शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 261–270

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 261–270

पृष्ठ 261

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६७३ श्रावयित्वेति । यः वादी कार्य्यम् एकमित्यर्थः, श्रावयित्वा त्यजेत् तत् इति शेषः, असौ वादी अन्यत् वदेच्च सः वादी अन्यपक्षाश्रयात् हीनः अभियोगात् भ्रष्टः अग्राह्याभियोग इत्यर्थः, दण्ड्यश्च स्मृतः ॥ १३६ ॥

विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशोधिते ।

प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥ १३७ ॥

अन्वयः - प्रतिज्ञाते पूर्वपक्षे ग्राह्यग्राह्याभ्यां विशोधिते अत एव विनिश्चिते तथा स्थिरीभूते ततः उत्तरं लेखयेत् ॥ १३७ ॥

व्याख्या – प्रतिज्ञाते = प्रतिश्रुते, पूर्वपक्षे = अभियोगे, ग्राह्याग्राह्याभ्याम् = उपादेयानुपादे-याभ्याम्, स्वीकार्यास्वीकार्याभ्यामंशाभ्यां वेति, विशोधिते = परिष्कृते, अत एव, विनिश्चिते = विशेषेण शान्तचित्ते, स्थिरीभूते = स्थिरीकृते सति, ततः = तत्पश्चात्, उत्तरम् = प्रतिवचनम्, लेखयेत् = लिपिबद्धं कुर्यात् ॥१३७ ॥

हिन्दी – जब अर्जी - दावा पूरा हो जाय और उसमें से स्वीकार करने योग्य तथा अस्वीकार करने योग्य बातों का निर्णय हो जाय तथा प्रतिश्रुत अर्थ का निश्चय हो जाय, तब उसके बाद उसका उत्तर लिखना चाहिए ॥ १३७ ॥

विनिश्चिते इति । प्रतिज्ञाते पूर्वपक्षे ग्राह्याग्राह्याभ्याम् अंशाभ्यां विशोधिते संस्कृते अत एव विनिश्चिते तथा स्थिरीभूते सति ततः उत्तरं लेखयेत् प्रतिवादिनेति शेषः ॥१३७ ॥

तत्राभियोक्ता प्राक् पृष्टो ह्यभियुक्तस्त्वनन्तरम् ।

प्राड्विवाकः सदस्याद्यैर्दाप्यते ह्युत्तरं ततः ॥ १३८ ॥

अन्वयः — तत्र प्राक् अभियोक्ता ततः अभियुक्तः पृष्टः । अनन्तरम् उभयोः सदस्याद्यैः प्राड्विवाकः उत्तरं दाप्यते ॥ १३८ ॥

व्याख्या — तत्र = तस्मिन् विवादे, प्राक् = प्रथमम्, अभियोक्ता = वादी, ततः = तदनन्तरम्, अभियुक्तः = प्रतिवादी, पृष्टः = जिज्ञासितो भवेत् । अनन्तरम् = तत्पश्चात्, उभयोः = द्वयोः पृच्छानन्तरम्, सदस्याद्यैः = सांसदप्रभृतिभिः, प्राड्विवाकः = न्यायाधीशः, उत्तरम् = = प्रतिवचनम्, दाप्यते = विचारयेत् ॥ १३८ ॥

हिन्दी— उनमें पहले वादी से, फिर प्रतिवादी से पूछना चाहिए । दोनों से पूछने के बाद जज जूरीपंचों से इसका उत्तर दिलवाए ॥ १३८ ॥

तत्रेति । तत्र विवादे प्राक् अभियोक्ता अर्थी, तदनन्तरम् अभियुक्तः प्रत्यर्थी पृष्टः जिज्ञासितः स्यात्, ततः उभयोः पृच्छानन्तरं सदस्याद्यैः विचारनियुक्तपुरुषादिभिः प्राड्विवाकः उत्तरं दाप्यते सिद्धान्तपक्षमाश्रित्य प्राड्विवाको विचारयेदिति भावः ॥१३८ ॥

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।

पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।

अव्याख्यागम्यमित्येतन्निर्दुष्टं प्रतिवादिना ॥ १३ ९ ॥

अन्वयः — प्रतिवादिना पूर्वावेदकसन्निधौ श्रुतार्थस्य पक्षस्य व्यापकं सारम् असन्दिग्धम् अनाकुलम् अव्याख्यागम्यम् उत्तरं लेख्यम्, इति एतत् निर्दुष्टं स्यात् ॥ १३ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 262

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७४ शुक्रनीतिः व्याख्या — प्रतिवादिना = प्रत्यर्थिना, पूर्वावेदकस्य = अभ्यर्थिनः सन्निधौ = समीपे, श्रुतार्थस्य = अभिय़ोगविषयीभूतस्य, पक्षस्य = समूहस्य, व्यापकम् = आच्छादकम्, सारम् = तथ्यम्, असन्दिग्धम् = सन्देहशून्यम्, अनाकुलम् = सहजभावेन ग्राह्यमर्थम्, अव्याख्यागम्यम् = सुबोध्यम्, उत्तरम् = प्रतिवचनम्, लेख्यम् = लिखितव्यम्, इति = इत्थम्, एतत् = - उत्तरम्, निर्दुष्टम् = दोषरहितं ज्ञेयम् ॥ १३ ९ ॥ करने वाले के पास में लिखे, जिसमें उसके हिन्दी — सुने हुए अर्थ का उत्तर पहले दावा पक्ष का व्यापक वर्णन होते हुए संक्षिप्त या तथ्यपूर्ण हो, कहीं संदिग्ध या त्रुटि न हो, फिर सुबोध हो, व्याख्या - सापेक्ष न हो 1 । प्रतिवादी द्वारा किसी तरह की आपत्ति न उठाई जाय, ऐसा लेख होना चाहिए ॥ १३ ९ ॥ श्रुतार्थस्येति । प्रतिवादिना पूर्वावेदकस्य वादिनः सन्निधौ श्रुतार्थस्य अभियोगविषयीभूतस्य पक्षस्य व्यापकम् आच्छादकं सारम् असन्दिग्धं सन्देहरहितम् अनाकुलं सुखेन बोध्यप्रतिपाद्यमित्यर्थः, अव्याख्यागम्यं सुबोधमित्यर्थः, उत्तरं लेख्यम् इति एवंरूपम् एतत् उत्तरं निर्दुष्टं दोषरहितं भवतीति शेषः ॥१३ ९ ॥

सन्दिग्धमन्यत् प्रकृतादत्यल्पमतिभूरि च ।

पक्षैकदेशे व्याप्यं यत् तत्तु नैवोत्तरं भवेत् ॥ १४० ॥

अन्वयः — सन्दिग्धं प्रकृतात् अन्यत् अत्यल्पं च अतिभूरि वा ं तथा पक्षैकदेशे व्याप्यं यत् तत् उत्तरं नैव भवेत् ॥ १४० ॥

व्याख्या — सन्दिग्धम् = संशयपूर्णम्, प्रकृतात् = प्रस्तुतात्, अन्यत् = भिन्नम्, अत्यल्पम् अतितुच्छं वा, अतिभूरि = अत्यधिकम्, तथा पक्षैकदेशे – पक्षस्य = तत्पक्षस्य, एकदेशे = एकस्मिन् अंशे, व्याप्यम् = व्याप्तुं योग्यम्, यत् तत् उत्तरम् = प्रतिवचनम्, नैव = नास्त्येव, भवेत् [ = स्यात् ॥ १४० ॥

हिन्दी — और जो उत्तर संदेहयुक्त, प्रसंग से बाहर, अतिसंक्षिप्त या अतिविस्तृत, पक्ष के एक भाग में व्याप्त रहने वाला हो, उसे नहीं लिखना चाहिए ॥ १४० ॥

सन्दिग्धमिति । सन्दिग्धं सन्देहयुक्तम् इदं वा एतद्वेति द्वेधयुक्तं प्रकृतात् प्रस्तुतात् अन्यत् भिन्नम् अत्यल्पम् अतिभूरि अत्यधिकं वा तथा पक्षैकदेशे एकस्मिन् पक्षांशे व्याप्यं न तु सर्वस्मिन्नित्यर्थः, यत् तत् उत्तरं नैव भवेत् ॥ १४० ॥

न चाहूतो वदेत् किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ॥। १४१ ॥ अन्वयः — यः आहूतः सन् न किञ्चित् वदेत् सः हीनः दण्ड्यश्च भवेत् ॥ १४१ ॥

व्याख्या— यः = पुरुषः, आहूतः =: आकारितः सन्, न = = नहि, किञ्चित् = किमपि, वदेत् = कथयेत्, सः = अंसौ, हीनः = आश्रितः, दण्ड्यः = दण्डनीयश्च, भवेत् = स्यात् ॥ १४१ ॥

हिन्दी — और बुलाने पर भी जो वादी या प्रतिवादी उत्तर न दे, वह हीन एवं दण्डनीय होता है ॥ १४१ ॥

न चेति । यः अर्थी प्रत्यर्थी वा आहूतः सन् न किञ्चित् वदेत्, सः हीनः पराजितः दण्ड्यश्च भवेत् ॥ १४१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 263

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६७५

पूर्वपक्षे यथार्थे तु न दद्यादुत्तरन्तु यः ।

प्रत्यर्थी दापनीयः स्याद् सामादिभिरुपक्रमैः ॥ १४२ ॥

अन्वयः - यथार्थे पूर्वपक्षे यः प्रत्यर्थी उत्तरं न दद्यात् सः सामादिभिः उपक्रमैः दापनीयः ॥ १४२ ॥

व्याख्या — यथार्थे = तथ्यपूर्णे, सति, पूर्वपक्षे = वादीपक्षे, यः = पुरुषः, प्रत्यर्थी = प्रतिवादी, उत्तरम् = प्रतिवचनम्, न = नहि, दद्यात् = प्रयच्छेत्, सः = वादी, सामादिभिः = सामदानदण्डादिभिः, उपक्रमैः = उपायैः, दापनीयः = वादीधनम् अर्पयितव्यः ॥१४२ ॥

हिन्दी - वादी का पक्ष सत्य सिद्ध होने पर प्रतिवादी उत्तर न दे तो प्रतिवादी पर डिग्री कर देना चाहिए और साम - दानादि उपायों से वादी को उसका धन दिलवा देना चाहिए ॥ १४२ ॥

पूर्वपक्षे इति । यथार्थे पूर्वपक्षे सतिः यः प्रत्यर्थी उत्तरं न दद्यात् सः सामादिभिः सान्त्ववादादिभिः उपक्रमैः उपायैः दापनीयः अभियुक्तधनमिति शेषः स्यात् ॥ १४२ ॥

मोहाद् वा यदि वा शाठ्याद् यन्नोक्तं पूर्ववादिना ।

उत्तरान्तर्गतं वा तत् प्रश्नैर्ग्राह्यं द्वयोरपि ॥ १४३ ॥

अन्वयः - -मोहात् वा शाठ्यात् वा पूर्ववादिनाः यत् न उक्तं यच्च उत्तरान्तर्गतं तत् द्वयोरपि प्रश्नैः ग्राह्यम् ॥ १४३ ॥

व्याख्या – मोहात् = प्रपञ्चात्, वा = अथवा, शाठ्यात् = दौर्जन्यात्, यत् = किञ्चिदपि, न = नहि, उक्तम् = कथितम्, वा = अथवा, यच्च = यदुत्तरम्, उत्तरान्तर्गतम् = प्रतिवादिनः उत्तर-वाक्यान्तरालपतितम्, तत् = सकलम्, द्वयोः = पूर्वापरपक्षयोः समीपात्, पश्नैः = पृच्छाभिः, ग्राह्यम् = ग्रहणं कर्त्तव्यमिति ॥ १४३ ॥

हिन्दी — अज्ञान या शठतावश पहले वादी ने जो कुछ नहीं कहा, प्रतिवादी के उत्तर में वह छूट गया, उसे न्यायाधीश दोनों से पूछ कर साफ कर ले ॥१४३ ॥

मोहादिति । मोहात् अज्ञानात् वा शाठ्यात् वा पूर्ववादिना अर्थिना यत् न उक्तं पूर्वपक्षे इति भावः, यच्च उत्तरान्तर्गतं प्रतिवादिनः उत्तरवाक्यमध्यपतितं मोहनिबन्धनं शाठ्यनिबन्धनं वा किञ्चित्, तत् सर्वम् उभयोः वादिप्रतिवादिना सकाशात् प्रश्नैः पृच्छाभिः ग्राह्यं प्रश्नचातुर्य्येण मोहस्खलितं वा शाठ्यविजृम्भितं बहिष्करणीयमिति भावः ॥१४३ ॥

सत्यं मिथ्योत्तरञ्चैव प्रत्यवस्कन्दनं तथा ।

पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥ १४४ ॥

अन्वयः — उत्तरं चतुर्विधं स्यात् । यथा सत्यं मिथ्योत्तरं प्रत्यवस्कन्दनं तथा पूर्वन्याय-विधिः ॥ १४४ ॥

व्याख्या— उत्तरम् = प्रतिवचनम्, चतुर्विधम् = चतुःप्रकारकम् स्यात् = भवेत् । यथा— सत्यम् = यथार्थम्, मिथ्योत्तरम् = असत्योत्तरम्, प्रत्यवस्कन्दनम्, पूर्वन्यायविधिश्च ॥ १४४ ॥

हिन्दी— उत्तर चार प्रकार के होते हैं । जैसे- सत्य, मिथ्या, प्रत्यवस्कन्द एवं पूर्वन्याय-विधि ॥ १४४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 264

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७६ शुक्रनीतिः सत्यमिति । उत्तरं चतुर्विधं स्यात् । यथा – सत्यं, मिथ्योत्तरं तथा प्रत्यवस्कन्दनं, पूर्वन्याय-विधिश्च ॥ १४४ ॥

अङ्गीकृतं यथार्थं यद्वाद्युक्तं प्रतिवादिना ।

सत्योत्तरन्तु तज्ज्ञेयं प्रतिपत्तिश्च सा स्मृता ॥ १४५ ॥

अन्वयः — वादिना उक्तं यथार्थं यद्वाक्यं प्रतिवादिना अङ्गीकृतं तत् सत्योत्तरं विज्ञेयम् । सा च प्रतिपत्तिः स्मृता ॥ १४५ ॥

व्याख्या — वादिना = अभियोगिना, उक्तम् = कथितम्, यथार्थम् = सत्यम्, यत् = किञ्चित्, वाक्यम् = कथनम्, प्रतिवादिना = प्रत्यर्थिना, अङ्गीकृतम् = स्वीकृतम्, तत् = - वाक्यम्, सत्योत्तरम् = सत्यारोपम्, विज्ञेयम् = विशेषेण ज्ञातव्यम्, सा = वाणी, प्रतिपत्तिः = उपलब्धिः, स्मृता = कथिता ॥ १४५ ॥

हिन्दी — वादी ने जो कुछ कहा वह सत्य है, ऐसा यदि प्रतिवादी स्वीकार कर ले तो इस उत्तर को सत्य कहते हैं । इसी सत्य उत्तर को प्रतिपत्ति अर्थात् उपलब्धि भी कहते हैं ॥ १४५ ॥

अङ्गीकृतमिति । वादिना उक्तं यथार्थं यत् वाक्यं प्रतिवादिना अङ्गीकृतञ्चेत् तत् सत्योत्तरं विज्ञेयं सा च प्रतिपत्तिः स्मृता ॥ १४५ ॥

श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।

अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयमुत्तरम् ॥ १४६ ॥

अन्वयः — अन्यस्तु भाषार्थं श्रुत्वा अर्थतः शब्दतः वापि यदि तं प्रतिषेधति तदा तत् मिथ्योत्तरं ज्ञेयम् ॥ १४६ ॥

व्याख्या — अन्यस्तु = प्रत्यर्थी तु, भाषार्थम् = अभियोगपक्षम्, श्रुत्वा = आकर्ण्य, अर्थतः = आशयतः, शब्दतः = वाक्याच्च, यदि तम् = कथनम्, प्रतिषेधति = विरोधं करोति, तदा तत् = उत्तरम्, मिथ्योत्तरम् = असत्यप्रतिवचनम्, ज्ञेयम् = बोध्यम् ॥ १४६ ॥

हिन्दी — वादी की अर्जी को सुनकर यदि प्रतिवादी उसे स्वीकार न करे तो उसे मिथ्या उत्तर कहते हैं । यह प्रतिषेध चाहे अर्थ से हो या शब्द से हो ॥ १४६ ॥

श्रुत्वेति । अन्यस्तु प्रतिवादी तु भाषार्थं पूर्वपक्षं श्रुत्वा अर्थतः शब्दतश्च यदि तं प्रतिषेधति न स्वीकरोतीत्यर्थः, तदा तत् मिथ्योत्तरं ज्ञेयम् ॥ १४६ ॥

मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः ।

अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम् ॥ १४७ ॥

अन्वयः — मिथ्या च चतुर्विधम् - एतत् मिथ्या, अहं न अभिजानामि, तत्र न मम सन्निधिः, तत्काले अहं अजातः च अस्मि ॥ १४७ ॥

व्याख्या — मिथ्या = अनृतम्, च चतुर्विधम् = चतुःप्रकारकम्, तद्यथा— एतत् = अभियोगः, मिथ्या = अनर्गल आरोपः, एतत् = कथनम्, अहम् = प्रतिवादी, न = नहि, अभिजानामि = = अवगतोऽस्मि, तत्र = तस्मिन् स्थाने, न = नहि, मम = प्रत्यभ्यर्थिनः सन्निधिः = सामीप्यम्, तत्काले = तस्मिन्समये, अहम्, अजातः अस्मि = अनुत्पन्नोऽस्मि ॥ १४७ ॥

हिन्दी — झूठा उत्तर चार प्रकार का होता है । जैसे — यह झूठ है, इसे मैं नहीं जानता हूँ, उस समय मैं वहाँ मौजूद नहीं था और मेरा तो उस समय जन्म भी नहीं हुआ था ॥ १४७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 265

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६७७ मिथ्येति । मिथ्या च चतुर्विधम्, यथा -- एतत् मिथ्या, एतत् अहं न अभिजानामि, तदा यत्कालिकः अभियोग इत्यर्थः, तत्र तस्मिन् स्थाने न मम सन्निधिः सन्निधानम् अवस्थानमित्यर्थः, तत् काले अहम् अजातश्च अस्मि इति ॥ १४७ ॥

अर्थिना लिखितो ह्यर्थः प्रत्यर्थी यदि तं तथा ।

प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ १४८ ॥

अन्वयः — अर्थिना यः अर्थः लिखितः प्रत्यर्थी यदि तं तथा प्रपद्य कारणं ब्रूयात् तदा तत् प्रत्यवस्कन्दनं हि ॥ १४८ ॥

व्याख्या— अर्थिना = वादिना, यः = यत्, अर्थ: = अभिप्रेतार्थः, लिखितः = लिपिबद्धः कृतः, यदि तम् = अभियोगपत्रम्, तथा प्रपद्य = स्वीकृत्य, कारणम् = तस्य हेतु:, ब्रूयात् = वदेत्, तदा तत् = उत्तरम्, प्रत्यवस्कन्दनं, कथ्यते, हि = इत्यवधारणे ॥ १४८ ॥

हिन्दी - दावापत्र में वादी ने जो कुछ लिखा है उसे यदि प्रतिवादी स्वीकार कर के भी उसमें दोष दिखलाये तथा उन दोषों का कारण बतलाये तो इस उत्तर को अवस्कन्दन कहते हैं । पहले मानकर फिर उसे काटना कहते हैं ॥ १४८ ॥

अर्थिनेति । अर्थिना यः अर्थः लिखितः, प्रत्यर्थी यदि तं लिखितम् अर्थं तथा प्रपद्य स्वीकृत्य कारणं ब्रूयात् तदा तत् प्रत्यवस्कन्दनं हि, हिशब्दः अवधारणार्थः ॥ १४८ ॥

अस्मिन्नर्थे समानेन वादः पूर्वमभूत् तदा ।

जितोऽयमिति चेद्ब्रूयात् प्राङ्न्यायः स उदाहृतः ॥ १४ ९ ॥

अन्वयः — अस्मिन् अर्थे पूर्वम् अनेन मम वादः अभूत् तदा अयं जितः इति चेत् ब्रूयात् सः प्राङ्न्याय: उदाहृतः ॥ १४ ९ ॥ व्याख्या — अस्मिन् अर्थे = विषयेऽस्मिन्, पूर्वम् = प्राक्, अनेन = वादिना, मम = प्रति-वादिनः, वादः = विवादः, अभूत् = सञ्जातः, तदा, अयम् = एषः, जितः = विजयी अभवत्, इति = अभियुक्तः, यदि = चेत्, ब्रूयात् = वदेत्, तदा सः प्राङ्न्यायविधिः, उदाहृतः = कथितः ॥ १४ ९ ॥ हिन्दी— इसके साथ इस तरह का मेरा विवाद पहले हो चुका है, इसमें हमारी जीत हो चुकी है, ऐसा जवाब यदि प्रतिवादी का हो तो इस उत्तर को प्राङ्न्यायविधि या पूर्वन्याय कहते हैं ॥ १४ ९ ॥ अस्मिन्निति । अस्मिन् अर्थे विषये पूर्वमनेन मम वादः अभूत्, तदा अयं जितः मया पराजित इति प्रत्यर्थी यदि ब्रूयात् तदा सः प्राङ्न्याय: उदाहृतः उक्तः ॥ १४ ९ ॥

जयपत्रेण सभ्यैर्वा साक्षिभिर्भावयाम्यहम् ।

मया जितः पूर्वमिति प्राङ्न्यायस्त्रिविधः स्मृतः ॥ १५० ॥

अन्वयः - प्राङ्न्यायः त्रिविधः स्मृतः । यथा— अयं मया पूर्वं जितः इति जयपत्रेण सभ्यैः वा साक्षिभिः अहं भावयामि ॥ १५० ॥

व्याख्या – प्राङ्न्यायः त्रिविधः = त्रिप्रकारकः स्मृतः = कथितः, यथा - अयम् = एष जनः, मया = प्रतिवादिना, जितः = विजितः, इति जयपत्रेण = विजयप्रमाणपत्रेण, सभ्यैः = सांसद्भिः, वा = अथवा, साक्षिभिः, अहम् = प्रतिवादी, भावयामि = प्रतिपादयामि ॥ १५० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 266

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७८ शुक्रनीतिः हिन्दी — जयपत्र अर्थात् मुकदमे की डिग्री सांसदों अर्थात् जूरीपंचों या गवाहियों के द्वारा मेरी जीत हो चुकी है, इसे मैं प्रमाणित कर रहा हूँ, ऐसे उत्तर वाले प्राङ्न्याय के ऊपर - लिखित तीन भेद होते हैं ॥ १५० ॥

जयपत्रेणेति । प्राङ्न्यायः त्रिविधः स्मृतः । यथा— अयं मया पूर्वं जित इति जयपत्रेण, सभ्यैः, वा साक्षिभिः भावयामि प्रतिपादयामि, उपायस्य त्रैविध्यादिति भावः ॥ १५० ॥

अन्योऽन्ययोः समक्षन्तु वादिनोः पक्षमुत्तरम् ।

न हि गृह्णन्ति ये सभ्या दण्ड्यास्ते चौरवत् सदा ॥। १५१ ॥

अन्वयः — ये सभ्याः वादिनोः अन्योऽन्ययोः समक्षं पक्षं वा उत्तरं न नहि गृह्णन्ति ते चौरवत् सदा दण्ड्याः ॥ १५१ ॥

व्याख्या - ये सभ्याः = विचारार्थनियोजितसांसदः, वादिनोः = वादिप्रतिवादिनोः, अन्योऽन्ययोः = परस्परयोः, समक्षम् = सम्मुखे एव, पक्षम् = अभियोगम्, वा उत्तरम्, तस्य प्रतिवचनम्, नहि = नास्ति, गृह्णन्ति = लिखन्ति, ते = विचारपुरुषाः, चौरवत् = तस्कर इव, सदा = = सर्वदा, दण्ड्याः = दण्डनीयाः ॥ १५१ ॥

हिन्दी — जो सभासद परस्पर एक - दूसरे के सामने ही वादी और प्रतिवादी के अभियोग एवं उत्तर को सुनकर स्वीकार नहीं करते या लिख नहीं लेते, विचारार्थ नियुक्त वे सभासद सदैव चोर की तरह दण्डनीय होते हैं ॥ १५१ ॥

अन्योऽन्ययोरिति । ये सभ्याः विचारनियुक्ताः पुरुषाः वादिनोः अर्थिप्रत्यर्थिनोः अन्योऽन्ययोः परस्परयोः समक्षं पक्षं वा उत्तरं न हि गृह्णन्ति, ते चौरवत् सदा दण्ड्याः ॥ १५१ ॥

लिखिते शोधिते सम्यक् सति निर्दोष उत्तरे ।

अर्थिप्रत्यर्थिनोर्वापि क्रिया कारणमिष्यते ॥ १५२ ॥

अन्वयः - लिखिते उत्तरे सम्यक् शोधिते निर्दोषे सति अर्थिप्रत्यर्थिनोः क्रिया कारणम् इष्यते ॥ १५२ ॥

व्याख्या — लिखते = लिपिबद्धकृते, उत्तरे = प्रतिवचने, सम्यक् = सुष्ठुतया, शोधिते = परि-मार्जिते, अत एव निर्दोषे = दोषरहिते सति, अर्थिप्रत्यर्थिनोः = वादिप्रतिवादिनोः, क्रिया = प्रमाण-प्रस्तुतीकरणादिरूपा, कारणम् = जयपत्रस्य साधनम्, इष्यते = अभिलषते, अन्विष्यते वेति ॥१५२ ॥

हिन्दी — लिखित उत्तर के भलीभाँति संशोधित हो जाने पर जब दोषरहित सिद्ध हो जाय तब वादी और प्रतिवादी की क्रिया अर्थात् जयपत्र के कारणभूत गवाही का लेखपत्र प्रदर्शन जैसी क्रिया प्रारम्भ करे ॥१५२ ॥

लिखिते इति । लिखिते उत्तरे सम्यक् शोधिते अत एव निर्दोषे सति अतःपरमित्यर्थः, अर्थि-प्रत्यर्थिनोः क्रिया साक्षिलेख्यादिप्रमाणप्रदर्शनादिरूपा कारणं जयपत्रस्येति भावः इष्यते ॥१५२ ॥

पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरात्मकः ।

क्रियापादस्तृतीयस्तु चतुर्थो निर्णयाभिधः ॥ १५३ ॥

अन्वयः — पूर्वपक्षः पादः, उत्तरात्मकः द्वितीयः, क्रियापादः तृतीयः, चतुर्थः तु निर्णयाभिधः स्मृतः ॥ १५३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 267

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६७ ९ व्याख्या – पूर्वपक्ष: = विवादस्य प्रथमः पादः, उत्तरात्मकः = अभियोगस्य प्रतिवचनात्मकः द्वितीयः पादः, क्रिया तु = विचारप्रक्रिया तु, तृतीयः पादः, चतुर्थः पादः, निर्णयाभिधः = विचारपतिना प्रदत्तसिद्धान्तस्तु व्यवहारस्य चतुर्थः पादः स्मृतः = उक्तः ॥ १५३ ॥

हिन्दी — इस तरह किसी भी मुकदमे के चार चरण होते हैं - अभियोग पहला चरण है, उसका उत्तर दूसरा चरण, विचार - प्रक्रिया तीसरा चरण तथा निर्णय अन्तिम अर्थात् चौथा चरण होता है ॥ १५३ ॥

पूर्वपक्ष इति । पूर्वपक्षः पादः प्रथम इति भावः, उत्तरात्मकः द्वितीयः पादः, क्रियापादः तृतीयः, चतुर्थस्तु पादः निर्णयाभिधः सिद्धान्तरूप इत्यर्थः, एतेन व्यवहारस्य चतुष्पादत्वयुक्तम् ॥ १५३ ॥

कार्य्यं हि साध्यमित्युक्तं साधनन्तु क्रियोच्यते ।

अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ १५४ ॥

अन्वयः — साध्यं हि कार्यम् इत्युक्तं, क्रिया साधनम् इत्युच्यते । अर्थी तु तृतीयपादे क्रियया प्रतिपादयेत् ॥ १५४ ॥

व्याख्या — साध्यम् = अनुष्ठेयम्, हि = यतः, कार्यम्, इति = एवम्, उक्तम् = = कथितम्, क्रिया = व्यवहारे साक्षिकथनलेख्यादि, साधनम् = साध्यस्योपकरणम्, उच्यते, तस्मात् अर्थी = वादी, तृतीयपादे = व्यवहारस्य तृतीयचरणे, तु, क्रियया = पूर्वकथितरूपेण, प्रतिपादयेत् = साध्यं सम्पादयेदिति ॥ १५४ ॥

हिन्दी — कार्य को साध्य और साधन को क्रिया कहते हैं । अतः वादी को मुकदमे की तहकीकात ( तीसरा चरण ) समाप्त हो जाने पर साधन अर्थात् प्रमाणों को न्यायाधीश के सामने प्रस्तुत कर देना चाहिए ॥१५४ ॥

कार्य्यमिति । साध्यं कार्य्यमिति उक्तं, क्रिया साक्षिलेख्यादिः साधनं साध्यस्य प्रमाणम् उच्यते, तस्मात् अर्थी तृतीयपादे व्यवहारस्य तृतीयचरणे क्रियया उक्तरूपया प्रतिपादयेत् साध्यं प्रमापयेदित्यर्थः ॥ १५४ ॥

चतुष्पाद् व्यवहारः स्यात् प्रतिपत्त्युत्तरं विना ॥ १५५ ॥

अन्वयः - प्रतिपत्त्युत्तरं विना व्यवहारः चतुष्पाद् स्यात् ॥ १५५ ॥

व्याख्या — प्रतिपत्तिः = उपलब्धिर्वाऽधिगमनस्वरूपम्, उत्तरम् = प्रतिवचनम्, विना = विहाय, अपरेषु त्रिषु उत्तरेषु, व्यवहारः कार्यः, चतुष्पाद् = चतुश्चरणम्, स्यात् = भवेत् ॥ १५५ ॥

हिन्दी — प्रतिपत्ति अर्थात् सत्य उत्तर में जहाँ वादी प्रतिवादी के अभियोग को सीधा स्वीकार कर लेता है, वहाँ मुकदमा दो चरण का ही होता है । शेष स्थिति में मुकदमे के चार चरण होते हैं ॥ १५५ ॥

चतुष्पादिति । प्रतिपत्तिरूपम् उत्तरं विना अपरेषु त्रिषु उत्तरेषु इत्यर्थः, व्यवहारः चतुष्पाद् स्यात्, प्रतिपत्त्युत्तरेषु द्विपादे च तत्र क्रियापादस्य निर्णयपादस्य वा प्रयोजनकत्वादिति भावः ॥१५५ ॥

क्रमागतान् विवादांस्तु पश्येद् वा कार्य्यगौरवात् ॥ १५६ ॥

अन्वयः — क्रमागतान् विवादान् वा कार्यस्य गौरवात् पश्येत् ॥ १५६ ॥

व्याख्या — क्रमागतान् = क्रमेण = आनुपूर्व्येण, आगतान् = सम्प्राप्तान्, विवादान् = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 268

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८० शुक्रनीतिः व्यवहारान्, वा = अथवा, कार्यस्य = व्यवहारस्य, गौरवात् = लाघवगौरवमपेक्ष्य, अत्र यदर्थे पञ्चमी विभक्तिः, पश्येत् = अवलोकयेत् ॥ १५६ ॥

हिन्दी — राजा मुकदमे को क्रमानुसार अथवा मुकदमे की लघुता - गुरुता के अनुसार जैसा उचित समझे तहकीकात करे ॥ १५६ ॥

क्रमागतानिति । क्रमागतान् यथाक्रमेण उपस्थितान् विवादान् क्रमेण वा कार्य्यस्य गौरवात् गौरवमपेक्ष्य इत्यर्थः, यदर्थे पञ्चमी, पश्येत् ॥१५६ ॥

यस्य वाभ्यधिका पीडा कार्य्यं वाभ्यधिकं भवेत् ।

वर्णानुक्रमतो वापि नयेत् पूर्वं विवादयेत् ॥ १५७ ॥

अन्वयः — वा यस्य पीडा अभ्यधिका वा कार्यम् अधिकं भवेत् वाऽपि वर्णानुक्रमतः पूर्वं नयेत् विवादयेत् च ॥ १५७ ॥

व्याख्या –वा = अथवा, यस्य = अभियोगिनः पीडा = कष्टम्, अभ्यधिका = अत्यधिका, वा = अथवा, कार्यम् = कृत्यम्, व्यवहारञ्च, अधिकम् = बहुलम्, भवेत् = स्यात्, इत्यनुचिन्त्य, वाऽपि = अथवा, वर्णानुक्रमतः = जात्यानुक्रमेण, पूर्वम् = प्रथमम्, नयेत् = व्यवहारं गृहीत्वा, विवादयेत् = विचारयेत् ॥ १५७ ॥

हिन्दी — जिस वादी को अधिक पीड़ा हो अथवा अधिक कार्य हो, इसका विचार कर वर्णानुक्रम से मुकदमे की पहली पेशी में लेकर निर्णय करे ॥ १५७ ॥

यस्येति । यस्य वा पीडा अभ्यधिका, वा कार्य्यम् अभ्यधिकम् अत्यधिकं भवेत् एवं विविच्येति शेषः, वापि अथवा वर्णानुक्रमतः ब्राह्मणादिक्रमेण पूर्वं नयेत् विवादयेच्च अभियोगं गृहीत्वा विचारयेदित्यर्थः ॥ १५७ ॥

कल्पयित्वोत्तरं सभ्यैर्दातव्यैकस्य भावना ॥ १५८ ॥

अन्वयः — सभ्यैः उत्तरं कल्पयित्वा एकस्य भावना दातव्या ॥१५८ ॥

व्याख्या — सभ्यैः = सांसद्भिः, उत्तरम् = प्रतिवचनम्, कल्पयित्वा = यथोक्तरीत्या प्रति-वादिनः समीपात् सङ्गृह्य, एकस्य = अभियोगिनः, भावना = चिन्तनस्यावसरः, दातव्या = प्रदानं कर्त्तव्येति ॥ १५८ ॥

हिन्दी — सांसदों अर्थात् विचारकों को चाहिए कि प्रतिवादी से उत्तर सुनकर वादी को सोचने - विचारने का कुछ अवसर अवश्य दे ॥ १५८ ॥

कल्पयित्वेति । सभ्यैः राजपुरुषैः उत्तरं कल्पयित्वा यथोक्तरूपेण प्रतिवादिनः सकाशात् आदाय इत्यर्थः, एकस्य वादिनः भावना चिन्ता साध्यसाधनार्थं चिन्तावसर इत्यर्थः दातव्या ॥ १५८ ॥

साध्यस्य साधनार्थं हि निर्दिष्टा यस्य भावना ।

विभावयेत् प्रतिज्ञातं सोऽखिलं लिखितादिना ॥ १५ ९ ॥

अन्वयः — साध्यस्य साधनार्थं यस्य भावना निर्दिष्टा, सः लिखितादिना अखिलं प्रतिज्ञातं विभावयेत् ॥ १५ ९ ॥ व्याख्या — साध्यस्य = अभियोगस्य, साधनार्थम् = प्रमाणितार्थम्, यस्य = अभियोगिनः, भावना = अनुचिन्तनम्, निर्दिष्टा = कथिता, सः लिखितादिना = विभिन्नसाधनेन, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 269

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६८१ अखिलम् = समस्तम्, प्रतिज्ञातम् = संश्रुतम्, विभावयेत् = प्रतिपादयेत् ॥ १५ ९ ॥ हिन्दी — अभियोग सिद्ध करने वाले साधनों को जुटाने के लिए वादी को जो मौका दिया गया, वह लिखित या साक्ष्य जैसे साधनों की सहायता से सम्पूर्ण अभियोग प्रमाणित करे ॥ १५ ९ ॥ साध्यस्येति । साध्यस्य पक्षस्य साधनार्थं प्रामाण्यार्थं यस्य वादिनः भावना निर्दिष्टा कथिता, सः लिखितादिना साधनेन अखिलं समस्तं प्रतिज्ञातं विभावयेत् प्रतिपादयेत् प्रमापये-दित्यर्थः ॥ १५ ९ ॥ न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर्द्वयोः ॥। १६० ॥ अन्वयः — एकस्मिन् विवादे द्वयोः वादिनोः क्रिया न च स्यात् ॥१६० ॥

व्याख्या — एकस्मिन् = एकमात्रे, विवादे = व्यवहारे, द्वयोः = उभयोः, वादिनोः = वादिप्रति-वादिनोः, क्रिया = उपकरणनिश्चयार्थम्, न च = नैव, स्यात् = भवेत् ॥ १६० ॥

हिन्दी - एक ही मुकदमे में दोनों वादी और प्रतिवादी को एक ही साथ अपने - अपने पक्ष की सम्पुष्टि हेतु प्रमाण उपस्थित करने का आदेश देना उचित नहीं होता है ॥ १६० ॥

न चेति । एकस्मिन् विवादे द्वयोः वादिनोः अर्थिप्रत्यर्थिनोः क्रिया साधननिर्देशार्थं प्रयासः न च स्यात् एकेनैव क्रिया निर्देश्या इति भावः ॥ १६० ॥

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ॥ १६१ ॥

अन्वयः — मिथ्या पूर्ववादे तथा कारणे प्रतिवादिनि क्रिया प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी क्रियां निर्दिशेत् ॥ १६१ ॥

व्याख्या — मिथ्या = असत्योत्तरे, पूर्ववादे = प्रथमाभियोगिनि, कारणे = प्रत्यवस्कन्दने उत्तरे, प्रतिवादिनि = प्रत्यर्थिनि, क्रिया = साधननिर्देशादिप्रकिया, प्राङ्न्यायकारणोक्तौ = प्राङ्न्याय-विधिना साधनोक्तौ, तु प्रत्यर्थी = प्रतिवादी, क्रियाम् = व्यवहारनिर्देशिकां क्रियाम्, निर्दिशेत् = निर्देशं कुर्यात् ॥१६१ ॥

हिन्दी — यदि प्रतिवादी का उत्तर झूठा हो तो वादी को उसे असत्य सिद्ध करने के लिए अवसर देना चाहिए और यदि प्रतिवादी का प्रमाण झूठा हो तो उसे सत्य सिद्ध करने का प्रमाण माँगना चाहिए । यदि प्रतिवादी यह कहे कि इस विषय पर इनके साथ मेरा विवादं पहले भी हुआ है, जिसमें मेरी जीत हुई है तो इसका भी प्रमाण माँगना चाहिए ॥१६१ ॥

मिथ्येति । मिथ्योत्तरे पूर्ववादे प्रथमवादिनि, तथा कारणे प्रत्यवस्कन्दने उत्तरे प्रतिवादिनि क्रिया साधननिर्देशभारः स्यादित्यर्थः, प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी प्रतिवादी क्रियां निर्दिशेत् ॥ १६१ ॥

कारणात् पूर्वपक्षोऽपि उत्तरत्वं प्रपद्यते ॥ १६२ ॥

अन्वयः — पूर्वपक्षोऽपि कारणात् उत्तरत्वं प्रपद्यते ॥ १६२ ॥

व्याख्या — पूर्वपक्षोऽपि = अभियोगी अपि, कारणात् = कस्मादपि हेतोः, कदाचित्, उत्तरत्वम् = उत्तरपक्षत्वम्, प्रपद्यते = आश्रयते ॥ १६२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 270

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८२ शुक्रनीतिः हिन्दी – पूर्वपक्ष भी कभी - कभी कारणवश उत्तरपक्ष का अवलम्बन करता है ॥ १६२ ॥

कारणादिति । पूर्वपक्षोऽपि कारणात् कस्मादपि हेतोरित्यर्थः, कदाचित् उत्तरत्वम् उत्तरपक्षत्वं प्रपद्यते अवलम्बते ॥ १६२ ॥

ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ।

तत् साधनन्तु द्विविधं मानुषं दैविकं तथा ॥ १६३ ॥

अन्वयः – ततः अर्थी सद्यः प्रतिज्ञातस्य अर्थस्य साधनं लेखयेत् । तत् साधनं तु द्विविधम् — मानुषं दैविकं च ॥१६३ ॥

व्याख्या — ततः = तत्पश्चात्, अर्थादुत्तरप्रदानानन्तरम्, अर्थी = वादी, सद्यः = = तत्क्षणमेव, प्रतिज्ञातस्य = प्रतिश्रुतस्य, अर्थस्य = विषयस्य, साधनम् = प्रामाण्यम्, कारणम् = हेतु:, लेखयेत् = लिपिबद्धं कुर्यात्, तत् साधनन्तु द्विविधम् = प्रकारद्वयमस्ति — मानुषम् = मानवीयम्, तथा दैविकम् = देवतासम्बन्धिनम् ॥ १६३ ॥

हिन्दी – पूर्वपक्ष के उत्तर देने के बाद वादी उसी समय उस उत्तर को प्रतिश्रुत विषय को सिद्ध करने के लिए उसे सप्रमाण लिखवा दे । यह प्रमाण मानवीय एवं दैवी दो तरह का होता है ॥१६३ ॥

तत इति । ततः उत्तरदानानन्तरम् अर्थी सद्यः तत्क्षणात् प्रतिज्ञातस्य अर्थस्य विषयस्य साधनं प्रमाणभूतं कारणं लेखयेत्, तत् साधनन्तु द्विविधं, मानुषं तथा दैविकम् ॥ १६३ ॥

क्रिया स्याल्लिखितं भुक्तिः साक्षिणश्चेति मानुषम् ।

दैवं घटादि तद्भव्यं भूतालाभान्नियोजयेत् ॥ १६४ ॥

अन्वयः — लिखितं भुक्तिः साक्षिणश्च इति क्रिया मानुषं स्यात् । घटादि दैवं भूतस्य अलाभात् तद् भव्यं नियोजयेत् ॥ १६४ ॥

व्याख्या — लिखितम् = लिपिबद्धम्, भुक्तिः = भोगः, साक्षिण: = प्रेक्षकाश्च, इति = इत्थम्, त्रिविधा क्रिया, मानुषम् = मानवीयम्, स्यात् = भवेत् । घटादि = तुलादण्डादिरूपं, दैवीम्, भूतस्य = - यथार्थस्य, अलाभात् = अप्राप्तेः तत् = भव्यादिकम्, नियोजयेत् = नियोजनं कुर्यात् ॥ १६४ ॥

हिन्दी — इसमें लिखित, अधिकृत एवं साक्षी — ये तीन मानवीय प्रमाण होते हैं । तुलादण्डादिरूप प्रमाण को दैवी कहते हैं, इसी को भव्य भी कहते हैं । इनका उपयोग यथार्थ का निश्चय न होने पर किया जाता है ॥ १६४ ॥

क्रियेति । लिखितं, भुक्तिः भोग:, साक्षिणश्च इति त्रिविधा क्रिया मानुषं, घटादि तुलादण्डादि-रूपं दैवम् । भूतस्य यथार्थस्य अलाभात् अप्राप्तेः तद् भव्यं घटादि नियोजयेत् ॥१६४ ॥

तत्त्वाच्छलानुसारित्वाद् भूतं भव्यं द्विधा स्मृतम् ।

तत्त्वं सत्यार्थाभिधायि कूटाद्यभिहितं छलम् ॥ १६५ ॥

अन्वयः – तत्त्वस्य छलस्य च अनुसारित्वात् साधनं द्विधा भूतं भव्यं स्मृतम् । सत्यार्थस्य अभिधायि तत्त्वं कूटाद्यभिहितं छलम् ॥१६५ ॥

व्याख्या — तत्त्वस्य = यथार्थस्य, छलस्य = कपटस्य, च, अनुसारित्वात् = अनुकूलत्वात्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA