शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 241–250
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 241–250
पृष्ठ 241
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६५३ राजाधिकवेशधरः १ ९, तथा यः विधृतः विशेषेण धृतः न तु नियोगमात्रेणेति भावः, प्रविशेत् प्रभुसन्निधिमिति शेषः २०, यश्च अपद्वारेण द्वारव्यतिरिक्तेन मार्गेणेत्यर्थः, तथा अवेलायाम् अयथासमये इत्यर्थः, विशेत् परगृहमिति शेषः २१-२२, श्य्यासने शय्यायाम् आसने च तथा पादुके इति नपुंसकनिर्देश आर्पः; पादुकायामित्यर्थः, शयनासनरोहणे शयने आसने उपवेशने रोहणे पादस्पर्शने च सर्वत्र परकीये इति बोद्धव्यम्, अननुमत्या तत्तत्कारीत्यर्थः २३-२५, यश्च आसन्नशयने शयनारूढे राज्ञि समीपतः सत्सन्निधौ तिष्ठति २६, राज्ञः विद्विष्टसेवी शत्रुसेवकः २७, अदत्तं विहितं गृहीतम् आसनम् अवस्थानं येन तथोक्तः अननुमत्या परगृहस्थायीत्यर्थः २८, अन्यस्य वस्त्राभरणयोः स्वर्णस्य च परिधायकः २ ९ -३१, यश्च स्वयंग्राहेण बलेन ताम्बूलं परकीयमिति भावः, गृहीत्वा भक्षयेत् ३२, अनियुक्तः सन् प्रभाषी वक्ता ३३, नृपाक्रोशकः राजनिन्दकः ३४, एकवासाः एकवस्त्रः ३५, अभ्यक्तः तैलाक्तदेहः ३६, मुक्तकेशः अबद्धशिराः ३७, अवकुण्ठितः ३८, विचित्रिताङ्गः चित्रितशरीरः ३ ९, स्रग्वी ४०, परिधानस्य परिधेयवसनस्य विधूनकः कम्पकः ४१, शिरःप्रच्छादकः अवगुण्ठितः ४२, छिद्रान्वेषणतत्परः परदोषानुसन्धायी ४३, आसङ्गी व्यसनासक्तः ४४, मुक्तवेशः त्यक्तपरिच्छदः ४५, घ्राणकर्णाक्षिदर्शकः नासाकर्णनेत्राणां प्रदर्शनकारी ४६-४८, दन्तोल्लेखनकः दन्तानाम् उल्लेखनकारी ४ ९, तथा कर्णनासाविशोधकः ५०, राज्ञः समीपे एतानि पञ्चाशत् छलानि दोषाः सन्ति हिशब्दोऽवधार-णार्थः॥७३-८२ ॥
आज्ञोल्लङ्घनकारित्वं स्त्रीवधो वर्णसङ्करः ।
परस्त्रीगमनं चौर्य्यं गर्भश्चैव पतिं विना ॥। ८३ ॥
वाक्पारुष्यमवाच्याद्यं दण्डपारुष्यमेव च ।
गर्भस्य पातनं चैवेत्यपराधा दशैव तु ॥ ८४ ॥
अन्वयः — आज्ञोल्लङ्घनकारित्वं स्त्रीवधः वर्णसङ्करः परस्त्रीगमनं चौर्यं पतिं विना गर्भः वाक्पारुष्यम् अवाच्याद्यं दण्डपारुष्यं गर्भस्य पातनञ्च - एते तु दश अपराधाः ॥ ८३-८४ ॥ व्याख्या — आज्ञायाः = आदेशस्य, उल्लङ्घनकारित्वम् = व्यतिक्रमत्वम्, स्त्रीवधः = नारी-हत्या, वर्णसङ्करः = साङ्करिकः, परस्त्रीगमनम् = परदारानुरागी, चौर्य्यम् = तस्करत्वम्, पतिं विना गर्भः = अन्यपुरुषेण गर्भधारणम्, वाक्पारुष्यम् = कठोरवाक्यत्वम्, अवाच्याद्यम् = अकथनीय-शब्दानां प्रयोगः, दण्डपारुष्यम् = कठोरप्रहारः, गर्भस्य = भ्रूणस्य पातनम् = - 1 विनाशनम्, एते = पूर्वपरिगणिताः, दश = दशसंख्यकाः, अपराधाः = दोषाः भवन्तीति ॥ ८३-८४ ॥ हिन्दी – १. आज्ञा का उल्लंघन करना, २. नारी की हत्या करना, ३. विजातीय विवाह से वर्णसंकर पैदा करना, ४. परस्त्रीगामी होना, ५. चोरी करना, ६. पति के अलावा अन्य पुरुष से गर्भ धारण करना, ७. कठोर वचन बोलना, ८. नहीं बोलने योग्य बातें बोलना, ९. कठोर दण्ड देना और १०. गर्भपात करना - ये दस अपराध हैं ॥ ८३-८४ ॥ आज्ञेति । वागिति । आज्ञाया उल्लङ्घनकारित्वम् आज्ञालङ्घनं १, स्त्रीवधः २, वर्णसङ्करः ३, परस्त्रीगमनं ४, चौर्य्यं ५, पतिं विना गर्भः अन्येनेति भावः ६, वाक्पारुष्यं ७, अवाच्याद्यम् अवक्तव्यवाक्यप्रयोगादि ८, दण्डपारुष्यं प्रहारः ९, गर्भस्य पातनञ्च १०, एते दश अपराधाः ॥ ८३-८४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 242
पाठ पढ़ें पाठ छिपाएँ
६५४ शुक्रनीतिः
उत्कृती शस्यघाती चाप्यग्निदश्च तथैव च ।
राज्ञो द्रोहप्रकर्त्ता च तन्मुद्राभेदकस्तथा ॥ ८५
तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ।
अस्वामिविक्रयं दानं भागं दण्डं विचिन्वति ॥ ८६
पटहाघोषणाच्छादी द्रव्यमस्वामिकञ्च यत् ।
