त्यतरुः, विकङ्कतः = विकङ्कः, करमर्दः = ‘ करौंदा ’ इति भाषायाम्, इङ्गुदी = वृक्षविशेषः, भूर्जः = भोजपत्रवृक्षः, विषमुष्टिः = = कुचिला, करीरकः = क्रकर: गूढपत्रो वेति, शल्लकी = ' सलई ' इति ख्यातः, काश्मरी = खम्भारः, पाठा = पाडरः, तिन्दुकः = कालस्कन्धः, बीजसारकः = विजयसारः, हरीतकी = अभया वा रसायनफला, भल्लातः = शम्पाकः, अर्क: = मन्दारः, पुष्करः = पोहकरः, अरिमेदः = दुर्गन्धः, पीतद्रुः = खदिरः, शाल्मलिः = तूलवृक्षः, विभीतकः = कलिद्रुमः भूतवासो वा, नरवेलः, महावृक्षः = विशालतरुः, तथा मधुकादयः = मधुद्रुमादयः, अपरे = अन्ये, ये = द्रुमाः, याश्च प्रतानवत्यः = दीर्घशाखिनः, स्तम्बिन्यः = स्तबकशालिन्यः, गुल्मिन्यः = गुल्मवत्यः, मूलवत्यश्च लताः, ते = ताश्च, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA