शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 161–170
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 161–170
पृष्ठ 161
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५७३ ग्राम्याश्चेत् = ग्रामिका भवेत्, ग्रामे = आवसथे, चेत् = यदि, वन्याः = आरण्यकाः, तर्हि वने = अरण्ये, प्रयत्नतः = सायासेन, नियोज्याः = रोपणीयाः इति ॥ ५५-५९ ॥ हिन्दी – खैर, अश्मन्तक ( वृक्ष - विशेष, जिसके रेशों से ब्राह्मण की तगड़ी बनाई जाती है ), सागवान, अरणी के पेड़, सोनापाठा, बबूल, आबनूस, सखुआ, कुटज ( खोरयाँ ), अर्जुन, पलाश, धव ( एक प्रकार का पेड़ ), छतवन, शमी, तूत, देवदारु, विकङ्कत, करौंदा, इंगुदी, भोजपत्र, कुचिला, करीर, सलई, खम्भार, पाढर, तेंदू, विजयसार, हरड़, भिलावा, शम्पाक, आक, पोहकर, दुर्गन्ध, खैर, पीतद्रु, सेमल, बहेड़ा नरवेल, महावृक्ष और अन्य जो महुआ आदि एवं लम्बी - पतली डालों वाली, गुच्छों वाली, गुल्मों वाली लताएँ हैं- इनमें जो गाँव में होने वाली हैं, इन्हें गाँव में और जो जंगली हैं, इन्हें जंगल में ही लगाना चाहिए॥५५-५९ ॥ खदिरेत्यादि । खदिरः, अश्मन्तशाकः, अग्निमन्थः, श्योनाकः, बब्बुलः, तमालः, शालः, कुटजः, धवः, अर्जुनः, पलाशः, सप्तपर्णः, शमी, तुन्न, देवदारुः, विकङ्कतः, करमर्दः, इङ्गुदी, भूर्ज, विषमुष्टिः, करीरकः, शल्लकी, काश्मरी, पाठा, तिन्दुकः, बीजसारकः, हरीतकी, भल्लातः, शम्पाकः, अर्क:, पुष्करः, अरिमेदः, पीतद्रुः शाल्मलिः, विभीतकः, नरवेल, महावृक्षः तथा मधूकादयः अपरे ये वृक्षाः, याश्च प्रतानवत्यः विस्तारवत्यः स्तम्बिन्यः गुच्छवत्यः गुल्मिन्यः मूलवत्यश्च लताः, ते ताश्च ग्राम्याश्चेत् ग्रामे, वन्याश्चेत् वने प्रयत्नतः नियोज्याः रोपणीयाः ॥ ५५-५९ ॥ कूपवापीपुष्करिण्यस्तडागाः सुगमास्तथा ।
कार्य्याः खाताद् द्वित्रिगुणविस्तारपदधानिका: ।
यथा तथा ह्यनेकाः स्युः राष्ट्रे स्याद्विपुलं जलम् ॥ ६० ॥
अन्वयः — कूपवापीपुष्करिण्यः तडागाः तथा कार्याः यथा खातात् द्वित्रिगुणविस्तारपदधानिकाः
सुगमाश्च अनेकाः स्युः । राष्ट्रे विपुलं जलं स्यात् ॥ ६० ॥
व्याख्या -कूपाः = जलरन्ध्राः, वाप्यः = = दीर्घिकाः, पुष्करिण्यः = कासाराः, तडागाश्च = सरोवराश्च, तथा कार्याः = विधेयाः, यथा = येन, खातात् = परिखातः, द्वित्रिगुणाः = द्विगुणाः वा त्रिगुणाः, विस्तारा: = विस्तृताः, यासां तादृश्यः, पदधानिका: = पदस्थापनस्थानानि, येषां = यासां, वा तादृशाः तादृश्यश्च, सुगमाश्च = सुकराश्च, अनेकाः = एकाधिकाश्च, स्युः = भवेयुः । तथा कृते सति, राष्ट्रे = जनपदे, विपुलम् = अत्यधिकम्, जलम् = सलिलम्, स्यात् = भवेत् ॥ ६० ॥
हिन्दी —कुआँ, बावड़ी, छोटा या बड़ा तालाब, जलाशय प्रभृति ऐसे बनवाने चाहिए जिसमें लोग आसानी से उतर सकें । जलाशय की गहराई से दुगुना या तीन गुना फैलाव में उसके चारों ओर सीढियाँ बनवानी चाहिए ॥ ६० ॥
कूपेति । कूपाः वाप्यः दीर्घिकाः पुष्करिण्यः तडागाश्च तथा कार्य्याः, यथा खातात् द्वित्रिगुणाः विस्ताराः यासां तादृश्यः पदधानिकाः पादसञ्चारस्थानानि येषां यासां वा तादृशाः तादृश्यश्च
सुगमाश्च अनेकाश्च स्युः । तथा सति राष्ट्रे विपुलं प्रचुरं जलं स्यात् ॥ ६० ॥
नदीनां सेतवः कार्य्या विविधाः सुमनोहराः ।
नौकादिजलयानानि पारगाणि नदीषु च ॥ ६१ ॥
अन्वयः — नदीनां विविधाः सुमनोहराः सेतवः कार्याः, च नदीषु पारगाणि नौकादिजल-यानानि ॥ ६१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 162
पाठ पढ़ें पाठ छिपाएँ
५७४ शुक्रनीतिः व्याख्या – नदीनाम् = तटिनीनाम्, विविधाः = अनेकधाः, सुमनोहराः = सुष्ठुतया हृदयहारिणः, सेतवः = वारणाः, कार्या: = निर्मातव्याः, च = पुनः, नदीषु = स्रोतस्विनीषु, पारगाणि = पारगमनसाधनानि, नौकादि = तरण्यादि, जलयानानि = = ' पोताश्च, रक्षणीयानीति ॥ ६१ ॥
हिन्दी – नदियों में अनेक मनोहर पुलों का निर्माण करवाना चाहिए । साथ ही नदियों को पार करने के लिए नाव एवं जहाजों की भी व्यवस्था करनी चाहिए ॥ ६१ ॥
नदीनामिति । नदीनां विविधाः सुमनोहराः सेतवः कार्य्याः, तथा नदीषु पारगाणि पारगमनसाधनानि नौकादिजलयानानि रक्षणीयानीति शेषः ॥६१ ॥
यज्जातिपूज्यो यो देवस्तद्विद्यायाश्च यो गुरुः ।
तदालयानि तज्जातिगृहपङ्क्तिमुखे न्यसेत् ॥ ६२ ॥।
अन्वयः — यः देवः यज्जातिपूज्यः तद्विद्यायाः च यः गुरुः तज्जातिगृहपङ्क्तिमुखे तत् आलयानि न्यसेत् ॥६२ ॥
व्याख्या — यः = यत्, देवः = सुरः, यज्जातिपूज्यः– यत् = यस्याः, जातेः = वर्णस्य, पूज्यः = आराध्यः, तत् = तेषाम्, विद्यायाः = ज्ञानस्य, यः गुरुः = आचार्यः, तत् = तेषाम्, आलयानि- = गृहाणि, तत् = तेषाम्, जातीनाम् = वर्णानाम्, गृहपङ्क्तिमुखे = भवनश्रेण्यग्रे, न्यसेत् = स्थापयेत् ॥६२ ॥
हिन्दी — जिस जाति के जो आराध्य देवता हो तथा उन्हें विद्या सिखलाने वाला जो गुरु हो, उनका मन्दिर या घर उस जाति के लोगों की गृहश्रृंखला के सामने होना चाहिए ॥ ६२ ॥
यदिति । यो देवः यज्जातिपूज्यः यस्याः जातेः पूजनीयः, तद्विद्यायाः तद्देवसम्बन्धिन्याः विद्यायाः यो गुरुः, तदालयानि तस्य गृहाणि तज्जातीनां गृहपङ्क्तिमुखे गृहश्रेणीसम्मुखे न्यसेत् कुर्य्यात् ॥ ६२ ॥
शृङ्गाटके ग्राममध्ये विष्णोर्वा शङ्करस्य च ।
गणेशस्य रवेर्देव्याः प्रासादान् क्रमतो न्यसेत् ॥ ६३ ॥
अन्वयः — शृङ्गाटके वा ग्राममध्ये विष्णोः शङ्करस्य गणेशस्य रवेः च देव्याः क्रमतः प्रासादान् न्यसेत् ॥६३ ॥
व्याख्या- - शृङ्गाटके = ग्रामस्य चतुष्पथे वा, ग्राममध्ये = आवसथान्तराले, विष्णोः = हरेः, शङ्करस्य = हरस्य, गणेशस्य = विनायकस्य, रवेः = सूर्यस्य, देव्याः = दुर्गायाः, क्रमतः = क्रमेण, प्रासादान् = देवालयान्, न्यसेत् = स्थापयेत् ॥ ६३ ॥
हिन्दी — गाँव के चौराहे या गाँव के बीच में विष्णु, शिव, गणेश, सूर्य और देवी – इन पाँच देवताओं का मन्दिर क्रमशः बनवाना चाहिए ॥ ६३ ॥
शृङ्गाटके इति । शृङ्गाटके चतुष्पथे वा ग्राममध्ये विष्णोः शङ्करस्य गणेशस्य रवेः सूर्य्यस्य देव्याश्च प्रासादान् भवनानि क्रमात् न्यसेत् कुर्य्यात् ॥ ६३ ॥
मेर्वादिषोडशविधलक्षणान् सुमनोहरान् ।
वर्त्तुलांश्चतुरस्रान् वा यन्त्राकारान् समण्डपान् ॥ ६४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 163
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५७५ प्राकारगोपुरगणयुतान् द्वित्रिगुणोच्छ्रितान् ॥ यथोक्तान्तः सुप्रतिमान् जलमूलान्विचित्रितान् ॥ ६५ ॥
अन्वयः - मेर्वादिषोडशविधलक्षणान् सुमनोहरान् वर्तुलान् चतुरस्रान् वा यन्त्राकारान् समण्डपान् प्राकारगोपुरगणयुतान् द्वित्रिगुणोच्छ्रितान् यथोक्तान्तःसुप्रतिमान् जलमूलान् विचित्रितान् ॥ ६४-६५ ॥ व्याख्या — मेरुः = सुरालय, आदिर्येषां तादृशानि षोडशविधानि = षोडशप्रकाराणि, लक्षणानि = अभिज्ञानानि येषां तान्, सुमनोहरान् = सुष्ठुहृदयहारिणः, वर्तुलान् = गोलाकारान्, चतुरस्रान् = चतुष्कोणान्, यन्त्राकारान् = यन्त्रस्वरूपान्, समण्डपान् = मण्डपयुक्तान्, प्राकारैः = प्राचीरैः, गोपुरैः = पुरद्वारैः, गणैः = सेवकसमूहैः, युतान् = समन्वितान्, द्वित्रिगुणोच्छ्रितान् = द्विगुणितान् त्रिगुणितान् वा, उच्छ्रितान् = दैर्घ्यविस्तारापेक्षयेति, यथोक्तानाम् = पूर्वनिर्दिष्टानाम्, अन्तः = अन्तराले मध्ये वा, सुप्रतिमान् = सुन्दरदेवमूर्तियुक्तान्, जलमूलान् = चतुर्दिग् सलिल-युक्तान्, तथा विचित्रितान् = विशिष्टरूपेण चित्रितान्, प्रासादान् इति पूर्वेणान्वयः॥६४-६५ ॥ हिन्दी – जो मन्दिर मेरु आदि सोलह प्रकार के लक्षणों से युक्त, अत्यन्त आकर्षक गोलाकार, चौकोर या यंत्राकार युक्त मण्डप, परकोटा तथा प्रधान विशाल द्वारों से युक्त, सेवक - समूहों से युक्त, लम्बाई चौड़ाई से दूना या तिगुना ऊँचा हो, जिसके बीच में शास्त्रोक्त रीति से बनी सुन्दर देवमूर्तियाँ रखी हों और जिसके चारों ओर खाई में पानी भरा हो तथा जिसमें अनेक तरह के चित्र बने हों ॥ ६४-६५ ॥ प्रासादान् विशिनष्टि — मेर्वादीति । प्राकारेति । मेरुः आदिर्येषां तादृशानि षोडशविधानि लक्षणानि येषां तान् । सुमनोहरान् वर्त्तुलान् गोलाकृतीन् चतुरस्रान् चतुष्कोणान् यन्त्राकारान् संमण्डपान् सगृहान् प्राकारैः प्राचीरैः, गोपुरैः पुरद्वारैः गणैः परिचारकवर्गैश्च युतान् द्वित्रिगुणोच्छ्रितान् दैर्घ्यविस्तारापेक्षयेति शेषः, यथोक्तानामन्तः मध्ये शोभना प्रतिमा येषां तान् जलमूलान् जलयुक्तान् तथा विचित्रितान् विशेषेण चित्रितान् प्रासादानिति पूर्वेणान्वयः ॥ ६४-६५ ॥
रम्यः सहस्रशिखरः सपादशतभूमिकः ।
सहस्रहस्तविस्तारोच्छ्रायः स्यान्मेरुसंज्ञकः ॥ ६६ ॥
अन्वयः - सहस्रशिखरः सपादशतभूमिकः, सहस्रहस्तविस्तारोच्छ्रायः मेरुसंज्ञकः स्यात् ॥ ६६ ॥
व्याख्या — सहस्रम् = दशशतम्, शिखरम् = सानुम्, यस्य सः, पादशतैः = शतपादयुक्तैः, सह वर्त्तमाना भूमिः = पृथिवीम्, यस्य तथाभूतः, सहस्रहस्तविस्तारः = दशशतहस्तदीर्घः, तथा सहस्रहस्तोच्छ्रायः = उन्नतः, रम्यः = आकर्षकः, मन्दिरः, मेरुसंज्ञकः = मेरुनाम्ना ख्यातो भवतीति ॥ ६६ ॥
हिन्दी — जिस मन्दिर में एक हजार कंगूरे हों, एक सौ पचीस पग धरती में बने हों तथा हजार हाथ जिसका विस्तार एवं ऊँचाई हो, उसे मेरु कहा जाता है ॥ ६६ ॥
मेरुप्रभृतीन् क्रमशः लक्षयति — रम्य इति । सहस्रं शिखरं यस्य सः सहस्रशृङ्ग इत्यर्थः, पादशतैः सह वर्त्तमाना भूमिः यस्य तथाभूतः, सहस्रहस्तविस्तारः तथा सहस्रहस्तोन्नतः रम्यः प्रासादः मेरुसंज्ञकः मेरुरिति प्रसिद्धः ॥ ६६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 164
पाठ पढ़ें पाठ छिपाएँ
५७६ शुक्रनीतिः ततस्ततोऽष्टांशहीना अपरे मन्दरादयः ॥ ६७ ॥
अन्वयः — अपरे मन्दरादयः ततः अष्टांशहीनाः ॥ ६७ ॥
व्याख्या – अपरे = अन्ये, मेरुभिन्नाः मन्दरादयः, ततस्ततः = तत्पश्चात्, अष्टांशहीनाः = भागाष्टन्यूनाः । तद्यथा- – मेरोः मन्दराष्टांशहीनः, अक्षमाली मन्दराष्टांशहीनः द्युमणिः ऋक्षमालिनः अष्टांशहीनः ॥ ६७ ॥
हिन्दी —– इससे उत्तरोत्तर अष्टांशहीन अन्य मन्दर आदि नाम वाले मन्दिर हैं ॥ ६७ ॥
तत इति । अपरे मेरुभिन्नाः मन्दरादयः ततः ततः अष्टांशहीनाः तथा च मन्दरः मेरोः अष्टांशहीनः, ऋक्षमाली मन्दरात् अष्टांशहीनः, धुमणिः ऋक्षमालिनः अष्टांशहीन इत्यादि ॥ ६७ ॥
मन्दरो ऋक्षमाली च द्युमणिश्चन्द्रशेखरः ।
माल्यवान् पारियात्रश्च रत्नशीर्षश्च धातुमान् ॥ ६८ ॥
पद्मकोशः पुष्पहासः श्रीकरः स्वस्तिकाभिधः ।
महापद्मः पद्मकूटः षोडशो विजयाभिधः ॥ ६ ९ ॥
अन्वयो व्याख्या च सहैव नाममात्रोच्चारणत्वात् । अन्यान् पञ्चदश मन्दरादीन् निर्वक्ति— मन्दरः, ऋक्षमाली, द्युमणिः, चन्द्रशेखरः, माल्यवान् पारियात्रः, रत्नशीर्षः, धातुमान्, पद्मकोशः पुष्पहासः श्रीकरः स्वस्तिकाभिधः महापद्मः, पद्मकूटः तथा विजयः इति प्रसिद्धाः षोडशः ॥ ६८-६९ ॥ हिन्दी — जिनके नाम क्रमशः मन्दर, ऋक्षमाली, धुमणि, चन्द्रशेखर, माल्यवान्, पारियात्र, रत्नशीर्ष, धातुमान्, पद्मकोश, पुष्पहास, श्रीकर, स्वस्तिक, महापद्म, पद्मकूट और विजय — ये पन्द्रह ( आकृति के आधार पर मन्दिर के नाम ) है ॥ ६८-६९ ॥ अपरान् पञ्चदश मन्दरादीन् निर्वक्ति – मन्दर इत्यादि । मन्दरः, ऋक्षमाली, द्युमणिः, चन्द्रशेखरः, माल्यवान्, पारियात्रः, रत्नशीर्षः, धातुमान्, पद्मकोशः, पुष्पहासः, श्रीकरः, स्वस्तिकाभिधः स्वस्तिक इति प्रसिद्धः महापद्मः पद्मकूटः तथा विजयाभिधः विजय इति प्रसिद्धः षोडशः ॥ ६८-६९ ॥
तन्मण्डपश्च तत्तुल्य: पादन्यूनोच्छ्रितः पुरः ।
स्वाराध्यदेवताध्यानैः प्रतिमास्तेषु योजयेत् ॥ ७० ॥
अन्वयः – तत् मण्डपः तत्तुल्यः पादन्यूनोच्छ्रितः पुरः । तेषु स्वाराध्यदेवताध्यानैः प्रतिमाः योजयेत् ॥७० ॥
व्याख्या — तत् = तेषु मेर्वादयेषु, मण्डपः = देवगृहम्, तत् = तेषाम्, देवानाम्, तुल्यः = सदृशः, पादन्यूनोच्छ्रितः = चतुर्थांशेन हीनोन्नतः, पुरः = अग्रे कार्यः । तेषु = मण्डपेषु, स्वाराध्यायाः —– स्वस्य = आत्मनः, आराध्यायाः = पूजनीयस्य, देवताध्यानैः = आराध्यानुचिन्तनैः, प्रतिमाः = तन्मूर्त्तीः, योजयेत् = स्थापयेत् ॥ ७० ॥
हिन्दी — उन मन्दिरों के मण्डप उन्हीं के अनुरूप उनकी ऊँचाई से चतुर्थांश कम ऊँचे आगे की ओर बनाना चाहिए । उनमें अपने आराध्य देवताओं के ध्यान के अनुसार देवमूर्त्तियाँ स्थापित करनी चाहिए ॥ ७० ॥
तदिति । तेषु मेरुप्रभृतिषु मण्डपः देवताभवनं तत्तुल्यः तदनुरूपः पादन्यूनोच्छ्रितः चतुर्थांशेन CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 165
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५७७ हीनोच्छ्रायः पुरः पुरतः अग्रे कार्य्य इति शेषः, अत्र मण्डप इति पुंलिङ्गनिर्देश आर्षः । तेषु मण्डपेषु स्वाराध्यायाः देवतायाः ध्यानैः चिन्तनैः प्रतिमाः योजयेत् विन्यसेत् ॥७० ॥
ध्यानयोगस्य संसिद्ध्यै प्रतिमालक्षणं स्मृतम् ।
प्रतिमाकारको मत्त्र्त्यो यथा ध्यानरतो भवेत् ।
तथा नान्येन मार्गेण प्रत्यक्षेणापि वा खलु ॥ ७१ ॥
अन्वयः — ध्यानयोगस्य संसिद्ध्यै प्रतिमाकारकः मर्त्यः यथा ध्यानरतो भवेत् तथा
प्रतिमालक्षणं स्मृतम् । तथा अन्येन मार्गेण प्रत्यक्षेणापि न खलु ॥७१ ॥
व्याख्या — ध्यानयोगस्य = मोक्षोपायस्य, संसिद्ध्यै = सुष्ठुतया निष्पत्त्यै, प्रतिमाकारकः = मूर्त्तिकारः, मर्त्यः = मानवः, यथा = येन प्रकारेण, ध्यानरतः = अनुचिन्तनतत्परः, भवेत् = स्यात्, तथा = तेन रूपेण, प्रतिमायाः = मूर्तेः, लक्षणम् = अभिज्ञानम्, स्मृतम् = कथितम् । अन्येन = एतद्भिन्नेन, मार्गेण = पथा, प्रत्यक्षेणापि = अवलोकितेनापि, न = नहि, खलु = निश्चयेनेति ॥७१ ॥
हिन्दी – ध्यानयोग की भलीभाँति सिद्धि के लिए प्रतिमा रूपी साधन मुख्य कहा गया है । क्योंकि मूर्त्तिकार मानव जैसे ध्यान में लीन हो जाता है, वैसे निश्चय ही अन्य मार्ग से या प्रत्यक्ष देवदर्शन से भी ध्यान में लीन नहीं हो सकता है ॥ ७१ ॥
ध्यानेति । ध्यानयोगस्य संसिद्ध्यै सम्यक् सिद्धये प्रतिमाकारकः प्रतिमानिर्माणकर्त्ता मर्त्यः यथा ध्यानपरः भवेत् तथा प्रतिमालक्षणं स्मृतं निरूपितम्, अन्येन मार्गेण पथा प्रकारेणेत्यर्थः, प्रत्यक्षेणापि दृष्टेनापि न खलु नैव ॥७१ ॥
प्रतिमा सैकती पैष्टी लेख्या लेप्या च मृण्मयी ।
वार्क्षी पाषाणधातूत्था स्थिरा ज्ञेया यथोत्तरा ॥ ७२ ॥
अन्वयः– प्रतिमा सैकती पैष्टी लेख्या लेप्या मृण्यमयी वार्क्षी पाषाणधातूत्था च यथोत्तरा स्थिरा ज्ञेया ॥ ७२ ॥
व्याख्या — प्रतिमा = अनुकृतिः, सैकती = सिकतानिर्मिता, पैष्टी = चूर्णिततण्डुलादिनिर्मिता, लेख्या = चित्रिता, लेप्या = लेपमयी, मृण्मयी = मृत्तिकानिर्मिता, वार्क्षी = काष्ठनिर्मिता, पाषाण-निर्मिता, धातूत्था = धातुनिर्मिता च, यथोत्तरा = पूर्वापेक्षया चोत्तरा, स्थिरा = स्थायिनी, ज्ञेया = बोध्या ॥७२ ॥
हिन्दी - प्रतिमा बालू की, चावल आदि के पिसान की, चित्र की, लेप की, मिट्टी की, काठ
की, पत्थर की और धातु की बनती है । ये उत्तरोत्तर अधिक स्थायी होती हैं ॥७२ ॥
सम्प्रति प्रतिमाया उपादानान्याह — प्रतिमेति । प्रतिमा सैकती सिकतामयी, पैष्टी पिष्टमयी, लेख्या चित्रिता, लेप्या लेपमयी, मृण्मयी, वार्क्षी, दारुमयी, पाषाणमयी, धातूत्था धातुमयी च यथोत्तरा स्थिरा स्थायिनी ज्ञेया, तथा च सैकतीमपेक्ष्य पैष्टी, पैष्टीमपेक्ष्य लेख्या, लेख्यामपेक्ष्य मृण्मयी, मृण्मयीमपेक्ष्य वार्क्षी, वार्क्षीमपेक्ष्य पाषाणमयी, पाषाणमयीमपेक्ष्य धातूमयी स्थिरेति निष्कर्षः ॥७२ ॥
यथोक्तावयवैः पूर्णा पुण्यदा सुमनोहरा ।
अन्यथायुर्धनहरा नित्यं दुःखविवर्द्धिनी ॥ ७३ ॥
३७ श. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 166
पाठ पढ़ें पाठ छिपाएँ
५७८ शुक्रनीतिः अन्वयः — यथोक्तावयवैः पूर्णा सुमनोहरा च पुण्यदा । अन्यथा आयुर्धनहरा नित्यं दुःखविवर्धिनी ॥ ७३ ॥
व्याख्या — यथोक्तेन = यथाशास्त्रनिर्दिष्टेन, अवयवेन = गात्रेण, पूर्णा = परिपूर्णा, प्रतिमा = मूर्त्तिः, सुमनोहरा = सुष्ठुचेतोहरा, च = पुनः, पुण्यदा = पुण्यप्रदा । अन्यथा = विपरीते सति, आयुः = जीवनम्, धनम् = वित्तञ्च, हरा = हारिणी च, तथा नित्यम् = सततम्, दुःखविवर्द्धिनी = कष्टदायिनी च भवति ॥ ७३ ॥
हिन्दी — शास्त्रवर्णित नियम के अनुसार यदि प्रतिमा सर्वाङ्गपूर्ण हो तो वह पुण्य देने वाली एवं मनोहारिणी होती है । अन्यथा निरन्तर दुःख तो बढ़ाती ही है, आयु और धन भी हर लेती है ॥७३ यथोक्तेति ॥ । यथोक्तेन यथाशास्त्रकथितेन अवयवेन पूर्णा प्रतिमा पुण्यदा सुमनोहरा च । अन्यथा आयुर्धनहरा जीवनहारिणी चेत्यर्थः, तथा नित्यं सततं दुःखविवर्द्धिनी भवति ॥७३ ॥
देवानां प्रतिबिम्बानि कुर्य्याच्छ्रेयस्कराणि च ।
स्वर्ग्याणि मानवादीनामस्वर्ग्याण्यशुभानि च ॥ ७४ ॥
अन्वयः — देवानां प्रतिबिम्बानि श्रेयस्कराणि च कुर्यात् स्वर्ग्याणि च । मानवादीनाम् अशुभानि अस्वर्ग्याणि चेति ॥७४ ॥
व्याख्या — देवानाम् = देवतानाम्, प्रतिबिम्बानि = प्रतिरूपाणि, श्रेयस्कराणि = कल्याणसाध-कानि, कुर्यात् = सम्पादयेत्, च = पुनः, स्वर्ग्याणि = स्वर्गसाधकानि । मानवादीनाम् = मनुष्यप्रभृतीनां, प्रतिमा, अशुभानि = अमङ्गलानि, अस्वर्ग्याणि = नरकाय, च भवति ॥७४ ॥
हिन्दी — देवप्रतिमा की स्थापना शुभद एवं स्वर्गसाधक होती है, किन्तु मानवादि की प्रतिमा की स्थापना अमंगलदायक एवं नरक के लिए ही होती है ॥ ७४ ॥
देवानामिति । देवानां प्रतिबिम्बानि प्रतिमाः श्रेयस्कराणि शुभकराणि कुर्य्यात्, तानि मानवादीनां स्वर्ग्याणि स्वर्गसाधनानि, अशुभानि तु अस्वर्ग्याणि भवन्तीति शेषः ॥७४ ॥।
मानतो नाधिकं हीनं तद्विम्बं रम्यमुच्यते ॥ ७५ ॥
अन्वयः — तद्विम्बं मानतः अधिकं हीनं वा रम्यं न उच्यते ॥७५ ॥
व्याख्या — तत् = तेषां देवतानाम्, बिम्बम् = प्रतिमूर्त्तिः, मानतः परिमाणात्, अधिकम् = प्रभूतम्, हीनम् = न्यूनम्, वा रम्यम् = रमणीयम्, न =: - नहि, उच्यते = कथ्यते ॥७५ ॥
हिन्दी— देवप्रतिमा शास्त्रोक्त मान से न अधिक और न कम होने पर ही रमणीय एवं कल्याणकारी होती है ॥७५ ॥
मानत इति । तद्विम्बं तेषां देवानां बिम्बं प्रतिमा मानतः परिमाणात् अधिकं हीनं वा रम्यं श्रेयस्करं न उच्यते, तस्मात् यथोक्तानुरूपमेव कर्त्तव्यमिति भावः ॥७५ ॥
अपि श्रेयस्करं नृणां देवबिम्बमलक्षणम् ।
सलक्षणं मर्त्यबिम्बं न हि श्रेयस्करं सदा ॥ ७६ ॥
अन्वयः – अलक्षणं देवबिम्बं नृणां श्रेयस्करं, किन्तु सलक्षणं मर्त्यबिम्बं सदा नहि श्रेयस्करम् ॥ ७६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 167
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५७ ९ व्याख्या – अलक्षणम् = विपरीतलक्षणमपि, देवबिम्बम् = देवतायाः प्रतिमा, नृणाम् = पुरुषाणाम्, श्रेयस्करम् = कल्याणकरं भवति । किञ्च, सलक्षणम् = शुभलक्षणयुक्तमपि, मर्त्यबिम्बम् = मनुष्यमूर्त्तिः, सदा = सततम्, नहि = नैव, श्रेयस्करम् = शुभावहं भवति ॥७६ ॥
हिन्दी — देवप्रतिमा शास्त्रोक्त लक्षणों से रहित होने के बावजूद मनुष्य के लिए कल्याण-कारक होती है । किन्तु मनुष्य की प्रतिमा सुलक्षण युक्त होने पर भी सदा कल्याणकारिणी नहीं ही होती है ॥ ७६ ॥
अपीति । अलक्षणं विरुद्धलक्षणमपि देवबिम्बं देवमूर्त्तिः नृणां श्रेयस्करं, किन्तु सलक्षणं सुष्ठु लक्षणयुक्तमपि मत्र्त्यबिम्बं मानवप्रतिमूर्त्तिः सदा नहि नैव श्रेयस्करं, तस्मात् मानवप्रतिमूर्त्तिर्नेव रक्षणीयेति भावः ॥ ७६ ॥
सात्त्विकी राजसी देवप्रतिमा तामसी त्रिधा ।
विष्ण्वादीनां च या यत्र योग्या पूज्या तु तादृशी ॥ ७७ ॥
अन्वयः - देवप्रतिमा त्रिधा - सात्त्विकी, राजसी तामसी च । यत्र विष्ण्वादीनां या योग्या तादृशी तु पूज्या ॥ ७७ ॥
व्याख्या — देवप्रतिमा = देवानां मूर्त्तयः, त्रिधा = त्रिप्रकारकाः भवन्ति, सात्त्विकी = सतोगुणसम्पन्ना, राजसी = रजोगुणसम्पन्ना, तामसी = तमोगुणसमन्विता, च । यत्र = = यस्मिन् स्थाने, विष्ण्वादीनाम् = विष्णुप्रभृतीनाम्, या = = प्रतिमा, योग्या = अनुरूपा, तादृशी = तदनुरूपा, पूज्या = पूजनीयेति ॥ ७७ ॥
हिन्दी — विष्णु प्रभृति देवताओं की प्रतिमा तीन तरह की होती हैं - सात्त्विकी, राजसी और तामसी । फिर जहाँ के लिए जो प्रतिमा उपयुक्त हो वहाँ उसी की पूजा करनी चाहिए ॥ ७७ ॥
सात्त्विकीति । देवप्रतिमा त्रिधा, सात्त्विकी राजसी तामसी च । यत्र विष्ण्वादीनां विष्णुप्रभृतीनां या मूर्तिः योग्या यदनुरूपा तादृशी पूज्या तदनुरूपा पूजा कार्य्येत्यर्थः ॥७७ ॥
योगमुद्रान्विता स्वस्था वराभयकरान्विता ।
देवेन्द्रादिस्तुतनुता सात्त्विकी सा प्रकीर्त्तिता ॥ ७८ ॥
अन्वयः – या योगमुद्रान्विता स्वस्था वराभयकरान्विता देवेन्द्रादिस्तुतनुता सा सात्त्विकी प्रकीर्त्तिता ॥ ७८ ॥
व्याख्या — या = प्रतिमा, योगमुद्रान्विता – योगस्य = चित्तवृत्तिनिरोधस्य, या मुद्रा = शरीरस्य तदवयवानाञ्च स्थितिविशेषः, तया अन्विता = युक्ता, स्वस्था = स्वभावस्थिता, वराभय-करान्विता = अनुग्रहाभयदानोद्यतभुजा, तथा देवेन्द्रादिभिः = सुरेन्द्रप्रभृतिभिः, स्तुता = ईडिता, नुता = नमस्कृता, सा मूर्त्तिः सात्त्विकी = सतोगुणसम्पन्ना, प्रकीर्त्तिता = कथितेति ॥ ७८ ॥
हिन्दी — जो प्रतिमा योगमुद्रायुक्त, स्वाभाविक अवस्था में स्थित, वरदान और अभयदान देने की मुद्रा से युक्त हाथों वाली है तथा इन्द्र प्रभृति देवगण जिसकी स्तुति और नुति कर रहे हों, वह प्रतिमा सात्त्विकी कहलाती है ॥७८ ॥
योगमुद्रेति । या मूर्त्तिः योगमुद्रान्विता योगेन युक्त्या मुद्रया यथोक्तभङ्गया च अन्विता, स्वस्था स्वभावस्थिता वराभयकरान्विता वरदानाभयदानोद्यतभुजा, तथा देवेन्द्रादिभिः स्तुता नुता प्रणता, सा सात्त्विकी प्रकीर्त्तिता ॥ ७८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 168
पाठ पढ़ें पाठ छिपाएँ
५८० शुक्रनीतिः
तिष्ठन्ती वाहनस्था वा नानाभरणभूषिता ।
या शस्त्रास्त्राभयवरकरा सा राजसी स्मृता ॥ ७ ९ ॥
अन्वयः — या वाहनस्था तिष्ठन्ती नानाभरणभूषिता तथा शस्त्रास्त्राभयकरा, सा राजसी स्मृता ॥ ७ ९ ॥ व्याख्या — या = प्रतिमा, वाहने = याने, स्थिता, नानाभरणभूषिता = अनेका- लङ्कारशोभिता, तथा शस्त्रास्त्राभयवरकरा = करैरायुधधारिणी, अभयदायिनी वरदायिनी च, सा = = मूर्त्तिः, राजसी = रजोगुणसम्पन्ना, स्मृता = कथितेति ॥ ७ ९ ॥ हिन्दी – जो प्रतिमा किसी सवारी पर बैठी हो, अनेक आभूषणों से सुशोभित हो, अस्त्र - शस्त्र से सुसज्जित हो तथा वरदान एवं अभयदान की मुद्रा में हो तो उसे राजसी प्रतिमा कहते हैं ॥ ७ ९ ॥ तिष्ठन्तीति । या मूर्त्तिः वाहने सिंहादौ स्थिता नानाभरणभूषिता तथा शस्त्रास्त्राभयवरकरा करैः शस्त्रधारिणी अस्त्रधारिणी अभयदायिनी वरदायिनी चेत्यर्थः, सा राजसी स्मृता ॥ ७ ९ ॥
शस्त्रास्त्रैर्दैत्यहन्त्री या ह्यग्ररूपधरा सदा ।
युद्धाभिनन्दिनी सा तु तामसी प्रतिमोच्यते ॥ ८० ॥
अन्वयः — या शस्त्रास्त्रैः दैत्यहन्त्री सदा उग्ररूपधरा युद्धाभिनन्दिनी सा तामसी प्रतिमा उच्यते ॥ ८० ॥
व्याख्या — या = मूर्त्तिः, शस्त्रैः = आयुधैः, अस्त्रैश्च = क्षेपणिभिश्च, दैत्यहन्त्रीम् = दानवविनाशिनीम्, सदा = सततम्, उग्ररूपा = प्रचण्डाकृतिः, युद्धाभिनन्दिनी = समरोत्सुका, सा = मूर्तिः, तामसी = तमोगुणसम्पन्ना, प्रतिमा = मूर्त्तिः, उच्यते = कथ्यते ॥ ८० ॥
हिन्दी — जो प्रतिमा हथियार लिए दैत्यों को मारने के लिए तैयार हो, प्रचण्ड रूप धारण करने वाली हो, युद्ध के लिए सदैव समुद्यत हो, उसे तामसी प्रतिमा कहते हैं ॥ ८० ॥
शस्त्रास्त्रैरिति । या प्रतिमा शस्त्रैः अस्त्रैश्च दैत्यहन्त्री दितिजसंहारिणी, सदा उग्ररूपधरा भीषणाकृतिः युद्धाभिनन्दिनी समरोत्सुका, सा तामसी उच्यते ॥८० ॥
सङ्क्षेपतस्तु ध्यानोदि विष्ण्वादीनां तथोच्यते ।
प्रमाणं प्रतिमानां च तदङ्गानां सुविस्तरम् ॥ ८१ ॥
अन्वयः – विष्ण्वादीनां ध्यानादिः प्रतिमानां तदङ्गानां सुविस्तरं प्रमाणं सङ्क्षेपतः उच्यते ॥ ८१ ॥
व्याख्या – विष्ण्वादीनाम् = विष्णुप्रभृतिदेवतानाम्, ध्यामादिः = चित्तस्थैर्यकरणोपायादिः, प्रतिमानाम् = मूर्त्तीनाम्, तदङ्गनाम् — तत = तेषाम्, अङ्गानाम् = शरीरावयवानाम्, सुविस्तृतम् = सुष्ठुतया विस्तारसहितम्, प्रमाणम् = निदर्शनम्, सङ्क्षेपतः = समासेन, उच्यते = कथ्यते ॥ ८१ ॥
हिन्दी — विष्णु प्रभृति देवताओं का ध्यान तथा उनकी प्रतिमाओं के अङ्गों का जैसा प्रमाण मिलता है, उसका अब संक्षेप में हम वर्णन करते हैं ॥ ८१ ॥
सङ्क्षेपत इति । विष्ण्वादीनां ध्यानादि, तथा प्रतिमानां तदङ्गानां सुविस्तरं प्रमाणं सङ्क्षेपतः उच्यते ॥ ८१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 169
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५८१
स्वस्वमुष्टेश्चतुर्थोऽशो ह्यङ्गुलं परिकीर्त्तितम् ।
तदङ्गलैर्द्वादशभिर्भवेत् तालस्य दीर्घता ॥ ८२ ॥
अन्वयः — स्वस्वमुष्टेः चतुर्थः अंशः अङ्गुलं परिकीर्त्तितम् । तदङ्गुलैः द्वादशभिः तालस्य दीर्घता भवेत् ॥ ८२ ॥
व्याख्या — स्वस्वमुष्टे- 2. स्वस्य = आत्मनः, स्वस्य च = आत्मनश्च, मुष्टेः = मुष्टिकायाः, चतुर्थः = तुरीयः, अंशः = भागः, अङ्गुलं, परिकीर्त्तितम् = कथितम् । तदङ्गुलैः - तत् = = तै:, अङ्गुलैः = अङ्गुलिभिः, द्वादशभिः = द्वयाधिकदशभिः, दीर्घता = लम्बता, तालस्य = तालाख्यस्य, भवेत् = स्यात् ॥ ८२ ॥
हिन्दी — अपनी - अपनी मुट्ठी की एक चौथाई एक अंगुल कहलाती है की लम्बाई एक ताल मानी जाती है ॥ ८२ ॥
स्वस्वेति । स्वस्वमुष्टेः आत्मनः मुष्टेः चतुर्थः अंशः अङ्गुलं परिकीर्त्तितम् तालस्य दीर्घता भवेत् तालाख्यं परिमाणं भवेदित्यर्थः ॥ ८२ ॥
वामनी सप्तताला स्यादष्टताला तु मानुषी ।
नवताला स्मृता दैवी राक्षसी दशतालिका ॥ ८३
और बारह अंगुलियों । द्वादशभिः तैः अङ्गुलैः ॥ अन्वयः– सप्तताला वामनी स्यात्, अष्टताला तु मानुषी, नवताला दैवी तथा दशतालिका राक्षसी स्मृता ॥ ८३ ॥
व्याख्या — सप्तताला = सप्तहस्तप्रमाणा मूर्त्तिः, वामनी = खर्वा खट्टनी वा, स्यात् = भवेत्, अष्टताला = अष्टतालमिता, तु मानुषी = मानुषीया, प्रतिमा भवति, नवताला = नवतालमिता मूर्त्तिः, दैवी = देवतासम्बन्धिनी भवति, तथा दशतालिका = दशतालमिता प्रतिमा तु, राक्षसी = दानवी, । स्मृता = कथिता ॥ ८३ ॥
हिन्दी - सात ताल ऊँची प्रतिमा वामनी, आठ ताल ऊँची मानुषी, नौ ताल ऊँची दैवी तथा दश ताल ऊँची प्रतिमा दानवी कहलाती है ॥ ८३ ॥
वामनीति । सप्तताला सप्ततालपरिमिता मूर्त्तिः वामनी स्यात्, अष्टताला तु मानुषी, नवताला दैवी तथा दशतालिका राक्षसी स्मृता ॥ ८३ ॥
सप्ततालाद्युच्चता वा मूर्त्तीनां देशभेदतः ।
सदैव स्त्री सप्तताला सप्ततालश्च वामनः ॥ ८४ ॥
अन्वयः — वा देशभेदतः मूर्तीनां सप्ततालाद्युच्चता । स्त्री सदैव सप्तताला, किञ्च वामनः सप्ततालः ॥ ८४ ॥
व्याख्या — वा = अथवा, देशभेदतः = स्थानभेदेन, मूर्त्तीनाम् = प्रतिमानाम्, सप्ततालाद्युच्चता = सप्ततालमितोच्चता । तथा च स्त्री = देवीनां प्रतिमा, सदैव = सर्वस्मिन् काले स्थाने वा, सप्तताला = सप्ततालपरिमिता एव कार्येति । किञ्च वामनः = विष्णोः वामनमूर्त्तिः, सप्ततालः = सप्ततालपरिमितैव कार्यः ॥ ८४ ॥
हिन्दी – अथवा देशभेद के कारण ही प्रतिमा की ऊँचाई सात ताल मानी गई है । अन्यथा देवी की मूर्त्ति ' CC एवं - 0. JK भगवान Sanskrit विष्णु Academy की, Jammmu वामन मूर्ति . Digitized सात by तालु S3 ऊँची Foundation ही मानी गई है ॥ ८४ ॥
पृष्ठ 170
पाठ पढ़ें पाठ छिपाएँ
५८२ शुक्रनीतिः सप्तेति । वा अथवा देशभेदतः देशभेदेन मूर्त्तीिनां सप्ततालाद्युच्चता, तथा च कुत्रचित् देशे सप्तताला, कुत्रचित् अष्टताला, क्वचिद्वा नवताला इत्यादि । स्त्री देवमूर्त्तिरित्यर्थः, सदैव सप्तताला सप्ततालपरिमिता कार्य्येति शेषः । किञ्च वामनः वामनमूर्त्तिः विष्णुः सप्ततालः कार्य्य इति शेषः ॥ ८४ ॥
नरो नारायणो रामो नृसिंहो दशतालकः ।
दशतालः स्मृतो बाणो बलीन्द्रो भार्गवोऽर्जुनः ॥ ८५ ॥
अन्वयः — नरः नारायणः रामः नृसिंहः दशतालकः । बाणः बली इन्द्रः भार्गवः अर्जुनः दशतालः स्मृतः व्याख्या— ॥ ८५ ॥ नरः = नराख्यो मूर्त्तिभेदः, नारायणः = विष्णुः रामः = दाशरथिः, नृसिंहः =
नरसिंहश्च, एतेषां देवतानां प्रतिमा, दशतालकः = दशतालमितोच्चा, भवितव्या । तथा च बाणः = एतदाख्यः, बली = दैत्यराजः, इन्द्रः = सुरपतिः, भार्गवः = परशुरामः, अर्जुनः = पार्थश्च, एतेषां प्रतिमानाम् उच्चता, दशतालः = दशतालपरिमितमेव भवितव्यम् ॥ ८५ ॥
हिन्दी – नर, नारायण,, राम और नृसिंह की प्रतिमा दशताल ऊँची होनी चाहिए तथा बाणासुर, बली, इन्द्र, परशुराम तथा अर्जुन की प्रतिमा भी दस ताल ऊँची होनी चाहिए ॥८५ ॥
नर इति । नरः नराख्यः मूर्त्तिभेदः, नारायणः रामः नृसिंहश्च दशतालकः तथा बाणः बली इन्द्रः भार्गवः अर्जुनश्च तत्तदाख्यमूर्त्तिभेद इत्यर्थः, दशतालः ड भैरववेतालनरसिंहवराहकाः ।
क्रूरा द्वादशतालाः स्युर्हयशीर्षादयस्तथा ।
ज्ञेया षोडशताला तु पैशाची वासुरी सदा ॥ ८६ ॥
अन्वयः — चण्डी भैरववैतालनरसिंहवराहकाः तथा हयशीर्षादयः क्रूरा: पैशाची तथा राक्षसी मूर्त्तिः सदा षोडशताला ज्ञेया ॥ ८६ ॥
दशालपरिमितः ।
स्मृतः ॥८५ ॥
द्वादशतालाः स्युः । व्याख्या — चण्डी = पार्वती, भैरवः = शङ्करः,, वैतालः = भूतभेदः, नरसिंहः = विष्णोश्चतुर्था-वतारः, वाराहः = शूकरः विष्णोरवतारविशेषः, तथा हयशीर्षादयः = हयग्रीवप्रभृतयः, ये, क्रूराः = भीषणाः, देवमूर्त्तयः, तेषां द्वादशतालाः = द्वादशतालपरिमितोच्चाः, मूर्त्तयः स्युः = भवेयुरिति । | पैशाची = आसुरी, तथा राक्षसी = दानवी प्रतिमा, सदा =: सर्वदा, षोडशताला: षडधिकदशतालपरिमिता मूर्त्तिः, ज्ञेया = बोध्या ॥ ८६ ॥
हिन्दी — चण्डी, भैरव, वैताल, नरसिंह, वराह तथा हयग्रीव आदि क्रूर देवताओं की प्रतिमा बारह ताल ऊँची तथा पैशाची और राक्षसी प्रतिमा सोलह ताल ऊँची सदा बनाने को कही गई है ॥ ८६ ॥
चण्डीति । चण्डी, भैरवः, वेताल:, नरसिंहः, वराहः, तथा हयशीर्षादयः क्रूराः भीषणाः मूर्त्तिभेदाः द्वादशतालाः स्युः । पैशाची तथा राक्षसी मूर्त्तिः सदा षोडशताला ज्ञेया ॥ ८६ ॥
हिरण्यकशिपुर्वृत्रो हिरण्याक्षश्च रावणः ।
कुम्भकर्णोऽथ नमुचिर्निशुम्भः शुम्भ एव हि ।
एते षोडशतालाः स्युर्माहिषो रक्तबीजकः ॥ ८७ ॥
पञ्चतालाः स्मृता बालाः षट्तालाश्च कुमारकाः ॥ ८८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA