शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 331–340
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७४३ अष्टभागपरिमितम्, हीनं भवेत् । अन्यथा = एतत्परिमिताधिक्यहानौ, शिल्पी = हस्तकर्मकारः, सदा = सर्वदा, नृपैः = भूभृद्भिः दण्ड्यः = दण्डनीयो भवति ॥ ३३१ ॥
हिन्दी — राँगा, जस्ता और सीसा गलाने पर सोलहवाँ हिस्सा कम हो जाता है और लोहा गलाने पर आठवाँ हिस्सा कम होता है । इससे कम तौल होने पर राजा कारीगर को दण्ड दे ॥३३१ ॥
वङ्गमिति । वङ्गं रङ्गमित्यर्थः, जसदं धातुविशेषः तदा सीसं षोडशांशकं हीनं स्यात् । अयः लौहस्तु अष्टांशं हीनं स्यादित्यर्थः, अन्यथा तु उक्ताधिक्यहानौ इत्यर्थः, नृपैः, शिल्पी तत्तद्धातुशिल्पकरः सदा दण्ड्यः ॥३३१ ॥
सुवर्णं द्विशतांशं तु रजतं च शतांशकम् ।
हीनं सुघटिते कार्य्ये सुसंयोगे तु वर्द्धते ॥ ३३२ ॥
अन्वयः– सुघटिते कार्ये सुवर्णं द्विशतांशं च रजतं शतांशकं हीनं सुसंयोगे तु वर्द्धते ॥३३२ ॥
व्याख्या - सुघटिते = सुरचिते, कार्ये = निर्माणे, सुवर्णम् = कनकम्, द्विशतांशम् = शतद्वयभागपरिमितम्, च = पुनः, रजतम् = रौप्यम्, शतांशकम् = शतभागमितम्, हीनम् = अल्पम्, भवति, सुसंयोगे = सुष्ठुतयाऽन्यद्रव्यसम्मेलने, तु, वर्द्धते = एधते ॥ ३३२ ॥
हिन्दी — सुन्दर आभूषण तैयार करने के क्रम में छीलने के कारण सोने का दोसौवाँ भाग तथा चाँदी का सौवाँ भाग छीलता है अर्थात् तौल में घटता है और सुन्दर ढंग से आभूषण तैयार करने में टाँके लगाने के कारण सोलहवाँ भाग तौल में बढ़ जाता है ॥ ३३२ ॥
सुवर्णमिति । सुघटितकार्य्ये सुवर्णं द्विशतांशं, रजतं शतांशकं हीनं भवति, सुसंयोगे तु शोभनद्रव्यसंयोगे तु वर्द्धते वृद्धिं गच्छति ॥ ३३२ ॥
षोडशांशं त्वन्यथा हि दण्ड्यः स्यात् स्वर्णकारकः ।
संयोगघटनं दृष्ट्वा वृद्धिं ह्रासं प्रकल्पयेत् ॥ ३३३ ॥
अन्वयः - अन्यथा तु स्वर्णकारकः षोडशांशं दण्ड्यः स्यात् । संयोगघटनं दृष्ट्वा वृद्धिं ह्रासं प्रकल्पयेत् ॥३३३ ॥
व्याख्या — अन्यथा = इतरथा, तु, स्वर्णकारकः = सुवर्णशिल्पी, षोडशांशम् = षोडशभाग-मितम्, दण्ड्यः = दण्डनीयः स्यात् = भवेत्, संयोगघटनम् = सुसंयोगं कुसंयोगं वा, दृष्ट्वा = अवलोक्य, वृद्धिम् = तौल्ये वर्द्धनम्, ह्रासम् = हीनम्, वा, प्रकल्पयेत् = कल्पनां कुर्यात् ॥ ३३३ ॥
हिन्दी — और जिस तरह टाँका आदि देने में मिलावट की जाती है उसी तरह विचारक सोने की बढ़ोतरी या कमी की कल्पना करे । इससे भिन्न स्थिति में सोनार को दण्ड देना चाहिए ॥ ३३३ ॥
षोडशांशमिति । अन्यथा उक्ताधिक्यहानौ इत्यर्थः, स्वर्णकारकः षोडशांशं दण्ड्यः स्यात् । किञ्च संयोगघटनं सुसंयोगं कुसंयोगं वा दृष्ट्वा वृद्धिं ह्रासं वा प्रकल्पयेत् यदि सुसंयोगो भवेत् तदा वृद्धिः सुसंयोगे तु ह्रास एवेत्यर्थः ॥३३३ ॥
स्वर्णस्योत्तमकार्य्ये तु भृतिस्त्रिंशांशकी मता ।
षष्ट्यंशकी मध्यकार्य्ये हीनकार्ये तदर्द्धकी ।
तदर्द्धा कटके ज्ञेया विद्रुते तु तदर्द्धकी ॥ ३३४ ॥।
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
७४४ शुक्रनीतिः अन्वयः – स्वर्णस्योत्तमकार्ये त्रिंशांशकी, मध्यकार्ये षष्ट्यंशकी तथा हीनकार्ये तदर्द्धकी भृति: मता । कटके तदर्द्धा तथा विद्रुते कार्ये तदर्द्धकी भृतिः ज्ञेया ॥ ३३४ ॥
व्याख्या — स्वर्णस्य = चामीकरस्य, उत्तमः = उत्कृष्टः कार्ये = निर्माणे, त्रिंशांशकी = त्रिंशद्भागस्यैकभागः, मध्यकार्ये = सामान्यनिर्माणे, षष्ट्यंशकी = षष्टिभागस्यैकभागः, हीनकार्ये -- = निकृष्टनिर्माणे, तदर्द्धकी = विंशत्यधिकशततमभागस्यैकभागः, भृतिः = पारिश्रमिकः, मता = कथिता । कटके = वलयनिर्माणे, तदर्द्धा = चत्वारिंशदधिकशतद्वयैकभागस्यैकभागः, तथा विद्रुते = मात्रगलितकार्ये, तदर्द्धकी = अशीत्यधिकचतुःशततमभागस्यैकभागः, भृतिः = वेतनम्, ज्ञेया = बोध्या ॥ ३३४ ॥
हिन्दी — उत्तम कोटि के स्वर्णालङ्कार - निर्माण की मजदूरी उस अलंकार के मूल्य के तीसवें भाग के बराबर होती है । मध्यम दर्जे के आभूषण की मजदूरी साठवाँ भाग, निकृष्ट कोटि के आभूषण की मजदूरी उसके एक सौ बीसवाँ भाग, केवल बल्ले की मजदूरी दो सौ चालीसवाँ भाग और केवल सौ सोना गलाने की मजदूरी अस्सीवाँ भाग होनी चाहिए ॥ ३३४ ॥
स्वर्णस्येति । स्वर्णस्य उत्तमकार्य्ये उत्कृष्टनिर्माणे त्रिंशांशकी त्रिंशभागैकभाग इत्यर्थः, मध्यकार्य्ये षष्ट्यंशकी षष्टिभागैकभाग इत्यर्थः तथा हीनका अपकृष्टकर्मणि तदर्द्धकी विंशत्यधिकशततमभागैकभाग इत्यर्थः, भृतिः वेतनं मता । कटके वलये कार्य्ये इत्यर्थः, तदर्द्धा चत्वारिंशदधिकशतद्वयभागैकभाग इत्यर्थः, तदा विद्रुते गलितमात्रे कार्य्ये तदर्द्धकी अशीत्यधिकचतुःशततमभागैकभाग इत्यर्थः, भृतिः ज्ञेया ॥ ३३४ ॥
उत्तमे राजते त्वर्द्धा तदर्द्धा मध्यमे स्मृता ।
हीने तदर्द्धा कटके तदर्द्धा सम्प्रकीर्त्तिता ॥ ३३५ ॥
अन्वयः —–— उत्तमे राजते त्वर्द्धा, मध्यमे तदर्द्धा स्मृता । हीने तदर्द्धा, कटके तदर्द्धा सप्रकीर्त्तिता ॥३३५ ॥
व्याख्या — उत्तमे = उत्कृष्टे, राजते = रौप्ये, कार्ये, अर्द्धा = अर्द्धभागमिता, भृतिः, मध्यमे = मध्यमराजताभूषणनिर्माणे, तदर्द्धा = चतुर्थभागः, भृतिः, स्मृता = ज्ञेया । हीने = निकृष्ट-निर्माणे, राजते = रौप्ये, तदर्द्धा = अष्टमभागः, वेतनं स्मृतम्, तथा कटके = वलये, तदर्द्धा = षोडशभागः, भृतिः = वेतनम्, प्रकीर्त्तिता = कथिता ॥ ३३५ ॥
हिन्दी — अच्छे ढंग के चाँदी के जेवर की मजदूरी जेवर के वजन का आधा भाग, मध्यम दर्जे के बने जेवर की मजदूरी चौथा भाग, हीन दर्जे के जेवर की मजदूरी आठवाँ भाग और केवल चाँदी के कड़े की मजदूरी सोलहवाँ भाग होती है ॥३३५ ॥
उत्तमे इति । उत्तमे राजते कार्य्ये अर्द्धा, मध्यमे राजते तदर्द्धा चतुर्थभाग इत्यर्थः, भृतिः स्मृता । हीने अपकृष्टे राजते तदर्द्धा अष्टमभाग इत्यर्थः, तथा कटके तदर्द्धा षोडशभाग इत्यर्थः, भृतिः सम्प्रकीर्त्तिता ॥ ३३५ ॥
पादमात्रा भृतिस्ताम्रे वङ्गे च जसदे तथा ।
लोहेऽर्द्धा वा समा वापि द्विगुणाष्टगुणाथवा ॥ ३३६ ॥
अन्वयः —– ताम्रे वङ्गे तथा जसदे च कार्ये पादमात्रा लोहे अर्द्धा वा समा वा द्विगुणा अथवा अष्टगुणा ॥ ३३६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७४५ व्याख्या – ताम्रे = मुनिपित्तले, वङ्गे = कस्तीरे, जसदे = यशदे, च = पुनः, कार्ये = वस्तु-निर्माणे, पादमात्रा = चतुर्थांशमेव, लोहे = अयस्के, अर्द्धा = अर्द्धभागः, वा = अथवा, समा = तुल्या, वा द्विगुणा = द्विगुणिता, अथवा अष्टगुणा = वसुगुणिता, भृतिः = वेतनम्, विज्ञेया ॥३३६ ॥
हिन्दी – ताँबा, राँगा अथवा जस्ता की बनी वस्तुओं की मजदूरी चौथे भाग के बराबर होती है । लोहे की बनी वस्तुओं की मजदूरी आधी, बराबर, दुगुनी अथवा आठगुनी होती है ॥३३६ ॥
पादमात्रेति । ताम्रे वङ्गे जसदे च कार्य्यं पादमात्रा चतुर्थभागः, लोहे अर्द्धा वा समा वा द्विगुणा अथवा अष्टगुणा भृतिः ज्ञेयेति शेषः, विकल्पश्च कार्य्यगौरवलाघवापेक्षो बोद्धव्यः ॥ ३३६ ॥
धातूनां कूटकारी तु द्विगुणो दण्डमर्हति ॥ ३३७ ॥
अन्वयः --- धातूनां कूटकारी द्विगुणं दण्डम् अर्हति ॥ ३३७ ॥
व्याख्या — धातूनाम् = खनिजभेदानाम्, सुवर्णादीनां, कूटकारी = जालकरः, द्विगुणः = द्विगुणितम्, दण्डम् = दमनम्, अर्हति = समर्थो भवति ॥ ३३७ ॥
हिन्दी — धातुओं में यदि कोई मिलावट या जालसाजी करे तो मूल धन का दूना उसे जुर्माना होना चाहिए ॥ ३३७ ॥
धातूनामिति । धातूनां स्वर्णादीनां कूटकारी जालकरः द्विगुणं दण्डम् अर्हति लभते ॥ ३३७ ॥
लोकप्रचारैरुत्पन्नो मुनिभिर्विधृतः पुरा ।
व्यवहारोऽनन्तपथः स वक्तुं नैव शक्यते ॥ ३३८ ॥
अन्वयः- लोकप्रचारैः उत्पन्नः पुरा मुनिभिः विधृतः व्यवहारः अनन्तपथः । सः वक्तुं नैव शक्यते ॥ ३३८ ॥
व्याख्या — लोकानाम् = जनानाम्, प्रचारैः = प्रचलनैः, उत्पन्नः = सञ्जातः, पुरा = प्राचीन-समये, मुनिभिः = ऋषिभिः, विधृतः = विशेषेण निरूपितः, व्यवहारः = आचारः, अनन्तपथः = अन्तहीनमार्गः । सः = एवंविधव्यवहारः, वक्तुम् = साकल्येन व्याख्यातुम्, नैव = नास्त्येव, शक्यते = शक्यो भवति ॥ ३३८ ॥
हिन्दी — लोगों के अनेक तरह के आचरणों से उत्पन्न तथा प्राचीन काल में मुनियों द्वारा निरूपित व्यवहार के रास्ते अन्तहीन हैं । अतः उनका यथावत् निरूपण करना सम्भव नहीं है ॥ ३३८ ॥
लोकेति । लोकानां प्रचारैः पतिभिः उत्पन्नः जातः पुरा पूर्वस्मिन् काले मुनिभिः विधृतः निरूपितः व्यवहारः अनन्तपथः अशेष इत्यर्थः । सः व्यवहारः वक्तुं साकल्येनेति भावः, नैव शक्यते ॥ ३३८ ॥
उक्तं राष्ट्रप्रकरणं समासात् पञ्चमं तथा ।
अत्रानुक्ता गुणा दोषास्ते ज्ञेया लोकशास्त्रतः ॥ ३३ ९ ॥
इति शुक्रनीतौ चतुर्थाऽध्यायस्य राष्ट्रेऽन्त्यं राजधर्मनिरूपणं नाम पञ्चमं प्रकरणम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
७४६ शुक्रनीतिः अन्वयः – पञ्चमं राष्ट्रप्रकरणं समासात् उक्तम् । अत्र गुणाः दोषश्च अनुक्ताः, ते लोकशास्त्रतः ज्ञेयाः ॥ ३३ ९ ॥ व्याख्या – पञ्चमम् = पञ्चमाख्यम्, राष्ट्रप्रकरणम् = एतदाख्योऽध्यायः, समासात् = सङ्क्षेपेण, उक्तम् = कथितम् । अत्र = अस्मिन् प्रन्थे, गुणाः = उत्कृष्टगुणाः, दोषाः = दुर्गुणाः, च, अनुक्ताः = ' अकथिताः, ते = व्यवहाराणि, लोकशास्त्रतः — लोकतः = लोकव्यवहारात्, शास्त्रतः = शास्त्रव्यवहारात्, ज्ञेयाः = बोध्याः ॥ ३३ ९ ॥ हिन्दी — इस तरह संक्षेप में पञ्चराष्ट्र - प्रकरण का मैंने निरूपण किया । इसमें इनके जो गुण या दोष नहीं कहे जा सके उन्हें लोक तथा शास्त्रों के व्यवहार से जान लेना चाहिए ॥ ३३ ९ ॥ इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' राजधर्मनिरूपण ' नामक पञ्चम प्रकरण को ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । उक्तमिति । पञ्चमं राष्ट्रप्रकरणं समासात् सङ्क्षेपेण उक्तम् । अत्र प्रकरणे गुणा दोषाश्च अनुक्ताः अकथिताः ते गुणदोषाः लोकशास्त्रतः लोकतः शास्त्रतश्च ज्ञेयाः ॥ ३३ ९ ॥ इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य पञ्चमप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य षष्ठं प्रकरणम्
षष्ठं दुर्गप्रकरणं प्रवक्ष्यामि समासतः ।
खातकण्टकपाषाणैर्दुष्पथं दुर्गमैरिणम् ॥ १ ॥
अन्वयः - षष्ठं दुर्गप्रकरणं समासतः प्रवक्ष्यामि । खातकण्टकपाषाणैः दुष्पथं दुर्गमम् ऐरिणम् ॥ १ ॥
व्याख्या — षष्ठम् = षष्ठसंज्ञकम्, दुर्गप्रकरणम् = दुर्गाख्योऽध्यायः, समासतः = सङ्क्षेपेण, प्रवक्ष्यामि = कथयामि, खातकण्टकपाषाणैः – खातेन = परिखया, कण्टकेन = विघ्नकरेण, पाषाणेन = प्रस्तरखण्डेन, दुष्पथम् = दुर्गमम्, दुर्गम् = कोट:, ऐरिणम् = एतदाख्यं प्रकरणम्, कथितमिति शेषः ॥ १ ॥
हिन्दी - अब छठे दुर्ग - प्रकरण को संक्षेप में बतलाता हूँ । खाई, काँटे तथा पत्थरों से घिरे दुर्गम पथ वाले दुर्ग को ' ऐरिण ' कहते हैं ॥ १ ॥
षष्ठमिति । षष्ठं दुर्गप्रकरणं समासतः सङ्क्षेपेण प्रवक्ष्यामि । खातकण्टकपाषाणैः खातेन कण्टकेन पाषाणेन च दुष्पथं दुर्गममित्यर्थः, दुर्गम् ऐरिणं स्मृतमिति शेषः ॥१ ॥
परितस्तु महाखातं पारिखं दुर्गमेव तत् ।
इष्टकोपलमृद्भित्तिप्राकारं पारिघं स्मृतम् ॥ २ ॥
अन्वयः — परितः महाखातं तत् दुर्गं पारिखं एव । तथा इष्टकोपलमृद्भित्तिप्राकारं दुर्गं पारिघं स्मृतम् ॥ २ ॥
व्याख्या — परितः सर्वतः, महाखातम् = दीर्घपरिखा, यस्य तादृशम्, तत् = पूर्वोक्तम्, दुर्गमेव = कोट एव, पारिखम् = परिखयाऽऽवृतमेव, तथा, इष्टकैः = इष्टिकाभिः, उपलैः = पाषाणैः, वा = अथवा, मृद्भिः = मृत्तिकाभिः, दुर्गम् = कोटि:, पारिघम् = एतदाख्यं कोटम्, स्मृतम् = कथितम् ॥ २ ॥
हिन्दी - और जिस के चारों ओर बड़ी खाई हो, उसे पारिख दुर्ग कहते हैं । जिसके चारों ओर ईंट, पत्थर और मिट्टी की दिवालों का परकोटा बना हो, उसे पारिघ दुर्ग कहा जाता है ॥२ ॥
परित इति । परितः सर्वतः चतुर्दिक्षु इत्यर्थः, महाखातं महत्खातं यस्य तादृशं तत् दुर्गं परिखमेव तथा इष्टकैः उपलैः पाषाणैः मृद्भिर्वा भित्तिप्राकारो यस्य तादृशं दुर्गं पारिघं स्मृतम् ॥ २ ॥
महाकण्टकवृक्षौघैर्व्याप्तं तद्वनदुर्गमम् ।
जलाभावस्तु परितो धन्वदुर्गं प्रकीर्त्तितम् ॥ ३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
७४८ शुक्रनीतिः अन्वयः — महाकण्टकवृक्षौघैः व्याप्तं तत् वनदुर्गं, पारितः जलाभावस्तु धन्वदुर्गं प्रकीर्त्तितम् ॥३ ॥
व्याख्या – महाकण्टकवृक्षौघैः = सघनशल्यतरुसमूहैः, व्याप्तम् = वेष्टितम्, तत् = = दुर्गम्, वनदुर्गम् = एतदाख्यदुर्गम्, ख्यातम् । तथा परितः = चतुर्दिक्षु, जलाभावः – यस्य जलस्य = सलिलस्य, अभावः = अविद्यमानता, तत्, धन्वदुर्गम् = एतादाख्यः कोटः, प्रकीर्तिम् = कथितम् ॥३ ॥
हिन्दी — जो किला बड़े - बड़े कटीले पेड़ों के समूह से चारों ओर घिरा हो, उन्हें वनदुर्गम या वनदुर्ग कहते हैं तथा जिस किले के दूर - दूर तक पानी का बिलकुल अभाव हो अर्थात् मरुभूमि से घिरा हो, उसे धन्वदुर्ग कहा जाता है ॥ ३ ॥
महेति । महाकण्टकवृक्षसमूहैः व्याप्तं वेष्टितं तत् दुर्गं वनदुर्गमं वनदुर्गमित्यर्थः । परितः समन्तात् यस्य जलाभावः, तत् धन्वदुर्गं प्रकीर्त्तितम् ॥३ ॥
जलदुर्गं स्मृतं तज्ज्ञैरासमन्तान्महाजलम् ।
सुवारिपृष्ठोच्चघरं विविक्ते गिरिदुर्गमम् ॥ ४ ॥
अन्वयः — आसमन्तात् महाजलं दुर्गं तज्ज्ञैः जलदुर्गं स्मृतम् । तथा विविक्ते सुवारिपृष्ठोच्चघरं गिरिदुर्गमम् ॥४ ॥
व्याख्या — आसमन्तात् = चतुर्दिक्षु, महाजलम् = गम्भीरजलपूर्णखातैरावेष्टितम्, तज्ज्ञैः = दुर्गाभिज्ञैः, जलदुर्गम् = एतदाख्यकोटः स्मृतम् = कथितम् । तथा विविक्ते = निर्जनस्थाने, सुवारीणि = सुष्ठुजलाशययुक्तम्, पृष्ठे = पर्वतोपरि, यस्य तथाभूत्रम्, उच्चघरम् = उन्नतगृहम्, यस्मिन् तथोक्तं दुर्गम्, गिरिदुर्गमम् = गिरिदुर्गम्, प्रकीर्त्तितमिति शेषः ॥ ४ ॥
हिन्दी — जिस किले के चारों ओर बहुत दूर - दूर तक फैली जलराशि हो, उसे जलदुर्ग कहते हैं तथा जो एकान्त में किसी पहाड़ी पर बना हो एवं पानी का पूरा प्रबन्ध हो, उसे गिरिदुर्ग कहते हैं ॥४ ॥
जलेति । आसमन्तात् महाजलं चतुर्दिक्षु महाजलाशयवेष्टितं दुर्गं तज्ज्ञैः दुर्गाभिज्ञैः जलदुर्गं स्मृतम् । तथा विविक्ते विजने सुवारीणि पृष्ठे यस्य तथाभूतम् उच्चघरम् उन्नतगृहं यस्मिन् तथोक्तं दुर्गं गिरिदुर्गमं गिरिदुर्गम् ॥४ ॥
अभेद्यं व्यूहविद्वीरव्याप्तं तत् सैन्यदुर्गमम् ।
सहायदुर्गं तज्ज्ञेयं शूरानुकूलबान्धवम् ॥ ५ ॥
अन्वयः — अभेद्यं व्यूहविद्वीरव्याप्तं तत् सैन्यदुर्गम् । शूरानुकूलबान्धवं तत् सहायदुर्गं ज्ञेयम् ॥५ ॥
व्याख्या — अभेद्यम् = अरिभिरखण्डनीयम्, व्यूहविद्भिः = बलविन्यासविशेषज्ञैः, वीरैः, व्याप्तम् = पूरितम्, तत् = दुर्गम्, सैन्यदुर्गम् = सैन्यदुर्गमिति कथितम् । तथा शूराः = वीरपुरुषाः, अनुकूलाः = हितकराः, बान्धवाः = परिजनाः, यस्मिन् तथोक्तम्, तत् = दुर्गम्, सहायदुर्गम् = एतदाख्यम्, स्मृतम् = कथितम् ॥५ ॥
जिसमें हिन्दी — व्यूहरचना में कुशल वीरों से भरे अभेद्य किले को सैन्यदुर्ग कहते हैं तथा वीर एवं सदैव अनुकूल रहने वाले परिजन रहते हो, उसे सहायदुर्ग कहा जाता है ॥५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्यः षष्ठं प्रकरणम् ७४ ९ अभेद्यमिति । अभेद्यं शत्रुभिः दुर्भेद्यं व्यूहविद्भिः बलविन्यासविज्ञैः वीरैः व्याप्तं तत् दुर्गं सैन्यदुर्गमं सैन्यदुर्गम् । तथा शूराः बलवन्तः अनुकूलाः बान्धवा यस्मिन् तथोक्तं तत् दुर्गं सहायदुर्गं ज्ञेयम् ॥ ५ ॥
परिखादैरिणं श्रेष्ठं पारिघं तु ततो वनम् ।
ततो धन्वजलं तस्माद्गिरिदुर्गं ततः स्मृतम् ॥ ६ ॥
अन्वयः — परिखात् ऐरिणं श्रेष्ठम्, ततः पारिघम्, पारिघात् वनदुर्गं, ततः धन्वदुर्गं, ततः जलं, तस्मात् गिरिदुर्गं श्रेष्ठम् ॥ ६ ॥
व्याख्या - परिखात् =: परिखावेष्टितकोटात्, ऐरिणं दुर्गम, श्रेष्ठम् = उत्कृष्टं भवतिः, ततः = तस्मादैरिणात्, पारिघं दुर्गं वरम्, ततः = तस्मात् पारिघात्, वनम् = वनदुर्गम्, श्रेष्ठम्, ततः = तस्मात् वनदुर्गात्, धन्वदुर्गम्, ततः = = धन्वदुर्गात्, जलम् = जलदुर्गम्, जलदुर्गात्, गिरिदुर्गम् श्रेष्ठम् = उत्तमं भवति ॥ ६ ॥
हिन्दी – पारिख दुर्ग से श्रेष्ठ ऐरिण दुर्ग, ऐरिण से श्रेष्ठ पारिघ दुर्ग, वनदुर्ग से श्रेष्ठ जलदुर्ग और उससे भी श्रेष्ठ गिरिदुर्ग माना जाता है ॥
सहाय सैन्यदुर्गे तु सर्वदुर्गप्रसाधके ।
ताभ्यां विनान्यदुर्गाणि निष्फलानि महीभुजाम् ॥
अन्वयः — सहायसैन्यदुर्गे सर्वदुर्गप्रसाधके, ताभ्यां विना निष्फलानि ॥ ७ ॥
व्याख्या – सहायसैन्यदुर्गे = सहायदुर्गं सैन्यदुर्गञ्च सर्वेषाम् = उससे भी श्रेष्ठ वनदुर्ग, ६ ॥ ७ ॥ अन्यदुर्गे महीभुजां सकलानां, दुर्गाणाम्, प्रसाधके = मण्डनकारके, ताभ्याम् = पूर्वोक्ताभ्यामुभाभ्याम्, विना = विहाय, अन्यदुर्गे — अन्यानि = - अपराणि, दुर्गाणि = कोटाः, महीभुजाम् = नृपाणाम्, निष्फलानि = निष्प्रयोजनानि ॥ ७ ॥
हिन्दी — सैन्यदुर्ग एवं सहायदुर्ग सभी दुर्गों के आभूषण हैं । इन्हें छोड़कर अन्य दुर्ग राजा के लिए निष्फल हैं ॥७ ॥
सहायेति । सहायसैन्यदुर्गे सहायदुर्गं सैन्यदुर्गञ्च सर्वेषां दुर्गाणां प्रसाधके अलङ्कारके सम्पादके वा, यतः ताभ्यां सहायसैन्याभ्यां विना महीभुजां राज्ञाम् अन्यानि दुर्गाणि निष्फलानि भवन्तीत्यर्थः ॥७ ॥
श्रेष्ठं तु सर्वदुर्गेभ्यः सेनादुर्गं स्मृतं बुधैः ।
तत्साधकानि चान्यानि तद्रक्षेन्नृपतिः सदा ॥ ८ ॥
अन्वयः - सेनादुर्गं सर्वदुर्गेभ्यः श्रेष्ठं बुधैः स्मृतम् । अन्यानि तत् साधकानि, तत् नृपतिः सदा रक्षेत् ॥ ८ ॥
व्याख्या — सेनादुर्गम् = प्रशिक्षितसैन्यकोटम्, सर्वेभ्यः = अखिलेभ्यः, दुर्गेभ्यः = कोटेभ्यः, श्रेष्ठः = उत्कृष्टः, बुधैः = पण्डितैः स्मृतम् = कथितम् । अन्यानि = अपराणि, दुर्गाणि = कोटाः, तत् = तेषाम्, साधकानि = तदुपजीव्यानि, तस्मात् = तेन हेतुना, नृपतिः = राजा, सदा = सर्वदा, तत् = सैन्यदुर्गम्, रक्षेत् = सर्वतोभावेन रक्षां कुर्यात् ॥ ८ ॥
हिन्दी — विद्वानों ने सभी दुर्गों में सैन्यदुर्ग को सर्वश्रेष्ठ दुर्ग माना है । अतः राजा को CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
७५० शुक्रनीतिः सब तरफ से सैन्यदुर्ग की रक्षा करनी चाहिए । क्योंकि अन्य सभी दुर्ग तो इसके साधन मात्र हैं ॥ ८ ॥
श्रेष्ठमिति । सेनादुर्गं सर्वदुर्गेभ्यः श्रेष्ठं बुधैः स्मृतम्, अन्यानि दुर्गाणि तत्साधकानि तेषां पोषकाणि अथवा तानि साधकानि येषां तथोक्तानि तदुपजीव्यानीत्यर्थः । तस्मात् नृपतिः सदा तत् सैन्यदुर्गं रक्षेत् ॥८ ॥
सेनादुर्गं तु यस्य स्यात् तस्य वश्या तु भूरियम् ।
विना तु सैन्यदुर्गेण दुर्गमन्यत्तु बन्धनम् ॥९ ॥
अन्वयः — यस्य सेनादुर्गं स्यात् तस्य इयं भू वश्या । सैन्यदुर्गेण विना अन्यदुर्गं बन्धनम् ॥९ ॥
व्याख्या — यस्य = राज्ञः, सेनादुर्गम् = सैन्यकोटः, स्यात् = भवेत्, तस्य = नृपस्य, इयम् = एषा, भूः = पृथिवी, वश्या = वशवर्त्तिनी, भवेत् । सैन्यदुर्गेण = सेनाकोटेन, विना = विहाय, अन्यत् = भिन्नम्, दुर्गम् = कोट:, बन्धनम् = कारागारमिवेति ॥९ ॥
हिन्दी — जिस राजा के पास सैन्यदुर्ग है सारी धरती उसकी वशवर्तिनी है और सैन्य - दुर्ग को छोड़कर सारे दुर्ग बन्धन मात्र है॥९॥
सेनादुर्गमिति । यस्य सेनादुर्गं स्यात् तस्य इयं भूः वश्या वशवर्त्तिनी भवेदित्यर्थः, सैन्यदुर्गेण विना तु अन्यत् दुर्गं बन्धनं कारातुल्यमित्यर्थः॥९ ॥
आपत्कालेऽन्यदुर्गाणामाश्रयश्चोत्तमो मतः ॥ १० ॥
अन्वयः— आपत्काले अन्यदुर्गाणाम् आश्रयः उत्तमः मतः ॥१० ॥
व्याख्या– आपत्काले = विपत्समये, अन्यदुर्गाणाम् — अन्येषाम् = अपरेषाम्, दुर्गाणाम् = कोटानाम्, आश्रयः = अवलम्बनः, उत्तमः = =: श्रयेस्करः, मतः = प्रथितः ॥१० ॥
हिन्दी — वस्तुतः विपत्काल में ही अन्य दुर्गों का आश्रय लेना श्रेयस्कर कहा गया है ॥१० ॥
आपत्काले इति । आपत्काले तु दुर्गाणाम् आश्रयः उत्तमः श्रेयस्करः मतः ॥१० ॥
एकः शतं योधयति दुर्गस्थोऽस्त्रधरो यदि ।
शतं दशसहस्राणि तस्माद्दुर्गं समाश्रयेत् ॥ ११ ॥
अन्वयः — दुर्गस्थः यदि अस्त्रधरः एकोऽपि शतं योधयति, शतं सहस्राणि, तस्मात् दुर्गं समाश्रयेत् ॥ ११ ॥
व्याख्या — दुर्गस्थः = दुर्गे स्थितो जनः, यदि = चेत्, अस्त्रधरः = सायुधः भवेत्, तदा, एकोऽपि = एकमात्रोऽपि, शतम् = शतसंख्यकं, सैन्यम्, योधयति = युद्धं करोति, शतम् = शतसंख्यकम्, सैन्यम्, सहस्राणि = दशशतानि शत्रुबलानि, योधयति, तस्मात् = तेन कारणेन, दुर्गम् = कोटः, समाश्रयेत् = आश्रयणं कुर्यात् ॥११ ॥
हिन्दी — किले के भीतर हथियारबन्द एक सिपाही भी बाहर की सैकड़ों शत्रुसेना से लोहा ले सकता है । अगर किले में सौ हथियारबन्द सैनिक हों तो बाहर की हजारों सेना से युद्ध कर सकते हैं । अतः राजा को किले का आश्रय लेना चाहिए ॥११ ॥
एक इति । दुर्गस्थःजनः यदि अस्त्रधरः भवेत् तदा सः एकोऽपि शतं योधयति, शतं शतसङ्ख्यकः जन इत्यर्थः, दशसहस्राणि योधयेत् तस्मात् दुर्गं समाश्रयेत् ॥ ११ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्यः षष्ठं प्रकरणम् शूरस्य सैन्यदुर्गस्य सर्वं दुर्गमिव स्थलम् ।
युद्धसम्भारपुष्टानि राजा दुर्गाणि धारयेत् ।
धान्यवीरास्त्रपुष्टानि कोशपुष्टानि वै तथा ॥ १२ ॥
अन्वयः - शूरस्य सैन्यदुर्गस्य सर्वं स्थलं दुर्गमिव, किञ्च राजा धान्यवीरास्त्रपुष्टानि तथा कोशपुष्टानि दुर्गाणि धारयेत ॥१२ ॥
व्याख्या – शूरस्य = महाबलशालिनः सैन्यदुर्गस्य = सेनापूरितकोटस्य, स्थलम् = स्थानम्, | दुर्गमिव = कोट इव, भवति, किञ्च, ७५१ युद्धसम्भारपुष्टानि सर्वम् = सकलम्, राजा = = भूपतिः, युद्धसम्भारपुष्टानि = युद्धस्य = समरस्य, सम्भारपुष्टानि = उपकरणपूर्णानि, च = पुनः, धान्यवीरास्त्रपुष्टानि - धान्यैः = अन्नै; वीरैः = शूरसैन्यैः, अस्त्रैः = प्रहरणैश्च, पुष्टानि = पूर्णानि, तथा कोशपुष्टानि = धनपूर्णानि, दुर्गाणि = कोटाः, धारयेत् = अवलम्बयेत् ॥१२ ॥
हिन्दी — वीर सैनिकों के लिए तो सभी जगह सैन्यदुर्गों की भाँति होती हैं, किन्तु राजा युद्ध की सामग्रियों से भरे अन्न, आयुध, वीर सैनिक एवं खजाने से भरे किले का आश्रय ही ग्रहण करे ॥१२ ॥
शूरस्येति । शूरस्य अतिबलवतः सैन्यदुर्गस्य सर्वं स्थलं स्थानं दुर्गमिव भवति । किञ्च राजा युद्धसम्भारपुष्टानि सङ्ग्रामोपकरणपूर्णानि धान्यैर्वीरैः अस्त्रैश्च पुष्टानि तथा कोशपुष्टानि धनपूर्णानि दुर्गाणि धारयेत् आश्रयेत् ॥ १२ ॥
सहायपुष्टं यद्दुर्गं तत्तु श्रेष्ठतरं मतम् ।
सहायपुष्टदुर्गेण विजयो निश्चयात्मकः ॥ १३ ॥
अन्वयः - सहायपुष्टं यद्दुर्गं तत्तु श्रेष्ठतरं मतम् । सहायपुष्टदुर्गेण विजयः निश्चयात्मकः ॥१३ ॥
व्याख्या — सहायपुष्टं — सहायैः = सहायकैः, पुष्टं = परिपूर्णम्, यत् = = पूर्वोक्तप्रकारकम्, दुर्गम् = कोटः, तत्तु = तत्कोटस्तु, श्रेष्ठतरम् = उत्कृष्टतरम्, मतम् = कथितम् । सहायपुष्ट-दुर्गेण = सहायकपूर्णकोटेन, विजयः = जयः, निश्चयात्मकः = निश्चितो भवतीति भावः ॥ १३ ॥
हिन्दी — अतः युद्धसहायक सामग्रियों से भरा जो दुर्ग होता है वही श्रेष्ठतर माना जाता है । जिस राजा का किला उक्त सहायकों से भरा होता है, युद्ध में उसकी जीत निश्चित रूप से होती है ॥१३ ॥
सहायेति । सहायपुष्टं सहायैः पूर्णं यत् दुर्गं तत्तु श्रेष्ठतरं मतम् । सहायपुष्टदुर्गेण विजयः निश्चयात्मकः निश्चितः ॥ १३ ॥
यद्यत् सहायपुष्टं तु तत्सर्वं सफलं भवेत् ।
परस्परानुकूल्यं तु दुर्गाणां विजयप्रदम् ॥ १४ ॥
इति शुक्रनीतौ चतुर्थाध्याये दुर्गनिरूपणं नाम षष्ठं प्रकरणम् । अन्वयः — यत् यत् दुर्गं सहायपुष्टं तत् सर्वं सफलं भवेत् । दुर्गाणां तु परस्परानुकूल्यं विजयप्रदम् ॥ १४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
७५२ शुक्रनीतिः व्याख्या — यत् यत् दुर्गम् = यो हि कोटः, सहायपुष्टम् = सहायकैः परिपूर्णो भवति, तत् = कोटः, सर्वम् = सकलम्, सफलम् = सार्थकम्, भवेत् = स्यात् । दुर्गाणाम् = कोटानाम्, परस्परानुकूल्यम् = अन्योऽन्यसाहाय्यम्, विजयप्रदम् = जयलाभाय, भवति ॥ १४ ॥
हिन्दी – जो किला सहायकों से भरा होता है राजा के लिए वह लाभप्रद होता है । किलों का आपस में एक - दूसरे का सहायक होना विजयप्रद होता है ॥१४ ॥
इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' दुर्गनिरूपण ' नामक षष्ठ प्रकरण की ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई ॥ यदिति । यत् यत् दुर्गं सहायपुष्टं तत् सर्वं सफलं भवेत् । दुर्गाणां परस्परानुकूल्यम् अन्योऽन्यसाहाय्यं विजयप्रदं विजयावहं भवति ॥ १४ ॥
इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य षष्ठप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA