शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 401–410

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 401–410

पृष्ठ 401

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 401 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८१३ व्याख्या – षष्ठे तु = षष्ठे वर्षे, उपान्त्यौ = अन्तिमदन्तपार्श्वस्थितौ द्वौ दशनौ = रदनौ, भवतः = जातौ, सप्तमे = सप्तमवर्षे, तत् = तस्य, समीपगौ = पार्श्वस्थितौ, मध्यमौ = मध्ये स्थितौ, दशनौ = रदनौ, जातौ, अष्टमे वर्षे, खलु = निश्चयेन, पतित्वा = स्खलित्वा, पुनरुत्पन्नौ: = जाताविति ॥ १६८ ॥

हिन्दी – छठे साल में बैलों के अन्तिम दो दाँत, सातवें साल उसके पास के दो दाँत तथा आठवें साल में बीच के दो दाँत गिरकर उग आते हैं ॥ १६८ ॥

षष्ठे इति । षष्ठे तु वर्षे उपान्त्यौ अन्त्यसमीपस्थौ दशनौ भवतः । सप्तमे वर्षे तयोः दशनयोः समीपगौ समीपस्थौ अपरौ दशनौ भवतः । मध्यमौ दशनौ अष्टमे वर्षे खलु निश्चितं पतितोत्पन्नौ पतित्वा पुनरुत्पन्नौ भवतः ॥ १६८ ॥

कृष्णपीतसितारक्तशङ्खच्छायौ द्विके द्विके ।

क्रमादब्दे च भवतश्चलनं पतनं ततः ॥ १६ ९ ॥

अन्वयः — ततः द्विके द्विके अब्दे तौ क्रमात् कृष्णपीतसितारक्तशङ्खच्छायौ, ततः चलनं पतनं भवतः ॥ १६ ९ ॥ व्याख्या — ततः = अष्टमवत्सरात् परम्, द्विके द्विके = द्वितीये द्वितीये, अब्दे = वर्षे, तौ = रदनौ, क्रमात् = क्रमशः, कृष्णपीतसितारक्तशङ्खच्छायौ — कृष्णप्रभौ = श्यामवर्णौ, पीतप्रभौ = पीतवर्णौ, सितप्रभौ = श्वेतरङ्गौ, आरक्तप्रभौ = रक्तवर्णौ, तथा शङ्खप्रभौ = शङ्खवर्णौ, भवतः, ततः = तत्पश्चात्, चलनम् = कम्पमानम्, पश्चात् पतनम् = भञ्जनम्, दशानानां भवन्ति ॥ १६ ९ ॥ हिन्दी - आठ साल के बाद दो - दो वर्ष के अन्तराल में क्रमशः दो - दो दाँत काले, पीले, सफेद, लाल तथा शंख रंग के हो जाते हैं । इसके बाद वे हिलने लगते हैं और अन्त में टूटकर गिर जाते हैं ॥१६ ९ ॥ कृष्णेति । ततः अष्टमाब्दात् परं द्विके द्विके द्वितीये द्वितीये वर्षे दशमे द्वादशे इत्यादावित्यर्थः, तौ दशनौ क्रमात् कृष्णपीतसितारक्तशङ्खच्छायौ कृष्णप्रभौ, पीतप्रभौ, सितप्रभौ आरक्तप्रभौ तथा शङ्खप्रभौ भवतः । ततः अनन्तरं चलनं पश्चात् पतनं दन्तानामिति शेषः भवति ॥१६ ९ ॥ उष्ट्रस्योक्तप्रकारेण वयोज्ञानन्तु वा भवेत् ॥ १७० ॥

अन्वयः — उक्तप्रकारेण उष्ट्रस्य तु वयसः वयोज्ञानं वा भवेत् ॥ १७० ॥

व्याख्या — उक्तप्रकारेण = पूर्वोक्तरीत्या, उष्ट्रस्य = दीर्घाङ्गस्य, तु = अपि, वयसः = अवस्थायाः, ज्ञानम् = बोधः, वा = अवधारणार्थः, भवेत् = जायेत ॥ १७० ॥

हिन्दी – उसी तरह ऊँटों की उम्र का भी पता चलता है ॥ १७० ॥

उष्ट्रस्येति । उक्तप्रकारेण अश्वोक्तरीत्या उष्ट्रस्य तु उष्ट्रस्यापि तुशब्दोऽप्यर्थः । वयसः जीवनकालस्य ज्ञानं भवेत् वाशब्दश्चावधारणार्थः ॥ १७० ॥

प्रेरकाकर्षकमुखोऽङ्कशो गजविनिग्रहे ।

हस्तिपकैर्गजस्तेन विनेयः सुगमाय हि ॥ १७१ ॥

अन्वयः — प्रेरकम् आकर्षकं मुखोऽङ्कुशः गजविनिग्रहे हस्तिपकैः सुगमाय तेन गजः विनेयः ॥ १७१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 402

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 402 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१४ शुक्रनीति: व्याख्या – प्रेरकम् = प्रोत्साहकम्, आकर्षकम् = आकर्षम्, मुखम् = आननम्, यस्य तथाभूतस्य, अङ्कुशः = शृणिः, गजानाम् = हस्तिनाम्, विनिग्रहे = नियन्त्रणे, स्मृतः, हस्तिपकैः गजाजीवैः, सुगमाय = सुष्ठुतया गमनाय, तेन = अङ्कुशेन, गजः = - करी, विनेयः = दण्डनीयः ॥ १७१ ॥

हिन्दी — हाथी को प्रोत्साहित करने वाले सुन्दर मुख वाले खिंचाव युक्त नुकीले, टेढे अंकुश से महावत हाथी को अच्छे ढंग से चलने को विनेय बनाये ॥ प्रेरकेति । विनिग्रहे दमने अङ्कुशेन गजः प्रेरकं सञ्चालकम् आकर्षकम् आकर्षतुल्यं मुखं यस्य दमनार्थमित्यर्थः स्मृत इति शेषः, हस्तिपकैः गजपालकैः विनेयः दण्ड्यः ॥१७१ ॥

खलीनस्योर्ध्वखण्डौ द्वौ पार्श्वगौ द्वादशाङ्गलौ तत्पार्श्वान्तर्गताभ्यान्तु सुदृढाभ्यां तथैव च ॥ वारकाकर्षखण्डाभ्यां रज्ज्वर्थवलयैर्युतौ एवंविधखलीनेन वशीकुर्य्यात्तु वाजिनम् १७१ ॥ तादृशः अङ्कुशः गजानां सुगमाय सुगमनाय तेन

१७२ ॥

॥ १७३ ॥

अन्वयः – खलीनस्य पार्श्वगौ द्वादशाङ्गुलौ द्वौ ऊर्ध्वखण्डौ तत्पार्श्वान्तर्गताभ्यां तथा सुदृढाभ्यां वारकाकर्षखण्डाभ्यां रज्ज्वर्थवलयैः युतौ एवंविधेन खलीनेन तु वाजिनं वशीकुर्यात् ॥१७२-१७३ || व्याख्या — खलीनस्य = अश्वक्षेपण्यः, पार्श्वगौ = समीपस्थौ, द्वादशाङ्गुलौ = द्वयाधिक-दशाङ्गुलौ, द्वौ = उभौ, ऊर्ध्वखण्डौ = खलीनस्योपरिखण्डद्वौ, तत् = तयेः, पार्वान्तर्गताभ्याम् = = समीपाभ्यन्तर्गताभ्याम्, तथा सुदृढाभ्याम् = सुस्थिराभ्याम्, वारकौ = अवरोधकौ, यौ आकर्षखण्डौ = आकर्षाकृतिखण्डौ, ताभ्याम्, तथा रज्ज्वर्थवलयैः = दामनिमित्तकरकैः, युतौ = कार्यौ, एवंविधेन = अनेन रूपेण, खलीनेन = कविकया, अश्वम् = घोटकम्, वशीकुर्यात् = वशमानयेत् ॥ १७२-१७३ ॥ हिन्दी - घोड़े की लगाम के ऊपर दो खण्ड होते हैं । लौहनिर्मित ये दोनों खण्ड मुँह के दोनों बगल तक होते हैं । इनकी माप बारह अंगुल होती है । दोनों ओर के खण्ड मजबूत एवं खींचने योग्य होते हैं । इनमें रस्सी फँसाने के लिए दोनों ओर दो कड़े लगे रहते हैं । इन्हें आवश्कतानुसार सवार खींचते हुए घोड़े को अपने वशवर्त्ती बनाता है ॥ १७२-१७३ ॥ खलीनस्येति । खलीनस्य कविकायाः पार्श्वगौ पार्श्ववर्त्तिनौ द्वादशाङ्गुलौ द्वौ ऊर्ध्वण्डौ तयोः पार्खान्तर्गताभ्यां तथा सुदृढाभ्यां कठिनाभ्यां वारकाकर्षखण्डाभ्यां वारकौ निवारकौ यौ आकर्षखण्डौ आकर्षकृतिखण्डौ ताभ्यां तथा रज्ज्वर्थवलयैः रज्जुनिमित्तवलयैः युतौ कार्य्याविति शेषः । एवंविधेन खलीनेन कविकया वाजिनम् अश्वं वशीकुर्य्यात् दमयेत् ॥ १७२-१७३ ॥

नासिकाकर्षरज्ज्वा तु वृषोष्ट्रं विनयेद् भृशम् ।

तीक्ष्णाग्रीयः सप्तफालः स्यादेषां मलशोधने ॥ १७४ ॥

अन्वयः – नासिकाकर्षरज्ज्वा वृषोष्ट्रं भृशं विनयेत् । एषां मलशोधने तीक्ष्णाग्रीयः सप्तफालः स्यात् ॥ १७४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 403

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 403 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८१५ व्याख्या – नासिकाकर्षरज्ज्वा - नासिकायाम् = नासायाम्, या आकर्षा = बलात् दिशा-विशेषे नयनी रज्जुः, तथा वृषोष्ट्रम् – वृषम् = वृषभम्, उष्ट्रञ्च = महाङ्गञ्च, भृशम् = अत्यर्थम्, विनयेत् = दण्डयेत् । एषाम् = वृषोष्ट्राणाम्, मलशोधने = अपस्करनिर्मलीकरणे, तीक्ष्णम् = तीव्रम्, अग्रम् = अग्रभागम्, यस्य सः एव तीक्ष्णाग्रीयः, सप्तफालः = सप्तकृषिकः, स्यात् = भवेत् ॥ १७४ ॥

हिन्दी — नाक में नाथ पहनाकर बैल तथा ऊँट को वश में लाना चाहिए । इनके मल - मूत्रों की सफाई के लिए सतफारा नुकीले औजार का प्रयोग करना चाहिए ॥ १७४ ॥

नासिकेति । नासिकाकर्षरज्ज्वा नासिकायां या आकर्षा आकर्षणी रज्जुः तया वृषोष्ट्रं वृषम् उष्ट्रञ्च भृशम् अत्यर्थं विनयेत् दण्डयेत् । एषां वृषोष्ट्राणां मलशोधने दोषनिराकरणे तीक्ष्णम् अग्रं यस्य स एव तीक्ष्णाग्रीयः सप्तफालः दण्डविशेषः स्यात् ॥ १७४ ॥

सुताडनैर्विनेया हि मनुष्याः पशवः सदा ।

सैनिकास्तु विशेषेण न ते वै धनदण्डतः ॥ १७५ ॥

अन्वयः — मनुष्याः पशवश्च सदा सुताडनैः विनेयाः । सैनिकास्तु विशेषेण न ते धनदण्डतः वै ॥१७५ ॥

व्याख्या — मनुष्याः = नराः, पशवश्च = लोमलाङ्गुलवज्जीवाश्च, सदा सर्वदा, सुताडनैः– उपयुक्तदण्डैः, विनेयाः = दण्डनीयाः । सैनिकास्तु = आयुधिकास्तु, विशेषेण = विशिष्टरूपेण, विनेयाः = दमनीयाः, यतः ते = सैनिकाः, धनदण्डतः = अर्थदण्डेन, न = नहि, विनेयाः = दमनीयाः भवन्ति ॥ १७५ ॥

हिन्दी - मनुष्य और पशु को सदैव ताड़ना देकर दमन करना चाहिए । सैनिकों को विशेष रूप से दण्डित करना चाहिए, क्योंकि अर्थदण्ड से उन्हें दण्डित नहीं किया जा सकता ॥ १७५ ॥

सुताडनैरिति । मनुष्याः पशवश्च सदा सुताडनैः उपयुक्तदण्डैरित्यर्थः, सदा विनेयाः दमनीयाः सैनिकास्तु विशेषेण सुताडनैः विनेया इति यतः ते सैनिकाः धनदण्डतः अर्थदण्डेन न विनेया भवन्ति वैशब्दः अवधारणार्थः ॥ १७५ ॥

अनूपे तु वृषाश्वानां गजोष्ट्राणान्तु जङ्गले ।

साधारणे पदातीनां निवेशाद्रक्षणं भवेत् ॥ १७६ ॥

अन्वयः - अनूपे तु वृषाश्वानां जङ्गले गजोष्ट्राणां साधारणे पदातीनां निवेशात् रक्षणं भवेत् ॥ १७६ ॥

व्याख्या - अनूपे तु = जलप्रायप्रदेशे तु, वृषाश्वानाम् — वृषाणाम् = वृषभाणाम्, अश्वानाम् = घोटकानाञ्च, जङ्गले: -- - वन्यप्रदेशे, गजोष्ट्राणाम् - गजानाम् = हस्तिनाम्, उष्ट्राणाम् = क्रमेलकानाम्, तथा साधारणे = स्थितिविधायिके सामान्यस्थाने, पदातीनाम् = पदगानाम्, निवेशात् = स्थापनात्, रक्षणम् = गोपनम्, भवेत् = स्यात् ॥ १७६ ॥

हिन्दी – पानी की सुविधा वाले क्षेत्र में बैलों तथा घोड़ों को, जंगली क्षेत्र में ऊँटों और हाथियों को तथा सामान्य क्षेत्र में पैदल सैनिकों को रखने से उनका संरक्षण होता है ॥ १७६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 404

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 404 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१६ शुक्रनीति: अनूपे इति । अनूपे सजलदेशे वृषाणाम् अश्वानाञ्च, जाङ्गले जङ्गलमये देशे गजानाम् उष्ट्राणाञ्च, तथा साधारणे सर्वथा स्थितिविधायके इत्यर्थः, स्थाने पदातीनां निवेशात् स्थापनात् रक्षणं भवेत् ॥१७६ ॥

शतं शतं योजनान्ते सैन्यं राष्ट्रे नियोजयेत् अन्वयः—– राष्ट्रे योजनान्ते शतं शतं सैन्यं नियोजयेत् ॥ १७७ व्याख्या – राज्ये, योजनान्ते = प्रतिचतुष्क्रोशान्ते, शतं शतम् आयुधिकम्, नियोजयेत् = स्थापयेत् ॥ १७७ ॥

हिन्दी — राज्य में प्रति चार कोश पर सौ - सौ सैनिकों चाहिए ॥ १७७ ॥

॥ १७७ ॥

॥ = शतसंख्यकम्, सैन्यम् = की टुकड़ियों को रखना शतमिति । राष्ट्रे राज्ये योजनान्ते प्रतिचतुक्रोशान्ते शतं शतं सैन्यं नियोजयेत् स्थापयेत् ॥१७७ ॥

गजोष्ट्रवृषभाश्वाः प्राक् श्रेष्ठाः सम्भारवाहनैः ।

सर्वेभ्यः शकटाः श्रेष्ठा वर्षाकालं विना स्मृताः ॥ १७८ ॥

अन्वयः - प्राक् गजोष्ट्रवृषभाश्वाः सम्भारवाहने श्रेष्ठाः । वर्षाकालं विना सर्वेभ्यः शकटाः श्रेष्ठाः स्मृताः ॥१७८ ॥

व्याख्या — प्राक् = सर्वप्रथमम्, गजोष्ट्रवृषभाश्वाः – गजाः = हस्तिनः, उष्ट्राः = क्रमेलकाः, वृषभाः = बलीवर्दाः, अश्वाश्च = हयाश्च, सम्भारवाहने – सम्भाराणाम् [ = = वस्तुजातानाम्, वाहने = नयने, श्रेष्ठाः = उत्कृष्टाः, वर्षाकालम् = घनकालम्, विना = विहाय, सर्वेभ्यः = सकलेभ्यः, शकटाः = प्रवहणाः, श्रेष्ठाः स्मृताः = कथिताः ॥ १७८ ॥

हिन्दी — सर्वप्रथम हाथी, बैल, घोड़े सामग्री ढोने में श्रेष्ठ होते हैं । वर्षाकाल छोड़कर अन्य सभी समय के लिए सामान ढोने के लिए बैलगाड़ी ही ठीक होती है ॥ १७८ ॥

गजेति । प्राक् प्रथमं सम्भारवाहने सम्भाराणां सामग्रीणां वाहने विषये गजाः उष्ट्राः वृषभाः अश्वाश्च श्रेष्ठाः । वर्षाकालं विना शकटाः सर्वेभ्यः वाहकेभ्य इत्यर्थः, श्रेष्ठाः स्मृताः ॥ १७८ ॥

न चाल्पसाधनो गच्छेदपि जेतुमरिं लघुम् ।

महतात्यन्तसाद्यस्कबलेनैव सुबुद्धियुक् ॥ १७ ९ ॥

अन्वयः – अल्पसाधनः लघुमपि अरिं जेतुं न गच्छेत् । सुबुद्धियुक् महता अत्यन्तसाद्यस्कबलेन एव ॥१७ ९ ॥ व्याख्या – अल्पसाधनः = स्तोकबलः सन्, लघुमपि = तुच्छमपि, अरिम् = रिपुम्, जेतुम् = विजेतुम्, न = नहि, गच्छेत् = व्रजेत् । सुबुद्धियुक् = सुष्ठुबुद्धिसम्पन्नः, राजा, महता = बृह॒ता, अत्यन्तेन = अमितेन, साद्यस्कबलेन – साद्यस्केन = शीघ्रभाविना, बलेन = सैन्येन, एव गच्छेत्, यानस्य औचित्यात् ॥ १७ ९ ॥ हिन्दी – सेना की छोटी टुकड़ी से अति क्षुद्र शत्रु को भी जीता नहीं जा सकता । अतः अत्यन्त प्रबल सेना के साथ ही यान - बल की सहायता से राजा को चढ़ाई करनी चाहिए ॥ १७ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 405

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 405 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८१७ नेति । अल्पसाधनः अल्पबलः सन् लघुमपि क्षुद्रमपि अरिं शत्रुं जेतुं न गच्छेत् । सुबुद्धियुक् सुप्राज्ञः नृपः महता बहुना अत्यन्तसाद्यस्कबलेन एव अत्यन्तेन प्रबलेन साद्यस्कबलेन पूर्वोक्तेन तु मौलेन तस्य प्रबलारिषु यानस्यौचित्यादिति भावः, बलेन सैन्येन एव गच्छेदित्यर्थः ॥ १७ ९ ॥

अशिक्षितमसारञ्च साद्यस्कं तूलवच्च तत् ।

युद्धं विनान्यकार्य्येषु योजयेत् मतिमान् सदा ॥ १८० ॥

अन्वयः —– मतिमान् अशिक्षितम् असारञ्च साद्यस्कं तूलवत् तद्बलं युद्धं विना अन्यकार्येषु सदा योजयेत् ॥ १८० ॥

व्याख्या – मतिमान् = बुद्धिमान् राजा, अशिक्षितम् = सैन्यशिक्षारहितम्, असारञ्च = निःसारञ्च, साद्यस्कम् = आधुनिकं सैन्यम्, तूलवत् — तूलेन = कार्पासेन, वत् = इव, अत्यन्त-लघुरिति, तत् = पूर्वोक्तं साद्यस्कम्, बलम् = सैन्यम्, युद्धम् = सङ्गरम्, विना = विहाय, अन्य-कार्येषु = अपरकृत्येषु, सदा = - सर्वदा, योजयेत् = नियोजयेत् ॥१८० ॥

हिन्दी — बुद्धिमान् राजा अप्रशिक्षित, इसीलिए निस्सार रूई की तरह अतितुच्छ नवनियुक्त सैनिकों को युद्ध में भेजने की अपेक्षा किसी दूसरे काम में लगाये ॥ १८० ॥

अशिक्षितमिति । मतिमान् बुद्धिमान् नृपः अशिक्षितम् असारं साद्यस्कम् आधुनिकं बलं तूलवत् तुलेन तुल्यम् अतिलघु इत्यर्थः । तत् बलं युद्धं विना अन्यकार्येषु सदा योजयेत् ॥१८० ॥

विकर्त्तुं यततेऽल्पोऽपि प्राप्ते प्राणात्ययेऽनिशम् ।

न पुनः किन्तु बलवान् विकारकरणक्षमः ॥ १८१ ॥

अन्वयः — प्राणात्यये प्राप्ते अल्पोऽपि विकर्तुम् अनिशं यतते किन्तु बलवान् विकारकरणक्षमः न पुनः ॥ १८१ – ॥ प्राणात्यये = प्राणसंशये, प्राप्ते = समुपस्थिते सति, अल्पः = स्वल्पो जनः, विकर्त्तुम् व्याख्या = विपरीतमाचरितुम्, अपि = चेत्, अनिशम् = अहर्निशम्, यतते = प्रयत्नं कुरुते, किन्तु, बलवान् = शक्तिशाली जनः, विकारकरणक्षमः = विपरीताचरणे समर्थः, अपि, न पुनः = तथा कर्तुं न यतते ॥१८१ ॥ उपस्थित होने पर विपरीत आचरण करने के लिए

हिन्दी - क्षुद्रबलसम्पत्र सेना प्राणसंकट सेना कभी विपरीत आचरण नहीं करती है ॥१८१ ॥

सदा तत्पर हो जाती है । किन्तु शक्तिशाली विकर्त्तुमिति । प्राणात्यये जीवनविनाशे प्राप्ते उपस्थिते सति अल्पः क्षुद्रः जनः विकर्तुं विपरीतमाचरितुम् अपि अनिशं सततं यतते, किन्तु बलवान् विकारकरणक्षमः विपरीताचरणक्षमः अपि न पुनः नैव विपरीतमाचरितुं यतते इत्यर्थः ॥ १८१ ॥

अपि बहुबलोऽशूरो न स्थातुं क्षमते रणे ।

किमल्पसाधनाशूरः स्थातुं शक्तोऽरिणा समम्? ॥ १८२ ॥

अन्वयः - बहुबलोऽपि अशूरः रणे स्थातुं न क्षमते । अल्पसाधनः अशूरः अरिणा समं स्थातुं किं शक्तः ॥ १८२ ॥, अशूरः = वीरत्वविहीनो जनः, रणे = युद्धे,

व्याख्या — बहुबलोऽपि = शक्तिसम्पन्नोऽपि भवति । अल्पसाधनः = स्वल्पबलः, अथ च, स्थातुम् = योद्धुम्, न = नहि, क्षमते = समर्थो ५२ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 406

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 406 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१८ शुक्रनीति: अशूरः = अपराक्रमी जनः, अरिणा = शत्रुणा, समम् = सह, स्थातुम् = योद्धुम्, किम्, शक्तः = समर्थः? न शक्तो भवतीति भावः ॥ १८२ ॥

हिन्दी — अधिक बलसम्पन्न रहने के बावजूद भी पराक्रमविहीन जन रणाङ्गण में नहीं टिक सकता है । तब अल्पशक्तिसम्पन्न पराक्रमहीन जन शत्रु के साथ युद्ध के मैदान में क्या टिक सकता है? अर्थात् कभी नहीं ॥१८२ ॥

अपीति । बहुबलः अपि अशूरः अपराक्रमी जनः रणे स्थातुं न क्षमते न शक्नोति । अल्पसाधनः अल्पबलः अथ च अशूरः जनः अरिणा शत्रुणा समं सह स्थातुं किं शक्तः? न समर्थ इत्यर्थः ॥१८२ ॥

सुसिद्धाल्पबलः शूरो विजेतुं क्षमते रिपुम् ।

महान् सुसिद्धबलयुक् शूरः किं न विजेष्यति? ॥ १८३ ॥

अन्वयः — सुसिद्धाल्पबलः शूरः रिपुं विजेतुं क्षमते । महान् सुसिद्धबलयुक् शूरः किं न विजेष्यति? ॥ १८३ ॥

व्याख्या – सुसिद्धम् = सुष्ठुप्रशिक्षितम्, अल्पम् = अल्पसंख्यकम्, बलम् = = सैन्यम्, यस्य तथोक्तस्य, शूरः = पराक्रमी जनः रिपुम् = शत्रुम् विजेतुम् = पराजितं कर्तुम्, क्षमते = शक्यते, महान् = अतिविक्रान्तः, सुसिद्धबलयुक् = सुष्ठुप्रशिक्षितसैन्ययुक्, शूरः = पराक्रमी, किम् = कथम्, न = नहि, विजेष्यति = विजयी भविष्यति, अपितु भविष्यत्येव ॥ १८३ ॥

हिन्दी - जब सुप्रशिक्षित सेना की छोटी टुकड़ी की सहायता से वीर पुरुष शत्रुओं पर विजय प्राप्त कर सकता है तो विशाल प्रशिक्षित सेना लेकर वीर पुरुष क्या नहीं जीत सकता? ॥१८३ ॥

सुसिद्धेति । सुसिद्धं सुशिक्षितम् अल्पं बलं यस्य यथोक्तः शूरः विक्रान्तः जनः रिपुं विजेतुं क्षमते । महान् प्रबलः सुसिद्धबलयुक् सुशिक्षितबलशाली शूरः किं कथं न विजेष्यति? अपि तु जेष्यत्येवेत्यर्थः ॥१८३ ॥

मौलशिक्षितसारेण गच्छेद्राजा रणे रिपुम् ।

प्राणात्ययेऽपि मौलं न स्वामिनं त्यक्तुमिच्छति ॥ १८४ ॥

अन्वयः— राजा मौलशिक्षितसारेण रणे रिपुं गच्छेत् । मौलं प्राणात्ययेऽपि स्वामिनं त्यक्तुं न शक्यते ॥ १८४ ॥

. व्याख्या – राजा = नृपः, मौलशिक्षितसारेण – मौलेन = मूलायातेन, शिक्षितसारेण = सुप्रशिक्षितेषु मध्ये सुस्थिरेण बलेन, रणे = समरभूमौ रिपुम् = शत्रुम्, जेतुम् = विजेतुम्, गच्छेत् = व्रजेत्, यस्मात्, मौलम् = पुरातनम्, बलम् = सैन्यम्, प्राणात्ययेऽपि = जीवनसङ्कटेऽपि, स्वामिनम् = भूभृतम्, त्यक्तुम् = परिहर्तुम्, न = = नहि, इच्छति = वाञ्छति ॥ १८४ ॥

हिन्दी — अपनी पुरानी प्रशिक्षित सेना के साथ शत्रुविजय के लए राजा को समरभूमि के लिए प्रस्थान करना चाहिए । क्योंकि प्रणसंकट के समय भी पुरानी प्रशिक्षित सेना राजा का साथ नहीं छोडना चाहती । १८४ ॥ मौलेति राजा मौलेन मूलायातेन शिक्षितसारेण शिक्षितेषु मध्ये सारेण स्थिरतरेण बलेन रणे रिपुं गच्छेत् शत्रुं प्रति यायात् । यस्मात् मौलं बलं प्राणात्ययेऽपि स्वामिनं त्यक्तुं न इच्छति ॥ १८४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 407

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 407 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८१ ९

वाग्दण्डपरुषेणैव भृतिहासेन भीतितः ।

नित्यं प्रवासायासाभ्यां भेदोऽवश्यं प्रजायते ॥ १८५ ॥

अन्वयः — वाग्दण्डपरुषेणैव भृतिहासेन भीतितः नित्यं प्रवासायासाभ्यां भेदः अवश्यं प्रजायते ॥ १८५ ॥

व्याख्या — वाग्दण्डपरुषेणैव = कठोरवचनेन कठोरदण्डेन च एव, भृतिह्रासेन = न्यूनवेतन-करणेन, भीतितः = भयाक्रान्तकरणेन, नित्यम् = सततम्, प्रवासेन = विदेशस्थित्या, आयासेन = परिश्रमेण च, अवश्यम् = निश्चितमेव, भेदः = भङ्गः, सैन्येषु, प्रजायते = भवत्येवेति ॥ १८५ ॥

हिन्दी – हमेशा कठोर वचन से, कठोर दण्ड से, वेतन की कटौती से, भयभीत करने से, निरन्तर परदेश में भेजते रहने से तथा कठोर मेहनत कराने से निश्चय ही सेना में डाली जा सकती है ॥ १८५ ॥ फूट

वागिति । वाग्दण्डपरुषेण वाक्पारुष्येण दण्डपारुष्येण चेत्यर्थः, भृतिहासेन वेतनलघूकरणेन भीतितः भयप्रदर्शनेन, नित्यं प्रवासायासाभ्यां विदेशस्थित्या परिश्रमेण चेत्यर्थः, अवश्यं भेदः भङ्गः बलानामिति शेषः प्रजायते ॥ १८५ ॥

बलं यस्य तु सम्भिन्नं मनागपि जयः कुतः? ।

शत्रोः स्वस्यापि सेनाया अतो भेदं विचिन्तयेत् ॥ १८६ ॥

अन्वयः — यस्य बलं सम्भिन्नं मनागपि जयः कुतः? अतः शत्रोः स्वस्यापि सेनायाः भेदं विचिन्तयेत् ॥१८६ ॥

व्याख्या -यस्य = - नृपस्य, बलम् = सैन्यम्, सम्भिन्नम् = भेदमुपगतम्, तस्य नृपस्य, मनागपि = स्तोकमपि, जयम् = विजयम्, कुतः = न कुतोऽपीत्यर्थः, अतः = अनेन कारणेन, शत्रोः = रिपोः, स्वस्यापि = आत्मनोऽपि, सेनायाः = बलस्य, भेदः = भङ्गः, विचिन्तयेत् = विविच्य कार्यं चिन्तयेत् ॥१८६ ॥

हिन्दी — जिसकी सेना में भेद हो, उसे थोड़ी भी विजय कहाँ? अतः अपनी तथा दुश्मन की सेना में भेद के सम्बन्ध में सदैव सतर्क होकर विचार करना चाहिए ॥१८६ ॥

बलमिति । यस्य बलं सम्भिन्नं सम्यक् भेदं प्राप्तं तस्य मनाक् अपि अल्पोऽपि जयः कुतः? न कुतोऽपि तस्य जयो भवतीत्यर्थः । अतः अस्मात् कारणात् शत्रोः स्वस्यापि आत्मनोऽपि सेनायाः भेदं विचिन्तयेत् यथा शत्रोर्बलभङ्गः स्यात् आत्मनो न तथा विविच्य व्यवहरे-दित्यर्थः ॥१८६ ॥

यथा हि शत्रुसेनाया भेदोऽवश्यं भवेत्तथा । I कौटिल्येन प्रदानेन द्राक् कुर्य्यात् नृपतिः सदा ॥ १८७ ॥

अन्वयः — यथा शत्रुसेनायाः अवश्यं भेदो भवेत् तथा नृपतिः सदा कौटिल्येन प्रदानेन द्राक् शत्रुसैन्यं कुर्यात् ॥१८७ ॥

व्याख्या — यथा -- येन रूपेण, शत्रुसेनायाः = रिपुबलस्य, अवश्यम् = निश्चितरूपेण, भेदम् = भङ्गम्, भवेत् = जायेत, तथा नृपतिः = राजा, सदा = सर्वदा, कौटिल्येन = कुटिलत्वेन, प्रदानेन = धनदानेन, द्राक् = त्वरितमेव, शत्रुसैन्यम् = रिपुबलम्, तथा कुर्यात् = विधेयात् ॥१८७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 408

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 408 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२० शुक्रनीति: हिन्दी —जैसे भी हो शत्रुसेना में फूट पैदा हो – इसके लिए कूटनीति से अथवा धनादि देकर शत्रुसेना में फूट डालने का राजा को शीघ्र प्रयास करना चाहिए ॥ १८७ ॥

यथेति । यथा येन प्रकारेण शत्रुसेनायाः अवश्यं भेदः भवेत् नृपतिः सदा कौटिल्येन कापट्येन प्रदानेन अर्थदानेन द्राक् झटिति शत्रुसैन्यं तथा कुर्य्यात् ॥ १८७ ॥

सेवयात्यन्तप्रबलं नत्या चारिं प्रसाधयेत् ।

प्रबलं मानदानाभ्यां युद्धैर्हीनबलं तथा ।

मैत्र्या जयेत् समबलं भेदैः सर्वान् वशं नयेत् ॥ १८८ ॥

अन्वयः — अत्यन्तप्रबलम् अरिं सेवया नत्या च प्रबलम् अरिं मानदानाभ्यां तथा हीनबलम् अरिं युद्धैः प्रसाधयेत्; किञ्च समबलम् अरिं भेदैः सर्वान् वशं नयेत् ॥ १८८ ॥

व्याख्या — अत्यन्तप्रबलम् = अतिबलवन्तम्, अरिम् = शत्रुम्, सेवया = सुश्रूषया, नत्या = प्रणत्या, च = पुनः, प्रबलम् = प्रकर्षबलसम्पन्नम्, अरिम् = शत्रुम्, मानदानाभ्याम् = सम्मानधनदानाभ्याम्, तथा = तेनैव प्रकारेण, हीनबलम् = अल्पबलयुक्तम्, अरिम् = शत्रुम्, युद्धैः = समरैः, प्रसाधयेत् = वशं नयेत्, किञ्च समबलम् = समानशक्तिशालिनम्, अरिम् = रिपुम्, भेदैः = मनोभङ्गकरणैः, सर्वान् = सकलान्, वशम् = वशवर्त्तिनम्, नयेत् = कुर्यात् ॥ १८८ ॥

हिन्दी — अपने से अत्यधिक बलवान् शत्रु को परिचर्या और विनम्रता प्रदर्शित कर, साधारण बलवान् शत्रु को कुछ देकर तथा उनके प्रति सम्मान प्रकट कर, हीनबल वाले शत्रु को युद्ध में पराजित कर और समान बलशाली शत्रु को दोस्ती का हाथ बढ़ाकर तथा फूट डाल कर हर तरह से अनुकूल बनाना चाहिए ॥ १८८ ॥

सेवयेति । अत्यन्तप्रबलम् अरिं सेवया नत्या च, प्रबलम् अरिं मानदानाभ्यां तथा हीनबलं दुर्बलम् अरिं युद्धैः प्रसाधयेत् वशीकुर्य्यात् । किञ्च मैत्र्या सौजन्येन समबलम् अरिं भेदैः मनोभङ्गकरणैः सर्वान् वशं नयेत् वशीकुर्य्यात् ॥ १८८ ॥

शत्रुसंसाधनोपायो नान्यः सुबलभेदतः ।

तावत् परो नीतिमान् स्याद्यावत् सुबलवान् स्वयम् ।

मित्रं तावच्च भवति पुष्टाग्नेः पवनो यथा ॥ १८ ९ ॥

अन्वयः - - सुबलभेदतः अन्यः शत्रुसंसाधनोपायः न यावत् स्वयं सुबलवान् तावत् परः नीतिवान् स्यात्, पुष्टाग्नेः पवनः यथा तावत् मित्रं भवति ॥१८ ९ ॥ व्याख्या — सुबलानाम् = प्रशिक्षितसैन्यबलानाम्, भेदतः = मनोभङ्गात्, अन्यः = अपरः, शत्रू-णाम् = अरीणाम्, संसाधने = वशीकरणे, उपाय: = शत्रुविजययुक्तिः, न = नास्ति, यावत् = याव-त्कालपर्यन्तम्, स्वयम् = आत्मना, सुबलवान् = प्रशिक्षितसैन्यसम्पन्नः, भवेत् = स्यात्, तावत् = तावत्कालपर्यन्तमेव, परः = रिपुः, नीतिमान् = नीतिसम्पन्नः स्यात् = भवेत्, किञ्च पुष्टाग्नेः– पुष्टस्य = प्रज्ज्वलितस्य, अग्नेः = वह्नेः पवनः = वायुः, इव = यथा, मित्रम् = सहायकम्, भवति ॥ १८ ९ ॥ हिन्दी — प्रशिक्षित सेना में फूट डालने के सिवा उन्हें जीतने का अन्य कोई साधन नहीं है । जब तक प्रशिक्षित सेना से राजा बलवान् रहता है तब तक वह नीतिमान् बना रहता है CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 409

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 409 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८२१ और तभी तक उसके सभी मित्र बने रहते हैं; ठीक उसी तरह जैसे प्रज्ज्वलित आग के लिए पवन मित्र का काम करता है ॥ १८ ९ ॥ शत्रुसंसाधनोपाय इति । सुबलानां सुशिक्षितसैन्यानां भेदतः भेदात् अन्यः शत्रूणां संसाधने वशीकरणे उपायः न अस्तीति शेषः । यावत् स्वयं सुबलवान् सुशिक्षितबलसम्पन्नः भवेत् तावत् परः शत्रुः नीतिमान् स्यात् । किञ्च पुष्टाग्नेः पुष्टस्य वृद्धिं गतस्य अग्नेः पवनः यथा पवन इव तावत् मित्रं भवति ॥१८ ९ ॥ त्यक्तं रिपुबलं धार्य्यं न समूहसमीपतः ।

पृथक् नियोजयेत् प्राग्वा युद्धार्थं कल्पयेच्च तत् ।

मैत्र्यमारात् पृष्ठभागे पार्श्वयोर्वा बलं न्यसेत् ॥ १ ९ ० ॥

अन्वयः — त्यक्तं रिपुबलं समूहसमीपतः न धार्यम्, तत् प्राक् रिपुबलं पृथक् नियोजयेत् युद्धार्थं कल्पयेच्च । किञ्च मैत्र्यम् आरात् पृष्ठभागे पार्श्वयोः वा बलं न्यसेत् ॥ १ ९ ० ॥ व्याख्या — त्यक्तम् = रिपुणा विसृष्टम्, रिपुबलम् = शत्रुसैन्यम्, समूहसमीपतः = निजसैन्य-समक्षम्, न = नहि, धार्य्यम् = ग्राह्यम्, तच्च = = रिपुबलम्, प्राक् = एकान्ते, स्थापनीयमिति शेषः, रिपुबलम् = शत्रुसैन्यम्, पृथक् = भिन्नम्, नियोजयेत् = नियुक्तं कुर्यात्, युद्धार्थम् = समरनिमि-त्ताय, कल्पयेत् = भावयेत्, किञ्च मैत्र्यम् = सौहार्द्रम्, आरात् = समीपे, निजसम्मुखे इत्यर्थः, पृष्ठभागे = पश्चाद्देशे, पार्श्वयोः = पार्श्वपक्षभागयोः, बलम् = शत्रुसैन्यम्, न्यसेत् = स्थापयेत् ॥ १ ९ ० ॥ हिन्दी —-फोड़ ली गई शत्रुसेना को अपनी सैनिक छावनी में रहने की जगह न दे, किन्तु युद्ध के समय उस टुकड़ी को अपनी सेना के अग्रभाग में लड़ने के लिए नियुक्त करे । जो सेना मित्रभावसम्पन्न हो, उसे समराङ्गण में अपनी सेना के समीप पीछे या बगल में लड़ने के लिए रखनी चाहिए ॥ १ ९ ० ॥ त्यक्तमिति । त्यक्तं शत्रुणेति शेषः, रिपोः शत्रोः बलं समूहसमीपतः साधारणसमक्षं न धार्य्यं न ग्रहणीयम् । तच्च प्राक् एकान्ते गृहीतमिति शेषः, रिपुबलं पृथक् नियोजयेत् युद्धार्थं कल्पयेच्च किञ्च मित्रम् आरात् समीपे आत्मसम्मुखे इत्यर्थः, पृष्ठभागे पार्श्वयोर्वा बलम् अपरसैन्यं न्यसेत् ॥१ ९ ० ॥

अस्यते क्षिप्यते यत्तु मन्त्रयन्त्राग्निभिश्च तत् ।

अस्त्रं तदन्यतः शस्त्रमसिकुन्तादिकञ्च यत् ॥ १ ९ १ ॥

अन्वयः— → यत्तु मन्त्रयन्त्राग्निभिः वा अस्यते क्षिप्यते तत् अस्त्रम्, तदन्यतः यत् असिकुन्तादिकं तत् शस्त्रम् ॥ १ ९ २ ॥ व्याख्या— यत्तु = आयुधम्, मत्रयन्त्राग्निभिः – मन्त्रेण = गोप्येन, यन्त्रेण = आयुधा-द्यधिष्ठानेन, अग्निना = वह्निना, वा, अस्यते = निःसार्यते, वा = अथवा, क्षिप्यते = प्रक्षिप्यते, तत् = बाणकुन्तादिकं, क्षेपणायुधम् अस्त्रम् इत्याख्यम्, तदन्यतः = तद्भिन्नम्, यत् अस्यादिकम्, तत् = आयुधम्, शस्त्रम् = शस्त्राख्यमिति ॥ १ ९ १ ॥ हिन्दी - मंत्र, यंत्र या आग के द्वारा जो हथियार फेंककर चलाया जाय उसे अस्त्र तथा इससे भिन्न जिन्हें हाथ में रखकर प्रहार किया जाय उसे शस्त्र कहते हैं ॥१ ९ १ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 410

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 410 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२२ शुक्रनीति: अस्यते इति । यत्तु मन्त्रयन्त्राग्निभिः मन्त्रेण यन्त्रेण अग्निना वा अस्यते निःसार्य्यते वा क्षिप्यते तत् अस्त्रं तदन्यतः तद्भिन्नं यत् असिकुन्तादिकं तत् शस्त्रम् ॥१ ९ १ ॥ अस्त्रन्तु द्विविधं ज्ञेयं नालिकं मान्त्रिकं तथा ॥ १ ९ २ ॥ अन्वयः - अस्त्रं द्विविधं ज्ञेयम् - नालिकं तथा मान्त्रिकम् ॥१ ९ २ ॥ व्याख्या — अस्त्रम् = क्षेपणायुधम्, द्विविधम् = द्विप्रकारकम्, ज्ञेयम् = बोध्यम्, नालिकम् = गुलिकास्त्रम्, मान्त्रिकम् = मन्त्रसञ्चालितास्त्रञ्च ॥ १ ९ २ ॥ हिन्दी – अस्त्र दो तरह के होते हैं - एक तोप या बन्दूक, दूसरा मंत्रसंचालित आयुध ॥ १ ९ २ ॥ अस्त्रमिति । अस्त्रं द्विविधं ज्ञेयं नालिकं तथा मान्त्रिकम् ॥ १ ९ २ ॥

यदा तु मान्त्रिकं नास्ति नालिकं तत्र धारयेत् ।

सह शस्त्रेण नृपतिर्विजयार्थन्तु सर्वदा ॥ १ ९ ३ ॥

अन्वयः– यदा तु मान्त्रिकं नास्ति तत्र नृपतिः सर्वदा विजयार्थं शस्त्रेण सह नालिकं धारयेत् ॥ १ ९ ३ ॥ व्याख्या — यदा = यस्मिन् काले, मान्त्रिकं = मन्त्रप्रयोज्यम्, आयुधम् नास्ति = न विद्यते, तत्र = तदा, नृपतिः = राजा, विजयार्थम् = विजयाय, सर्वदा = सततम्, शस्त्रेण = प्रहरणेन सह, नालिकम् = आग्नेयास्त्रम्, धारयेत् = धारणं कुर्यात् ॥ १ ९ ३ ॥ हिन्दी – राजा सर्वदा विजयप्राप्ति के लिए मंत्रसंप्रेषित हथियार के अभाव में आग्नेयास्त्र अवश्य धारण करे ॥ १ ९ ३ ॥ यदेति । यदा तु मान्त्रिकं मन्त्रप्रयोज्यं न अस्ति, तत्र तदा नृपति: विजयार्थं सर्वदा शस्त्रेण सह नालिकं धारयेत् ॥ १ ९ ३ ॥

लघुदीर्घाकारधाराभेदैः शस्त्रास्त्रनामकम् ।

प्रथयन्ति नवं भिन्नं व्यवहाराय तद्विदः । १ ९ ४ ॥

अन्वयः– तद्विदव्यवहाराय लघुदीर्घाकारधाराभेदैः शस्त्रास्त्रनामकं नवं भिन्नं प्रथयन्ति ॥ १ ९ ४ ॥ व्याख्या — तद्विदः = शस्त्रज्ञाः, व्यवहाराय = प्रयोगार्थम्, लघुदीर्घाकारधाराभेदैः-: - लघवः -अल्पाः, दीर्घाः = विशालाः महान्तः = विशिष्टाः, ये आकाराः = स्वरूपाः, तेषां धाराभेदाः = प्रयोग-रीतिविशेषाः, तैः, शस्त्रास्त्रनामकम् — शस्त्राणाम् = प्रहरणानाम्, अस्त्राणाम् = आयुधानाम्, नामानि, नवम् = नूतनम्, भिन्नम् = विशेषितम्, यथा स्यात् तथा, प्रथयन्ति = कथयन्ति ॥ १ ९ ४ ॥ हिन्दी — हथियारों के जानकार लोगों व्यवहार के लिए छोटे - बड़े आकारों के धारा अर्थात् प्रयोग करने की रीति विशेष के भेद से शस्त्रास्त्र के नामों में नये - नये भेद बतलाये ॥ १ ९ ४ ॥ लध्विति । तद्विदः शस्त्रज्ञाः जनाः व्यवहाराय लघुदीर्घाकारधाराभेदैः लघवः क्षुद्राः दीर्घाः महान्तः ये आकाराः अवयवाः तेषां धाराभेदाः प्रयोगरीतिविशेषाः तैः शस्त्रास्त्रनामकं शस्त्राणाम् अस्त्राणाञ्च नामानीत्यर्थः, नवं नूतनं भिन्नं विशेषितं यथा तथा प्रथयन्ति प्रकाशयन्ति ॥ १ ९ ४ ॥ नालिकं द्विविधं ज्ञेयं बृहत्क्षुद्रविभेदतः ॥ १ ९ ५ ॥ अन्वयः – नालिकं बृहत्क्षुद्रविभेदतः द्विविधं ज्ञेयम् ॥ १ ९ ५ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA