शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 251–260
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 251–260
पृष्ठ 251
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६६३ हिन्दी— मुकदमा लड़ने की जानकारी नहीं रहने के कारण या किसी अन्य कार्य में व्यस्तता के कारण यदि कोई चाहे तो अपना प्रतिनिधि भेज सकता है ॥ ११० ॥
व्यवहारानभिज्ञेनेति । प्रत्यर्थिना प्रतिवादिना अर्थिना वादिना च व्यवहारानभिज्ञेन व्यवहारे अभियोगव्यापारे अनभिज्ञेन अविचक्षणेन वा अन्यकार्य्याकुलेन कार्य्यान्तरासक्तेन सता तदा तज्ज्ञः व्यवहारज्ञः प्रतिनिधिः कार्य्यः ॥ ११० ॥
अप्रगल्भजडोन्मत्तवृद्धस्त्रीबालरोगिणम् ।
पूर्वोत्तरं वदेद् बन्धुर्नियुक्तो वाथवा नरः ॥ १११ ॥
अन्वयः —– बन्धुः अथवा नियुक्तः नरः अप्रगल्भजडोन्मत्तवृद्धस्त्रीबालरोगिणं पूर्वोत्तरं वदेत् ॥ १११ ॥
व्याख्या — बन्धुः = सजातीयः, अथवा = वा, नियुक्तः = नियोजितः, नरः = प्रतिनिधिपुरुषः, अप्रगल्भानाम् = अकुशलानाम्, जडानाम् = मन्दबुद्धीनाम्, उन्मत्तानाम् = विक्षिप्तानाम्, वृद्धा-नाम् = स्थविराणाम्, स्त्रीणाम् = नारीणाम्, बालानाम् = शिशूनाम्, रोगिणाम् = व्याधिग्रस्तानाम्, पूर्वोत्तरम् = अभियोगं प्रत्यभियोगञ्च, वदेत् = कथयेत् ॥ १११ ॥
हिन्दी — बेवकूफ, मन्दबुद्धि, पागल, बूढे, औरत, बच्चे और रोगी — उनका पूर्वपक्ष हो या उत्तर - पक्ष, इनके बन्धु या इनके द्वारा प्रतिनियुक्त प्रतिनिधि उपस्थित करे ॥ १११ ॥
अप्रगल्भेति । बन्धुः पितृस्वस्रीयादिः अथवा नियुक्तः प्रतिनिधित्वेनेति भावः, नरः अप्रगल्भानाम् अचतुराणां जडानाम् उन्मत्तानां वृद्धानां स्त्रीणां बालानां रोगिणाञ्च पूर्वोत्तरम् अभियोगं प्रत्यभियोगञ्च वदेत् ॥१११ ॥
पिता माता सुहृद् बन्धुर्भ्राता सम्बन्धिनोऽपि च ।
यदि कुर्य्युरुपस्थानं वादं तत्र प्रवर्त्तयेत् ॥ ११२ ॥
अन्वयः — पिता माता सुहृद् बन्धुः भ्राता च सम्बन्धिनोऽपि यदि उपस्थानं कुर्युः, तदा तत्र वादं प्रवर्त्तयेत् ॥ ११२ ॥
व्याख्या — पिता = जनकः, माता = जननी, सुहृद् = मित्रम्, बन्धुः = ज्ञातयः, भ्राता = = सोदरः, च = पुनः, सम्बन्धिनः– सम्बन्धविशिष्टाः, यदि = चेत्, उपस्थानम् = अभियोगार्थमुपागमनम्, कुर्युः = विधेयुः, तदा = तर्हि, तत्र = तस्मिन् न्यायालये, वादम् = अभियोगम्, प्रवर्त्तयेत् = सञ्चालयेत् ॥११२ ॥
हिन्दी – मुद्दई के माँ, बाप, भाई, मित्र या सम्बन्धी दावे को सही ढंग से कह सके तो मुकदमे की काररवाई शुरू कर देनी चाहिए ॥ ११२ ॥
पितेति । पिता, माता, सुहृत्, बन्धुः भ्राता अथवा सम्बन्धिनः यदि उपस्थानम् अभियोगादेरुपस्थितिं कुर्युः तदा तत्र वादं विचारं प्रवर्त्तयेत् चालयेत् ॥११२ ॥
यः कश्चित् कारयेत् किञ्चिन्नियोगाद् येन केनचित् ।
तत् तेनैव कृतं ज्ञेयमनिवार्य्यं हि तत् स्मृतम् ॥ ११३ ॥
अन्वयः — येन केनचित् नियोगात् यः कश्चित् किञ्चित् कार्यं कारयेत्, तत् तेनैव कृतं ज्ञेयम् । तत् अनिवार्यं स्मृतम् ॥ ११३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 252
पाठ पढ़ें पाठ छिपाएँ
६६४ शुक्रनीतिः व्याख्या – येन केनचित् = येन केनाऽपि जनेन, नियोगात् = प्रतिनिधित्वात्, यः कश्चित् = यः कोऽपि जनः, किञ्चित् = किमपि, कार्यम् = व्यवहारम्, कारयेत् = निष्पादनं कारयेत्, तत् = कर्म, तेनैव = प्रेरकेनैव, कृतम् = सम्पादितम्, ज्ञेयम् = बोध्यम् । तत् = कृत्यम्, अनिवार्यम् = अपरिहार्यम्, स्मृतम् = कथितम् ॥ ११३ ॥
हिन्दी – यदि कोई किसी को अपना प्रतिनिधि बनाकर जो कुछ उससे करवाता है तो वह
काम उसी का किया हुआ समझना चाहिए । इसे बदला नहीं जा सकता है ॥११३ ॥
य इति । येन केनचित् जनेन नियोगात् यः कश्चित् जनः किञ्चित् कार्य्यं कारयेत् तत् तेनैव नियोजकेनेत्यर्थः, कृतं ज्ञेयम् । तत् नियुक्तकृतम् अनिवार्य्यं ग्राह्यमित्यर्थः स्मृतम् ॥ ११३ ॥
नियोगितस्यापि भृतिं विवादात् षोडशांशिकीम् ।
विंशत्यंशां तदर्द्धां वा तदर्द्धां च तदर्द्धिकाम् ॥ ११४ ॥
अन्वयः — नियोगितस्य भृतिं विवादात् षोडशांशिकीं विशंत्यंशां तदर्द्धां वा तदर्द्धां च तदर्द्धिकां दद्यात् ॥११४ ॥
व्याख्या — नियोगितस्य = व्यवहारदर्शकपदेन नियुक्तस्य जनस्य, भृतिम् = पारिश्रमिकम्, विवादात् = विवादीयधनात्, षोडशांशिकीम् = षोडशांशपरिमिताम्, विंशत्यंशाम् = विंशति-भागमिताम्, तदर्द्धाम् = दशभागमिताम्, तदर्द्धाम् = पञ्चमभागपरिमिताम्, तदर्द्धाम् = सार्द्धद्वय-भागमिताम्, वा = अथवा, कार्यस्य बलाबलत्वं विचार्येत्यर्थे वैकल्पम् ॥ ११४ ॥
हिन्दी — मुकदमे में बहाल किये गये वकील की फीस मुकदमे की हैसियत से सोलहवें हिस्से के बराबर या बीसवें, दशवें पाँचवें या ढाई हिस्से के बराबर देना चाहिए ॥ ११४ ॥
नियोगितस्येति । नियोगितस्य नियुक्तस्य भृतिं वेतनं विवादात् विवादीयधनात् षोडशांशिकीं षोडशभागमितां विंशत्यंशां विंशभागैकभागमितां तदर्द्धां दशमभागपरिमितां तदर्द्धां पञ्चमभागमितां तदर्द्धिकां सार्द्धद्वितीयभागसम्मतां वा कार्य्यगौरवलाघवापेक्षो विकल्प इति बोध्यम् । दद्यादिति अध्याहृतेन क्रियापदेन सम्बन्धः ॥११४ ॥
यथा द्रव्याधिकं कार्य्यं हीना हीना भृतिस्तथा ।
यदि बहुनियोगी स्यादन्यथा तस्य पोषणम् ॥ ११५ ॥
अन्वयः – यदि बहुनियोगी स्यात् तदा कार्यं यथा द्रव्याधिकं तथा हीना हीना भृतिः । अन्यथा तस्य पोषणं कार्यम् ॥११५ ॥
व्याख्या– यदि = चेत्, बहुनियोगी = अनेकजननियुक्तकारी, स्यात् = भवेत्, तदा कार्यम् = कृत्यम्, यथा = येन रूपेण, द्रव्याधिक्यम् = अधिकधनसमन्वितम्, तदा हीना = अल्पा, हीना = तदपि स्वल्पा, भृतिः = पारिश्रमिकीम्, कार्या । अन्यथा = इतरथा, तस्य = = 1 नियुक्तस्य, पोषणम् = प्रतिपालनम्, कार्यम् ॥ ११५ ॥
हिन्दी – यदि नियोगियों की संख्या बहुत अधिक हो तो फीस कम - कम कर देना चाहिए ।
अन्यथा वकील का पालन - पोषण करना चाहिए ॥ ११५ ॥
यथेति । यदि बहुनियोगी बहुजननियुक्तकारी स्यात् तदा कार्य्यं यथा द्रव्याधिकम् अधिकद्रव्ययुक्तं, तथा हीना हीना भृतिः कार्य्या इति शेषः, अन्यथा अधिकधनाभियोगे बहुभ्यः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 253
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६६५ पूर्वोक्तांशरूपभृतिदाने बहुधनक्षयसम्भवादिति भावः । अन्यथा वेतनदानाशक्तौ तस्य नियुक्तस्य पोषणं प्रतिपालनं कार्य्यमिति शेषः ॥११५ ॥
धर्मज्ञो व्यवहारज्ञो नियोक्तव्योऽन्यथा न हि ।
अन्यथा भृतिगृह्णन्तं दण्डयेच्च नियोगिनम् ॥ ११६ ॥
अन्वयः – व्यवहारज्ञः धर्मज्ञः नियोक्तव्यः, अन्यथा न हि । अन्यथा भृतिगृह्णन्तं नियोगिनं दण्डयेत् ॥ ११६ ॥
व्याख्या -- व्यवहारज्ञः = अभियोगादिकर्मकुशलो जनः, धर्मज्ञः = धर्मविद्, नियोक्तव्यः = सम्भाषकपदेन नियोजनीयः, अन्यथा = = ' पूर्वोक्तगुणवर्जितो जनः प्रतिनिधिपदेन, न हि = नास्त्येव नियोक्तव्य इति । किञ्च अन्यथा = असङ्गतरूपेण, भृतिगृह्णन्तम् = पारिश्रमिकस्वीकुर्वन्तं सम्भाषकम्, नियोगिनम् = नियुक्तं जनम्, दण्डयेत् = दण्डं दद्यात् ॥ ११६ ॥
हिन्दी — विधि - विशेषज्ञ धार्मिक व्यक्ति को वकील के पद पर नियुक्त करना चाहिए ।
वकील यदि अधिक फीस ले तो राजा को उसे दण्ड देना चाहिए ॥ ११६ ॥
धर्मज्ञ इति । व्यवहारज्ञः अभियोगादिव्यापारकुशलः जनः धर्मज्ञः धार्मिकश्चेत् नियोक्तव्यः प्रतिनिधित्वेनेति भावः । अन्यथा अधार्मिकत्वे इत्यर्थः, न हि नैव नियोक्तव्य इत्यर्थः । किञ्च अन्यथा अयुक्तरूपेणेत्यर्थः, भृतिगृह्णन्तं वेतनम् आददानम् अत्र समासस्त्वार्षः । नियोगिनं नियुक्तं प्रतिनिधिमित्यर्थः, दण्डयेच्च राजेति शेषः ॥ ११६ ॥
कार्य्यो नित्यो नियोगी न नृपेण स्वमनीषया ।
लोभेन त्वन्यथा कुर्वन् नियोगी दण्डमर्हति ॥ ११७ ॥
अन्वयः —– नृपेण स्वमनीषया नित्यं नियोगी न कार्यः । नियोगी लोभेन अन्यथा कुर्वन् दण्डम् अर्हति ॥ ११७ ॥
व्याख्या- - नृपेण = राज्ञा, स्वमनीषया — स्वस्य = आत्मनः,, मनीषा = बुद्धिः, तया = आत्म-बुद्ध्या, नित्यम् = सततम्, नियोगी = नियुक्तम्, न = नहि, कार्यः = विधेयः । नियोगी = नियुक्तः, लोभेन = लिप्सया, अन्यथा कुर्वन् = नियुक्तकार्यमतिक्रामन्, दण्डम् = दमनम्,, अर्हति = योग्यो भवति ॥ ११७ ॥
हिन्दी – राजा अपनी ही बुद्धि से विचार कर सदैव मुकदमे में प्रतिनिधि नियुक्त न करे । क्योंकि लोभवश प्रतिनिधि यदि कुछ गलत करे तो वह दण्डनीय होता है ॥११७ ॥
कार्य्य इति । नृपेण स्वमनीषया निजबुद्ध्या नित्यं सततं नियोगी नियुक्तः न कार्य्यः विवादिनैव कार्य्य इत्यर्थः । नियोगी लोभेन अन्यथा कुर्वन् नियुक्तकार्य्यमतिक्रामन् दण्डमर्हति दण्डनीयो भवतीत्यर्थः ॥ ११७ ॥
यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥ ११८ ॥
अन्वयः – यः भ्राता न, पिता न, पुत्रः न, नियोगकृत् च न; सः चेत् परार्थवादी व्यवहारेषु विब्रुवन् दण्ड्यः स्यात् ॥ ११८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 254
पाठ पढ़ें पाठ छिपाएँ
६६६ शुक्रनीतिः व्याख्या – यः = जनः, भ्राता = सोदरः न = नहि, भवति, पिता = जनकः, न = = नहि, पुत्रः = जातः, न = नहि, नियोगकृत् = नियोगी, अपि न, विवादिनेति, सः = असौ, यदि, परार्थवादी – परार्थे = अन्यार्थे, वादी = वक्ता सन्, व्यवहारे = अभियोगे, विब्रुवन् = विरुद्धं वदन्, विपरीतवक्ता भवति, तदा सः दण्ड्यः = दण्डनीयः स्यात् = भवेत् ॥ ११८ ॥
हिन्दी – जो भाई, बाप, बेटा या वकील से भिन्न व्यक्ति होकर दूसरों के लिए कुछ कहता है या मुकदमे में विपरीत बातें करता है, वह दण्डनीय होता है ॥११८ ॥
य इति । यः भ्राता न, पिता न, पुत्रः न, नियोगकृत् नियुक्तश्च न विवादिनां इति शेषः, सः चेत् परार्थवादी परार्थे अन्यार्थे वादी सन् व्यवहारेषु विब्रुवन् विरुद्धं वदन् विरुद्धवादी भवतीत्यर्थः, तदा दण्ड्यः स्यात् ॥ ११८ ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः ।
निष्कुला याश्च पतितास्तासामाह्वानमिष्यते ॥ ११ ९ ॥
अन्वयः — याः तदधीनकुटुम्विन्यः स्वैरिण्यः गणिकाः निष्कुलाः तथा याश्च पतिताः तासाम् आह्वानम् इष्यते ॥ ११ ९ ॥ व्याख्या — याः = नार्यः, तदधीनकुटुम्बिन्यः- तत् = तस्याः, अधीनाः = आश्रिताः, कुटुम्बिनः = = परिजनाः, परिजनपरिपालिन्याः याः नार्यः इति भावः,, स्वैरिण्यः = स्वेच्छाचारिण्यः, गणिकाः = वेश्याः, निष्कुलाः = कुलहीनाः, तथा याश्च = स्त्रियः, पतिताः = समाजात् बहिष्कृताः अधमाः, नार्यः तासाम् = एवंविधानां नारीणाम्, आह्वानम् = न्यायालये आकारणम्, इष्यते = वाञ्छति ॥ ११ ९ ॥ हिन्दी — जो स्त्रियाँ स्वयं कमाकर परिवार का पालन करती हैं, स्वेच्छाचारिणी या वेश्यावृत्ति करने वाली हैं या समाज से बहिष्कृता या कुलहीन हैं, उन्हें न्यायालय में उपस्थित होने का राजा आदेश दे सकता है ॥ ११ ९ ॥ तदधीनेति । याः स्त्रियः तदधीनकुटुम्बिन्यः स्वाधीनपरिजनाः, स्वैरिण्यः स्वेच्छावर्त्तिन्यः गणिकाः वेश्या निष्कुलाः अकुलीनाश्च तथा याश्च पतिताः ब्रह्महत्यादिपञ्चविधान्यतमपापकारिण्यः, तासाम् आह्वानं विचारालये इति भावः इष्यते ॥ ११ ९ ॥
प्रवर्त्तयित्वा वादन्तु वादिनौ तु मृतौ यदि ।
तत्पुत्रो विवदेत् तज्ज्ञो ह्यन्यथा तु निवर्त्तयेत् ॥ १२० ॥
अन्वयः — वादं प्रवर्त्तयित्वा वादिनौ यदि मृतौ तदा तज्ज्ञः तत्पुत्रः विवदेत्, अन्यथा तु निवर्त्तयेत् ॥ १२० ॥
व्याख्या — वादम् = अभियोगम्, प्रवर्त्तयित्वा = व्यवहारसञ्चालनं कृत्वा, वादिनौ = वादिप्रतिवादिनौ, यदि = चेत्, मृतौ = उपरतौ, तदा, तज्ज्ञः = व्यवहारज्ञः, तत् = तस्य, पुत्रः = सुतः, विवदेत् = अभियोगं सञ्चालयेत्, अन्यथा = इतरथा, निवर्त्तयेत् = विरमेत् ॥ १२० ॥
हिन्दी - मुकदमा दायर कर यदि वादी या प्रतिवादी मर जाय तो उसका बेटा मुकदमा लड़ सकता है । यदि वह मुकदमा लड़ना न चाहे तो राजा उस मुकदमे को खारिज कर सकता है ॥१२० ॥
प्रवर्त्तयित्वेति । वादं विवादं प्रवर्त्तयित्वा प्रक्रम्य वादिनौ अर्थिप्रत्यर्थिनौ यदि मृतौ भवतः, तदा तज्ज्ञः विवादज्ञः तत्पुत्रः तस्य वादिनः प्रतिवादिनश्च पुत्रः विवदेत् वादं चालयेत् अन्यथा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 255
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६६७ अनभिज्ञत्वे तु निवर्त्तयेत् विरमेदित्यर्थः ॥१२० ॥
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ १२१ ॥
पारुष्ये कूटकरणे नृपद्रोहे च साहसे ।
प्रतिनिधिर्न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥ १२२ ॥
अन्वयः -मनुष्यमारणे स्तेये परदाराभिमर्शने अभक्ष्यभक्षणे कन्याहरणदूषणे पारुष्ये कूटकरणे नृपद्रोहे तथा साहसे प्रतिनिधिः न दातव्यः कर्त्ता स्वयं विवदेत् ॥१२१-१२२ ॥ व्याख्या — मनुष्यमारणे = नरहत्यायाम्, स्तेये = चौर्ये, परदाराभिमर्शने = अन्यस्त्रीबलात्कारे, अभक्ष्यभक्षणे = निषिद्धभोजनकरणे, कन्याहरणदूषणे – कन्यायाः = अनूढायाः, हरणे = अपहरणे, वा, | पारुष्ये = कठोरवचने दण्डे च, कूटकरणे = जालानुष्ठाने, नृपद्रोहे = राजविद्रोहकरणे, तथा साहसे = दुर्वृत्तकरणे, विवादविषये प्रतिनिधिः = प्रतिपुरुषः, न = = नहि, दातव्यः = देयः, प्रत्युत कर्त्ता = निष्पादकः, स्वयम् = आत्मनैव, विवदेत् = व्यवहारं कुर्यात् ॥ १२१-१२२ ॥ हिन्दी— नरहत्या, चोरी, बलात्कार, अभक्ष्यभक्षण, कन्यापहरण, कठोर वचन का प्रयोग, जालसाजी, राजद्रोह तथा डकैती जैसे मुकदमे में प्रतिनिधि नहीं देना चाहिए; प्रत्युत कर्त्ता स्वयं कचहरी में उपस्थित होकर मुकदमा लड़े ॥ १२१-१२२ ॥ मनुष्यमारणे इति । पारुष्ये इति । मनुष्यमारणे नरहत्यायां स्तेये चौर्य्ये, परदाराभिमर्षणे परस्त्रीबलात्कारे, अभक्ष्यभक्षणे, कन्याहरणदूषणे कन्यायाः अनूढायाः हरणे वा, पारुष्ये वाक्पारुप्यदण्डपारुष्योभयरूपे, कूटकरणे जालानुष्ठाने नृपद्रोहे राजानिष्टकरणे तथा साहसे दस्युवृत्त्यादौ विवादविषये प्रतिनिधिः न दातव्यः कर्त्ता तु कर्त्ता एव स्वयं विवदेत् ॥ १२१-१२२ ॥
आहूतो यत्र नागच्छेद् दर्पाद् बन्धुबलान्वित: ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥ १२३ ॥
अन्वयः — यत्र आहूतः बन्धुबलान्वितः दर्पात् न आगच्छेत्, तस्य अभियोगानुरूपेण दण्डं प्रकल्पयेत् ॥ १२३ ॥
व्याख्या – यत्र = यस्मिन् विवादे, आहूतः = आकारितः सन्नपि बन्धुबलान्वितः = बान्धवशक्तिसम्पन्नो जनः, दर्पात् = गर्वात्, न = नहि, आगच्छेत् = नृपाहूतोऽपि न्यायालये न समागच्छेत्, तस्य = अनागतस्यापराधिनः, अभियोगानुरूपेण – अभियोगस्य = विवादस्य, अनुरूपेण = अनुसारेण, तस्य दण्डम्, प्रकल्पयेत् = प्रयच्छेत् ॥ १२३ ॥
हिन्दी — किन्तु उक्त मुकदमे में अपराधी अपने बन्धुबल के घमण्ड पर भी न्यायालय में न उपस्थित न हो, तो उसके अपराध के मुताबिक अर्थात् एकतरफा डिग्री दे ॥१२३ ॥
आहूत इति । यत्र विवादे विषये आहूतः राज्ञेति शेषः, बन्धुबलान्वितः जनः दर्पात् अहङ्कारात् न आगच्छेत् विचारालयमिति शेषः, तस्य अभियोगानुसारेण अभियोगस्य गौरवलाघवापेक्षया इत्यर्थः, दण्डं प्रकल्पयेत् से राजा के बुलाने राजा उसे दण्ड दे बन्धुबलसहायवान् अनागतस्य जनस्य ॥ १२३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 256
पाठ पढ़ें पाठ छिपाएँ
६६८ शुक्रनीतिः
दूतेनाह्वानितं प्राप्ताधर्षकं प्रतिवादिनम् ।
दृष्ट्वा राज्ञा तयोश्चिन्त्यो यथार्हप्रतिभूस्त्वतः ॥ १२४ ॥
अन्वयः — दूतेन आह्वानितं प्राप्ताधर्षकः प्रतिवादिनं दृष्ट्वा राज्ञा तयोः यथार्हप्रतिभूः चिन्त्यः ॥ १२४ ॥
व्याख्या — दूतेन = नृपसन्देशहरेण, आह्नानितम् = आकारितम्, प्राप्ताधर्षकम् = पीडाप्राप्तम् अभ्यर्थिनम्, तथा = तेनैव रूपेण, प्रतिवादिनम् = प्रत्यर्थिनम्, दृष्ट्वा = अवलोक्य, अतः = अस्मात्कारणात्, राज्ञा = नृपेण, तयोः = वादिनो:, यथार्हप्रतिभूः = यथायोग्यप्रतिरूपः, चिन्त्यः = विचारणीयः ॥ १२४ ॥
हिन्दी —दूत के द्वारा बुलाने से आये हुए अपराधी या प्रतिवादी को देखकर राजा उन दोनों के लिए योग्य जमानतदार को सोच - समझ कर स्वीकार करे ॥ १२४ ॥
दूतेनेति । दूतेन राजवार्त्ताहरेण आह्वानितं कृताह्वानं प्राप्ताधर्षकं प्राप्तपीडं वादिनमित्यर्थः, तथा प्रतिवादिनं दृष्ट्वा अतः अस्मात् परमित्यर्थः, राज्ञा तयोः यथायोग्यप्रतिरूपः चिन्त्यः ॥१२४ ॥
अन्वयः -दास्याम्यदत्तमेतेन दर्शयामि तवान्तिके ।
एनमाधिं दापयिष्ये ह्यस्मात्ते न भयं क्वचित् ॥
अकृतञ्च करिष्यामि ह्यनेनायञ्च वृत्तिमान् ।
अस्तीति न च मिथ्यैतदङ्गीकुर्य्यादतन्द्रितः ॥
प्रगल्भो बहुविश्वस्तानधीनो विश्रुतो धनी । उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये अहम् एतेन अदत्तं दास्यामि, एनं तव अन्तिके दर्शयामि, वादिनोः यथार्हप्रतिभूः १२५ ॥ १२६ ॥ ॥ १२७ ॥
एनम् आधिं दापयिष्ये, अस्मात् क्वचित् ते भयं न, अनेन अकृतं कार्यम् अहं करिष्यामि, अयञ्च वृत्तिमान् अतन्द्रितः अस्ति — इति एतत् न च मिथ्या अङ्गीकुर्यात् । प्रगल्भः बहुविश्वस्तः अनधीनः विश्रुतः धनी तथा समर्थः प्रतिभूः उभयोः कार्यनिर्णये ग्राह्यः ॥ १२५-१२७ ॥ व्याख्या — अहम् = प्रतिभूकर्त्ता, एतेन = वादिना वा प्रतिवादिना, अदत्तम् = = अनर्पितम्, दास्यामि = प्रयच्छिष्यामि, अहम् एनम् = वादिनम्, तव = भवतः, अन्तिके = समीपे, दर्शयामि = प्रदर्शयामि, एनम् = समुपस्थितं जनम्, आधिम् = द्रव्यम्, दापयिष्ये = बन्धकत्वेन स्थापयिष्ये, अस्मात् = जनात्, क्वचित् = कदाचिदपि, ते = तव, भयम् = त्रासम्, न = नहि, अस्ति = भवति, अनेन = जनेन, अकृतम् = अनिष्पादितम्, कार्यम् = कर्म, अहम् = प्रतिभूकर्त्ता, करिष्यामि, अयञ्च = = एष जनः, वृत्तिमान् = संस्थानसम्पन्नः, अतन्द्रितः = आलस्यरहितश्च, अस्ति, इति: = हेतोः, एतत् न च मिथ्या = अनृतः, अङ्गीकुर्यात् = स्वीकुर्यात् । प्रगल्भः = निपुणः, बहुविश्वस्तः = लोके विश्वसनीयः, अनधीनः न कस्याऽपि अधीनः = पराश्रयी, विश्रुतः = विख्यातः, धनी = धनवान्, तथा समर्थः = सशक्तः, उक्तरूपः त्रिविधः प्रतिभूः, उभयोः = अर्थिप्रत्यर्थिनोः, कार्यनिर्णये = व्यवहारे, ग्राह्यः = ग्रहणीयो भवति ॥ १२५-१२७ ॥ हिन्दी — जमानतदार सावधान होकर स्वीकार करे कि यदि किसी का रुपया यह न दे तो CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 257
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६६ ९ मैं देने को तैयार हूँ । यदि अपराधी नियत तारीख पर नहीं आयेगा तो उसे आपके सामने हाजिर करा दूँगा और जो कुछ इसके पास धरोहर रूप में रखा होगा उसे मैं दिला दूँगा । इससे आपको कभी डर नहीं होना चाहिए । यह अब तक जो नहीं कर पाया है उसे मैं इसी से पूरा करवा दूँगा । यह स्थिर आजीविका वाला है, कोई दरिद्र नहीं है । यह कभी झूठा व्यवहार नहीं करने वाला है । इस प्रकार बोलने में चतुर लोगों में विश्वस्त, स्वाधीन, विख्यात धनी एवं कार्यनिर्णय में समर्थ व्यक्ति हो— ऐसे जमानतदार को राजा स्वीकार करे ॥ १२५-१२७ ॥ प्रतिभूप्रकारमाह — दास्यामीत्यादि । अहम् एतेन अदत्तं दास्यामि एतेन दानप्रतिभूरुक्तः । अहम् एनं तव अन्तिके समीपे दर्शयामि एतेन दर्शनप्रतिभूरुक्तः । एनं जनम् आधिं द्रव्यं दापयिष्ये बन्धकत्वेनेति शेषः, अस्मात् जनात् क्वचित् कदाचिदपीत्यर्थः, ते तव भयं न अस्तीति शेषः, अनेन अकृतं कार्य्यम् अहं करिष्यामि, अयञ्च वृत्तिमान् संस्थानसम्पन्नः अतन्द्रितः अनलसश्च अस्ति इति हेतोः एतत् न च मिथ्या अङ्गीकुर्यात् एतेन प्रत्ययप्रतिभूरुक्तः । प्रगल्भः चतुरः बहुविश्वस्तः बहुजनेषु विश्वासी, अनधीनः स्वाधीनः विश्रुतः विख्यातः धनी तथा समर्थः यथोक्तवचनानुरूपानुष्ठाने सक्षमः उक्तरूपः त्रिविधः प्रतिभूः उभयोः वादिप्रतिवादिनोः कार्य्यनिर्णये कार्य्यनिरूपणार्थं ग्राह्यः ॥ १२५-१२७ ॥ विदादिनौ सन्निरुध्य ततो वादं प्रवर्त्तयेत् ।
स्वपुष्टौ परपुष्टौ वा स्वभृत्या पुष्टरक्षकौ ।
ससाधनौ तत्त्वमिच्छुः कूटसाधनशङ्कया ॥ १२८ ॥
अन्वयः - ससाधनौ स्वपुष्टौ परपुष्टौ स्वभृत्या पुष्टरक्षकौ विवादिनौ सन्निरुध्य ततः कूटसाधन-शङ्कया तत्त्वम् इच्छुः सन् वादं प्रवर्त्तयेत् ॥ १२८ ॥
व्याख्या — ससाधनौ = विवादसाधनसहितौ, स्वपुष्टौ = स्वाधीनौ, परपुष्टौ = पराधीनौ, वा, स्वभृत्या – स्वस्य = आत्मनः, भृत्या = वेतनेन, पुष्टरक्षकौ = पोष्यपालकौ, विवादिनौ, सन्निरुद्ध्य = अवरुद्धं कृत्वा, ततः = तत्पश्चात्, कूटसाधनशङ्कया = मिथ्यानिष्पादनसन्देहेन, तत्त्वम् = तथ्यम्, इच्छुः = अभीप्सुः सन्, वादम् = अभियोगम्, प्रवर्त्तयेत् = चालयेत् ॥१२८ ॥
हिन्दी - कोई वादी या प्रतिवादी ने अपने - अपने साधनों में कोई जालसाजी तो नहीं की हैं । इसलिए तथ्य को जानने का इच्छुक राजा यह देख ले कि वादी और प्रतिवादी दोनों ही अपने - अपने पक्षों की पुष्टि कर रहे हैं या नहीं? राजा के द्वारा उसकी पुष्टि हो रही है या नहीं? अपनी - अपनी नौकरी प्रमाणों की पुष्टि की रक्षा कर रहे हैं या नहीं और अपने - अपने मुकदमे के सम्पूर्ण साधनों से युक्त है या नहीं? इस परीक्षण के बाद राजा वादी - प्रतिवादी को सामने उपस्थित कर मुकदमे की तहकीकात प्रारंभ करे ॥ १२८ ॥
विवादिनाविति । ससाधनौ विवादसाधनसमेतौ, स्वपुष्टौ स्वाधीनौ, परपुष्टौ पराधीनौ वा स्वभृत्या निजवेतनेन पुष्टरक्षकौ पोष्यपालकौ विवादिनौ सन्निरुध्य ततः अनन्तरं कूटसाधन-शङ्कया अलीकधनसन्देहेन तत्त्वं याथार्थ्यम् इच्छुः सन् वाढं प्रवर्त्तयेत् राजेति शेषः ॥ १२८ ॥
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ १२ ९ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 258
पाठ पढ़ें पाठ छिपाएँ
६७० शुक्रनीतिः अन्वयः — पक्षविदः प्रतिज्ञादोषनिर्मुक्तं सत्कारणान्वितं निश्चितं लोकसिद्धञ्च साध्यं पक्षं विदुः ॥१२ ९ ॥ व्याख्या — पक्षविदः = भाषाभिज्ञाः विद्वांसः, प्रतिज्ञादोषनिर्मुक्तम् = सङ्कल्पनिर्देशः, तस्याः दोषेण = दुर्गुणेन, निर्मुक्तम् = उन्मूलितम्, सत् = साधु, कारणेन = हेतुना, अन्वितम् = युक्तम्, निश्चितम् = संशयशून्यम्, लोकसिद्धम् = लोकानुष्ठितम्, साध्यम् = विवादविषयम्, पक्षम् = व्यवहारपक्षम्, विदुः = जानन्ति ॥ १२ ९ ॥ हिन्दी — पूर्वकृत प्रतिज्ञा के दोष से जो मुक्त हो, अच्छे कारणों से युक्त साधनों द्वारा सिद्ध किया जाने वाला, निश्चित किया जाने वाला तथा लोकसिद्ध हो, उसे पक्षवेत्ता जन ' पक्ष ' कहते हैं ॥ १२ ९ ॥ प्रतिज्ञेति । पक्षविदः भाषाभिज्ञाः पण्डिताः प्रतिज्ञादोषनिर्मुक्तं प्रतिज्ञा प्रथमनिर्देशः तस्याः दोषेण निर्मुक्तं रहितं सत्कारणान्वितं सुसाधनसम्पन्नं निश्चितम् असन्दिग्धं लोकसिद्धं न त्वलौकिकमित्यर्थः, साध्यम् अभियोगविषयं पक्षं विदुः जानन्ति ॥ १२ ९ ॥
अन्यार्थमर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यहीनाधिकं भ्रष्टं भाषादोषा उदाहः ॥ १३० ॥
अन्वयः — अन्यार्थम् अर्थहीनं प्रमाणागमवर्जितं लेख्यहीनाधिकं वा भ्रष्टं भाषादोषाः उदाहृताः ॥ १३० ॥
व्याख्या — अन्यार्थम् = भिन्नार्थबोधकम्, अर्थहीनम् = इष्टार्थबोधनेऽक्षमम्, प्रमाणागम-वर्जितम् — प्रमाणेन = निदर्शनेन, आगमेन = शब्दप्रमाणेन, च, वर्जितम् = रहितम्, लेख्यहीनाधिकम् — हीनलेख्यम् = न्यूनप्रतिपाद्यविषयकं व्यवहारपत्रम्, अधिकलेख्यम् = अतिरिक्तविषयकव्यवहारपत्रम्, वा, भ्रष्टम् = च्युतम्, केनाप्यंशेन, एते, भाषादोषाः — भाषायाः = प्रतिज्ञावचनस्य, दोषाः = दुर्गुणाः, उदाहृताः = कथिताः ॥१३० ॥
हिन्दी – जो अभिप्रेत अर्थ से भिन्न अर्थ अथवा अर्थविहीन प्रमाण या लोकाचार विरुद्ध लिखने में कम या ज्यादा अथवा भ्रष्ट हो, उसे भाषादोष कहते हैं । अर्थात् अर्जी - दावापत्र के ये सभी दुर्गुण माने गये हैं ॥ १३० ॥
अन्यार्थमिति । अन्यार्थम् अपरार्थबोधकम् अर्थहीनम् अभिप्रेतार्थविरहितं प्रमाणागमवर्जितं प्रमाणेन आगमेन हेतुविशेषेण च वर्जितं लेख्यहीनाधिकं हीनलेख्यम् अधिकलेख्यं वा भ्रष्टं च्युतं केनापि अंशेनेत्यर्थः, एते भाषादोषाः भाषायाः प्रतिज्ञावाक्यस्य दोषाः उदाहृताः उक्ताः ॥ १३० ॥
अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ १३१ ॥
अन्वयः — अप्रसिद्धं निराबाधं निष्प्रयोजनं निरर्थम् असाध्यं वा विरुद्धं तं पक्षाभासं विवर्जयेत् ॥१३१ ॥
व्याख्या — अप्रसिद्धम् = ख्यातिरहितम्, निराबाधम् = बाधारहितम्, निष्प्रयोजनम् = प्रयोजनातीतम्, निरर्थम् = अर्थविहीनम्, असाध्यम् = अनिष्पाद्यम्, वा = अथवा, विरुद्धं साध्यम्, पक्षाभास उच्यते, तं पक्षाभासम्, विवर्जयेत् = विशेषरूपेण परित्यजेत् ॥ १३१ ॥
हिन्दी — जो अपसिद्ध, निर्बाध, निरर्थक, निष्प्रयोजन, असाध्य अथवा विपरीतपक्ष हो, उसे CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 259
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६७१
पक्षाभास कहते हैं । पक्षाभास को राजा छोड़ दे ॥ १३१ ॥
अप्रसिद्धमिति । अप्रसिद्धं निराबाधं निर्बाधं निष्प्रयोजनम् असाध्यं साध्यातीतं वा विरुद्धं साध्यं पक्षाभास उच्यते इति शेषः, तं पक्षाभासं विवर्जयेत् न गृह्णीयात् राजेति शेषः ॥१३१ ॥
न केनचिच्छ्रुतो दृष्टः सोऽप्रसिद्ध उदाहृतः ।
अहं मूकेन संशप्तो वन्ध्यापुत्रेण ताडितः ॥ १३२ ॥
अन्वयः — यः केनचित् न श्रुतः दृष्टश्च सः अप्रसिद्धः उदाहृतः । यथा अहं मूकेन संशप्तः वन्ध्यापुत्रेण ताडितश्च ॥१३२ ॥
व्याख्या — यः = वस्तु, केनचित् = केनाऽपि, न = = नहि, श्रुतः = आकर्णितः, दृष्टश्च = अवलोकितश्च, सः = असौ, अप्रसिद्धः = अख्यातः, उदाहृतः = निर्देशितः । यथा — अहम् = मया, मूकेन = वाग्विहीनेन, संशप्तः = शापितः, तथा वन्ध्यापुत्रेण – वन्ध्यायाः = अजातपुत्रायाः, पुत्रेण = सुतेन, ताडितः इति ॥ १३२ ॥
हिन्दी —– जो किसी से न सुना हो और न देखा हो, उसे अप्रसिद्ध कहते हैं । जैसे मुझे गूंगे ने गाली दी है और बाँझ औरत के बेटे ने पीटा है ॥१३२ ॥
नेति । यः केनचित् न श्रुतः दृष्टश्च सः अप्रसिद्धः उदाहृतः उक्तः । यथा अहं मूकेन वर्णानुच्चारकेण शप्तः, तथा वन्ध्यापुत्रेण वन्ध्यायाः अजातपुत्रायाः पुत्रेण ताडित इति ॥ १३२ ॥
अधीते सुस्वरं गाति स्वगेहे विहरत्ययम् ।
धत्ते मार्गमुखद्वारं मम गेहसमीपतः ।
इति ज्ञेयं निराबाधं निष्प्रयोजनमेव तत् ॥ १३३ ॥
अन्वयः – निराबाधं यत् निष्प्रयोजनं तत् यथा अयं स्वगेहे सुस्वरम् अधीते, गाति, स्वगेहे अयं विहरति तथा मम गेहसमीपतः मार्गमुखद्वारं धत्ते इति ज्ञेयम् ॥१३३ ॥
व्याख्या — निराबाधम् = निर्बाधम्, यत् निष्प्रयोजनम् = निरर्थकम्, तत् = तदेव, यथा— अयम् = एषः, स्वगेहे = निजगृहे, सुस्वरम् = तारस्वरेण, अधीते = पठति, वा गाति = = गायनं करोति, ‘ गाति ' इत्यार्षप्रयोगः, तथा तत्रैव विहरति = विचरणं करोति, किञ्च मम गेहसमीपतः = मदीयगृहपार्श्वे, मार्गस्य = पथः, मुखे = सम्मुखे, द्वारम् धत्ते = ददाति इति ॥ १३३ ॥
हिन्दी - वह अपने घर में रहकर ऊँची आवाज से पढता है या गीत गाता है या विहार करता है अथवा मेरे घर के पास ही राह की ओर अपने घर का दरवाजा बनाता है — इन सब को ' निराबाध ' या ' निष्प्रयोजन ' कहते हैं । क्योंकि ऐसा करने में किसी को कोई रोक नहीं लगा सकता है । इसलिए इसे निराबाध या निष्प्रयोजन कहा जाता है ॥ १३३ ॥
अधीते इति । निराबाधं यत् निष्पयोजनश्च तत् यथा अयं स्वगेहे निजगृहे सुस्वरम् अधीते पठति गाति गायतीत्यर्थः, आर्षोऽयं प्रयोगः । तथा विहरति, किञ्च मम गेहसमीपतः मद्गृहसमीपे मार्गस्य पथः मुखे द्वारं धत्ते ददाति इति ॥ १३३ ॥
सदा मद्दत्तकन्यायां जामाता विहरत्ययम् ।
गर्भं धत्ते न वन्ध्येयं मृतोऽयं न प्रभाषते ।
किमर्थमिति तज्ज्ञेयमसाध्यञ्च विरुद्धकम् ॥ १३४ ॥।
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 260
पाठ पढ़ें पाठ छिपाएँ
६७२ शुक्रनीति: अन्वयः — अयं जामाता मद्दत्तकन्यायां सदा विहरति तथापि गर्भं न धत्ते । इयञ्च वन्ध्या किमर्थम् इति असाध्यम् । अयं मृतः न प्रभाषते किमर्थमिति विरुद्धकं ज्ञेयम् ॥ १३४ ॥
व्याख्या — अयम् = एष पुरुषः, जामाता = मम पुत्रीपतिः, मद्दत्तकन्यायाम् — मत् = अस्मत्, दत्ता = समर्पिता, कन्यया = सुतया सह, सदैव = सततमेव, विहरति = रमयति, कथम्? इयञ्च = एषा च, वन्ध्या = प्रसवशून्यनारी, गर्भम् = भ्रूणः, किमर्थम्, न = = नहि, धत्ते = धारयति? इति असाध्यम् । अयम् = एषः, मृतः = प्राणहीनो जनः, किमर्थञ्च, न = = नहि, प्रभाषते = वदति, इति तु विरुद्धकम्, ज्ञेयम् = बोध्यम् ॥ १३४ ॥
हिन्दी — यह मेरा दामाद मेरी दी हुई कन्या के साथ सदा विहार क्यों करता है? तथा यह बाँझ गर्भधारण क्यों नहीं करती है? ऐसा प्रश्न असाध्य है और यह मरा हुआ आदमी बोलता क्यों नहीं है? इसे विरुद्ध जानना चाहिए ॥१३४ ॥
सदेति । अयं जामाता मद्दत्तकन्यायां सदा विहरति, तथापि गर्भं न धत्ते, इयञ्च वन्ध्या किमर्थमिति असाध्यम् । अयं मृतः न प्रभाषते न कथयति किमर्थमिति विरुद्धकं ज्ञेयम् ॥ १३४ ॥
मद्दुःखसुखतो लोको दूयते न च नन्दति ।
निरर्थमिति वा ज्ञेयं निष्प्रयोजनमेव वा ॥ १३५ ॥
अन्वयः — लोकः मदुःखसुखतः न दूयते न च नन्दति इति निरर्थं वा निष्प्रयोजनं ज्ञेयम् ॥ १३५ ॥
व्याख्या — लोकः = जनः, मत् = मम, दुःखेन = पीडया, च = पुनः, सुखेन = आनन्देन च, न, दूयते = दुःखितो भवति, न च नन्दति = आनन्दितो भवति, इति = इत्थम्, निरर्थम् = अर्थविहीनम्, वा निष्प्रयोजनम्, ज्ञेयम् = बोध्यम् ॥ १३५ ॥
हिन्दी - मेरे द्वारा प्रदत्त दुःख या सुख से लोग दुःखी या प्रसन्न क्यों होते हैं? ऐसा पूछना या समझना निरर्थक या निष्प्रयोजन कहा जाता है ॥ १३५ ॥
मदुःखेति । लोकः मम दुःखेन सुखेन च न दूयते न दुःखितो भवति न च नन्दति इति निरर्थं वा निष्प्रयोजनं वा ज्ञेयम् ॥ १३५ ॥
श्रावयित्वा तु यत् कार्य्यं त्यजेदन्यद् वदेदसौ ।
अन्यपक्षाश्रयाद् वादी हीनो दण्ड्यश्च स स्मृतः ॥ १३६ ॥
अन्वयः — यत् कार्यं श्रावयित्वा त्यजेत् असौ अन्यत् वदेत्, सः अन्यत् पक्षाश्रयात् हीनः दण्ड्यः च स्मृतः ॥ १३६ ॥
व्याख्या — यत् = यः वादी, कार्यम् = विवादमेकम्, श्रावयित्वा = वदित्वा तत् = कार्यम्, त्यजेत् = परित्यागं कुर्यात्, असौ = वादी, अन्यत् = तद्भिन्नम्, वदेत् = कथयेत्, सः = वादी, अन्यपक्षाश्रयात् = विपरीतपक्षावलम्बनात्, हीनः = विवादात् भ्रष्टः, अग्राह्याभियोग इति, अतः दण्ड्यः = दण्डार्हः, च, स्मृतः = कथितः ॥ १३६ ॥
हिन्दी — जो वादी विवाद के सम्बन्ध में एक बार अपना अभिमत सुनाकर उसे छोड़ दे और उसके विरुद्ध पक्ष से मिलकर दूसरे ढंग से बोले तो वह हीन समझा जाता है और दण्ड ' का भागी होता है ॥ १३६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA