शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 341–350
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम्
दौर्गं सङ्क्षेपतः प्रोक्तं सैन्यं सप्तममुच्यते ।
सेना शस्त्रास्त्रसंयुक्तमनुष्यादिगणात्मिका ॥ १ ॥
अन्वयः — दौर्गं सङ्क्षेपतः प्रोक्तम्, सप्तमं प्रकरणं सैन्यम् उच्यते । शस्त्रास्त्रसंयुक्तमनुष्यादि-गणात्मिका सेना उच्यते ॥ १ ॥
व्याख्या — दौर्गम् = दुर्गविषयकं प्रकरणम्, सङ्क्षेपतः = समासेन, प्रोक्तम् = निगदितम्, सप्तमम् = वर्त्तमानम्, प्रकरणम् = अध्यायः, सैन्यम् = सेनाविषयकम्, उच्यते = कथ्यते । शस्त्रैः = = आयुधैः, अस्त्रैः = प्रहरणैश्च, संयुक्ताः = संवलिताः, ये मनुष्यादयः = मानवादयः, पदातिहस्त्य-श्वरथाः, तेषां गणः = समूह:, तेषाम् आत्मा = जीवितम्, यस्याः तथोक्ताः, सेना = बलम्, उच्यते ॥१ ॥
हिन्दी – इस प्रकार दुर्गनिरूपण नामक छठा अध्याय संक्षेप में वर्णन किया । अब इस सप्तम प्रकरण में सेना का निरूपण करता हूँ । हथियारबन्द सिपाहियों के पैदल, गजारोही, अश्वारोही तथा रथारोही को सेना कहा जाता है ॥१ ॥
दौर्गमिति । दौर्गं दुर्गविषयं प्रकरणं सङ्क्षेपतः प्रोक्तम् । सप्तमं प्रकरणं सैन्यं सेनासङ्क्रान्तम् उच्यते । शस्त्रैः अस्त्रैश्च संयुक्ता ये मनुष्यादयः पादातहस्त्यश्वरथा यस्याः तथोक्ताः सेना उच्यते इति शेषः ॥ १ ॥
स्वगमान्यगमा चेति द्विधा सैव पृथक् त्रिधा दैव्यासुरी मानवी च पूर्वपूर्वा बलाधिका अन्वयः — सा स्वगमा अन्यगमा चेति द्विधा । पृथक् सैव दैवी पूर्वपूर्वा बलाधिका ॥ २ ॥
व्याख्या — सा = सेना, स्वगमा = स्वयं गन्त्री, अन्यगमा = द्विप्रकारका, भवति, पृथक् = पुनश्च सा एव = सैव सेना, इत्यर्थः, तेषां गणः आत्मा
।
॥ २ ॥
आसुरी मानवी चेति त्रिधा, वाहनगा, चेति, द्विधा = दैवी – देवतासम्बन्धिनी, आसुरी = दानवी, मानवी = मानुषी, चेति, त्रिधा = त्रिविधा भवति, तासु पूर्वपूर्वा = आनुपूर्व्येण, बलाधिका = अधिकबलवती भवति ॥ २ ॥
हिन्दी — सेना दो तरह की होती है — पदाति तथा सवारी से चलने वाली । पुनः इन दोनों के दैवी, दानवी और मानवी के रूप में तीन - तीन भेद हैं । ये तीनों पूर्वानुक्रम से अर्थात् मानवी से दानवी, दानवी से दैवी सेना अधिक शक्तिशालिनी होती है ॥२ ॥
स्वगमेति । सा स्वगमा अन्यगमा चेति द्विधा, पृथक् पुनश्च सा एव दैवी आसुरी मानवी चेति त्रिधा, तासु पूर्वपूर्वा बलाधिका अधिकबलशालिनीत्यर्थः तथा च दैवी सर्वश्रेष्ठा, ततः आसुरी, ततश्च मानवीति भावः ॥ २ ॥
४८ शु. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
७५४ शुक्रनीतिः
स्वगमा या स्वयं गन्त्री यानगाऽन्यगमा स्मृता ।
पादातं स्वगमं चान्यद्रथाश्वगजगं त्रिधा ॥
अन्वयः – या स्वयं गन्त्री सा स्वगमा, यानगा अन्यगमा स्मृता अन्यत् रथाश्वगजगं त्रिधा ॥ ३ ॥
व्याख्या – या = सेना, स्वयम् = आत्मनैव, गन्त्री = गमनं स्वगमा = स्वयं गन्त्री, यानगा — या सेना यानैः = वाहनैः, गच्छन्तीति सा, ३ ॥ । यथा पादातं स्वगमम् कुर्वती, सा = = सेना, अन्यत् = यानगा भवति, स्मृतम् = कथितम् । यथा पादातम् = पदातिवर्गः, स्वगमम् = स्वयं पादाचारेण गच्छति, अन्यत् = अन्यगम्, गजाश्वरथगमिति, इति त्रिधा = त्रिप्रकारकम् ॥९ ॥
हिन्दी — जो स्वयं गमन करने वाली सेना होती है, वह स्वगमा और जो दूसरों के द्वारा गमन करने वाली होती है, वह अन्यगमा कहलाती है । अन्यगमा हाथी घोड़ा और रथारोही होने के कारण तीन तरह की होती है ॥ ९ ॥
स्वगमेति । या सेना स्वयं गन्त्री सा स्वगमा, यानगा अन्यगमा स्मृता । यथा पादातं पदातिवर्गः स्वगमं स्वयं पादचारेण गच्छतीत्यर्थः । अन्यत् अन्यगं रथाश्वगजगमिति त्रिधा तथा च केचित् रथैः, केचिदश्वैः केचिच्च गजैर्गच्छन्तीत्यर्थः॥९ ॥
सैन्याद्विना नैव राज्यं न धनं न पराक्रमः ।
बलिनो वशगाः सर्वे दुर्बलस्य च शत्रवः ।
भवन्त्यल्पजनस्यापि नृपस्य तु न किं पुनः ॥ ४ ॥
अन्वयः — सैन्यात् विना राज्यं न, धनं न, पराक्रमः न । यदा सर्वे बलिनः वशगाः दुर्बलस्य च शत्रवः भवन्ति तदा अल्पजनस्य नृपस्यापि तु किं पुनः न? ॥ ४ ॥
व्याख्या — सैन्यात् = सैनिकात्, विना = परित्यज्य, राज्यम् = राष्ट्रम्, न = नहि, धनम् = वित्तम्, न, पराक्रमश्च = = वीरताऽपि च, न = = नहि, तिष्ठेत् । यदा सर्वे = सकलाः जनाः, बलिनः = शक्तिशालिनो जनस्य, वशगाः = वशवर्त्तिनी भवन्ति, तथा दुर्बलस्य = शक्तिहीनस्य, शत्रवः = अरयः, तदा अल्पजनस्य = अनधिकसैन्यवतः नृपस्यापि = राज्ञोऽपि, किमिति प्रश्ने, पुनः = भूयः, न = = नहि, शत्रवः = रिपवः, भवन्ति = जायन्ते, अपितु भवन्त्येवेति ॥ ४ ॥
हिन्दी — सेना के बिना राज्य, धन और पराक्रम कुछ स्थिर नहीं रह सकता है । सभी लोग बलवानों के वशवर्ती एवं दुर्बलों के शत्रु होते ही हैं तो फिर थोड़ी सेना रखने वाले राजा के लोग क्या शत्रु नहीं होते हैं? अर्थात् होते ही हैं ॥ ४ ॥
सैन्यादिति । सैन्यात् विना राज्यं न, धनं, न, पराक्रमश्च न तिष्ठेदित्यर्थः, यदा सर्वे जनाः बलिनः बलवतः जनस्य वशगाः वशवर्त्तिनः, दुर्बलस्य च शत्रवः भवन्ति, तदा अल्पजनस्य अनधिकसैन्यवतः नृपस्यापि किं पुनः न शत्रवो भवन्ति? अपितु भवन्त्येवेत्यर्थः ॥४ ॥
शारीरं हि बलं शौर्य्यबलं सैन्यबलं तथा ।
चतुर्थमास्त्रिकबलं पञ्चमं धीबलं स्मृतम् ।
षष्ठमायुर्बलं त्वेतैरुपेतो विष्णुरेव सः ॥ ५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७५५ अन्वयः - शारीरं हि बलं शौर्यबलं तथा सैन्यबलं चतुर्थम् आस्त्रिकवलं पञ्चमं धीबलं षष्ठम्
आयुर्बलं स्मृतम् । एतैः उपेतः सः विष्णुः एवेति ॥ ५ ॥
व्याख्या - शारीरं = दैहिकं, हि, बलं = शक्तिः, शौर्यस्य = पराक्रमस्य, बलम्, तथा सैन्यस्य = सैनिकस्य च, बलं = सामर्थ्यम्, चतुर्थम् = तुरीयम्, आस्त्रिकस्य = अस्त्रधारिणः, बलं = सामर्थ्यम्, पञ्चमम्, धीबलं = बुद्धिबलं, पष्ठम्, आयुर्बलम् = जीवनसामर्थ्यम्, स्मृतम् = कथितम् । यस्तु, एतैः = पूर्वोक्तैः बलैः, उपेतः = समन्वितः सः = नृपतिस्तु, साक्षात्, विष्णुः– जनार्दनः, एवेति निश्चयः ॥५ ॥
हिन्दी — देह का, पराक्रम का सेना का, हथियार का, बुद्धि का एवं आयु का— इस तरह ये छ: प्रकार के बल कहे गये हैं । जिसमें ये सभी बल मौजूद हैं, वह साक्षात् विष्णु का स्वरूप है ॥५ ॥
शारीरमिति । शारीरं बलं, शौर्य्यबलं स्ववीर्य्यबलं सैन्यबलं चतुर्थम् आस्त्रिकबलम् अस्त्रप्रयोगसामर्थ्यमित्यर्थः, पञ्चमं धीबलं बुद्धिबलं षष्ठम् आयुर्बलं जीवनसामर्थ्यं स्मृतम् । यस्तु एतैः बलैः उपेतः अन्वितः, सः विष्णुरेव ॥५ ॥
न बलेन विनाप्यल्पं रिपुं जेतुं क्षमाः सदा ।
देवासुरनरास्त्वन्योपायैर्नित्यं भवन्ति हि ॥ ६ ॥
अन्वयः — बलेन विना अल्पमपि रिपुं जेतुं सदा न क्षमाः । हि देवासुरनराः अन्योपायैः तु एव नित्यं भवन्ति ॥ ६ ॥
व्याख्या - बलेन = सैन्येन, विना = विहाय, अल्पमपि = तुच्छमपि, रिपुम् = शत्रुम्, जनाः, जेतुम् = विजेतुम्, सदा = = ३ सर्वदा, न = = नहि, क्षमाः = शक्ताः, भवन्ति । हि = यतः, देवासुरनराः = = सुरासुरमानवाः, अन्योपायैः = अपरसाधनैः, तु = इत्यवधारणे, एव = इति निश्चयेन, नित्यम् = शाश्वतम्, भवन्ति = जायन्ते ॥६ ॥
हिन्दी— शक्ति के बिना लोग सामान्य दुश्मन को भी जीत नहीं सकते । क्योंकि देवता, दानव और मानव भी बल न रहने पर अन्य साधनों से शत्रुओं को जीतने के लिए नित्य प्रयत्नशील रहते हैं ॥ ६ ॥ -नेति । बलेन विना जनाः अल्पं क्षुद्रमपि रिपुं शत्रुं सदा जेतुं न क्षमाः न समर्थाः, हि यतः
देवासुरनराः सुरदैत्यमानवाः अन्योपायैः स्वबलव्यतिरिक्तैः उपायैः सैन्यादिबलैः तु एव तुशब्दश्चावधारणे नित्यं भवन्ति उद्युञ्जते इत्यर्थः ॥ ६ ॥
बलमेव रिपोर्नित्यं पराजयकरं परम् ।
तस्माद् बलमभेद्यं तु धारयेद्यत्नतो नृपः ॥ ७ ॥
अन्वयः - बलमेव रिपोः नित्यं परं पराजयकरम् । तस्मात् नृपः अभेद्यं बलमेव तु यत्नतः धारयेत् ॥७ ॥
व्याख्या — बलमेव = सैन्यमेव, रिपोः = शत्रोः, नित्यम् = सततम्, परम् = उत्कृष्टम्, परा-जयकरम् = पराजितुं समर्थः, तस्मात् = तेन कारणेन, नृपः = राजा, अभेद्यम् = रिपुदुर्धर्षम्, बलम् = सैन्यम्, यत्नतः = प्रयासपूर्वकेण, धारयेत् = धारणं कुर्यात् ॥७ ॥
हिन्दी – शत्रु को पराजित करने के लिए मनुष्य का एकमात्र बल ही निरन्तर समर्थ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
७५६ शुक्रनीतिः होता है । अतः प्रयासपूर्वक शत्रुओं के लिए दुर्भेद्य बल को राजा निरन्तर धारण करे ॥ ७ ॥
बलमिति । बलमेव रिपोः शत्रोः नित्यं परं श्रेष्ठं पराजयकरम् । तस्मात् नृपः अभेद्यं शत्रुदुर्धर्षं बलमेव यत्नतः धारयेत् ॥७ ॥
सेनाबलं तु द्विविधं स्वीयं मैत्रं च तद् द्विधा ।
मौलसाद्यस्कभेदाभ्यां सारासारं पुनर्द्विधा ॥ ८ ॥
अन्वयः — सेनाबलं स्वीयं मैत्रञ्च द्विविधम् । तच्च मौलसाद्यस्कभेदाभ्यां द्विधा, पुनः सारम् असारञ्च द्विधा ॥ ८ ॥
व्याख्या — सेनाबलम् = सैन्यशक्तिः, स्वीयम् = स्वकीयम्, तथा मैत्रम् = मित्रबलम् द्विविधम् = प्रकारद्वयम्, तच्च, मौलसाद्यस्कभेदाभ्याम् = परम्पराप्राप्तसाम्प्रतिकाभ्यां भेदाभ्याम्, द्विधा = द्विप्रकारका, तदपि = तावुभावपि, सारम् = तत्त्वम्, असारम् = मूलतत्त्वविहीनञ्चेति, द्विधा = द्विविधेति भावः ॥ ८ ॥
हिन्दी — सैन्यशक्ति भी दो तरह की होती है—- अपना सैन्यबल और मित्रों का सैन्यबल । ये भी परम्परागत एवं आधुनिक के भेद से दो तरह के होते हैं । पुनः इनका सार एवं असार के रूप में दो भेद होते हैं ॥ ८ ॥
सेनाबलमिति । सेनाबलं स्वीयं मैत्रञ्चेति द्विविधम् । तच्च मौलसाद्यस्क भेदाभ्यां क्रमागता-धुनिकभेदाभ्यां कियन्ति क्रमागतानि कियन्ति वा आधुनिकानीति विशेषाभ्यां द्विधा, तदपि पुनः सारम् असारञ्चेति द्विधा ॥ ८ ॥
अशिक्षितं शिक्षितञ्च गुल्मीभूतमगुल्मकम् ।
दत्तास्त्रादि स्वशस्त्रास्त्रं स्ववाहि दत्तवाहनम् ॥ ९ ॥
अन्वयः — तत् अशिक्षितं शिक्षितञ्च गुल्मीभूतम् अगुल्मकं दत्तास्त्रादि स्वशस्त्रास्त्रं स्ववाहि दत्तवाहनम् ॥ ९ ॥
व्याख्या — तत् = पूर्वोक्तं, सैन्यबलम्, अशिक्षितम् = प्रशिक्षणविहीनम्, च = पुनः, शिक्षितम् = प्रशिक्षणप्राप्तम्, गुल्मीभूतम् = हस्त्यश्वादिसेनाविभागभेदयुक्तम्, अगुल्मकम् = सेनाविभाग-भेदरहितम्, दत्तास्त्रादि - दत्तानि = प्रदत्तानि, अस्त्राणि - = आयुधानि, यस्मै तत्, स्वशस्त्रास्त्रम् = निजशस्त्रास्त्रसंयुतम्, स्ववाहि— स्वस्य = आत्मनः, वाहि = वाहनयुतम् दत्तवाहनम् — दत्तम् = समर्पितम्, वाहनम् = यानम्, यस्मै तथाभूतमिति, अनेन प्रकारेण प्रत्येकं द्विविधम् ॥९ ॥
हिन्दी —– इनमें प्रत्येक प्रशिक्षणरहित एवं प्रशिक्षणप्राप्त तथा अश्वारोही, गजारोही, रथारोही एवं पदाति के रूप में विभक्त सेना और अगुल्मक अर्थात् सर्वसम्मिलित सेना पुनः अपनी सवारी वाली सेना तथा दूसरों के द्वारा दी गई सवारी वाली सेना के भेदों से दो प्रकार की होती है ॥९ ॥
अशिक्षितमिति । किञ्च तत् सेनाबलम् अशिक्षितं, गुल्मीभूतम्, अगुल्मकं, दत्तास्त्रादि दत्तानि अस्त्रादीनि यस्मै तत्, स्वशस्त्रास्त्रं निजशस्त्रास्त्रयुक्तं, स्ववाहि निजवाहनान्वितं दत्तवाहनं दत्तं वाहनम् अश्वादि यस्मै तथाभूतमिति प्रत्येकं द्वैधीभावेन बहुविधमिति भावः ॥९ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७५७
सौजन्यात् साधकं मैत्रं स्वीयं भृत्या प्रपालितम् ।
मौलं बह्वब्दानुबन्धि साद्यस्कं यत् तदन्यथा ॥ १० ॥
अन्वयः — सौजन्यात् साधकं मैत्रं भृत्या प्रपालितं स्वीयं बह्वब्दानुबन्धि मौलं तदन्यथा यत् साद्यस्कम् ॥ १० ॥
व्याख्या — सौजन्यात् = सुजनतावशात्, साधकम् = परकार्यसहायकम्, सैन्यम्, मैत्रम् = मित्रसंज्ञकम्, भृत्या = वेतनेन, प्रपालितम् = पोषितम्, सैन्यम्, स्वीयम् = आत्मीयम्, बह्वब्दानुबन्धि — बहून् = कतिपयान्, अब्दान् = वर्षाणि, अनुबध्नाति = निबध्नाति, इति तथोक्तं सैन्यम्, मौलम् = मूलायत्वम्, तदन्यथा— तत् = तेषाम्, अन्यथा = भिन्नम्, सैन्यम्, साद्यस्कम् = सद्योभवत्वम्, नूतनमिति भावः ॥१० ॥
हिन्दी - मित्रतावश युद्ध में साथ देने वाली सेना को मित्रसेना कहते हैं । वेतन पर पलने वाली सेना स्वीय अर्थात् निजी होती है । इसी तरह बहुत वर्षों से नियुक्त सेना को मौल तथा तत्काल नियुक्त सेना को साद्यस्क कहते हैं ॥ १० ॥
सौजन्यादिति । सौजन्यात् साधकं कार्य्यनिर्वाहकं सैन्यं मैत्रं, भृत्या वेतनेन प्रपालितं परिपालितं सैन्यं स्वीयम् । बहून् अब्दान् वत्सरान् अनुबध्नाति इति मूलायतत्वादिति भावः, तदन्यथा तद्भिन्नम् अल्पदिननियुक्तमित्यर्थः, भवत्वादिति भावः ॥ १० ॥
सुयुद्धकामुकं सारमसारं विपरीतकम् ।
शिक्षितं व्यूहकुशलं विपरीतमशिक्षितम् ॥ ११ ॥
अन्वयः — सुयुद्धकामुकं सारं विपरीतकम् असारं व्यूहकुशलं अशिक्षितम् ॥११ ॥
तथोक्तं सैन्यं मौलं सैन्यं साद्यस्कं सद्यो शिक्षितं विपरीतम् व्याख्या – सुयुद्धकामुकम् = सुष्ठुतया योद्धुं समुत्सुकं सैन्यम्, सारम्, विपरीतकम् = एतद्भिन्नं सैन्यम्, असारम् = साररहितम्, व्यूहकुशलम् = गुल्मरचनायां प्रवीणम्, शिक्षितम् = प्रशिक्षणप्राप्तसैन्यम्, विपरीतम् = तद्भिन्नम्, अशिक्षितं सैन्यं भवति ॥११ ॥
हिन्दी — अच्छी तरह युद्ध के लिए तैयार सेना को सार तथा इससे भिन्न को असार और व्यूह रचना में प्रवीण सेना को शिक्षित, इससे भिन्न को अशिक्षित कहते हैं ॥ ११ ॥
सुयुद्धेति । सुयुद्धकामुकं सुयुद्धे समुत्सुकं सैन्यं सारं विपरीतकं तद्भिन्नम् असारम् व्यूहेषु कुशलं निपुणं शिक्षितं, विपरीतम् अकुशलमित्यर्थः, अशिक्षितम् ॥ ११ ॥
गुल्मीभूतं साधिकारि स्वस्वामिकमगुल्मकम् ।
दत्तास्त्रादि स्वामिना यत् स्वशस्त्रास्त्रमतोऽन्यथा ॥ १२ ॥
अन्वयः - साधिकारि गुल्भीभूतं स्वस्वामिकम् अगुल्मकं स्वामिना यत् तत् दत्तास्त्रादि अतोऽन्यथा स्वशस्त्रास्त्रम् ॥१२ ॥
व्याख्या – साधिकारि — अधिकारिणा = सेनापतिना सहितम् = युक्तम्, सैन्यम्, गुल्मीभूतम् = = सेनाविभागभेदयुक्तं भवति, स्वस्वामिकम् = निजाधिकारस्थमर्थात् स्वामिकम्, स्वाधीनं सैन्यम् अगुल्मकम् = सेनाविभागादिभेदरहितं भवति, तथा, यत् = यस्मै, स्वामिना = सेनानायकेन, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
७५८ शुक्रनीतिः अस्त्रादि दीयते, तत् = सैन्यम्, दत्तास्त्रादि = प्रदत्तायुधादि, अतः = एतत्, अन्यथा = भिन्नः, सैन्यम्, स्वशस्त्रास्त्रम् = निजायुधमिति कथ्यते ॥१२ ॥
हिन्दी — सेनापति के साथ रहने वाली सेना को ' गुल्मीभूत ' तथा सेनापति के बिना ही स्वतंत्र रूप से लड़ने वाली सेना को ' अगुल्मीभूत ' कहते हैं । इसी तरह स्वामी ने जिसे हथियार दिया है, वह सेना ‘ दत्तास्त्रादि ' तथा निजी हथियार से लड़ने वाली सेना को ' स्वशस्त्रास्त्र ' कहते हैं ॥ १२ ॥
गुल्मीभूतमिति । साधिकारि सस्वामिकं सेनापतिसहितमित्यर्थः, सैन्यं गुल्मीभूतं, स्वस्वामिकं स्वाधीनमित्यर्थः, सैन्यम् अगुल्मकम् । स्वामिना यदित्यव्ययं यस्मै इत्यर्थः अस्त्रादि दीयते इति शेषः, तत् दत्तास्त्रादि, अतः अन्यथा एतद्व्यतिरिक्तं सैन्यं स्वशस्त्रास्त्रम् ॥१२ ॥
कृतगुल्मं स्वयंगुल्मं तद्वच्च दत्तवाहनम् ।
आरण्यकं किरातादि यत् स्वाधीनं स्वतेजसा ॥ १३ ॥
अन्वयः — तद्वत् कृतगुल्मं स्वयंगुल्मं दत्तवाहनं यत् स्वतेजसा स्वाधीनं किरातादि तत् आरण्यकम् ॥ १३ ॥
व्याख्या — तद्वत् = तथैव, कृतगुल्मम् = राज्ञा सेनाध्यक्षेषु सैन्येषु निवेशितम्, स्वयं-गुल्मस्वयम् = निजेच्छया गुल्माध्यक्षो भूतम् दत्तवाहनम् = नरपतिना प्रदत्तयानम्, यत् स्वतेजसा = निजपराक्रमेण, स्वाधीनम् = स्वतन्त्रम्, किरातादि = वनेचरादि तत् = = सैन्यम्, आरण्यकम् = आटवीम्, कथितम् ॥१३ ॥
हिन्दी – इसी तरह कृतगुल्म अर्थात् राजा ने सेनापति से युक्त सेना में जिसकी गणना की हो तथा स्वयंगुल्म अर्थात् अपनी इच्छा से गुल्मनायक बना हो, सेना के नायक दत्तवाहन अर्थात् जिसे राजा के द्वारा वाहन प्रदत्त हो एवं अपने तेज से स्वाधीन बनी रहने वाली किरातों की सेना को आरण्यक कहते हैं ॥१३ ॥
कृतेति । तद्वत् तथा कृतगुल्मं स्वामिना सेनापत्यधिष्ठितेषु सैन्येषु निवेशितं, स्वयं गुल्मं स्वेच्छया गुल्माधिपतीभूतमित्यर्थः, दत्तवाहनं पूर्वमुक्तम् । यत् स्वतेजसा स्वाधीनं किरातादि, तत् आरण्यकं सैन्यमित्यर्थः ॥ १३ ॥
उत्सृष्टं रिपुणा वापि भृत्यवर्गे निवेशितम् ।
भेदाधीनं कृतं शत्रोः सैन्यं शत्रुबलं स्मृतम् ।
उभयं दुर्बलं प्रोक्तं केवलं साधकं न तत् ॥ १४ ॥
अन्वयः – रिपुणा उत्सृष्टं भृत्यवर्गे निवेशितं वाऽपि शत्रोः भेदाधीनं कृतं सैन्यं शत्रुबलं स्मृतम् । उभयं दुर्बलं प्रोक्तं तत् केवलं साधकं नेति ॥१४ ॥
व्याख्या – रिपुणा = शत्रुणा, उत्सृष्टं = परित्यक्तम्, भृत्यवर्गे = निजसैन्यदले, निवेशितम् = नियोजितम्, वाऽपि = किंवा, शत्रोः = रिपोः, भेदाधीनम् — भेदेन = विभेदकरणेन, अधीनम् = स्वायत्तम्, सैन्यम्, शत्रुबलम् = रिपुसैनिकम्, स्मृतम् = प्रोक्तम् । उभयम् = एतद्विप्रकारकं सैन्यम्, दुर्बलम् = अविश्वसनीयम्, प्रोक्तम् = कथितम्, तस्मात्, केवलम् = नाममात्रमेव सैन्यम्, तत् = शत्रुबलम्, साधकम् = समरकार्यनिर्वाहकम्, न = नास्त्येवेति ॥ १४ ॥
हिन्दी — जिसमें शत्रु के द्वारा निकाले गये सैनिकों को वेतन देकर अपनी सेना में रख CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७५ ९ दिये गये हों अथवा जो शत्रु की सेना भेदनीति से अपने अधीन कर ली गई हो, उसे शत्रुबल कहते हैं । ये दोनों तरह की सेना दुर्बल अर्थात् अविश्वसनीय होती हैं । इन पर भरोसा रखकर युद्ध संचालित नहीं किया जा सकता है ॥१४ ॥
उत्सृष्टमिति । रिपुणा शत्रुणा उत्सृष्टं त्यक्तं सत् भृत्यवर्गे सैन्यदले निवेशितं वापि अथवा शत्रोः भेदाधीनं भेदेन विच्छेदेन अधीनम् आयत्तं सैन्यं शत्रुबलं स्मृतम् । एतदुभयं सैन्यं दुर्बलं प्रोक्तं कथितम् अविश्वसनीयत्वादिति भावः तस्मात् केवलं स्वसैन्यासमभिव्याहृतं तत् न साधकं न कार्य्यनिर्वाहकमित्यर्थः ॥१४ ॥
समैर्नियुद्धकुशलैर्व्यायामैर्नतिभिस्तथा 1 वर्द्धयेद् बाहुयुद्धार्थं भोज्यैः शारीरकं बलम् ॥ १५ ॥
अन्वयः — समैः नियुद्धकुशलैः व्यायामैः नतिभिः बाहुयुद्धार्थं भोज्यैः शारीरकं बलं वर्द्धयेत् ॥१५ ॥
व्याख्या — समैः = समानबलैः, नियुद्धकुशलैः = युद्धप्रवीणैः, वीरैः, सह, बाहुयुद्धार्थम् = मलयुद्धाय, व्यायामैः = बलवर्द्धकश्रमैः, नतिभिः = गुरुजनप्रणतिभिः, तथा = तेनैव प्रकारेण, भोज्यैः = पौष्टिकाऽऽहारैः, शारीरकम् = दैहिकम्, बलम् = शक्तिम्, वर्द्धयेत् = संवर्द्धयेदिति ॥१५ ॥
हिन्दी – मल्लयुद्ध में कुशल समान शक्ति वाले के साथ कुश्ती लड़ा कर तथा व्यायाम कराकर एवं गुरुजनों को प्रणाम कराकर, पौष्टिक आहार देकर बाहुयुद्ध के लिए सैनिकों के दैहिक बल को बढ़ाना चाहिए ॥ १५ ॥
समैरिति । समैः तुल्यबलैः नियुद्धकुशलैः सङ्ग्रामदक्षैः वीरैः सह बाहुयुद्धार्थं व्यायामैः अङ्गचालनाभिः, नतिभिः गुरुजनप्रणतिभिः तथा भोज्यैः बलकरैरन्नादिभिः शारीरकं बलं वर्द्धयेत् गुरुजनप्रणत्या तेषाम् आशीर्वादाद् बलवृद्धिरिति भावः ॥१५ ॥
मृगयाभिस्तु व्याघ्राणां शस्त्रास्त्राभ्यासतः सदा ।
वर्द्धयेच्छूरसंयोगात् सम्यक् शौर्य्यबलं नृपः ॥ १६ ॥
अन्वयः — नृपः व्याघ्राणां मृगयाभिः सदा शस्त्रास्त्राभ्यासतः तथा शूरसंयोगात् शौर्यबलं सम्यक् वर्द्धयेत् ॥ १६ ॥
व्याख्या- नृपः - राजा, व्याघ्राणाम् = = शार्दूलादीनां हिंसकानां, मृगयाभिः = आखेटकादिभिः, सदा = = सर्वदा, शस्त्रास्त्राणाम् = प्रहरणादीनाम्, अभ्यासतः = सततव्यवहारेण, तथा = = तेनैव प्रकारेण, शूरसंयोगात् — शूराणाम् = वीराणाम्, संयोगात् = सम्पर्कात्, शौर्यबलम् = वीरत्वबलम्, सम्यक् = सुष्ठुतया, वर्द्धयेत् = संवर्द्धनं कुर्यात् ॥ १६ ॥
हिन्दी - और हमेशा व्याघ्रादि हिंसक जन्तुओं का शिकार, हथियार चलाने का अभ्यास एवं शूरवीरों की संगति से सैनिकों के शौर्यबल को राजा बढाये ॥१६ ॥
मृगयाभिरिति । नृपः व्याघ्राणाम् उपलक्षणमेतत् हिंस्रजन्तूनामित्यर्थः, मृगयाभिः शरव्यकरणैः, सदा शस्त्रास्त्राणाम् अभ्यासतः पुनः पुनः चालनेन तथा शूराणां वीराणां संयोगात् संसर्गात् शौर्य्यबलं सम्यक् वर्द्धयेत् ॥१६ ॥
सेनाबलं सुभृत्या तु तपोऽभ्यासैस्तथास्त्रिकम् ।
वर्द्धयेच्छास्त्रचतुरसंयोगाद्धीबलं सदा ॥ १७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
७६० शुक्रनीतिः अन्वयः– सुभृत्या सेनाबलं तथा तपोऽभ्यासैः तु आस्त्रिकं सदा शस्त्रचतुरसंयोगात् धीबलं वर्द्धयेत् ॥ १७ ॥
व्याख्या — सुभृत्या = सुष्ठुवेतनदानेन, सेनाबलम् = सैन्यशक्तिम्, तथा = = तेनैव प्रकारेण, तपोभिः = तपस्याभिः, अभ्यासैश्च = अनुशीलनैश्च, आस्त्रिकम् = आयुधप्रयोगशक्तिम्, तथा, सदा = = सर्वदा, शास्त्राणाम् = धर्मग्रन्थानाम्, चतुराणाम् = कुशलानाम्, संयोगात् = सम्पर्कात्, धीबलम् = बुद्धिबलम्, वर्द्धयेत् = वर्द्धनं कुर्यात् ॥ १७ ॥
हिन्दी — अच्छा वेतन देकर सैन्यबल तथा तपस्या और अभ्यास से दिव्यास्त्रों का प्रयोग कर आयुधबल एवं शास्त्र तथा चतुर लोगों की संगति से सदा बुद्धिबल बढ़ाना चाहिए ॥ १७ ॥
सेनाबलमिति । सुभृत्या सुवेतनेन सेनाबलं, तपोभिः अभ्यासैश्च आस्त्रिकम् अस्त्रप्रयोगबलं तथा सदा शास्त्राणां चतुराणाञ्च संयोगात् संसर्गात् धीबलं बुद्धिबलं वर्द्धयेत् ॥ १७ ॥
सत्क्रियाभिश्चिरस्थायि नित्यं राज्यं भवेद्यथा ।
' स्वगोत्रे तु तथा कुर्य्यात् तदायुर्बलमुच्यते ।
यावद्गोत्रे राज्यमस्ति तावदेव स जीवति ॥ १८ ॥
अन्वयः — यथा नित्यं सत्क्रियाभिः राज्यं चिरस्थायि भवेत् तथा स्वगोत्रे कुर्यात् तदेव आयुर्बलम् उच्यते । गोत्रे यावत् राज्यम् अस्ति सः तावदेव जीवति ॥१८ ॥
व्याख्या — यथा = येन प्रकारेण, नित्यम् = सततम्, सत्क्रियाभिः = उत्कृष्टकर्मभिः, राज्यम् = राष्ट्रम्, चिरस्थायि = अशीघ्रनाशि, भवेत् = स्यात्, तथा = तेनैव रूपेण, स्वगोत्रे = निजान्वये, कुर्यात् = विदध्यात्, तत् = = तदेव, आयुर्बलम् = जीवनशक्तिः, उच्यते = कथ्यते । यस्मात्, गोत्रे = स्वकीयान्वये, यावत् = यावत्कालपर्यन्तम्, राज्यम् = राष्ट्रम् अस्ति = तिष्ठति, सः = असौ, तावदेव = तावत्कालपर्यन्तमेव, जीवति = स्थिरो भवति ॥१८ ॥
हिन्दी - राजा को सतत अपने सत्कर्म से राज्य को अपनी सन्तान में चिरस्थायी करने का प्रयास करना चाहिए, इसी को ' आयुर्बल ' कहते हैं । क्योंकि उसके वंश में जब तक राज्य रहता है तभी तक वह जीवित है ॥ १८ ॥
सत्क्रियाभिरिति । यथा नित्यं सततं सत्क्रियाभिः राज्यं चिरस्थायि भवेत् तथा स्वगोत्रं - निजसन्ताने कुर्य्यात् तदेव आयुर्बलम् उच्यते, यस्मात् गोत्रे स्वसन्ताने यावत् राज्यम् अस्ति तिष्ठति, सः तावदेव तावत्कालपर्य्यन्तमित्यर्थः, जीवति ॥ १८ ॥
चतुर्गुणं हि पादातमश्वतो धारयेत् सदा ।
पञ्चमांशांस्तु वृषभानष्टांशांश्च क्रमेलकान् ॥ १ ९ ॥
चतुर्थांशान् गजानुष्ट्राद् गजार्द्धाश्च रथान् सदा ।
रथात्तु द्विगुणं राजा बृहन्नालीकमेव च ॥ २० ॥
अन्वयः — चतुर्थांशानिति राजा अश्वतः चतुर्गुणं पादातं पञ्चमांशान् वृषभान् तथा अष्टांशान् क्रमेलकान् उष्ट्रात् चतुर्थांशान् गजान् गजार्द्धान् रथान् तथा रथात् द्विगुणं बृहन्नालीकं सदा धारयेत् ॥१ ९ -२० ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७६१ व्याख्या — चतुर्थांशान् = तुरीयभागान्, राजा = नरपतिः, अश्वतः = अश्वारोहीसैन्यतः, चतुर्गुणम्, पादातम् = पदातिसैन्यम्, पञ्चमांशान् = पञ्चमभागान्, वृषभान् = बलदान्, तथा = तेनैव रूपेण, अष्टांशान् = अष्टमभागान्, क्रमेलकान् = दीर्घजङ्घान्, उष्ट्रात् = दासेरकात्, चतुर्थांशान् = तुरीयभागान् गजान् = हस्तिनः, गजार्द्धान्– गजस्य = द्विरदस्य, अर्द्धान् = अर्द्धभागान्, रथान् = स्यन्दनान्, तथा रथात् = स्यन्दनात्, द्विगुणम् = द्विगुणितम्, बृहन्नालीकम् = शतघ्नीम्, सदा = सर्वदा, धारयेत् = धारणं कुर्यात् ॥ १ ९ -२० ॥ हिन्दी - घुड़सवारों से चौगुनी पैदल सेना, घुड़सवारों का पाँचवाँ भाग बैल, आठवाँ हिस्सा ऊँट और ऊटों का चौथा भाग हाथी, हाथी का आधा रथ और रथ का दूना तोप— इन्हें राजा सदैव अपनी सेना में रखे ॥१ ९ -२० ॥ चतुर्गुणमिति । चतुर्थांशानिति राजा अश्वतः अश्वसैन्यात् चतुर्गुणं पादातं पदातिसैन्यं, पञ्चमांशान् वृषभान्, तथा अष्टांशान् क्रमेलकान् उष्ट्रान् उष्ट्रात् उष्ट्रसैन्यात् गजार्द्धान् गजसैन्यात् अर्द्धसंख्यकान् रथान् तथा रथात् द्विगुणं बृहन्नालीकं सदा धारयेत् रक्षेत् ॥ १ ९ -२० ॥
पदातिबहुलं सैन्यं मध्याश्वं तु गजाल्पकम् ।
तथा वृषोष्ट्रसामान्यं रक्षेन्नागाधिकं न हि ॥ २१ ॥
अन्वयः — पदातिबहुलं मध्याश्वं गजाल्पकं तथा वृषोष्ट्रसामान्यं सैन्यं हि ॥ २१ ॥
चतुर्थांशान् गजान् बृहन्नालीकास्त्रसैन्यं रक्षेत्, नागाधिकं न व्याख्या– पदातिबहुलम् = बहुसंख्यकपदातिसैन्यम्, मध्याश्वम् = मध्यमस्तरीयं अश्वारोही-सैन्यम्, गजाल्पकम् = अल्पसंख्यकं गजारोहीसैन्यम्, तथा = तेन प्रकारेण, वृषोष्ट्रसामान्यम् -सामान्यसंख्यकं वृषारोही उष्ट्रारोही च, सैन्यम् = सैनिकम्, राजा, रक्षेत् = धारयेत्, नागाधिकम् = बहुसंख्यकं वाजञ्च, न = न हि, धारयेत् ॥ २१ ॥
हिन्दी — राजा की सेना में पैदल सिपाहियों की संख्या अधिक होनी चाहिए, अश्वारोहियों की मध्यम दर्जे की होनी चाहिए और गजारोहियों की संख्या सबसे कम होनी चाहिए, न कि इनकी संख्या अधिक हों ॥ २१ ॥
पदातीति । पदातिबहुलं बहुसंख्यकपदातिवर्गं मध्याश्वं मध्यविधसंख्यकतुरङ्गं गजाल्पकम् अल्यसंख्यकगजं तथा वृषोष्ट्र सामान्यं साधारणसंख्यकवृषोष्ट्रं सैन्यं रक्षेत् नागाधिकम् अधिकगजं न हि नैव रक्षेदित्यर्थः ॥ २ ९ ॥
सवयः सारवेशोच्चशस्त्रास्त्रं तु पृथक् शतम् ।
लघुनालिकयुक्तानां पदातीनां शतत्रयम् ॥ २२ ॥
अशीत्यश्वान् रथं चैकं बृहन्नालद्वयं तथा ।
उष्ट्रान् दश गजौ द्वौ तु शकटौ षोडशर्षभान् ॥ २३ ॥
तथा लेखकषट्कं हि मन्त्रित्रितयमेव च ।
धारयेन्नृपतिः सम्यग्वत्सरे लक्षकर्षभाक् ॥ २४ ॥
अन्वयः — वत्सरे लक्षकर्षभाक् नृपतिः सवयः सारवेशोच्चशस्त्रास्त्रं च पृथक् शतं लघुनालिकयुक्तानां पदातीनां शतत्रयम् अशीत्यश्वान् एकं रथं बृहन्त्रालद्वयं दश उष्ट्रान् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
७६२ शुक्रनीति: द्वौ गजौ द्वौ शकटौ षोडश ऋषभान् लेखकषट्कं तथा मन्त्रित्रितयं सम्यक् धारयेत् ॥२२-२४ ॥ व्याख्या — वत्सरे = प्रतिवर्षे, लक्षकर्षभाक् = लक्षस्वर्णमुद्रागमवान्, नृपतिः = राजा, सवयः = तुल्यवयस्कम्, सारवेशम् = पराक्रमीप्रसाधनम्, उच्चानि = उत्कृष्टाणि, शस्त्राणि = = आयुधानि, अस्त्राणि = प्रहरणानि च यस्य तादृशम्, पृथक् = भिन्नम्, शतम् = शतसंख्यकम् लघुनालिकयुक्तानाम् = नालास्त्रसैनिकानाम्, पदातीनाम् = = पदगानाम्, शतत्रयम् = त्रिशतसंख्यकम्, अशीत्यश्वान् = अशीतिसंख्यकान् घोटकान्, एकम् = एकमात्रमेव, रथम् = स्यन्दनम्, बृहन्नालद्वयम् = द्वावेव शतघ्नीचालकौ गोलक्षेपकौ वेति, दश उष्ट्रान् = दशसंख्यकान् क्रमेलकान्, द्वौ गजौ = द्वौ द्विरदौ, द्वौ शकटौ = प्रवहणेऽपि द्वे, षोडशान् = षोडशसंख्यकान्, ऋषभान् = अनडुहः, लेखकषट्कम् = षट्संख्यकान् लिपिकारान्, तथा = अपि च, मन्त्रित्रितयम् = त्रीन् मन्त्रिणः सम्यक् = सुष्ठुतया, धारयेत् = स्वायत्तीकुर्यात् ॥२२-२४ ॥ हिन्दी — जिस राजे की वार्षिक आय एक लाख मुद्रा हो वह एक ही उम्र के तरुणों को, जिनकी पोशाकें पराक्रमी हो, कद ऊँची हों ऐसे हथियारबन्द सौ जवानों की एक अलग टुकड़ी तैयार कर ले; तीन सौ बन्दूकयों की एक टुकड़ी अलग तैयार कर ले; अस्सी घोड़े, एक रथ, दो तोपची या गोलंदाज, दस ऊँट, दो हाथी, दो बैलगाड़ी, सोलह बैल, छ: लेखक और तीन मंत्रियों के समूह को एक सेना के अन्दर ठीक ढंग से रखे॥२२-२४ ॥ सवय इत्यादि । वत्सरे लक्षकर्षभाक् लक्षमुद्रागमवान् नृपतिः राजा सवयः समानवयस्कं सारवेशं कठिनपरिच्छदम् उच्चानि उन्नतानि शस्त्राणि अस्त्राणि यस्य तादृशं पृथक् विभिन्नं शतं शतसङ्ख्यापादातं लघुनालिकयुक्तानां क्षुद्रनालिकास्त्रधारिणां पदातीनां शतत्रयम्, अशीतिसंख्यकान् अश्वान् एकं रथं बृहन्नालद्वयं बृहन्नालिकास्त्रधारिणौ द्वौ दश उष्ट्रान् द्वौ गजौ द्वौ शकटौ षोडश वृषभान् लेखकषट्कं षट् लेखकान् तथा मन्त्रित्रितयं त्रीन् मन्त्रिणः सम्यक् यथा तथा धारयेत् रक्षेत् ॥ २२-२४ ॥
सम्भारदानभोगार्थं धनं सार्द्धसहस्रकम् ।
लेखकार्थे शतं मासि मन्त्र्यर्थे तु शतत्रयम् ॥ २५ ॥
त्रिशतं दारपुत्रार्थे विद्वदर्थे शतद्वयम् ।
साद्यश्वपदगार्थं हि राजा चतुः सहस्रकम् ॥ २६ ॥
गोष्ट वृषालार्थं व्ययीकुर्य्याच्चतुः शतम् ।
शेषं कोशे धनं स्थाप्यं राज्ञा सार्द्धसहस्रकम् ॥ २७ ॥
अन्वयः — राजा मासि सम्भारदानभोगार्थं सार्द्धसहस्रकं लेखकार्थे शतं मन्त्र्यर्थे शतत्रयं दारपुत्रार्थे त्रिशतं विद्वदर्थे शतद्वयं साद्यश्वपदगार्थं चतुःसहस्त्रकं गजोष्ट्रवृषनालार्थं चतुःशतं व्ययीकुर्यात् । राज्ञा शेषं सार्द्धसहस्रकं धनं कोशे स्थाप्यम् ॥ २५-२७ ॥ व्याख्या — राजा = नृपः, मासि = प्रतिमासम्, सम्भारार्थम् = समाहरणार्थम्, दानार्थम् = उत्सर्जनार्थम्, च = पुनः, भोगार्थम् = निजोपभोगाय, सार्द्धसहस्रकम् = पञ्चदशशतम्,, लेखकार्थे = लिपिकाराय, शतम् = मात्रैकशतम्, मन्त्र्यर्थे = मन्त्रिणां निमित्ते, शतत्रयम् = = त्रिशतम् 1, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA