शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 321–330

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 321–330

पृष्ठ 321

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 321 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७३३ पुत्र इति । पुत्रः, नप्ता पौत्रः, पत्नी, पुत्री कन्या, तत्सुतः दौहित्रः, माता, पिता भ्राता च यथाक्रमं, तथा पूर्वेषाम् उक्तानां पुत्रादीनाम् अलाभात् अभावाच्च तत्सुतः भ्रातृसुतः, धनं हरेत् ॥ ३०२ ॥

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते ।

विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥ ३०३ ॥

अन्वयः — स्त्रीणां सौदायिकं धनं प्राप्य स्वातन्त्र्यम् इष्यते । स्थावरेष्वपि विक्रये दाने च यथेष्टं स्वातन्त्र्यम् ॥ ३०३ ॥

व्याख्या — स्त्रीणां = नारीणाम्, सौदायिकम् = युतकम्, धनम् = द्रव्यम्, प्राप्य = लब्ध्वा, स्वातन्त्र्यम् = स्वाधीनताम्, इष्यते = वाञ्छति । स्थावरेष्वपि = अचलेष्वपि, विक्रये = विपणने, दाने = प्रदाने, च, यथेष्टम् = पर्याप्तम्, स्वातन्त्र्यमस्ति ॥ ३०३ ॥

हिन्दी – उपहार में प्राप्त धन को पाकर नारी उसका उपभोग स्वतन्त्ररूप से कर सकती है । स्त्री धन के रूप में प्राप्त अचल सम्पत्ति को भी किसी के हाथ बेच देने में या किसी को दान दे देने में यथेच्छ स्वतंत्र है ॥ ३०३ ॥

सौदायिकमिति । स्त्रीणां सौदायिकं धनं प्राप्य स्वातन्त्र्यम् इष्यते, स्थावरेषु अपि सौदायिकेषु इत्यर्थः, विषयेषु विक्रये दाने च यथेष्टं स्वातन्त्र्यमस्तीति शेषः ॥ ३०३ ॥

ऊढया कन्यया वापि पत्युः पितृगृहाच्च यत् ।

मातृपित्रादिभिर्दत्तं धनं सौदायिकं स्मृतम् ॥

अन्वयः — ऊढया कन्यया वापि पत्युः पितृगृहात् दत्तं यत् स्मृतम् ॥३०४ ॥

व्याख्या — ऊढया = विवाहितया, कन्यया = अविवाहितयाऽपि च, सदनात्, पितृगृहाच्च = पितृसकाशाच्च, जननीजनकादिभिः दत्तम् = प्राप्तम्, तद्धनं सौदायिकम्, स्मृतम् = कथितम् ॥ ३०४ ॥

३०४ ॥ धनं तत् सौदायिकं पत्युः गृहात् =: स्वामिनः उपहृतम्, यत् = धनम्, हिन्दी - विवाहिता या अविवाहिता कन्या को पति के घर से या पिता के घर से या माता-पिता की ओर से जो धन मिलता है, उसे सौदायिक कहते हैं ॥ ३०४ ॥

ऊढयेति । ऊढया परिणीतया कन्यया अनूढया अपि पत्युः सकाशात् पितृगृहाच्च मातृपित्रादिभिः दत्तं यत् धनं प्राप्तमिति शेषः, तत् सौदायिकं स्मृतम् ॥३०४ ॥

पित्रादिधनसम्बन्धहीनं यद्यदुपार्जितम् ।

येन सः काममश्नीयादविभाज्यं धनं हि तत् ॥ ३०५ ॥

अन्वयः– पित्रादिधनसम्बन्धहीनं यत् यत् उपार्जितं तत् तत् सः कामम् अश्नीयात् । हि तत् धनम् अविभाज्यम् ॥ ३०५ ॥

व्याख्या —– पित्रादिधनसम्बन्धहीनम् = पैत्रिकसम्पत्तिसाहाय्यविहीनम्, यत् यत् = यत् किञ्चित्, उपार्जितम् = धनं सङ्गृहीतम्, तत् तत् = सकलं धनम्, सः = उपार्जकः, कामम् = यथेच्छम्, अश्नीयात् = उपभोगं कुर्यात्, हि = यतः, तत् = धनम्, अविभाज्यम् = भ्रात्राादिभिर्न विभजनीयम् ॥ ३०५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 322

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 322 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३४ शुक्रनीतिः हिन्दी — जो धन पैत्रिक सम्पत्ति की सहायता के बिना उपार्जित किया गया हो, उस धन का उपभोग यथेच्छ रूप से उपार्जक कर सकता है । क्योंकि इसके बटवारे का कोई दूसरा हकदार नहीं होता है ॥ ३०५ ॥

पित्रादीति । पित्रादिधनसम्बन्धहीनं पैतृकधनसाहाय्यं विनेत्यर्थः, यत् यत् उपार्जितं तत् तत् सः उपार्जकः कामं यथेष्टम् अश्नीयात् उपभुञ्ज्यात् । हि यतः तत् धनम् अविभाज्यं भ्रात्रादिभिर्न विभजनीयम् ॥ ३०५ ॥

जलतस्करराजाग्निव्यसने समुपस्थिते ।

यस्तु स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥ ३०६ ॥

अन्वयः — यत्तु जलतस्करराजाग्निव्यसने समुपस्थिते स्वशक्त्या संरक्षेत्, तस्य दशमः अंशः स्मृतः ॥ ३०६ ॥

व्याख्या — यत्तु = यः कश्चित्, जलतस्करराजाग्निव्यसने — जलम् = जलस्वरूपे, तस्करः = चोररूपे, राजरूपे, व्यसने = विपदि उपस्थिते सति, स्वशक्त्या = आत्मसामर्थ्येन, संरक्षेत् = परधनस्य सम्यक् रूपेण रक्षां कुर्यात्, तस्य = धनस्य, दशमांश: = दशमो भागः स्मृतः = कथितः ॥ ३०६ ॥

हिन्दी – यदि कोई व्यक्ति, पानी, चोर, राजा या अग्नि के संकट से घिरी किसी की सम्पत्ति की रक्षा अपनी समस्त शक्ति लगा कर कर लेता है तो उस धन के दशवें हिस्से का वह हकदार हो जाता है ॥ ३०६ ॥

जलेति । यत्तु जलतस्करराजाग्निव्यसने जलरूपे चोररूपे राजरूपे तथा अग्निरूपे व्यसने विपदि समुपस्थिते सति स्वशक्त्या निजसामर्थ्येन संरक्षेत् अपरधनमिति शेषः, तस्य दशमः अंशः स्मृतः, तद्धनात् स दशमभागं लभेतेत्यर्थः ॥ ३०६ ॥

हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते ।

कार्य्यानुरूपं निर्वेशं लभेरंस्ते यथार्हतः ॥ ३०७ ॥

अन्वयः — यत्र हेमकारादयः सम्भूय शिल्पं कुर्वते ते यथार्हतः कार्यानुरूपं निर्वेशं लभेरन् ॥ ३०७ ॥

व्याख्या — यत्र = यस्मिन् कर्मणि, हेमकारादयः = स्वर्णकारप्रभृतयः सम्भूय = सम्मिल्य, शिल्पम् = हस्तकर्म, कुर्वते = निष्पाद्यते, ते = सर्वे, यथार्हतः = यथायोग्यम्, कार्यानुरूपम् = कार्यानुसारेण, निर्वेशम् = भृतिः, लभेरन् ॥ ३०७ ॥

हिन्दी — जहाँ कई सोनार मिलकर एक साथ कोई हस्तकर्म करे, वहाँ काम के अनुसार उन्हें पारिश्रमिक देना चाहिए ॥ ३०७ ॥

हेमेति । यत्र हेमकारादयः स्वर्णकारप्रभृतयः व्यवसायिन इत्यर्थः, सम्भूय मिलित्वा शिल्पं कुर्वते, ते यथार्हतः यथायोग्यं कार्य्यानुरूपं निर्वेशं भृतिं भोगं वा ' निर्देशो भृतिभोगयोरि’त्यमरः । लभेरन् ॥ ३०७ ॥

संस्कर्त्ता तत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥ ३०८ ॥

अन्वयः — संस्कर्त्ता तत् कलाभिज्ञः मनीषिभिः शिल्पी प्रोक्तः ॥ ३०८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.

पृष्ठ 323

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 323 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७३५ व्याख्या — संस्कर्त्ता = परिष्कर्त्ता, तत्कलासु = तत्तत्कलासु, अभिज्ञः = विशेषज्ञः वेत्ता च, मनीषिभिः = विद्वद्भिः, शिल्पी = हस्तकर्मकुशलः, प्रोक्तः = कथितः ॥ ३०८ ॥

हिन्दी — किसी कला का विशिष्ट जानकार होते हुए उनकी खामियों का सुधार करने वाले को ज्ञानीजन ‘ शिल्पी ' कहते हैं ॥ ३०८ ॥

संस्कर्तेति । संस्कर्त्ता संस्कारकः कार्य्यशोधक इत्यर्थः तत्कलासु संस्कारकार्य्यविभागेषु अभिज्ञः जनः मनीषिभिः विद्वद्भिः शिल्पी प्रोक्तः ॥ ३०८ ॥

हर्म्यं देवगृहं वापि वापिकोपस्कराणि च ।

सम्भूय कुर्वतां तेषां प्रमुख्यो द्व्यंशमर्हति ॥ ३० ९ ॥

अन्वयः – हर्म्यं देवगृहं वा वापिकोपस्कराणि च सम्भूय कुर्वतां तेषां प्रमुख्यः द्व्यंशम् अर्हति ॥ ३० ९ ॥ व्याख्या — हर्म्यम् = राजभवनम् देवगृहम् = देवालयम्, वा = अथवा, वापिकाम् = दीर्घिकाम्, उपस्कराणि = गृहोपकरणानि, सङ्घटकानि च च = पुनः सम्भूय = मिलित्वा, कुर्वताम् = विदधताम्, तेषाम् = जनानाम्मध्ये, प्रमुख्यः – प्रधानतमः, द्व्यंशम् = भागद्वयम्, अर्हति = प्राप्तुं योग्यो भवति ॥ ३० ९ ॥ हिन्दी — राजमहल, देवमन्दिर अथवा बावड़ी या घरेलू उपकरणों को मिलकर बनाने वाले कारीगरों के बीच जो प्रमुख कारीगर है वह दूनी मजदूरी पाने का हकदार होता है ॥ ३० ९ ॥ हर्म्यमिति । हर्म्यं देवगृहं वा वापिकां दीर्घिकाम् उपस्कराणि गृहोपकरणानि च सम्भूय कुर्वतां तेषां व्यवसायिनां मध्ये प्रमुख्यः प्रधानतमः द्वयंशं द्वौ भागौ अर्हति लभते ॥ ३० ९ ॥

नर्त्तकानामेव धर्मः सद्भिरेष उदाहृतः ।

तालज्ञो लभतेऽर्थार्द्धं गायनास्तु समांशिनः ॥ ३१० ॥

अन्वयः — नर्त्तकानाम् एव एषः धर्मः सद्भिः उदाहृतः । तालज्ञः अर्थार्द्धं लभते, अन्ये गायनास्तु समांशिनः ॥ ३१० ॥

व्याख्या — नर्त्तकानाम् = लयावलम्बानाम्, एव = अपि, एषः = अयमेव, धर्मः = विधिः, सद्भिः = सज्जनैः, ' उदाहृतः = वर्णितः । तालज्ञः = सङ्गीते कालक्रियामानज्ञः, अर्थार्द्धम् — अर्थस्य = उपार्जितस्य धनस्य, अर्द्धम् = अर्द्धभागम्, लभते = आप्नोति, अन्ये = गायकास्तु, समांशिनः = समभागिनः भवन्ति ॥३१० ॥

हिन्दी – सज्जनों ने नर्त्तकों के लिए भी यही विधि बतलाई है । इनमें तालविशेषज्ञ अर्जित

धन के आधे भाग का हकदार है । शेष आधे में सभी बराबर बटवारा कर ले ॥ ३१० ॥

नत्र्तकानामिति । नर्त्तकानाम् एव शब्दोऽप्यर्थः नटानामपीत्यर्थः एषः धर्मः सद्भिः साधुभिः उदाहृतः निरूपितः । यथा ताला: अथार्द्ध धनस्य अर्जितस्य अर्द्ध लभते, अन्ये गायनास्तु संमाशिनः समभागिनः भवन्ति ॥ ३१० ॥

परराष्ट्राद्धनं यत् स्याच्चौरैः स्वाम्याज्ञया हृतम् ।

राज्ञे षष्ठांशमुद्धृत्य विभजेरन् समांशकम् ॥ ३११ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 324

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 324 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३६ शुक्रनीतिः अन्वयः — स्वाम्याज्ञया चौरैः परराष्ट्रात् यत् धनं हृतम्, षष्ठांशं राज्ञे उद्धृत्य समांशकं विभजेरन् ॥३११ ॥

व्याख्या — स्वामिनः = प्रभोः, आज्ञया = आदेशेन, चौरैः = तस्करैः, परराष्ट्रात् = अन्यदेशात्, यत् धनम् = द्रव्यम्, हृतम् = चोरितम्, ते, तस्य = प्राप्तधनस्य, षष्ठांशम् = षष्ठभागम्, राज्ञे = नृपाय, उद्धृत्य = निष्कास्य, अवशिष्टस्य समांशकम् = समरूपेण, विभजेरन् = वण्टनं कुर्युः ॥३११ ॥

हिन्दी — मालिक के हुक्म से चोर लोग दूसरे राज्य से जो धन चुरा कर लाते हैं, उनका छठा हिस्सा राजा को देकर शेष का आपस में बराबर बटवारा करना चाहिए ॥ ३११ ॥

परराष्ट्रादिति । स्वामिनः आज्ञया चौरैः परराष्ट्रात् यत् धनं हृतं, ते तस्य षष्ठांशं राज्ञे स्वामिने उद्धृत्य दत्त्वा समांशकं विभजेरन् ॥ ३११ ॥

तेषां चेत् प्रसृतानां च ग्रहणं समवाप्नुयात् ।

तन्मोक्षार्थं च यद्दत्तं वहेयुस्ते समांशतः ॥ ३१२ ॥

अन्वयः — प्रसृतानां तेषां चेत् ग्रहणं समवाप्नुयात् तन्मोक्षार्थं यद्दत्तं ते समांशतः वहेयुः ॥३१२ ॥

व्याख्या – प्रसृतानाम् = चौरकर्मणि प्रचलितानाम्, तेषाम् = चौराणाम्, मध्ये, चेत् = यदि, कश्चित्, ग्रहणम् = धृतः, समवाप्नुयात् = सम्यक्प्रकारेणावाप्नुयात्, अर्थात् कारागृहे निक्षिप्तो भवेत्, तदा तस्य मोक्षार्थम् = मुक्त्यर्थम्, यद्दत्तम्, तत् = परिजनैः, ते = तस्कराः, तत् = तेषां प्रदत्तं धनम्, समांशतः = समभागेन, वहेयुः = दद्युः ॥३१२ ॥

हिन्दी — और यदि चोरी करते वे पकड़ लिये जाये तो उसे छुड़वाने के लिए जो धन खर्च हो, उसे समान भाग से बाँटकर अपने - अपने हिस्से में से दे दें ॥३१२ ॥

तेषामिति । प्रसृतानां चौर्यकर्म्मणि प्रवृत्तानां तेषां मध्ये यदि कश्चित् ग्रहणं समवाप्नुयात् धृतो भवेदित्यर्थः, तदा तस्य मोक्षार्थम् उद्धारार्थं यत् दत्तं तत् परिजनैरिति भावः, ते चौराः तत् दत्तं धनं समांशतः वहेयुः दद्युरित्यर्थः ॥३१२ ॥

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।

समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥ ३१३ ॥

अन्वयः — ये तु हेमधान्यरसादिना प्रयोगं समन्यूनाधिकैः अंशैः तेषां तथाविधः लाभः ॥ ३१३ ॥

व्याख्या — ये = जनाः, तु, हेमधान्यरसादिना – हेम्ना = सुवर्णेन, धान्येन = अन्नेन, रसादिना = द्रव्येण, प्रयोगम् = मिलित्वा वाणिज्यं प्रकुर्वते, तेषाम् = व्यापारिणाम्, धनानुरूपतः समन्यूनाधिकैः, अंशैः = भागैः, तथाविधः = तेन रूपेण, लाभः = = प्राप्तिः, भवतीत्यर्थः ॥ ३१३ ॥

हिन्दी — जो लोग मिलकर सोना, अन्न एवं रसादि द्रव्यों का कोई व्यवसाय करते हैं और उनमें जिनका जैसा काम हो या धन लगा हो, उसके अनुरूप बराबर, कम या ज्यादे भाग में लाभांश में से उसे मिलता है ॥ ३१३ ॥

प्रयोगमिति । ये तु हेमधान्यरसादिना हेम्ना धान्येन रसादिना द्रव्येण प्रयोगं सम्भूय वाणिज्यमित्यर्थः, कुर्वते, तेषां कार्य्यानुरूपतः अर्थानुरूपतश्च समन्यूनाधिकैः अंशैः तथाविधः लाभः भवतीत्यर्थः ॥३१३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 325

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 325 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७३७

समो न्यूनोऽधिको शो योऽनुक्षिप्तस्तथैव सः ।

व्ययं दद्यात् कर्म कुर्य्यात् लाभं गृहणीत चैव हि ॥। ३१४ ॥

अन्वयः — यः समः न्यूनः अधिकः वा अंशः अनुक्षिप्तः सः तथैव व्ययं दद्यात्, कर्म कुर्यात्, लाभं गृह्णीत हि ॥ ३१४ ॥

व्याख्या – यः = व्यवसायी, समः = समानः, न्यूनः = हीनः अधिकः = विशेषः, वा अंशः = भागः, अनुक्षिप्तः = निर्धारित, पूर्वमिति, सः = भागः, तथैव = तेनैव प्रकारेण, व्ययम् = वित्तविनियोगः, दद्यात् = समर्पयेत्, कर्म = कार्यम्, कुर्यात् = विदध्यात्, तथा = = तेनैव रूपेण, लाभम् = प्राप्तिः, गृह्णीत = ग्रहणं कुर्यात् ॥ ३१४ ॥

हिन्दी – व्यवसाय के प्रारम्भ में उन लोगों ने बराबर, कम या ज्यादे अंश में जो द्रव्य लगाया हो, उसी के अनुसार उनका हिस्सा होता है । फिर वे उसी के अनुसार खर्च और काम करते हैं तथा लाभ भी पाते हैं ॥३१४ ॥

सम इति । यः समः तुल्यः, न्यूनः अल्पः अधिको वा अंशः अनुक्षिप्तः निर्द्धारितः पूर्वमिति शेषः, सः भागः तथैव स्यात् । व्ययं यथाभागं दद्यात् कर्म यथाभागं कुर्य्यात् तथा लाभं यथाभागं गृह्णीत हिशब्दः अवधारणार्थः ॥ ३१४ ॥

वणिजानां कर्षकाणामेष एव विधिः स्मृतः ॥ ३१५ ॥

अन्वयः - वणिजानां कर्षकाणाञ्च एषः एव विधिः स्मृतः ॥ ३१५ ॥

व्याख्या — वणिजानाम् = व्यवसायिनाम् कर्षकाणाञ्च = कृषकानाञ्च, एषः = पूर्वोक्तः, एव = इति निश्चयेन, विधिः = रीतिः स्मृतः = कथितः ॥ ३१५ ॥

हिन्दी — यही विधि बनियों और किसानों के लिए बतलाई गई है ॥ ३१५ ॥

वणिजानामिति ॥ वणिजानां कर्षकाणाञ्च एषः एव विधिः स्मृतः कथितः ॥ ३१५ ॥

सामान्यं याचितं न्यास अधिर्दासश्च तद्धनम् ।

अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ।

आपत्स्वपि न देयानि नववस्तूनि पण्डितैः ॥ ३१६ ॥

अन्वयः— सामान्यं याचितं न्यासः आधिः दासश्च तद्धनम् अन्वाहितं च निक्षेपः अन्वये सति सर्वस्वम् एतानि नववस्तूनि पण्डितैः आपत्स्वपि न देयानि ॥३१६ ॥

व्याख्या — सामान्यम् = विभाजनोपरान्तप्राप्तसाधारणधनम्, याचितम् = प्रत्यर्पणात् प्रार्थ्य-मानीतं धनम्, न्यासः = स्थापितधनम्, आधिः = बन्धकत्वेन स्थापितं धनम्, दासः = सेवकः, तत् = तस्य धनम्, अन्वाहितम् = अन्यहस्तगतं धनम्, निक्षेपः = अवपातितं धनम्, अन्वये = सन्ताने सति, सर्वस्वम् = सकलं धनम्, एतानि = पूर्वोक्तानि, नववस्तूनि = नवसंख्यकानि वस्तूनि, पण्डितैः = विद्वद्भिः, आपत्स्वपि = घोरसङ्कटेऽपि, न = = नहि, देयानि = अन्यहस्ते प्रत्यर्पितानि ॥३१६ ॥

हिन्दी - बटवारें में प्राप्त साधारण धन, फिर से लौटाने की शर्त पर माँग कर लाया गया धन, धरोहर में रखा गया धन, बन्धक रखा गया धन, दास, दास का धन, दूसरे के हाथ में रखने के लिए दिया हुआ धन, कारीगर के हाथ में ठीक करने के लिए दिया गया धन तथा ४७ शु. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 326

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 326 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३८ शुक्रनीतिः सन्तान रहने के बावजूद अपना सर्वस्व धन घोर विपत्ति के आने के बावजूद भी दूसरों के हाथ में नहीं देना चाहिए ॥ ३१६ ॥

सामान्यमिति । सामान्यं साधारणं धनं, याचितं प्रत्यर्पयिष्यामीत्युक्त्वा प्रार्थ्य आनीतं, न्यासः गच्छितं धनम् आधिः बन्धकं दासः, तद्धनं दासधनम् अन्वाहितम् अन्यहस्ते अर्पितं धनं निक्षेपः शिल्पिहस्ते संस्कारार्थं निक्षिप्तं द्रव्यं तथा अन्वये सन्ताने सति सर्वस्वं सर्वं धनम् एतानि नववस्तूनि पण्डितैः आपत्सु अपि न देयानि न अन्यहस्ते दानविक्रयादिना अर्पणीयानीत्यर्थः ॥ ३१६ ॥

अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति ।

तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥ ३१७ ॥

अन्वयः — यः अदेयं गृह्णाति, यश्च अदेयं प्रयच्छति, तौ उभौ चौरवत् शास्यौ उत्तमसाहसं दाप्यौ च ॥३१७ ॥

व्याख्या — यः = जनः, अदेयम् = दातुं न योग्यं वस्तु, गृह्णाति = ग्रहणं करोति, यश्च, अदेयम् = दाने प्रतिषिद्धं वस्तु, प्रयच्छति = ददाति, तौ = पूर्वोक्तौ उभौ = द्वौ, चौरवत् = तस्कर इव, शास्यौ = दण्डनीयौ, उत्तमसाहसम् = एतदाख्यं दण्डम् दाप्यौ = देयौ चेति ॥ ३१७ ॥

हिन्दी – यदि न देने योग्य किसी वस्तु को कोई किसी को देता है या किसी से लेता है तो वे दोनों देने और लेने वाले चोर की तरह जुर्माना करने लायक होते हैं तथा पूर्ववर्णित उत्तमसाहस नामक दण्ड के हकदार होते हैं ॥ ३१७ ॥

अदेयमिति । यः अदेयं दाने प्रतिषिद्धं वस्तु गृह्णाति यश्च अदेयं प्रयच्छति ददाति तौ उभौ चौरवत् शास्यौ उत्तमसाहसं दाप्यौ च ॥३१७ ॥

अस्वामिकेभ्यश्चौरेभ्यो विगृह्णाति धनं तु यः ।

अव्यक्तमेव क्रीणाति स दण्ड्यश्चौरवन्नृपैः ॥ ३१८ ॥

अन्वयः — यः अस्वामिकेभ्यः चौरेभ्यः धनं विगृह्णाति वा अव्यक्तमेव क्रीणाति, सः नृपैः चौरवत् दण्ड्यो भवति ॥३१८ ॥

व्याख्या- यः = - पुरुषविशेषः, अस्वामिकेभ्यः = अदायिकेभ्यः, चौरेभ्यः = तस्करेभ्यः, धनम् = वित्तम्, विगृह्णाति = विशिष्टरूपेण स्वीकरोति, सः = एवंविधः पुरुषः, चौरवत् = तस्कर इव, दण्ड्यः = दण्डनीयो भवति ॥ ३१८ ॥

हिन्दी — लावारिस धन खरीदने वालों, चोरी का माल खरीदने वालों तथा गुप - चुप माल खरीदने वालों को राजा चोर की तरह दण्ड दे ॥ ३१८ ॥

अस्वामिकेभ्य इति । यः अस्वामिकेभ्यः चौरेभ्यः धनं विगृह्णाति अव्यक्तं गूढं यथा तथा क्रीणाति च सः नृपैः चौरवत् दण्ड्यः ॥३१८ ॥

ऋत्विक् याज्यमदुष्टं यस्त्यजेदनपकारिणम् ।

अदुष्टं चत्र्त्विजं याज्यो विनेयौ तावुभावपि ॥ ३१ ९ ॥

अन्वयः — यः ऋत्विक् अदुष्टम् अनपकारिणं याज्यं तथा याज्यः अदुष्टम् ऋत्विजं त्यजेत्, तौ उभौ अपि विनेयौ भवतः ॥३१ ९ ॥ व्याख्या — यः = पुरुषः, ऋत्विक् = पुरोहितः, अदुष्टम् = दुष्टतारहितम्, अनपकारिणम् = नाहितकारिणम्, याज्यम् = यजमानम्, तथा याज्यः = यजमानश्च, अदुष्टम् = दोषरहितम्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 327

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 327 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७३ ९ ऋत्विजम् = पुरोहितम्, त्यजेत् = परित्यागं कुर्यात्, तौ = यजमान - पुरोहितौ उभौ = द्वौ अपि, विनेयौ = विशिष्टरूपेण दण्डनीयौ स्तः ॥३१ ९ ॥ हिन्दी – जो पुरोहित अपने निर्दोष एवं अनपकारी यजमान को तथा जो यजमान अपने निर्दोष एवं अनपकारी पुरोहित को छोड़ देता है, वे दानों ही दण्डनीय होते हैं ॥ ३१ ९ ॥ ऋत्विगिति । यः ऋत्विक् पुरोहितः अदुष्टं निर्दोषम् अनपकारिणं याज्यं यजमानं, तथा याज्यः यजमानश्च अदुष्टम् ऋत्विजं त्यजेत् तौ उभौ अपि विनेयौ दण्ड्यौ भवतः ॥ ३१ ९ ॥

द्वात्रिंशांशं षोडशांशं लाभं पण्ये नियोजयेत् ।

नान्यथा तद्व्ययं ज्ञात्वा प्रदेशाद्यनुरूपतः ॥ ३२० ॥

अन्वयः – वणिक् पण्ये प्रदेशाद्यनुरूपतः तत् व्ययं ज्ञात्वा द्वात्रिंशांशं षोडशांशं वा लाभं नियोजयेत्, अन्यथा नेति ॥३२० ॥

व्याख्या - व्यवसायी, पण्ये = पणितव्ये वस्तुनि प्रदेशादीनाम् = स्थानविशेषाणाम्, अनुरूपतः = अनुकूलत्वेन, तत् = तस्य विक्रेयवस्तुनः, व्ययम् = वित्तविनियोगम्, ज्ञात्वा = विज्ञाय, द्वात्रिंशांशम् = द्वात्रिंशद्भागम्, वा = अथवा, लाभम् = प्राप्तिः, नियोजयेत् = व्यवस्थापयेत्, अन्यथा = इतरथा, न = नहि ॥ ३२० ॥

हिन्दी — स्थान और समय के अनुसार विक्रेय वस्तु पर लागत व्यय को जानकर व्यवसायी के लाभांश का बत्तीसवाँ या सोलहवाँ भाग राजा को राजस्व के रूप में लेना चाहिए, अन्यथा नहीं । अर्थात् इससे अधिक न ले ॥ ३२० ॥

द्वात्रिंशांशमिति ।. वणिक् पण्ये विक्रये वस्तुनि प्रदेशादीनां देशकालादीनाम् अनुरूपतः तद् व्ययं तस्य पण्यस्य व्ययं ज्ञात्वा द्वात्रिंशांशं षोडशांशं वा लाभं नियोजयेत् व्यवस्थापयेत् अन्यथा न ततोऽधिकं नेत्यर्थः ॥३२० ॥

वृद्धिं हित्वा ह्यर्द्धधनैर्वाणिज्यं कारयेत् सदा ॥ ३२१ ॥

अन्वयः — वृद्धिं हित्वा अर्द्धधनैः सदा वाणिज्यं कारयेत् ॥ ३२१ ॥

व्याख्या - वृद्धिंम् = लाभः हित्वा = परित्यज्य, अथवा – लाभः नाङ्गीकरिष्यामीत्युक्त्वा, अर्द्धधनैः = मूलधनस्यार्द्धभागैः, अथवा – अर्द्धानि वाणिज्यप्राप्तानि धनानि दास्यामीति स्वीकार-वचनैः, सदा = सर्वदा, वाणिज्यम् = व्यापारम्, कारयेत् = कर्तुं प्रेरयेत्, वणिज इति ॥३२१ ॥

हिन्दी —— मैं लाभांश नहीं लूंगा ' ऐसा कहकर और ' व्यापार में प्राप्त धन का आधा धन व्यापार के लिए बनिये को दूँगा ' ऐसी स्वीकृति देकर व्यापार कराये; अथवा – राजा मुनाफा छोड़कर मूल धन के आधे से व्यापारियों द्वारा व्यापार संचालित कराये ॥ ३२१ ॥

वृद्धिमिति । वृद्धिं हित्वा वृद्धिं न ग्रहीष्यामीत्युक्त्वा अर्द्धधनैः अर्द्धानि वाणिज्यलब्धानि धनानि दास्यामीति अङ्गीकारवचनैः सदा वाणिज्यं कारयेत् ॥३२१ ॥

मूलात्तु द्विगुणा वृद्धिर्गृहीता चाधमर्णिकात् ।

तदोत्तमर्णमूलं तु दापयेन्नाधिकं ततः ॥ ३२२ ॥

अन्वयः — यदा मूलात् द्विगुणा वृद्धिः अधमर्णिकात् गृहीता, तदा उत्तमर्णमूलं दापयेत्, ततः अधिकं न ॥३२२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 328

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 328 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४० शुक्रनीति: व्याख्या — यदा = = यस्मिन्काले, मूलात् = मूलधनात्, द्विगुणा = द्विगुणिता, वृद्धिः = लाभः, अधमर्णिकात् = ऋणिनः, गृहीता = नीता, तदा = तर्हि, उत्तमर्णस्य = महाजनस्य, मूलम् = मूलधनमेव, दापयेत् = दातुं प्रेरयेत् ततोऽधिकं न दापयेत् ॥३२२ ॥

हिन्दी – यदि महाजन कर्जदार से मूल धन का दूना मुनाफा पा चुका हो तो राजा उसे केवल मूल धन ही दिलाये, उससे अधिक नहीं ॥ ३२२ ॥

मूलादिति । यदा मूलात् मूलधनात् द्विगुणा वृद्धिः अधमर्णिकात् गृहीता, तदा उत्तमर्णस्य मूलन्तु मूलमेव दापयेत् राजेति शेषः, न अधिकं दापयेदित्यर्थः ॥३२२ ॥

धनिकाश्चक्रवृद्ध्यादिभिषतस्तु प्रजाधनम् ॥ संहरन्ति ह्यतस्तेभ्यो राजा संरक्षयेत् प्रजाम् ॥ ३२३ ॥

अन्वयः — धनिकाः चक्रवृद्ध्यादिमिषतः प्रजानां धनं संहरन्ति हि । अतः राजा तेभ्यः प्रजां संरक्षयेत् ॥ ३२३ ॥

व्याख्या — धनिकाः = महाजनाः, चक्रवृद्धिः = चक्रवार्द्धष्यम्, तस्य मिषतः = कपटप्रबन्धात्, प्रजानाम् = जनानाम्, धनम् = द्रव्यम्, संहरन्ति = अपहरन्ति । हि = यतः, राजा, तेभ्यः = धनिकेभ्यः, प्रजाम् = जनान्, संरक्षयेत् = रक्षां कुर्यात् ॥ २२३ ॥

हिन्दी — महाजन सूद - दर - सूद के बहाने कर्जदार का धन हर लेते हैं ।

खोर महाजन से प्रजा की रक्षा करनी चाहिए ॥ २२३ ॥

धनिका इति ॥ धनिकाः धनिनः चक्रवृद्धिः वृद्धेर्वृद्धिः तस्याः मिषतः छलात् हि, अतः राजा तेभ्यः धनिकेभ्यः प्रजाः संरक्षयेत् स्वार्थे ञयन्तोऽयं रक्षधातुः

यमर्थः सन्न ददाति गृहीतं धनिकाद्धनम् ।

राजा सन्दापयेत्तस्मात् सामदण्डविकर्षणैः ॥ ३२४ ॥

राजा को ऐसे सूद-प्रजानां धनं संहरन्ति ॥ २२३ ॥

अन्वयः — यः समर्थः सन् धनिकात् गृहीतं धनं न ददाति, राजा सामदण्डविकर्षणैः तस्मात् सन्दापयेत् ॥ ३२४ ॥

व्याख्याः यः = अधमर्णः, समर्थः = सशक्तः, सन्नपि, धनिकात् = महाजनात्, गृहीतम् = नीतम्, धनम् = द्रव्यम्, न = नहि, ददाति = प्रयच्छति, राजा,, सामदण्डविकर्षणैः: = - सान्त्वनादण्ड-विकर्षणैः, तस्मात् = अधमर्णात्, सन्दापयेत् = प्रदापयेत् ॥ ३२४ ॥

हिन्दी – यदि लौटाने में समर्थ होकर भी कोई कर्जदार महाजन का धन न लौटाना चाहे तो राजा उसे समझा - बुझाकर या दण्ड देकर महाजन का धन दिलवा दे ॥ ३२४ ॥

समर्थ इति । यः समर्थः शक्तः सन् धनिकात् गृहीतं धनं न ददाति, राजा सामदण्डविकर्षणैः सान्त्ववादैः दण्डप्रयोगैश्च तस्मात् अधर्मणात् सन्दापयेत् ॥ ३२४ ॥

लिखितं तु यदा यस्य नष्टं तेन प्रबोधितम् ।

विज्ञाय साक्षिभिः सम्यक् पूर्ववद्दापयेत्तदा ॥ ३२५ ॥

अन्वयः — यदा यस्य लिखितं नष्टं तदा तेन प्रबोधितं साक्षिभिः सम्यक् विज्ञाय पूर्ववत् सदा दापयेत् ॥३२५ ॥

व्याख्या — यदा = यस्मिन् काले, यस्य = महाजनस्य, लिखितम् = लिखितम् ऋणपत्रम्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 329

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 329 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७४१ नष्टम् = विनष्टमभवत्, तदा तेन = धनिकेन, प्रबोधितम् = राज्ञे पूर्वनिवेदितम्, साक्षिभिः = प्रेक्षकैः, सम्यक् = सुष्ठुतया, विज्ञाय = ज्ञात्वा, पूर्ववत् = अनष्टलेख्येव, सदा = सर्वदा, धनिकाय, दापयेत् = दातुमादिशेत् ॥ ३२५ ॥

हिन्दी – यदि महाजन के पास से किसी कारणवश दस्तावेज ( ऋणपत्र ) नष्ट हो जाय और वह इसकी सूचना राजा को दे तो इसे ठीक से समझ कर गवाही द्वारा प्रमाणित हो जाने पर पहले की तरह जैसे उसका दस्तावेज मौजूद हो मानकर कर्जदार से महाजन को राजा रुपये दिलवा दे ॥ ३२५ ॥

लिखितमिति । यदा यस्य लिखितं ऋणलेख्यं नष्टं तदा तेन धनस्वामिना प्रबोधितं विज्ञापितं राज्ञे इति शेषः, साक्षिभिः सम्यक् विज्ञाय प्रमाणीकृत्य पूर्ववत् अनष्टलेख्यवत् सदा दापयेत् धनिकाय राजेति पदद्वयमध्याहार्य्यम् ॥ ३२५ ॥

अदत्तं यश्च गृह्णाति सुदत्तं पुनरिच्छति ।

दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता ॥ ३२६ ॥

अन्वयः — यश्च अदत्तं गृह्णाति सुदत्तं पुनः इच्छति, एतौ उभौ धर्मज्ञेन महीक्षिता दण्डनीयौ ॥३२६ ॥

व्याख्या — यश्च = पुरुषः, अदत्तम् = विनाप्रदत्तम्, गृह्णाति = नयति, च = पुनः, यः पुरुषः, सुदत्तम् = सम्यग्रूपेण प्रदत्तं धनम्, पुनः = भूयः, तस्मात्, ग्रहीतुम् इच्छति = अभिलषति, तौ = पुरुषौ, उभौ = द्वौ प्रकारकौ, धर्मज्ञेन = धर्मवेत्रा, महीक्षिता = राज्ञा, दण्डनीयौ = दमनीयाविति ॥ ३२६ ॥

हिन्दी — जो बिना दिये ही किसी की वस्तु लेता है तथा जो किसी को दी गई वस्तु पुनः पाने की इच्छा करता है तो ये दोनों व्यक्ति धर्मवेत्ता से दण्डनीय होते हैं ॥ ३२६ ॥

अदत्तमिति । यश्च अदत्तं गृह्णाति यश्च सुदत्तं धनं पुनः ग्रहीतुम् इच्छति, एतौ उभौ धर्मज्ञेन महीक्षिता राज्ञा दण्डनीयौ ॥ ३२६ ॥

कूटपण्यस्य विक्रेता स दण्ड्यश्चौरवत् सदा ॥ ३२७ ॥

अन्वयः — यः कूटपण्यस्य विक्रेता सः सदा चौरवत् दण्ड्यः ॥३२७ ॥

व्याख्या- यः = = वणिक्, कूटपण्यस्य — कूटेन = छलेन, पण्यस्य =: विक्रेयवस्तुनः, विक्रेता = विक्रयिकः, सः = वणिक्, सदा = सर्वदा, चौरवत् = तस्कर इव, नृपेण, दण्ड्यः = दण्डं दातुं योग्यः ॥३२७ ॥

हिन्दी — जो किसी वस्तु को किसी के हाथ धोखा देकर बेचता है, वह सदा राजा के द्वारा चोर की तरह दण्डनीय होता है ॥ ३२७ ॥

कूटेति । यः कूटपण्यस्य कपटविक्रेयस्य विक्रेता, सः सदा चौरवत् दण्ड्यः ॥ ३२७ ॥

दृष्ट्वा कार्य्याणि च गुणान् शिल्पिनां भृतिमावहेत् ॥ ३२८ ॥

अन्वयः – शिल्पिनां कार्याणि गुणांश्च दृष्ट्वा भृतिम् आवहेत् ॥ ३२८ ॥

व्याख्या – शिल्पिनाम् = हस्तकर्मविशेषज्ञानाम्, कार्याणि = कृत्यानि, गुणांश्च = धर्मांश्च, दृष्ट्वा = अवलोक्य, भृतिम् = वेतनम्, आवहेत् = दद्यात् ॥ ३२८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 330

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 330 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४२ शुक्रनीतिः हिन्दी — कारीगरों के काम और उनके गुणों को देखकर ही उसकी मजदूरी तय करे ॥३२८ ॥

दृष्ट्वेति । शिल्पिनां कार्य्याणि गुणांश्च दृष्ट्वा भृतिं वेतनम् आवहेत् दद्यात् ॥ ३२८ ॥

पञ्चमांशं चतुर्थांशं तृतीयांशं तु कर्षयेत् ।

अर्द्धं वा राजताद्राजा नाधिकं तु दिने दिने ॥ ३२ ९ ॥

अन्वयः — राजा दिने दिने राजतात् पञ्चमांशं चतुर्थांशं तृतीयांशं वा अर्द्धं कर्षयेत्, न तु अधिकम् ॥ ३२ ९ ॥ व्याख्या — राजा = भूपतिः, दिने दिने = प्रतिदिनम्, राजतात् = रौप्यविक्रयात्, पञ्चमांशम् = पञ्चमो भागः, चतुर्थांशम् = चतुर्थो भागः, तृतीयांशम् = तृतीयो भागः, वा = अथवा, अर्द्धम् = अर्द्धांशम्, कर्षयेत् = ग्रहणं कुर्यात्, न तु अधिकम् = अतोऽधिकं न गृह्णीयात् ॥ ३२ ९ ॥ हिन्दी – राजा प्रतिदिन चाँदी की बिक्री में से लाभ का पाँचवाँ, चौथा या तीसरा भाग अथवा आधा भाग राजस्व के रूप में ले और इससे अधिक न ले ॥ ३२ ९ ॥ पञ्चमांशमिति । राजा दिने दिने प्रतिदिनं राजतात् रौप्यविक्रयात् पञ्चमांशं चतुर्थांशं तृतीयांशं वा अर्द्धं कर्षयेत् गृह्णीयात् न अधिकम् अर्द्धादप्यधिकं न गृह्णीया-दित्यर्थः ॥ ३२ ९ ॥

विद्रुतं न तु हीनं स्यात् स्वर्णं पलशतं शुचिः ।

चतुःशतांशं रजतं ताम्रं न्यूनं शतांशकम् ॥ ३३० ॥

अन्वयः — पलशतं शुचिः स्वर्णं विद्रुतं हीनं न तु स्यात् । रजतं चतुःशतांशकं तथा ताम्रं शतांशकं न्यूनं न स्यात् ॥ ३३० ॥

व्याख्या — पलशतम् = शतसंख्यकपलपरिमितम्, शुचिः = परिष्कृतम्, स्वर्णम् = कनकम्, विद्रुतम् = विगलितम्, सत्, हीनम् = भारेऽल्पम्, न तु = नैव, स्यात् = भवेत् । रजतम् = रौप्यम्, चतुःशतांशम् = चतुःशतभागः, तथा ताम्रम् = मुनिपित्तलम्, शतांशकम् = शतभागपरिमितम्, न्यूनम् = हीनम्, स्यात् = भवेत् ॥३३० ॥

हिन्दी — सौ पल अर्थात् चार सौ भर शुद्ध सोना गलाने पर वजन में कम नहीं होना चाहिए । सौ पल शुद्ध चाँदी गलाने पर उसका चारसौवाँ भाग तथा तथा ताँबे पर सौवाँ भाग कम होना चाहिए ॥ ३३० ॥

विद्रुतमिति । पलशतं शतपलमितं शुचिः निर्दोषं स्वर्णं विद्रुतं विगलितं सत् हीनं तौल्ये अल्पं न तु नैव स्यात् । रजतं चतुःशतांशं, तथा ताम्रं शतांशकं न्यूनं स्यात् ॥३३० ॥

वङ्गं च जसदं सीसं हीनं स्यात् षोडशांशकम् ।

अयोऽष्टांशं त्वन्यथा तु दण्ड्यः शिल्पी सदा नृपैः ॥ ३३१ ॥

अन्वयः — वङ्गं जसदं तथा सीसं षोडशांशकं हीनं स्यात्, अयः अष्टांशम् । अन्यथा शिल्पी सदा नृपैः दण्डनीयः ॥३३१ ॥

व्याख्या — वङ्गम् = त्रपुः, जसदम् = सुवर्णारिः, तथा सीसम् = महाबलम्, षोडशांशकम् = = षोडशभागपर्यन्तम्, Sanskrit हीनम् = Academy तौल्येऽल्पम् form स्यात स्यात् = भुवे Form लोहम्, अष्टांशम् =