राजावलीढद्रव्यं च यच्चैवाङ्गविनाशनम् ॥ ८७
द्वाविंशतिपदान्याहुर्नृपज्ञेयानि पण्डिताः ॥ ८८
॥
॥
॥
॥
अन्वयः — उत्कृती शस्यघाती तथैव अग्निदः राज्ञः द्रोहकर्त्ता तन्मुद्राभेदकः तथा तन्मन्त्रस्य प्रभेत्ता च बद्धस्य विमोचकः अस्वामिविक्रयं दानं भागं दण्डञ्च विचिन्वति, पटहाघोषणाच्छादी अस्वामिकं यत् द्रव्यं च राजावलीढद्रव्यं तथा अङ्गविनाशनम् – एतानि द्वाविंशतिपदानि नृपज्ञेयानि पण्डिताः आहुः ॥ ८५-८८ ॥ व्याख्या — उत्कृती = उद्वेजकः, शस्यघाती = शस्यनाशकः, अग्निदः = धान्यागारगृहादिषु चाग्निदायी, राज्ञः = नृपस्य द्रोहकर्ता = विद्वेषी, तन्मुद्राभेदक: — तत् = तस्य नृपस्य, मुद्रा-भेदकः = राजकीयचिह्नविनाशकः, तस्य = नृपस्य मन्त्रस्य = गुप्तरहस्यस्य, प्रभेत्ता = भेदकः, बद्धस्य = कारानिबद्धस्य, विमोचक: = मुक्तकारी, यः पुरुषः, अस्वामिकम् = स्वामिविहीनम्, द्रव्यस्य = धनस्य, विक्रयम् = विपणनम्, दानम् = प्रत्यर्पणम्, भागम् = अंशम्, दण्डश्च = दमनश्च, विचिन्वति = अन्विच्छति, सः पटहाघोषणाच्छादी - पटहेन = डिण्डिभेण, यत् आघोषणम् [ = = प्रख्यापणम्, तस्य आच्छादी = प्रच्छादनकारी, किञ्च अस्वामिकम् = अदायिकः, द्रव्यम् = धनम्, राजावलीढद्रव्यम् = नृपाधिकृतं धनम्, तथा अङ्गविनाशनम् = शरीरावयवविनाशकरणम्, एतानि = पूर्ववर्णितदशापराधसहितानि, द्वाविंशतिपदानि = द्वयाधिकविंशतिविवादस्थानानि, नृपेण = राज्ञा, ज्ञेयानि = बोध्यानि, इति, पण्डिताः = बुद्धिमन्तो जनाः, आहुः = कथयन्ति ॥ ८५-८८ ॥ हिन्दी –१. बेचैन करने वाला, २. फसल नष्ट करने वाला, ३. घर में आग लगाने वाला, ४. राजद्रोह करने वाला, ५. राजचिह्न को मिटाने वाला, ६. राजा के गुप्त रहस्य को प्रकाशित करने वाला, ७. कैदियों को जेल से भगाने वाला, ८. लावारिस वस्तुओं को बेचने वाला, ९. किसी के दान, हिस्सा या दण्ड को समाप्त कर देने वाला, १०. राजा ने जिसकी डुग्गी पिटवाई हो, उसे छिपाने वाला, ११. लावारिस धन लेने वाला तथा १२. किसी को काटकर अङ्गहीन बनाने वाला — पहले कहे गये दस अपराधों के साथ ये कुल बाईस राजा के द्वारा पद अर्थात् विवाद के स्थान बतलाये गये हैं, जिन्हें बुद्धिमानों को जानना चाहिए॥८५-८८ ॥ उत्कृतीत्यादि । उत्कृती उद्वेजकः १, शस्यघाती शस्यनाशकः २, अग्निदः गृहादिषु अग्निदायी ३, राज्ञः द्रोहकर्त्ता अनिष्टकारकः ४, तन्मुद्राभेदकः तस्य राज्ञः मुद्राभेदकः चिह्ननाशकः ५, तस्य मन्त्रस्य प्रभेत्ता प्रकाशक: ६, बद्धस्य कारास्थितस्य विमोचकः विमोचनकारी ७, य: अस्वामिविक्रयं स्वामिशून्यस्य द्रव्यस्य विक्रयं दानं भागं दण्डश्च विचिन्वति अन्विच्छति सः ८, पटहेन वाद्यविशेषेण यत् आघोषणं तस्य आच्छादी गोपनकारकः ९, एतेषां कार्य्याणीति शेषः, किञ्च अस्वामिकं द्रव्यं १०, राजावलीढद्रव्यं राजग्रस्तम् अन्यस्वामिकं द्रव्यमित्यर्थः ११, तथा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 243
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६५५ अङ्गविनाशनम् अङ्गहानिकरणम् १२, एतानि पूर्वोक्तदशापराधसहितानि द्वाविंशतिपदानि विवादस्थानानि नृपेण ज्ञेयानि इति पण्डिताः आहुः कथयन्ति ॥८५-८८ ॥
उद्धतः क्रूरवाग्वेशो गर्वितश्चण्ड एव हि ।
सहासनश्चातिमानी वादी दण्डमवाप्नुयात् ॥ ८ ९ ॥
अन्वयः – वादी उद्धतः क्रूरवाक् क्रूरवेशः गर्वितः चण्डः सहासनः अतिमानी च दण्डम् अवाप्नुयात् ॥ ८ ९ ॥ व्याख्या — वादी = अभियोगी, चेत् = यदि, उद्धतः = उद्दण्डः, क्रूरवाक् = तीक्ष्णभाषी, क्रूरवेशः = निर्दयकर्मकरणोपयोगिवेशः, गर्वितः = अहङ्कारी, चण्डः = = प्रचण्डक्रोधी, सहासनः = विचारपतिना सह समानोपवेशने उपविष्टः, अतिमानी = अत्यन्ताभिमानी, भवेत्तदा, दण्डम् = दमनम्, अवाप्नुयात् = प्राप्नुयात् ॥८ ९ ॥ हिन्दी — जो अभियोगी उद्दण्ड स्वभाव वाला, कठोर वचन बोलने वाला, निर्दय वेश - भूषा वाला, गर्वीला, अत्यन्त क्रोधी, विचारपति के साथ उसी के आसन पर बैठने वाला तथा अति अभिमानी यदि हो तो उसे दण्ड देना चाहिए ॥ ८ ९ ॥ उद्धत इति । वादी उद्धतः कर्कशः, क्रूरवाक् निष्ठुरभाषी, क्रूरवेशः निष्ठुरकार्य्यकरणोपयोगिवेशः, गर्वितः चण्डः कोपनः सहासनः विचारपतिना सहासनोपविष्टः, अतिमानी च चेत् तदा दण्डम् अवाप्नुयात् ॥ ८ ९ ॥
अर्थिना कथितं राज्ञे तदावेदनसंज्ञकम् ।
कथितं प्राड्विवाकादौ सा भाषाखिलबोधिनी ॥ ९ ० ॥
स पूर्वपक्ष: सभ्यादिस्तं विमृश्य यथार्थतः ।
अर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं त्यजेत् ॥ ९ १ ॥
अन्वयः - अर्थिना राज्ञे यत् कथितं तत् आवेदनसंज्ञकं प्राड्विवाकादौ कथितम्, यत् सा अखिलबोधिनी भाषा सः पूर्वपक्षः उच्यते । सभ्यादिः अर्थितः सन् तं यथार्थतः विमृश्य तत् हीनं चेत् पूरयेत् अधिकञ्च तत् साक्ष्यं त्यजेत् ॥ ९ ० - ९ १ ॥ व्याख्या — अर्थिना = अभ्यर्थिना, राज्ञे -- नृपाय, यत् कथितम् = लिखितम्, तत् = लेखपत्रम्, आवेदनम् = आवेदनसंज्ञकम्, भवति, यत्, प्राड्विवाकादौ = न्यायाधीशप्रभृतौ, कथितम् = वाचा निवेदितम्, सा = = वाणी, अखिलबोधिनी = सर्वज्ञापिनी, भाषा इति कथिता, सः = तदेव, पूवपक्ष इत्युच्यते, सभ्यादिः = विचारार्थनियुक्तसांसदादयः, अर्थितः = याचितः सन्, तम् = - ' पूर्वपक्षम्, यथार्थतः = तथ्यतः, विमृश्य = विचार्य, हीनम् = अल्पम्, चेत् = यदि, पूरयेत् = पूर्णं कुर्यात्, अधिकम् = विशेषम्, चेत्, तदा तस्य पूर्वपक्षस्य, साक्ष्यम् = प्रेक्षकम् त्यजेत् = परित्यागं कुर्यात् ॥९ ० - ९ १ ॥ हिन्दी — राजा के पास अभियोगी जो प्रार्थनापत्र प्रस्तुत करता है, उसे आवेदन अर्थात् दावा या अर्जी कहते हैं और जज के सामने वादी जो कुछ कहता है, उसे भाषा अर्थात् बयान कहते हैं । यह बयान सभी बातों को समझाने वाला होता है, इसे पूर्वपक्ष कहते हैं । जूरी प्रभृति उसी बयान पर यथार्थ रूप से विचार कर जो कमी हो उसे वादी से पूछकर उसे पूरा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 244
पाठ पढ़ें पाठ छिपाएँ
६५६ शुक्रनीति: कर ले और यदि अधिक हो तो गवाही के आधार पर उसे छोड़कर विचार करे ॥ ९ ० - ९ १ ॥ अर्थिनेति । स इति । अर्थिना राज्ञे यत् कथितं तत् आवेदनसंज्ञकम् आवेदनमिति कथितमित्यर्थः, प्राड्विवाकादौ कथितं यत् सा अखिलबोधिनी समप्रप्रबोधिका भाषा । पूर्वपक्षश्च उच्यते इति शेषः । सभ्यादिः विचारालयनियुक्तः पुरुषादिः अर्थितः प्रार्थितः सन् अर्थिनेति शेषः, तं पूर्वपक्षं यथार्थतः विमृश्य विविच्य हीनं चेत् पूरयेत्, अधिकञ्च तत्साक्ष्यं तस्य पूर्वपक्षस्य साक्ष्यं त्यजेत् ॥९ ० - ९ १ ॥ वादिनश्चिह्नितं साक्ष्यं कृत्वा राजा विमुद्रयेत् ॥ ९ २ ॥ अन्वयः — राजा साक्ष्यं वादिनः चिह्नितं कृत्वा विमुद्रयेत् ॥९ २ ॥ व्याख्या — राजा = नृपः, साक्ष्यम् = प्रत्यक्षम् वादिनः = अभ्यर्थिनः, चिह्नितम् = हस्ता-क्षरितम्, कृत्वा = विधाय, विमुद्रयेत् = विशेषरूपेण तमावेदनं मुद्राङ्कितं कुर्यात् ॥ ९ २ ॥ हिन्दी — उस बयान पर उसके अंगूठे का निशान लेकर राजा उस पर अपनी मुहर लगा दे । वादी का यह बयान भी एक तरह का साक्ष्य ही है ॥ ९ २ ॥ वादिन इति । राजा साक्ष्यं वादिनः चिह्नितं कृत्वा विमुद्रयेत् विशेषेण मुद्राङ्कितं कुर्य्यात् ॥९ २ ॥ अशोधयित्वा पक्षं ये ह्युत्तरं दापयन्ति तान् ।
रागाल्लोभाद् भयाद् वापि स्मृत्यर्थे वाधिकारिणः ।
सभ्यादीन् दण्डयित्वा तु ह्यधिकारान्निवर्त्तयेत् ॥ ९ ३ ॥
अन्वयः — ये अधिकारिणः रागात् लोभात् भयात् वा पक्षम् अशोधयित्वा उत्तरं दापयन्ति, तान् स्मृत्यर्थे दण्डयित्वा अधिकारात् निवर्त्तयेत् ॥ ९ ३ ॥ व्याख्या — ये [: = जनाः, अधिकारिणः = पदाधिकारिवर्गः, लोभात् = लिप्सायाः, रागात् = अनुरागात्, भयात् = भीत्याः, वा = अथवा, पक्षम् = पूर्वपक्षम्, अशोधयित्वा = संशोधनं_कृतं विना, उत्तरम् = प्रतिपक्षात्प्रतिवचनम्, दापयन्ति = गृह्णन्ति, तान् = सांसदः, स्मृत्यर्थे = निन्दितं कृतमिदमिति स्मरणार्थम्, दण्डयित्वा = दमनं कृत्वा, अधिकारात् = सांसदपदात्, निवर्त्तयेत् = परावर्त्तयेदिति ॥९ ३ ॥ हिन्दी – जो सभासद प्रेम, लोभ या भय से वादीपक्ष का सही ढंग से जाँच किये बिना ही प्रतिवादी पक्ष से उत्तर दिलवाते हैं, उन्हें ' भविष्य में ऐसा न करें ' इसकी स्मृति हेतु उन पदाधिकारी जूरी - पंचों को राजा पदच्युत कर दे ॥ ९ ३ ॥ अशोधयित्वेति । ये अधिकारिणः राजपुरुषाः रागात् लोभात् अशोधयित्वा उत्तरं दापयन्ति तान् सभ्यादीन् स्मृत्यर्थे एतत् गर्हितं दण्डयित्वा अधिकारात् तत्तत्पदान्निवर्त्तयेत् भ्रंशयेत् ॥ ९ ३ ॥
ग्राह्याग्राह्यं विवादन्तु सुविमृश्य समाश्रयेत् ।
सञ्जातपूर्वपक्षं तु वादिनं सन्निरोधयेत् ॥
राजाज्ञया सत्पुरुषैः सत्यवाग्भिर्मनोहरैः ।
निरालसेङ्गितज्ञैश्च दृढशस्त्रास्त्रधारिभिः ॥
भयाद् वा पक्षं पूर्वपक्षम् कृतमिति स्मरणार्थमित्यर्थः, ९ ४ ॥ ९ ५ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 245
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६५७ अन्वयः– राजा विवादं ग्राह्याग्राह्यं सुविमृश्य समाश्रयेत् । सञ्जातपूर्वपक्षं वादिनम् आज्ञया सत्यवाग्भिः मनोहरैः निरालसैः इङ्गितज्ञैः दृढशस्त्रास्त्रधारिभिः सत्पुरुषैः सन्निरोधयेत् ॥ ९ ४ - ९ ५ ॥ व्याख्या –— राजा = नृपः, विवादम् = कलहम्, ग्राह्याग्राह्यम् – ग्राह्यम् = ग्रहणीयम्, अग्राह्यम् =: अस्वीकार्यम्, सुविमृश्य = सुष्ठुतया विचार्य, ग्राह्यं चेत्, समाश्रयेत् = सम्यक्प्रकारेण गृह्णीयात् । किञ्च सञ्जातपूर्वपक्षम् = कृतपूर्वपक्षम्, वादिनम्, आज्ञया = = 1 निजादेशेन, सत्यवाग्भिः = सत्यवादिभिः, मनोहरैः = सुदर्शनैः, निरालसैः = आलस्यरहितैः, इङ्गितज्ञैः = सङ्केतज्ञैः दृढशस्त्रास्त्रधारिभिः = सबलसायुधैः, सत्पुरुषैः = सज्जनैः, सन्निरोधयेत् = आसेधयेत् ॥ ९ ४ - ९ ५ ॥ हिन्दी – राजा मुकदमा लेने योग्य है अथवा नहीं — इसका ठीक ढंग से विचार कर यदि योग्य हो तो उसे स्वीकार करे । फिर वादी का बयान जब पूरा हो जाय तब उसे अपनी आज्ञा से सत्यवादी, सुन्दर, तत्पर और इशारे को समझने वाले सबल हथियारबन्द सज्जन सिपाहियों से आगे कुछ कहने से रोकवा दे॥९ ४ - ९ ५ ॥ ग्राह्येति । राजेति । राजा विवादं ग्राह्याग्राह्यं ग्राह्यम् अग्राह्यं वा सुविमृश्य सुविविच्य ग्राह्यञ्चेत् समाश्रयेत् गृह्णीयात् । किञ्च सञ्जातपूर्वपक्षं कृतपूर्वपक्षं वादिनम् आज्ञया स्वस्य आदेशेन सत्यवाग्भिः मनोहरैः निरालसैः इङ्गितज्ञैः दृढशस्त्रास्त्रधारिभिः सत्पुरुषैः सन्निरोधयेत् आसेधयेत् ॥९ ४ - ९ ५ ॥ वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावदाह्वानदर्शनम् ।
प्रत्यर्थिनं तु शपथैराज्ञया वा नृपस्य च ॥ ९ ६ ॥
अन्वयः — विवादार्थी वक्तव्ये अर्थे अतिष्ठन्तं तद्वचः उत्क्रामन्तं प्रत्यर्थिनं यावदाह्वानदर्शनं शपथैः वा नृपस्य आज्ञया आसेधयेत् ॥९ ६ ॥ व्याख्या – विवादार्थी = अभ्यर्थी जनः, वक्तव्ये = कथनीये, अर्थे = प्रयोजने, अतिष्ठन्तम् = न स्थितो भवन्तम्, तत् = तस्य, वचः = वचनम्, उत्क्रामन्तम् = अतिक्रामन्तम्, प्रत्यर्थिनम् = प्रतिवादिनम्, यावदाह्वानदर्शनम् — यावद्रित्यवधारणे, आह्वानदर्शनम् = आकारितावलोकनमात्रेण, शपथैः = प्रतिज्ञाभिः, वा = अथवा, नृपस्य = राज्ञः, आज्ञया = आदेशेन, आसेधयेत् = अवरोधयेत् ॥९ ६ ॥ हिन्दी —– वादी यदि अपना वक्तव्य दे रहा हो या उसके वक्तव्य का अतिक्रमण कर बुलाने पर प्रतिवादी आ जाय तो उसे देखते ही ' सौगन्ध ' दिलाकर या राजा की आज्ञा से रोक देना चाहिए ॥ ९ ६ ॥ वक्तव्ये इति । विवादार्थी जनः वक्तव्ये अर्थे अतिष्ठन्तं तद्वचः तस्य वचनम् उत्क्रामन्तम् अतिक्रामन्तं प्रत्यर्थिनं यावदाह्वानदर्शनम् आह्वानानन्तरदर्शनमात्रेणेत्यर्थः, शपथैः वा नृपस्य आज्ञया आसेधयेत् अवरोधयेत्॥९ ६ ॥
स्थानसेधः कालकृत: प्रवासात् कर्मणस्तथा ।
चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥ ९ ७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 246
पाठ पढ़ें पाठ छिपाएँ
६५८ शुक्रनीतिः अन्वयः- —आसेधः चतुर्विधः स्यात् — स्थानसेधः, कालकृतः, प्रवासात् तथा कर्मणः । आसिद्धः तं न विलङ्घयेत् ॥९ ७ ॥ व्याख्या — आसेधः = अवरोधः, चतुर्विधः = चतुःप्रकारकः स्यात् = भवेत्, तद्यथा— स्थानसेधः = क्षेत्रीयावरोध:, कालकृतः = समयसापेक्ष्यावरोधः, प्रवासात् = प्रवासजन्यावरोधः, तथा कर्मासेधः — कर्मणा = स्वकर्मणा, समुत्पनावरोधः, आसिद्धः = प्रतिरुद्धः । तथा, तम् = आसेधम्, न = = नहि, विलङ्घयेत् = अतिक्रमेत् ॥९ ७ ॥ हिन्दी — आसेध अर्थात् ' रोक ' चार तरह की होती है— स्थानजन्य रोक, प्रवासजन्य रोक तथा स्वकर्मकृत रोक । प्रतिरुद्ध व्यक्ति इस रोक करे ॥ ९ ७ ॥ स्थानासेध इति । आसेधः चतुर्विधः — स्थानासेधः, कालकृतः, प्रवासात् तथा कर्मणः कर्मासेध इत्यर्थः । आसिद्धः तथा अवरुद्धः जनः तम् आसेधं न
यस्त्विन्द्रियनिरोधेन व्याहारोच्छासनादिभिः ।
आसेधयदनासेधैः स दण्ड्यो न त्वतिक्रमी ॥ ९ ८ ॥
रोक, समयसापेक्ष का अतिक्रमण न प्रवासासेध इत्यर्थः, विलङ्घयेत् ॥९ ७ ॥ अन्वयः — यस्तु इन्द्रियनिरोधेन व्याहारेण उच्छासनादिभिः अनासेधैः आसेधयेत् सः दण्ड्यः, न तु अतिक्रमी ॥ ९ ८ ॥ व्याख्या — यः = पुरुषः, इन्द्रियनिरोधेन – इन्द्रियाणाम् = मलमुत्रादिद्वाराणाम्, निरोधेन = = प्रतिरोधेन, व्याहारेण = निष्ठुरवचनेन, उच्छासनादिभिः = कठोरादेशादिभिः, अनासेधैः- = अनर्गलावरोधैः, आसेधयेत् = वादिप्रतिवादिनावरोधयेत्, सः = आसेधकः, दण्ड्यः = दण्डनीयः, न तु, अतिक्रमी = आसेधातिक्रमणकारीति ॥९ ८ ॥ हिन्दी – यदि कोई मल - मूत्र त्याग कर निरोध से, कठोर वचनों से अथवा अनर्गल प्रशासन जैसे अयोग्य रोक लगाकर वादी या प्रतिवादी को राके तो ऐसे रोक लगाने वाला अधिकारी दण्डनीय होता है, न कि रोक नहीं मानने वाला व्यक्ति ॥९ ८ ॥ य इति । यस्तु इन्द्रियनिरोधेन इन्द्रियाणां मलमूत्रादिद्वाराणां निरोधेन व्याहारेण कटुवाक्येन उच्छासनादिभिः उत्कटशासनादिभिश्च अनासेधैः अयोग्यासेधप्रकारैरित्यर्थः, आसेधयेत् अवरोधयेत् वादिनं प्रतिवादिनं वा इति शेषः, सः दण्ड्यः दण्डनीयः, न तु अतिक्रमी एतद्वैपरीत्येन आसेधकारी न तु दण्ड्या इति भावः॥९ ८ ॥
आसेधकाल आसिद्ध आसेधं योऽतिवर्त्तते ।
स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग् भवेत् ॥ ९९ ॥
अन्वयः — यः आसेधकाले आसिद्धः आसेधम् अतिवर्त्तते सः विनेयः । आसेद्धा च अन्यथा \ कुर्वन् दण्डभाक् भवति ॥९९ ॥
व्याख्या — यः = जनः, आसेधकाले = अवरोधसमये, आसिद्धः = प्रतिरुद्धः, तत्पश्चात्, आसेधम् = अवरोधम्, अतिवर्त्तते = उल्लङ्घयति, सः = असौ, विनेयः = दण्ड्यः । च = पुनः, आसेद्धा = प्रतिरोधकर्त्ताऽपि, अन्यथा = इतरथा, कुर्वन् = विदधन्, दण्डभाक् = दण्डभागी च, भवेत् = स्यात् ॥ ९९ ॥
हिन्दी — जो अवरोध के समय अवरुद्ध होकर फिर अवरोध का उल्लङ्घन करता है, वह CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 247
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६५ ९ दण्डनीय होता है । फिर अनुचित रोक लगाने वाला पदाधिकारी भी दण्डभागी होता है ॥९९ ॥
आसेधकाल इति । यः आसेधकाले अवरोधकाले आसिद्धः अवरुद्धः आसेधम् अतिवर्त्तते लङ्घयतीत्यर्थः, सः विनेयः दण्ड्यः, आसेद्धा च अन्यथा कुर्वन् तभाक् भवेत् ॥ ९९ ॥
यस्याभियोगं कुरुते तत्त्वेनाशङ्कयाथवा ।
तमेवाह्वानयेद्राजा मुद्रया पुरुषेण वा ॥ १०० ॥
अन्वयः – तत्त्वेन अथवा आशङ्कया यस्य अभियोगं कुरुते, राजा मुद्रया वा पुरुषेण तम् एव आह्वानयेत् ॥ १०० ॥
व्याख्या - तत्त्वेन = तथ्येन, अथवा = वा, आ॒शङ्कया = सन्देहेन, यस्य = जनस्प. अभियोगम् = व्यवहारम्, कुरुते, राजा = नृपः, मुद्रया = स्वनामाङ्कितलेख्येन, वा = अथवा, पुरुषेण = राजपुरुषेण, तम् = अभियोगिनम् एव, आह्वानयेत् = आकारयेत् ॥ १०० ॥
हिन्दी — वस्तुतः या संदेहवश जिसके ऊपर मुकदमा दायर किया गया हो, उसे ही राजकीय मुहर लगे पत्र द्वारा या सरकारी सेवक भेजकर न्यायालय में बुलाये ॥ १०० ॥
यस्येति । तत्त्वेन याथार्थ्येन अथवा आशङ्कया सन्देहेन यस्य अभियोगं कुरुते, राजा मुद्रयां स्वनामाङ्कितलेख्येन वा पुरुषेण राजपुरुषेण तम् एव आह्वानयेत् आह्वयेदित्यर्थः ॥ १०० ॥
शङ्कासतां तु संसर्गादनुभूतकृतेस्तथा ।
होढाभिदर्शनात् तत्त्वं विजानाति विचक्षणः ॥ १०१ ॥
अन्वयः — असतां संसर्गात् तथा अनुभूतकृतेः होढाभिदर्शनात् विचक्षणः तत्त्वं विजानाति ॥ १०१ ॥
व्याख्या — असताम् = दुर्जनानाम्, संसर्गात् = सम्पर्कात्, तथा साक्षाज्ज्ञाता, या कृतिः = क्रिया, तथा शङ्का = सन्देहः, तथा अपहृतद्रव्यम्, लोप्त्रम्, अभिदर्शनात् = तस्यावलोकनात्, विचक्षणः = विजानाति = विशेषेणावगच्छतीति ॥ १०१ ॥
हिन्दी— दुर्जनों के साथ सम्पर्क होने या अपराधी के किसी करके अभियुक्त पर अपराध की आशंका होती है और लुटे गये लोग अपराध की वास्तविकता को जान लेते हैं ॥ १०१ ॥
अनुभूतकृतेः– अनुभूता = होढाभिदर्शनात् — होढा = विद्वज्जनः, तत्त्वम् = तथ्यम्, काम को देखकर अनुमान धन को देखकर बुद्धिमान् शङ्केति । असतां दुर्जनानां संसर्गात् तथा अनुभूतकृतेः अनुभूता अनुमिता या कृतिः क्रिया तथा अनुमापककार्य्यादित्यर्थः, शङ्का तथा होढाभिदर्शनात् होढा लोप्त्रम् अपहृतद्रव्यमित्यर्थः, तस्य अभिदर्शनात् विचक्षणः विज्ञो जनः तत्त्वं निश्चयं विजानाति ॥ १०१ ॥
अकल्यबालस्थविरविषमस्थक्रियाकुलान् ।
कार्य्यातिपातिव्यसनिनृपकार्य्योत्सवाकुलान् ।
मत्तोन्मत्तप्रमत्तार्त्तभृत्यान् नाह्वानयेन्नृपः ॥ १०२ ॥
अन्वयः - नृपः अकल्यबालस्थविरविषमस्थक्रियाकुलान् कार्यातिपातिव्यसनिनृप-कार्योत्सवाकुलान् मत्तोन्मत्तप्रमत्तार्त्तभृत्यान् न आह्वानयेत् ॥ १०२ ॥
व्याख्या – नृपः = राजा, अकल्यान् = रोगग्रस्तान्, बालान् = बालकान्, स्थविरान् = वृद्धान्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 248
पाठ पढ़ें पाठ छिपाएँ
६६० शुक्रनीतिः विपमस्थान् = विपन्नान्, क्रियाकुलान् — अनेकाभिरनतिक्रमणीयाभिः क्रियाभिः, आकुलान् = व्यस्तान्, कार्यातिपातिनः = अभियोगकालेऽनुपस्थितान्, व्यसनिनः = सुरापानादिव्यसनासक्तान्, नृपकार्यैः = राजकृत्यैः, वा, उत्सवैः = अन्यसमारोहैः, आकुलान् = व्यस्तान्, मत्तान् = प्रमत्तान्, उन्मत्तान् = क्षिप्तान्, प्रमत्तान् = अनवधायिनः आर्त्तान् = दुःखीजनान्, भृत्यान् = सेवकान्, न = नहि, आह्वानयेत् = आह्वयेत् ॥ १०२ ॥
हिन्दी — रोगी, बालक, बूढे, विषम स्थिति में फँसे, अनेक कार्यों में व्यस्त, मुकदमा दायर होने के समय गैरहाजिर, व्यसनी, राजा के या किसी अन्य महोत्सव में संलग्न, शराबी, पागल, असावधान तथा दुःखी - ऐसे सेवकों को अपराधी को बुलाने के लिए राजा कभी भी न भेजे ॥ १०२ ॥
अकल्येति । नृपः अकल्यान् रोगिणः बालान् शिशून् स्थविरान् वृद्धान् विषमस्थान् विपन्नान् क्रियाकुलान् बहुभिः क्रियाभिरनतिक्रमणीयाभिः आकुलान् व्यस्तान् कार्य्यातिपातिनः अभियोगकाले अनुपस्थितान् व्यसनिनः कामादिव्यसनासक्तान् नृपकार्य्येः वा उत्सवैः आकुलान् मत्तान् सुरापानमत्तान् उन्मत्तान् क्षिप्तान् प्रमत्तान् अनवधायिनः आर्त्तान् तथा भृत्यान् न आह्वानयेत् ॥१०२ ॥
न हीनपक्षां युवतीं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां नाज्ञातप्रभुकाः स्त्रियः ॥ १०३ ॥
अन्वयः - हीनपक्षां युवतीं कुले जातां प्रसूतिकां न सर्ववर्णोदयां कन्यां न अज्ञातप्रभुकाः स्त्रियः नृपः न आह्वानयेत् ॥ १०३ ॥
व्याख्या — हीनपक्षाम् = असहायाम्, युवतीम् = तरुणीम्, न = नहि, कुले = सद्वंशे, जाताम् = समुत्पन्नां कुलीनाम्, प्रसूतिकाम् = प्रसविनीम्, न सर्ववर्णोत्तमाम् — सर्वेषाम् = सकलानाम्, वर्णानाम् = जातीनाम्, उत्तमाम् = श्रेष्ठाम्, ब्राह्मणीम्, कन्याम् = बालिकाम्, न, अज्ञातप्रभुकाः — अज्ञातः– अविदितः प्रभुः = पतिर्यासां तादृशीः, स्त्रियः = नार्यः, नृपः न आह्वानयेदिति ॥ १०३ ॥
हिन्दी – अनाथ युवती, कुलीन, प्रसूता, ब्राह्मण की कन्या या जिनके पतिओं का पता न हों — ऐसी स्त्रियों को राजा न्यायालय में न बुलाये ॥ १०३ ॥
नेति । हीनपक्षाम् अनाथां युवतीं, कुले जातां कुलीनां कन्यां प्रसूतिकां प्रसविनीं सर्ववर्णोत्तमां सर्वजातिश्रेष्ठां कन्यां न, तथा अज्ञातः प्रभुः पतिर्यासां तादृशीः स्त्रियश्च न आह्वानयेदिति पूर्वेण सम्बन्धः ॥ १०३ ॥
निर्वेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।
अभियुक्तस्तथान्येन राजकार्य्योद्यतस्तथा ॥
गवां प्रचारे गोपालाः शस्यावापे कृषीवलाः ।
शिल्पिनश्चापि तत्कालमायुधीयाश्च विग्रहे ॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥
१०४ ॥
१०५ ॥
१०६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 249
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६६१ अन्वयः — निर्वेष्टुकामः रोगार्त्तः यियक्षुः व्यसने स्थितः तथा अन्येन अभियुक्तः राजकार्योद्यतः गवां प्रचारे गोपालाः शस्यावापे कृषीवलाः तत्काले शिल्पिनः विग्रहे आयुधीयाः अप्राप्तव्यवहारः टूतः दानोन्मुखः व्रती तथा विषमस्थाः न आसेध्याः । नृपः एतान् न आह्वयेत् ॥१०४-१०६ ॥ व्याख्या – निर्वेष्टुकामः = परिणयेच्छुः रोगार्त्तः = व्याधिपीडितः, यियक्षुः = यज्ञकर्त्तुमिच्छुकः, व्यसने = विषये, स्थितः = आसक्तः, तथा अन्येन = भिन्नजनेन, अभियुक्तः = प्रत्यर्थी, राजकार्योद्यतः = नृपकर्मकर्त्तुमुद्यतः, गवाम् = = धेनूनाम्, प्रचारे = चारणसमये, गोपालाः = गोचारकाः, शस्यावापे = धान्यवपनकर्मसमये, कृषीवलाः = कृषकाः, तत्काले = = 1 शिल्पकर्मकाले, शिल्पिनः, विग्रहे = युद्धे, आयुधीयाः = सैनिकाः, अप्राप्तव्यवहारः = ऊनषोडशवर्षः, दूतः = दौत्यकर्मणि नियुंक्तः, दानोन्मुखः = उत्सर्जने समुद्यतः, व्रती = ब्रह्मचारी, तथा, विषमस्थाः = विपद्ग्रस्ताः जनाः, न = नहि, आसेध्याः = अवरोधनीयाः, नृपः = राजा, एतान् = पूर्वोक्तान् जनान्, न = = नहि, आसेध्याः = अवरोधनीयाः ॥ १०४-१०६ ॥ हिन्दी - शादी के लिए तैयार, रोग से पीड़ित, यज्ञ करने के लिए उद्यत, विपद्ग्रस्त, दूसरों के द्वारा मुकदमे में फँसाया गया व्यक्ति, राजा के काम में लगे सेवक, गायों को चराते हुए अहीर, खेत में बीज बोते समय किसान, काम करते समय कारीगर, युद्ध में लड़ते समय हथियारबन्द सिपाही, कमसिन दूत, दान करने के लिए तैयार आदमी, ब्रह्मचारी या तापस तथा विपत्ति में फँसे लोग मुकदमे की तारीख के समय पेश करने योग्य नहीं होते हैं । अतः राजा इन्हें न बुलाये ॥१०४-१०६ ॥ निर्वेष्टुकाम इत्यादि । निर्वेष्टुकामः विवाहार्थी, रोगार्त्तः यियक्षुः यागार्थी, व्यसने मृगयादौ स्थितः आसक्तः, अन्येन अभियुक्तः, राजकार्य्योद्यतः, गवां प्रचारे गोचारणकाले गोपालाः, शस्यावापे शस्यवपनकर्मकाले कृषीवलाः कर्षकाः, तत्काले शिल्पकर्मकाले शिल्पिनः, विग्रहे सङ्ग्रामकाले आयुधीयाः सैनिकपुरुषाः, अप्राप्तव्यवहारः ऊनषोडशवर्षः, दूतः दौत्यकार्य्योद्यतः, दानोन्मुखः दानकमर्णि उद्युक्तः, व्रती, वैधकर्मणि नियुक्तः तथा विषमस्थाः विपन्नाश्च जनाः न आसेध्याः न अवरोधनीयाः । नृपः एतान् निर्वेष्टुकामादींश्च न आह्वानयेत् । अत्र च आसेधांशे विधिराह्वानांशे अनुवादो विशेषबोधार्थ इति सुधीभिर्विभाव्यम् ॥ १०४-१०६ ॥ नदीसन्तारकान्तारदुर्देशोपप्लवादिषु आसिद्धस्तं परासेधमुत्क्रामन् नापराध्नुयात् ॥ १०७ ॥
अन्वयः — नदीसन्तरणे कान्तारे दुर्देशे उपप्लवादिषु आसिद्धः तं परासेधम् उत्क्रामन् न अपराध्नुयात् ॥ १०७ ॥
व्याख्या — नदीसन्तरणे = तटीनीपारकरणे, कान्तारे = गहनवनमार्गे, दुर्देशे = दुर्गमक्षेत्रे, उपप्लवादिषु = राजोपद्रवादिषु, आसिद्धः = अवरुद्धो जनः, परासेधम् – परस्य = अन्यकृतस्य, आसेधम् = अवरोधम्, उत्क्रामन् = अतिक्रामन्, न = नहि, अपराध्नुयात् = अपराधी भवेदिति ॥१०७ ॥
हिन्दी — नदी एवं दुर्गम जंगल पार करने की कठिनाई से किसी दुर्गम देश या उपद्रव में फँस जाने से यदि कोई मुकदमे की तारीख में उपस्थित न हो सके, तो अन्यकृत अवरोध मानकर उसे अपराधी नहीं मानना चाहिए ॥ १०७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 250
पाठ पढ़ें पाठ छिपाएँ
६६२ शुक्रनीति: नदीति । नदीसन्तरणे, कान्तारे दुर्गमवनमार्गे, दुर्देशे उपप्लवादिषु राजोपद्रवादिषु आसिद्धः जनः तं परासेधं परस्य आसेधं परकर्तृकमवरोधम् उत्क्रामन् अतिक्रामन् न अपराध्नुयात् न अपराधी भवेदित्यर्थः ॥१०७ ॥
कालं देशं च विज्ञाय कार्य्याणां च बलाबलम् ।
अकल्यादीनप शनैर्यानैराह्वानयेन्नृपः ॥ १०८ ॥
अन्वयः – नृपः कालं देशं कार्याणाञ्च बलाबलं विज्ञाय अकल्यादीन् अपि यानैः शनैः आह्वानयेत् ॥१०८ ॥
व्याख्या – नृपः = राजा, कालम् = समयम्, देशम् = स्थानविशेषम्, कार्याणाञ्च = अनुष्ठेय-कृत्याणाञ्च, बलाबलम् = गौरवलाघवम्, च, विज्ञाय = ज्ञात्वा, अकल्यादीनपि = व्याधिग्रस्तजन-प्रभृतीनपि, यानैः = वाहनैः " शनैः = मन्दं मन्दम्, आह्वानयेत् = आकारयेत् हिन्दी — समय, स्थान और काम की गुरुता एवं लघुता का विचार को राजा धीरे - धीरे सवारी से बुलवाये ॥ १०८ ॥
कालमिति । नृपः कालं देशं कार्य्याणां बलाबलं गौरवलाघवञ्च रोगिप्रभृतीनपि यानैः शिविकादिभिः शनैः मन्दं मन्दम् आह्वानयेत् ॥१०८
ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः ।
तानप्याह्वानयेद्राजा गुरुकार्य्येष्वकोपयन् ॥ १० ९
॥ १०८ ॥
कर असमर्थ व्यक्ति विज्ञाय अकल्यादीन् ॥ ॥ अन्वयः — ये अभियोगं ज्ञात्वा प्रव्रजितादयः स्युः, राजा गुरुकार्येषु तानपि अकोपयन् आह्वानयेत् ॥१० ९ ॥ व्याख्या — ये = जनाः, अभियोगम् = विवादम्, ज्ञात्वा = विज्ञाय, वने = अरण्ये, प्रव्र-जितादयः = सन्यासिप्रभृतयः, आदिपदेनात्र वानप्रस्थब्रह्मचारिणोर्ग्रहणम्, स्युः = भवेयुरिति, राजा गुरुकार्येषु तानपि, अकोपयन् = अक्रोधयन्, सन्, आह्वानयेत् = आकारयेदिति ॥१० ९ ॥ हिन्दी — और जो लोग संन्यास ग्रहण कर अरण्यवासी बने हैं, उन पर भी यदि अभियोग लगे तो उन्हें भी सम्मानपूर्वक इस तरह बुलाना चाहिए कि उन्हें क्रोध न हों ॥ १० ९ ॥ ज्ञात्वेति । ये जनाः अभियोगं ज्ञात्वा वने प्रव्रजितादयः सन्यासिधर्मावलम्बिप्रभृतयः आदिपदेन वानप्रस्थब्रह्मचारिणोर्ग्रहणम्, स्युः भवेयुः, राजा गुरुकार्य्येषु तान् अपि अकोपयन् सन् आह्वानयेत् ॥१० ९ ॥
व्यवहारानभिज्ञेन ह्यन्यकार्य्याकुलेन च ।
प्रत्यर्थिनार्थिना तज्ज्ञः कार्य्यः प्रतिनिधिस्तदा ॥ ११० ॥
अन्वयः — प्रत्यर्थिना अर्थिना च व्यवहारानभिज्ञेन वा अन्यकार्याकुलेन तदा तज्ज्ञः प्रतिनिधिः कार्यः ॥११० ॥
व्याख्या — प्रत्यर्थिना = प्रतिवादिना, च = पुनः, अर्थिना = वादिना, व्यवहारानभिज्ञेन— व्यवहारे = अभियोगव्यापारे, अनभिज्ञेन = अनुभवशून्येन, वा = अथवा, अन्यकार्याकुलेन = = 1 कार्यान्तरव्यस्तेन, सता तदा, तज्ज्ञः = कार्यज्ञः प्रतिनिधि: = प्रतिपुरुषः, कार्य: -' विधेयः ॥११० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA