शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 411–420

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 411–420

पृष्ठ 411

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 411 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८२३ व्याख्या – नालिकम् = आग्नेयास्त्रम्, बृहत्क्षुद्रविभेदतः = गुरुलघुभेदात्, द्विविधम् = प्रकारद्वयम्, ज्ञेयम् = बोध्यम् ॥ १ ९ ५ ॥ हिन्दी — आग्नेयास्त्र तोप और बन्दूक के भेद से दो प्रकार का होता है ॥ १ ९ ५ ॥ नालिकमिति । नालिकम् अस्त्रं बृहत्क्षुद्रविभेदतः गुरुलघुभेदादित्यर्थः, द्विविधं ज्ञेयं बृहन्नालिकं क्षुद्रनालिकञ्चेत्यर्थः ॥ १ ९ ५ ॥

तिर्य्यगूर्ध्वच्छिद्रमूलं नालं पञ्चवितस्तिकम् ।

मूलाग्रयोर्लक्ष्यभेदितिलविन्दुयुतं सदा ॥

यन्त्राघाताग्निकृद् ग्रावचूर्णधृक्कर्णमूलकम् ।

सुकाष्ठोपाङ्गबुध्नञ्च मध्याङ्गुलविलान्तरम् ॥

स्वान्तेऽग्निचूर्णसन्धातृ शलाकासंयुतं दृढम् ।

लघुनालिकमप्येतत् प्रधार्य्यं पत्तिसादिभिः ॥

१ ९ ६ ॥

१ ९ ७ ॥

१ ९ ८ ॥

अन्वयः— तिर्यगूर्ध्वछिद्रमूलं पञ्चवितस्तिकं मूलाप्रयोर्लक्ष्यभेदि सदा तिलविन्दुयुतं यन्त्राघा-ताग्निकृत् ग्रावचूर्णधृक् कर्णमूलकं सुकाष्ठोपाङ्गबुध्नञ्च मध्याङ्गुलविलान्तरं स्वान्तेऽग्निचूर्णसन्धातृ शलाकासंयुतं दृढम् एतत् लघुनालिकमपि पत्तिसादिभिः प्रधार्यम् ॥१ ९६-१९ ८ ॥ व्याख्या — तिर्यक् = वक्रम्, ऊर्ध्वम् = उपरिष्टात्, छिद्रम् = विवरम्, मूले = शिफे, यस्य तत्, पञ्चवितस्तिकम् = सार्द्धद्वयहस्तमितम्, मूलाग्रयोः - मूले = ब्रध्ने, अग्रे = अग्रभागे च, लक्ष्यभेदि = - वेध्यभेदकम्, यत् तिलविन्दु = तिललव:, तेन युतम् = समन्वितम्, यन्त्रस्य =: यन्त्रकारस्य, आघातेन = प्रहारेण, अग्निकृत् = वह्न्युद्दीपकम्, यत् प्रावस्य = प्रस्तरखण्डस्य, चूर्णम् = क्षोदः, तस्य धृक् = धारकः कर्णमूलम् = मूलस्य कर्णभागे स्थितम्, यस्य तादृशम्, सुकाष्ठस्य = सुष्ठुदारुणः, उपाङ्गे = अङ्गसमीपे, बुध्नम् = मूलम्, यस्य तत्, मध्यम् = मध्यमम्, अङ्गुलविलम् = अङ्गुलिमितविस्तृतछिद्रम्, अन्तरे = मध्ये, यस्य तत्, स्वान्ते —– स्वस्य = आत्मनः, अन्ते = = अभ्यन्तरे, अग्निचूर्ण - सन्धातृ — अग्निचूर्णम् = स्फोटकचूर्णम्, तस्य सन्धातृ = = सम्यग्रूपेण धारकम्, शलाकया = धातु- निर्मितयष्टिकया, संयुतम् = समन्वितम्, दृढम् = = २ सुस्थिरम्, नालम् = गुलिकास्त्रम्, एतत् = पूर्वोक्तम् आग्नेयास्त्रम्, लघुनालिकमपि = गुलिकास्त्रमपि, पत्तिभिः = पदातिभिः, सादिभिश्च = अश्वारोहिभिश्च, प्रधार्यम् = सन्धार्यमिति ॥ १ ९६-१९९ ८ ॥ हिन्दी — लकड़ी के कुन्दे में लगी लोहे की लम्बी नली ऐसी हो जिसकी जड़ में तिरछा ऊपर की ओर तक छेद हो और वह ढाई हाथ लम्बी हो तथा इसके मूल एवं अग्रभाग में लक्ष्य बेंधने में सहायक के रूप में एकतिल विन्दु अर्थात् मक्खी लगी हो । इस आयुध से आबाद होने पर आग पैदा करने वाला बारुद मूल के किसी भाग में भरा हो । हाथ से पकड़ने वाला मूल भाग सुन्दर काठ का बना हो । बाल का छेद एक अंगुल चौड़ा हो, इसमें बारुद भरी जाती हों । इसके साथ बारुद भरने की मजबूत एक शलाका लगी हो । इस यंत्र को बन्दूक कहते हैं । पैदल एवं घड़सवारों को इन्हें साथ रखना चाहिए । १ ९६-१९ ८ ॥ तिर्य्यगित्यादि । तिर्य्यक् वक्रम् ऊर्ध्वं छिद्रं मूले यस्य तत्, पञ्चवितस्तिकं सार्द्धद्विहस्तं मूलाग्रयोः मूले अग्रे च लक्ष्यभेदि लक्ष्यभेदकं यत् तिलविन्दु तेन युतं, यन्त्रस्य आघातेन अग्निकृत् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 412

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 412 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२४ शुक्रनीतिः अग्न्युद्दीपकं यत् ग्रावचूर्णं प्रस्तरचूर्णं तस्य धृक् धारकः कर्णमूलं यस्य तादृशं सुकाष्ठस्य उपाङ्गे अङ्गसमीपे अवयवप्रान्ते इत्यर्थः, बुध्नं मूलं यस्य तत्, मध्यम् अङ्गुलबिलम् अन्तरे यस्य तत् स्वान्ते स्वस्य अन्ते अग्निचूर्णसन्धातृ अग्निचूर्णं ( बारुद इति प्रसिद्धः ) तस्य सन्धातृ धारकं शलाकया संयुतं दृढं कठिनं नालं ( बन्दुक ) इति प्रसिद्धम् । एतत् लघुनालिकमपि पत्तिभिः पादातैः सादिभिश्च

सन्धार्य्यम् ॥। १ ९६-१९ ८ ॥

यथा यथा तु त्वक्सारं यथा स्थूलबिलान्तरम् ।

यथा दीर्घं बृहद्गोलं दूरभेदि तथा तथा ॥ १ ९९ ॥

अन्वयः — त्वक्सारं यथा यथा तु यथा स्थूलबिलान्तरं यथा दीर्घं बृहद्गोलं तथा तथा दूरभेदि ॥ १ ९९ ॥ व्याख्या — त्वक्सारम् = फलकपत्रम्, यथा यथा = येन येन रूपेण, यथा च स्थूलम् = बृहत्, बिलम् = छिद्रम्, अन्तरे = अभ्यन्तरे, यस्य तथोक्तम्, यथा वा दीर्घम् = विशालम्, गोलञ्च: = गौलाकारपिण्डञ्च, तथा तथा = तेनैव रूपेण, दूरभदि = दूरस्थलक्ष्यभेदनं करोति ॥ १ ९९ ॥

हिन्दी – चदरा की मोटाई के अनुसार नाल लम्बाई तथा छेद का आकार बड़ा होगा ।

इसी तरह गोले का आकार जितना बड़ा होगा तोप की मार उतनी दूर तक होगी ॥१ ९९ ॥

यथेति । त्वक्सारं वंशः यथा यथा, यथा च स्थूलं बृहत् बिलं रन्ध्रम् अन्तरे यस्य तथोक्तं, यथा वा दीर्घं बृहत् गोलञ्च तथा तथा दूरभेदि दूरस्थलक्ष्यभेदकं भवति ॥ १ ९९ ॥ मूलकीलभ्रमाल्लक्ष्यसमसन्धानभाजि यत् ।

बृहन्नालिकसंज्ञं तत् काष्ठबुध्नविनिर्मितम् ।

प्रवाह्यं शकटाद्यैस्तु सुयुक्तं विजयप्रदम् ॥। २०० ॥

अन्वयः — यत् मूलकीलभ्रमात् लक्ष्यसमसन्धानभाजि काष्ठबुध्नविनिर्मितं तत् बृहन्नालिकसंज्ञं शकटाद्यैः प्रवाह्यं सुयुक्तं विजयप्रदम् ॥ २०० ॥

व्याख्या — यत् = पूर्वोक्तरूपं त्वक्सारम्, मूले = ब्रध्ने, कीलः = शङ्कुः, भ्रमात् = घूर्णनात्, लक्ष्यस्य = वेध्यस्य, समम् = अनुरूपम्, यत् सन्धानम् = अभिषवः, तत् भजते इति, तथाभूतः काष्ठस्य दारुणः, यत् बुध्नम् = मूलम्, तेन विनिर्मितम् = रचितम्, तत् बृहन्नालिकसंज्ञम् = बृहन्नालिकनाम, शकटाद्यैः = यानाद्यैः, प्रवाह्यम् = प्रवहनीयम्, सुयुक्तम् = सुष्ठुतया प्रयुक्तम्, विजयप्रदम् = युद्धजयाय भवति ॥ २०० ॥

हिन्दी- और जिसके मूल भाग में लगी हुई कील को घुमाने से वह लक्ष्य के अनुरूप गोले को फेंकने वाली होती है, उसका मूलभाग काठ का बना होता है । वह गाड़ी से ढोया जा सकता है । यदि उसका उचित रूप से प्रयोग किया जाय तो युद्ध में विजय निश्चित रूप से होती है ॥२०० ॥

मूलेति । यत् पूर्वोक्तरूपं त्वक्सारं मूले यः कीलः शङ्कुः तस्य भ्रमात् भ्रमणात् लक्ष्यस्य योग्यम् अनुरूपमित्यर्थः, यत् सन्धानं तत् भजते इति तथाभूतं काष्ठस्य यत् बुध्नं मूलं ग्रन्थिरित्यर्थः समं तेन विनिर्मितं तत् बृहन्नालिकसंज्ञं बृहन्नालिकं नाम ( कामान् ) इति भाषा । शकटाद्यैः प्रवाह्यं प्रवहनीयं बहुभारवत्त्वात् न मनुष्येण नापि हस्तिप्रभृतिभिः पशुभिरिति भावः, सुयुक्तं सुप्रयुक्तिमित्यर्थः, विजयप्रदं जयसाधनं भवति ॥ २०० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 413

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 413 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८२५

सुवर्चिलवणात् पञ्च पलानि गन्धकात् पलम् ।

अन्तर्धूमविपक्वार्कस्नुह्याद्यङ्गारत: पलम् ॥ २०१ ॥

शुद्धात् सङ्ग्राह्य सञ्चूर्ण्य सम्मील्य प्रपुटेद्रसैः ।

स्नुह्यर्काणां रसोनस्य शोषयेदातपेन च ।

पिष्ट्वा शर्करवच्चैतदग्निचूर्णं भवेत् खलु ॥ २०२ ॥

अन्वयः — सुवर्चिलवणात् पञ्चपलानि गन्धकात् पलम् अन्तर्धूमविपक्वार्कस्नुह्याद्यङ्गारतः शुद्धात् पलं संग्राह्म सञ्चूर्ण्य तथा सम्मील्य स्नुह्यर्काणां रसैः प्रपुटेत् । ततश्च रसोनस्य आतपेन शोषयेत् । अनन्तरं शर्करवच्चैतदग्निचूर्णं खलु भवेत् ॥२०१-२०२ ॥ व्याख्या – सुवर्चिलवणात् = विक्षारलवणात्, पञ्चपलानि = विंशतोलकानि, गन्धकात् = गन्धाश्मनः, पलम् = चतुस्तोलकानि, तथा अन्तर्धूमः = सधूमः, अग्निः = वह्निः, तेन विपक्वाः = दग्धाः, ये अर्काः = मन्दाराः, स्नुह्यादयः सिजवृक्षादयश्च, तेषाम् अङ्गारात् = दग्धकाष्ठात्, शुद्धात् =: अविमिश्रात्, पलम् = चतुस्तोलकमितम्, संग्राह्य = सम्यग्रूपेण नीत्वा, सञ्चूर्ण्य = सम्यक् प्रकारेण चूर्णं कृत्वा, तथा सम्मील्य = सम्यक्प्रकारेण मिश्रणं कृत्वा, स्नूहीनाम् = अर्कादीनाम्, रसैः = द्रवैः, प्रपुटेत् = पुटपाकं कुर्यात्, ततश्च, रसोनस्य = उग्रगन्धस्य, पाकेन = पाचनेन, आतपेन = तापनेन, शोषयेत् = शुष्कं कुर्यात्, अनन्तरम्, शर्करवत् = बालुकेव, एतत् = पूर्वोक्तं सकलम्, पिष्ट्वा = चूर्णीकृत्वा, यत् लब्धम्, तत् खलु अग्निचूर्णम् = स्फोटकचूर्णम्, भवेत् [ = = स्यात् ॥ २०१-२०२ ॥ हिन्दी – सोड़ा बीस तोला, गन्धक चार तोला, आक तथा थूहर आदि के धुआँ के साथ जले हुए कोयले शुद्ध चार तोला लेकर सबों को मिलाकर बारीक बुकनी बना ले । फिर आक, थूहर तथा लहसुन के रस में पका ले । फिर धूप में सुखाकर चूर्ण बना ले । बालू की तरह बुकनी बारुद कहलाती है॥२०१-२०२ ॥ अग्निचूर्णं निरूपयति- सुवर्चिलवणादिति । सुवर्चिलवणात् ( सोरा ) इति प्रसिद्धात् पञ्च पलानि कषचतुष्टयपरिमाणानि, गन्धकात् पलं कर्षचतुष्टयमितं गन्धकमित्यर्थः, तथा अन्तर्धूमः सधूमः अग्निः तेन विपक्वा दग्धाः ये अर्काः आकन्देति प्रसिद्धा वृक्षाः स्नुह्यादयः सिजवृक्षादयश्च तेषाम् अङ्गारात् शुद्धात् अविमिश्रादित्यर्थः, पलं सङ्ग्राह्य सम्यक् गृहीत्वा सञ्चूर्ण्य स्नूहीनाम् अर्काणाञ्च रसैः प्रपुटेत पचेत् । ततश्च रसोनस्य पाकेन आतपेन शोषयेत् । अनन्तरं शर्करवत् एतत् पिष्ट्वा चूर्णयित्वा यत् अग्निचूर्णं भवेत् ॥२०१-२०२ ॥ सुवर्चिलवणाद्भागाः षड्वा चत्वार एव वा नालास्त्रार्थाग्निचूर्णे तु गन्धाङ्गारौ तु पूर्ववत् ॥ अन्वयः — सुवर्चिलवणात् षड् वा चत्वारः एव भागाः गन्धाङ्गारौ तु ॥ २०३ ॥

तथा सम्मील्य मिश्रयित्वा क्षीणरसस्य कर्म्मणि षष्ठी लब्धमिति शेषः, तत् खलु

२०३ ॥

पूर्ववत् नालास्त्रार्थाग्निचूर्णे व्याख्या — सुवर्चिलवणात् = विक्षारात्, षट्पलानि = चतुर्विंशतितोलकानि, वा = अथवा, चत्वारः = षोडशतोलकानि, एव भागाः = अंशाः, नियोक्तव्याः, गन्धाङ्गारौ = गन्धाश्मनः, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 414

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 414 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२६ शुक्रनीतिः दग्धकाष्ठखण्डानि च, पूर्ववत् = यथा पूर्वपलमिति, नालास्त्रार्थाग्निचूर्णे – नालास्त्राणाम् = गुलिकास्त्राणाम्, अर्थे = निमित्ते, यत् अग्निचूर्णम् = स्फोटकचूर्णं नियोक्तव्यम् ॥ २०३ ॥

हिन्दी — अथवा बन्दूक के लिए जो बारुद बनाई जाती हैं उसमें सोड़ा चौबीस तोला अथवा सोलह तोला दिया जा सकता है । शेष गन्धक या अंगार की मात्रा पहले जैसे ही हो सकती है ॥२०२ ॥

सुवर्चीति । नालास्त्राणामर्थे निमित्ते यत् अग्निचूर्णं तस्मिन् सुवर्चिलवणात् षट् वा चत्वार एव वा भागाः नियोक्तव्या इत्यर्थः, गन्धाङ्गारौ गन्धकानि अङ्गाराश्च इत्यर्थः, पूर्ववत् पल-परिमितावित्यर्थः ॥ २०३ ॥

गोलो लोहमयो गर्भघुटिकः केवलोऽपि वा ।

सीसस्य लघुनालार्थे ह्यन्यधातुभवोऽपि वा ॥ २०४ ॥

अन्वयः — लघुनालार्थे केवलोऽपि लोहमयः गोल: गर्भघुटिकः वा सीसस्य वा अन्य-धातुमयः ॥२०४ ॥

व्याख्या— लघुनालार्थे = गुलिकास्त्रनिमित्ते, केवलोऽपि = अमिश्रितोऽपि, लोहमयः = लोहनिर्मितम्, गोलः = गुटिका, गर्भघुटिकः = अन्तर्भागस्थितगुटिका, वा = अथवा, सीसस्य = काचस्य, गुटिका, वा = अथवा, अन्यधातुमयः = अन्यधातुनिर्मितगुटिका गाह्यः ॥२०४ ॥

हिन्दी — तोप का गोला लोहे का या उसके भीतर छाटी - छोटी गोलियाँ भरी रहती हैं, दोनों तरह के होते हैं और बन्दूक के लिए सीसे की या अन्य धातु की बनी हुई बडी गोलियाँ या छर्रे होते हैं ॥२०४ ॥

गोल इति । लघुनालार्थे क्षुद्रनालास्त्रनिमित्तं केवलः अविमिश्र इत्यर्थः, लोहमयः गोलः गर्भ-घुटिकः अथवा सीसस्य गर्भघुटिकः अपि वा अन्यधातुमयः गर्भघुटिकः ग्राह्य इति शेषः ॥ २०४ ॥

लोहसारमयं वापि नालास्त्रं त्वन्यधातुजम् ।

नित्यसम्मार्जनस्वच्छमस्त्रपातिभिरावृतम् ॥ २०५ ॥

अन्वयः – नालास्त्रं लोहसारमयं वा अन्यधातुजं नित्यसम्मार्जनस्वच्छमस्त्रपातिभिः आवृतम् ॥२०५ ॥

व्याख्या – नालास्त्रम् = आग्नेयास्त्रम्, लोहसारमयम् = लोहपिण्डनिर्मितम्, वा = अथवा, अन्यधातुजम् = अन्यखनिजनिर्मितम्, चेत्, नित्यसम्मार्जनेन = सततपरिष्करणेन, स्वच्छम् = निर्मलम्, तथा अस्त्रपातिभिः = आयुधधारकैः शूरैः, आवृतम् = परिवृतं विधेयम् ॥ २०५ ॥

हिन्दी — तोप या बन्दूक फौलाद या अन्य धातु के बनाये जाते हैं । उन्हें नित्य झाड़ - पोंछ कर स्वच्छ बनाये रखना चाहिए । इसके आस - पास इसे चलाने लोहसारमयमिति । नालास्त्रं लोहसारमयं वा अन्यधातुजं परिष्करणेन स्वच्छं तथा अस्त्रपातिभिः अस्त्रक्षेपिभिः वीरैः आवृतं अङ्गारस्यैव गन्धस्य सुवर्चिलवणस्य शिलाया हरितालस्य तथा सीसमलस्य हिङ्गुलस्य तथा कान्तरजसः कर्पूरस्य जतोर्नौल्याश्च सरलनिर्य्यासस्य तथैव

वाले रहते हैं ।

चेत् नित्यसम्मार्जनेन सतत-कार्य्यमिति शेषः ॥२०५ ॥

च ।

च ॥ २०६ ॥

च ।

च ॥ २०७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 415

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 415 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८२७ समन्यूनाधिकैरंशैरग्निचूर्णान्यनेकशः 1 कल्पयन्ति च तद्विद्याश्चन्द्रिकाभादिमन्ति च ॥ २०८ ॥

अन्वयः - अङ्गारस्य गन्धस्य च सुवर्चिलवणस्य शिलायाः हरितालस्य तथा सीसमलस्य हिङ्गुलस्य कान्तरजसः च कर्पूरस्य जतो: नील्याश्च सरलनिर्यासस्य समन्यूनाधिकैः अंशैः अनेकशः, चन्द्रिकाभादिमन्ति अग्निचूर्णानि तद्धिद्याः जनाः कल्पयन्ति ॥ २०६-२०७ ॥ व्याख्या— अङ्गारस्य = दग्धकाष्ठस्य, गन्धस्य = गन्धाश्मनः, सुवर्चिलवणस्य = विक्षारस्य, शिलायाः = नैपाल्यः, हरितालस्य = चित्रगन्धस्य, सीसमलस्य = सीसकिट्टकस्य, हिङ्गुलस्य: बाह्लीकस्य, कान्तरजसः = कान्तिसारलौहस्य, कर्पूरस्य = सिताङ्गस्य, जतोः = लाक्षायाः, नौल्याः = सालरसस्य, तथा सरलनिर्यासस्य = सर्जरसस्य, समैः = समभागैः, न्यूनैः = अल्पै, अधिकैः = विशेषैश्च यथोक्तैः, अंशैः, अनेकशः = नानाविधानि, अग्निचूर्णानि = स्फोटकचूर्णानि, तत् = तस्य, विद्या: = विशेषज्ञाः, जनाः = = लोकाः, कल्पयन्ति = भावयन्ति ॥ २०६-२०७ ॥ हिन्दी — कोयला, गन्धक, सोड़ा, मैनसिल, हरताल, सीसे का जमा हुआ मैल, हींग, बढिया लोहा, कपूर, लाख, राल तथा देवदारु का गोंद - इन सबों के समान, कम या ज्यादा भाग मिलाकर बनाने से अनेक तरह की बारुद उसके जानकार लोग बनाते हैं । इसे जलाने पर चाँदनी की तरह स्वच्छ प्रकाश निकलता है ॥ २०६-२०८ ॥ पुनश्च अग्निचूर्णानि निरूपयति — अङ्गारस्येत्यादि । अङ्गारस्य गन्धस्य गन्धकस्य, सुवर्चिलवणस्य, शिलायाः प्रस्तरस्य, हरितालस्य, सीसमलस्य हिङ्गुलस्य, कान्तरजसः लोहचूर्णस्य, कर्पूरस्य, जतोः, नील्याः तथा सरलनिर्य्यासस्य सर्जरसस्य समैः न्यूनैः अधिकैश्च यथोक्तैः अंशैः अनेकशः बहुविधानि चन्द्रिका भादिमन्ति ज्योत्स्नाप्रभादियुक्तानि अग्निचूर्णानि तद्विद्याः तेषु विद्या येषां तादृशाः तद्भिज्ञा इत्यर्थः, जनाः कल्पयन्ति ॥ २०६-२०८ ॥ क्षिपन्ति चाग्निसंयोगाद्गोलं लक्ष्य सुनालगम् ॥। २० ९ ॥ अन्वयः — अग्निसंयोगात् सुनालगं गोलं लक्ष्यं क्षिपन्ति ॥ २० ९ ॥ व्याख्या - अग्निसंयोगात् = दहनवर्त्तिसम्पर्कात्, सुनालगम् — सुनालात् = शतघ्न्याः, गच्छतीति तादृशम्, गोलम् = गर्भघुटिकम्, लक्ष्ये = वेध्ये, क्षिपन्ति = क्षेपणं कुर्वन्तिद्विशेषज्ञाः ॥२० ९ ॥ हिन्दी — तोपची बारुद में पलीते लगाकर लक्ष्य की ओर गोले फेंकते हैं ॥ २० ९ ॥ क्षिपन्तीति । अग्निसंयोगात् सुनालगं सुनालात् गच्छतीति तादृशं गोलं गोलाकारं गर्भघुटिकं लक्ष्ये लक्षणीये अरौ इति शेषः, क्षिपन्ति तद्विद्या इति शेषः ॥२० ९ ॥

नालास्त्रं शोधयेदादौ दद्यात्तत्राग्निचूर्णकम् ।

निवेशयेत्तद्दण्डेन नालमूले यथा दृढम् ॥ २१० ॥

अन्वयः— आदौ नालास्त्रं शोधयेत्, तत्र अग्निचूर्णं दद्यात् । नालमूले दण्डेन यथा दृढं निवेशयेत् ॥ २१० ॥

व्याख्या — आदौ = प्रथमम्, नालास्त्रम् = स्फोटकास्त्रम्, शोधयेत् = परिष्कुर्यात्, तत्र = तस्मिन् स्थाने, अग्निचूर्णम् = स्फोटकद्रव्यम्, दद्यात् = स्थापयेत्, नालमूले = आग्नेयास्त्रमूलभागे, दण्डेन = शलाकया, यथा = येन प्रकारेण, दृढम् = सुस्थिरम्, यथा भवेत् तथा, तत् = पूर्वोक्तम्, अग्निचूर्णम् = स्फोटकचूर्णम्, निवेशयेत् = प्रवेशयेत् ॥ २१० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 416

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 416 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२८ शुक्रनीति: हिन्दी — पहले तोप या बन्दूक की नली साफ कर उसमें लोहे की मजबूत शलाका से बारुद ठूंस - ठँस कर भर दे । फिर नालमूल में गोले या गोली रख दे नालास्त्रमिति । आदौ नालास्त्रं शोधयेत् परिष्कुर्य्यात्, ततः तत्र दद्यात्, नालमूले दण्डेन यथा दृढं दृढं यथा तथेत्यर्थः, तत् प्रवेशयेत् ॥ २१० ॥

ततः सुगोलकं दद्यात् तत: कर्णेऽग्निचूर्णकम् ।

कर्णचूर्णाग्निदानेन गोलं लक्ष्ये निपातयेत् ॥

अन्वयः — ततः सुगोलकं दद्यात्, ततश्च कर्णे अग्निचूर्णं दद्यात् ।

लक्ष्ये निपातयेत् ॥२११ ॥

॥२१० ॥

अग्निचूर्णकं पूर्वोक्तं अग्निचूर्णं निवेशयेत् २११ ॥ कर्णचूर्णग्निदानेन गोलं व्याख्या- ततः =: स्फोटकचूर्णनिवेशनानन्तरम्, सुगोलकम् = लौहपिण्डम् दद्यात् = स्थाप-येत्, ततश्च,, कर्णे = कर्णभागे, अग्निचूर्णकं दद्यात्, तत्पश्चात् कर्णे चूर्णाग्निः = कर्णस्थाग्निचूर्णे, अग्निदानेन = दहनवर्त्तिकया वह्निप्रदानेन, लक्ष्ये = शरव्ये, गोलम् = लौहसीसपिण्डं वा, निपातयेत् = क्षिपेत् ॥२११ ॥

हिन्दी —–इसके बाद तोप या बन्दूक के बगल के छेद में बारुद भरकर उसमें आग लगाकर गोला या गोली लक्ष्य साधकर उस पर चला दे ॥ २११ ॥

तत इति । ततः अग्निचूर्णनिवेशनानन्तरं तत्र सुगोलकं, ततश्च कर्णे अग्निचूर्णकं दद्यात् । अनन्तरं कर्णे चूर्णाग्निदानेन कर्णस्थाग्निचूर्णे अग्निदानेन लक्ष्ये गोलं निपातयेत् ॥ २११ ॥

लक्ष्यभेदी यथा बाणो धनुर्ज्याविनियोजितः ।

भवेत् तथा तु सन्धाय द्विहस्तश्च शिलीमुखः । २१२ ॥

अन्वयः — यथा बाणः धनुर्ज्याविनियोजितः लक्ष्यभेदी भवेत्, तथा सन्धाय द्विहस्तश्च शिलीमुखः कार्यः ॥ २१२ ॥

व्याख्या — यथा = येन प्रकारेण, बाणः शरः, धनुर्ज्याविनियोजितः = धनुषो विक्षिप्तः सन्, लक्ष्यभेदी = शरव्यभेदनकारी, भवेत् = स्यात्, तथा = तेनैव रूपेण, सन्धाय = लक्ष्यसन्धानं कृत्वा, द्विहस्तः = हस्तद्वयपरिमितः, शिलीमुखः = शरः कुर्यात् ॥ २१२ ॥

हिन्दी - धनुष की डोरी पर ऐसा निशाना साधकर बाण चलाये कि लक्ष्य का भेदन अवश्य हो और बाण की लम्बाई दो हाथ की होनी चाहिए ॥ २१२ ॥

लक्ष्यभेदीति । यथा बाणः धनुर्ज्याविनियोजितः धनुषो विक्षिप्त इत्यर्थः, सन् लक्ष्यभेदी भवेत् तथा सन्धाय द्विहस्तः हस्तद्वयमितः शिलीमुखः बाणः कार्य्य इति शेषः ॥ २१२ ॥

अष्टाश्रा पृथुबुध्ना तु गदा हृदयसम्मिता ।

पट्टीशः स्वसमो हस्तबुध्नश्चोभयतोमुखः ॥ २१३ ॥

अन्वयः – पृथुबुध्ना अष्टाश्रा हृदयसम्मिता गदा पट्टीशः स्वसमः हस्तबुध्नः उभयतोमुखः स्यात् ॥२१३ ॥

व्याख्या – पृथुबुध्ना = मूले स्थूला, अष्टाश्रा = - अष्टकोणा, हृदयसम्मिता = वक्ष: स्थल-पर्यन्तोन्नतः, गदा = = लोहमयशस्त्रभेदः, कार्या, पट्टीशः = क्षुरोपमतीक्ष्णधारः लौहदण्डः, ‘ पट्टीशः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 417

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 417 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८२ ९ लौहदण्डो यस्तीक्ष्णधारः क्षुरोपम: ' ( वैजयन्ती ) । स्वसमः = निजतुल्यः, हस्तबुध्नः = हस्तप्रमाणः, उभयतोमुखः = मूलाग्रजमुखः कार्यः ॥२१३ ॥

हिन्दी – मूल भाग जिसका मोटा हो, आठ पहल वाली, छाती तक ऊँची गदा बनाये तथा अपने बराबर ऊँची दोनों ओर तेज धार वाली जिसे बीच में से हाथ से पकड़ा जाय ऐसा पट्टीश शस्त्र बनाये ॥ २१३ ॥

अष्टेति । पृथुबुध्ना स्थूलमूलदेशा अष्टाश्रा अष्टकोणा हृदयसम्मिता वक्षःस्थलसमाना गदा कार्य्या इति शेषः । पट्टीशः अस्त्रविशेषः स्वसमः क्षेप्तृसमपरिमाणः हस्तबुध्नश्च हस्तप्रमाणः वा, उभयतोमुखः मूलाग्रमुखः कार्य्य इति शेषः ॥ २१३ ॥

ईषद्वक्रश्चैकधारो विस्तारे चतुरङ्गुलः I क्षुरप्रान्तो नाभिसमो दृढमुष्टिः सुचन्द्ररुक् ॥ २१४ ॥

अन्वयः — एकधारः ईषद्वक्रः विस्तारे चतुरङ्गुलः क्षुरप्रान्तः नाभिसमः दृढमुष्टिः सुचन्द्ररुक् ॥ २१४ ॥

व्याख्या — एकधारः = अस्त्रविशेष:, ईषद्वक्रः = किञ्चित्कुटिलः, विस्तारे = परिणाहे, चतुरङ्गलः =: अङ्गुलचतुष्टयप्रमाणः, क्षुरप्रान्तः = अस्त्रभेदः, नाभिसमः = निपातने नाभिपर्यन्तप्रमाणः, दृढमुष्टिः = सुस्थिरमुष्टिः, सुचन्द्ररुक् = सुन्दरराशिप्रभः, कार्यः ॥ २१४ ॥

हिन्दी - एक ओर धार वाली, कुछ टेढ़ी, चार अंगुल चौड़ी, छुरे की तरह तेज धार वाली, नाभी तक ऊँची, मजबूत मूठ वाली तथा चाँद की तरह चमकने वाली तलवार होती है ॥२१४ ॥

ईषदिति । एकधारः अस्त्रविशेष: ईषद्वक्रः, विस्तारे चतुरङ्गुलः, अङ्गुलचतुष्टयप्रमाणः, क्षुरप्रान्तः अस्त्रभेदः नाभिसमः क्षेप्तृनाभिपर्य्यन्तपरिमाणः दृढमुष्टिः तथा सुचन्द्ररुक् शोभनचन्द्रप्रभः कार्य्य इति शेषः ॥२१४ ॥

खड्गः प्रासश्चतुर्हस्तदण्डबुध्नः क्षुराननः ।

दशहस्तमितः कुन्तः फालाग्रः शङ्कुबुध्नकः ॥ २१५ ॥

अन्वयः— खड्गः प्रासश्च चतुर्हस्तदण्डबुध्नः क्षुराननः कुन्तः दशहस्तमितः फालाग्रः शङ्कुबुध्नक ॥ २१५ ॥

व्याख्या — खड्गः = करवालः, प्रासश्च = कुन्तश्च चतुर्हस्तदण्डबुध्नः = तुरीयहस्तदण्ड-प्रमाणः, क्षुराननः — क्षुरः = खुरः, इव आननम् = मुखम्, यस्यासौ, कुन्तः = भल्लः, दशहस्तमितः = दशहस्तपरिमितः, फालाग्रः - फालस्य = कुशिलस्य, अग्रम् = अग्रभागम्, यस्य तथाभूतः, तथा शङ्कु- बुध्नकः = शङ्कुतुल्यः, यथा स्यात् तथेति ॥ २१५ ॥

हिन्दी — चार हाथ लम्बे डंडे के आगे छुरे के समान तेज धार वाला बच्छ नामक हथियार होता है और दश हाथ लम्बे डंडे के आगे तेज धार वाला फाल कील के सहारे जिसमें लगा होता है उसे भाला कहते हैं ॥२१५ ॥

खड्ग इति । खड्ग: प्रासश्च अस्त्रभेदः चतुर्हस्तदण्डबुध्नः चतुर्हस्तदण्डप्रमाणः क्षुराननः क्षुरवत् आननं यस्य सः । कुन्तः दशहस्तमितः फालाग्रः फालस्य लाङ्गुलमुखवर्त्तिनो लौहस्य इव अग्रं यस्य तथाभूतः, तथा शङ्कुबुध्नकः शङ्कसदृश इत्यर्थः ॥ २१५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 418

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 418 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३० शुक्रनीतिः

चक्रं षड्ढस्तपरिधि क्षुरप्रान्तं सुनाभियुक् ।

त्रिहस्तदण्डस्त्रिशिखो लोहरज्जुः सुपाशकः ॥ २१६ ॥

अन्वयः — चक्रं षड्ढस्तपरिधि क्षुरप्रान्तं सुनाभियुक् सुपाशकः त्रिहस्तदण्डः त्रिशिखः लोहरज्जुः ॥ २१६ ॥

व्याख्या— चक्रम् = चक्राकारायुधम्, षड्ढस्तपरिधिः षड्हस्तम् = हस्तषड्कम्, परिधि = वेष्टनम्, यस्य तत्, क्षुरप्रान्तम् — क्षुरः = खुर इव, प्रान्तम् = अग्रभागम्, यस्य तत् तथा, सुनाभियुक् = सुष्ठुमध्यसमन्वितम्, सुपाशकः = सुजालकः, त्रिहस्तदण्डः = हस्तत्रयदण्डयुतः, त्रिशिखः = शिखरत्रयसमन्वितम्, तथा लोहरज्जुः = लोहतारसंयुक्तो भवति ॥ २१६ ॥

हिन्दी — जिसके घेरे की लम्बाई छः हाथ की हो तथा इसके गोल आकार का अगला हिस्सा छुरे की तरह तेज धार वाला हो और बीच का भाग सुन्दर एवं सुदृढ़ हो, ऐसे हथियार ' को ' चक्र ' कहते हैं । पाश नामक शस्त्र का डंडा तीन हाथ लम्बा होता है तथा इसके तीन छोर लोहे के मजबूत तार से घिरे होते हैं ॥ २१६ ॥

चक्रमिति । चक्रं चक्राकारः अस्त्रविशेषः षड्ढस्तपरिधि हस्तषट्कवेष्टनं क्षुरस्येव प्रान्तं यस्य तत्, तथा सुनाभियुक् सुमध्यमित्यर्थः । सुपाशकः पाशनामा अस्त्रविशेष: त्रिहस्तदण्डः हस्तत्रयमितः दण्डाकृतिश्च इत्यर्थः, त्रिशिखः शिखात्रययुतः तथा लोहरज्जुः लौहतारवान् ॥ २१६ ॥

गोधूमसम्मितस्थूलपत्रं लोहमयं दृढम् ।

कवचं सशिरस्त्राणमूर्ध्वकायविशोभनम् ॥ २१७ ॥

अन्वयः - गोधूमसम्मितस्थूलपत्रं दृढं लोहमयं सशिरस्त्राणम् ऊर्ध्वकायविशोभनं कवचम् ॥ २१७ ॥

व्याख्या — गोधूमसम्मितस्थूलपत्रम् — गोधूमेन = निस्तुषेण, सम्मितम् = सदृशम्, स्थूलम् = पीवरम्, पत्रम् = आवरणम्, यस्य तथाभूतस्य, लोहमयम् = लौहनिर्मितम्, दृढम् = - सुस्थिरम्, सशिरस्त्राणम् = शिरसंरक्षकसहितम्, ऊर्ध्वकायविशोभनम् = मस्तकशोभाजनकम्, कवचम् = सन्नाहः कार्यः ॥२१७ ॥

हिन्दी— गेहूँ के बराबर मोटे लोहे के चदरे से बने या मजबूत शरीर की रक्षा के लिए बने आवरण को कवच कहते हैं । शिर की रक्षा के लिए सुन्दर ढंग से बने टोप भी इसके साथ लगे होते हैं, इसे कवच कहा जाता है ॥ २१७ ॥

गोधूमेति । गोधूमेन सम्मितं तुल्यं स्थूलं पत्रं यस्य तत् लोहमयं दृढं कठिनं सशिरस्त्राणं शिरस्त्राणसहितम् ऊर्ध्वकायविशोभनम् ऊर्ध्वदेहशोभाजनकं कवचं कार्य्यमिति शेषः ॥२१७ ॥

तीक्ष्णाग्रं करजं श्रेष्ठं लोहसारमयं दृढम् ॥ २१८ ॥

अन्वयः - तीक्ष्णाग्रं लोहसारमयं दृढं करजं श्रेष्ठम् ॥२१८ ॥

व्याख्या – तीक्ष्णाग्रम् = सुष्ठुधारयुक्तम्, लौहसारमयम् = उत्कृष्टलोहनिर्मितम्, दृढम् = शक्तिसम्पन्नम्, करजम् = नखतुल्यास्त्रविशेषः, श्रेष्ठः = उत्तमो भवति ॥२१८ ॥

हिन्दी – इस्पात के बने मजबूत नाखून की तरह नुकीले तेज धार वाले हथियार को ‘ करज ' अर्थात् बघनखा कहते हैं ॥२१८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 419

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 419 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८३१ तीक्ष्णाग्रं सुधारं लोहसारमयम् उत्कृष्टलोहमयं दृढं करजम् अस्त्रविशेषः कार्य्यमिति शेषः ॥२१८ ॥

यो वै सुपुष्टसम्भारस्तथा षड्गणमन्त्रवित् ।

बह्वस्त्रसंयुतो राजा योद्धुमिच्छेत् स एव हि ।

अन्यथा दुःखमाप्नोति स्वराज्याद्भ्रश्यतेऽपि च ॥ २१ ९ ॥

अन्वयः - यः वै राजा सुपुष्टसम्भारः षड्गुणमन्त्रवित् तथा बहुभिः अस्त्रैः संयुतः स एव हि योद्धुम् इच्छेत्, अन्यथा दुःखम् आप्नोति च स्वराज्यात् भ्रश्यते ॥२१ ९ ॥ व्याख्या — यः = यत्, वै = इति निश्चयेन, राजा = नृपः सुपुष्टसम्भारः = वस्तुजातैः परिपुष्टः, षड्गुणमन्त्रवित् — षड्गुणाः = सन्धिविग्रहादिकगुणाः - सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षड्गुणाः, मन्त्राश्च, तान् वेत्ति = जानातीति तथोक्तम्, तथा बहुभिः = अनेकैः, अस्त्रैः = आयुधैः, संयुतः = समन्वितः, सः = असौ राजा एव, योद्धुम् = युद्धं कर्तुम्, इच्छेत् = अभिलषेत्, अन्यथा = इतरथा समरकरणे, दुःखम् = कष्टम्, आप्नोति = प्राप्नोति, स्वराज्यात् = निजराष्ट्रात्, भ्रश्यते = भ्रष्टो भवति ॥ २१ ९ ॥ हिन्दी — जो राजा युद्ध के लिए उपयुक्त साधनों से सम्पन्न और समयानुसार सन्धि, विग्रह, यान, आसन, संश्रय एवं द्वैधीभाव –— इन छः गुणों एवं मन्त्रणाओं का जानकार एवं बहुविध आयुधों से युक्त हो, उसे ही युद्ध की इच्छा करनी चाहिए । अन्यथा युद्ध करने पर वह खुद तो दुःख पाता ही है राज्य से भी हाथ धोना पड़ता है ॥ २१ ९ ॥ य इति । यः राजा सुपुष्टसम्भारः परिपुष्टसामग्रीकः, षड्गुणमन्त्रवित् षट् गुणाः सन्ध्यादयः ‘ सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षट् गुणाः ' इत्यमरः । मन्त्राश्च तान् वेत्तीति तथोक्तः तथा बहुभिः अस्त्रैः संयुतः, स एव योद्धुम् इच्छेत्, अन्यथा युद्धकरणे दुःखम् आप्नोति, स्वराज्यात् भ्रश्यते च विच्युतः भवति च ॥ २१ ९ ॥

आबिभ्रतोः शत्रुभावमुभयोः संयतात्मनोः ।

अस्त्राद्यैः स्वार्थसिद्ध्यर्थं व्यापारो युद्धमुच्यते ॥ २२० ॥

अन्वयः — शत्रुभावम् आबिभ्रतोः संयतात्मनोः उभयोः स्वार्थसिद्ध्यर्थम् अस्त्राद्यैः व्यापारः युद्धम् उच्यते ॥ २२० ॥

व्याख्या – शत्रुभावम् = पारस्परिकशत्रुता, आबिभ्रतोः = धारयतोः, संयतात्मनोः = नियतात्मनोः, उभयोः = द्वयोः, स्वार्थसिद्ध्यर्थम् = आत्मप्रयोजननिष्पादनाय, अस्त्राद्यैः = आयु-धादिभिः, व्यापारः = कार्यम्, युद्धम् = समरम्, उच्यते = कथ्यते ॥२२० ॥

हिन्दी – परस्पर वैरभाव रखते हुए संयतात्मक होकर दो व्यक्ति हथियारों का संचालन करते हुए स्वार्थसिद्धि के लिए जो काम करते हैं, उसे युद्ध कहते हैं ॥२२० ॥

आबिभ्रतोरिति । शत्रुभावम् आबिभ्रतोः धारयतोः संयतात्मनोः निश्चलमनसो उभयोः स्वार्थसिद्ध्यर्थम् अस्त्राद्यैः व्यापारः युद्धम् उच्यते ॥ २२० ॥

मन्त्रास्त्रैर्दैविकं युद्धं नालाद्यस्त्रैस्तथाऽऽसुरम् ।

शस्त्रबाहुसमुत्थन्तु मानवं युद्धमीरितम् ॥ २२१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 420

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 420 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३२ शुक्रनीतिः अन्वयः – मन्त्रास्त्रैः दैविकं तथा नालाद्यस्त्रैः आसुरं शस्त्रबाहुसमुत्थं मानवं युद्धम् ईरितम् ॥२२१ ॥

व्याख्या – मन्त्राद्यैः = मन्त्रादिप्रयुक्तैः, अस्त्रैः = आयुधैः, कृतयुद्धस्य नाम, दैविकम् = अमान-वीम्, तथा = नालाद्यस्त्रैः = आग्नेयाद्यायुधैः, कृतयुद्धम्, आसुरम् = असुरसम्बन्धिनम्, शस्त्रबाहु-समुत्थम् — शस्त्रैः = खड्गादिभिः, बाहुभिश्च = दोर्दण्डैश्च समुत्थम् = जातयुद्धम्, मानवम् = मनुष्यकृतम्, युद्धम्, ईरितम् = कथितम् ॥ २२१ ॥

हिन्दी — जिस युद्ध में मन्त्र द्वारा आयुध संचालित हो, उसे दैवी तथा जिसमें आग्नेयास्त्र प्रयुक्त हो, उसे आसुरी एवं तलवार प्रभृति शस्त्रों का बाहों से जो युद्ध किया जाय, उसे मानवी युद्ध कहते हैं ॥२२१ ॥

मन्त्रास्त्रैरिति । मन्त्रास्त्रैर्दैविकं, नालादिभिः अस्त्रैः आसुरं शस्त्रबाहुसमुत्थं शस्त्रैः तलवारादिभिः बाहुभिश्च समुत्पन्नं मानवं युद्धम् ईरितम् उक्तम् ॥ २२१ ॥

एकस्य बहुभिः सार्द्धं बहूनां बहुभिश्च वा ।

एकस्यैकेन वा द्वाभ्यां द्वयोर्वा तद्भवेत् खलु ॥ २२२ ॥

अन्वयः —– तत् एकस्य बहुभिः सार्द्धं वा बहूनां बहुभिः एकस्य एकेन वा द्वयोः द्वाभ्यां खलु भवेत् व्याख्या ॥ २२२ – ॥ तत् = समरम्, एकस्य = जनस्यैकस्य, बहुभिः = अनेकजनैः सार्द्धम् = सह, वा = अथवा, एकस्य = एकमात्रजनस्य, एकेन = एकमात्रेण जनेन, सार्द्धम् = सह, वा = अथवा, द्वयोः = उभयोः, द्वाभ्याम् = उभाभ्याम्, सार्द्धम् = सह, खलु = निश्चयेन, भवेत् = स्यात् ॥ २२२ ॥

हिन्दी — और यह युद्ध कभी एक का अनेकों के साथ अथवा बहुतों का बहुतों के साथ, एक का एक के साथ अथवा दो का दो के साथ होता है ॥ २२२ ॥

एकस्येति । तत् युद्धम् एकस्य बहुभिः सार्द्धं सह, बहूनां बहुभिश्च, सार्द्धम् एकस्य एकेन सार्द्धं द्वयोः द्वाभ्यां वा सार्द्धं खलु निश्चितं भवेत् ॥ २२२ ॥

कालं देशं शत्रुबलं दृष्ट्वा स्वीयबलं ततः ।

उपायान् षड्गुणं मन्त्रं भवेच्च युद्धकामुकः ॥ २२३ ॥

अन्वयः — कालं देशं शत्रुबलं स्वीयबलम् उपायान् षड्गुणं मन्त्रं च दृष्ट्वा युद्धकामुकः भवेत् ॥ २२३ ॥

व्याख्या — कालम् = समयम्, देशम् = स्थानम्, शत्रुबलम् = रिपुशक्तिम्, स्वीयबलम् = आत्मशक्तिः उपायान् = सामदानादिशत्रुविजययुक्तीः, सामदानभेददण्डमित्युपायचतुष्टयम्, षड्गुणम् = सन्धिविग्रहादिकं षड्गुणम्, सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षड्गुणाः, मन्त्रम् = मन्त्रणाशक्तिः, दृष्ट्वा = विचार्य, युद्धकामुकः = सङ्ग्रामेच्छुकः, भवेत् = स्यात् ॥ २२३ ॥

हिन्दी — देश, काल, आत्मशक्ति, शत्रुशक्ति, सामदानादिक उपाय, सन्धिविग्रहादिक षड्गुण और मंत्रणाशक्ति पर अच्छी तरह विचार कर लेने के बाद ही युद्ध में प्रवृत्त हो ॥२२३ ॥

कालमिति । कालं समयं देशं स्थानं शत्रुबलं स्वीयबलम् उपायान् सामादीन् ‘ सामदानभेददण्डमित्युपायचतुष्टयमित्यमरः । षड्गुणं सन्ध्यादिकं मन्त्रञ्च दृष्ट्वा समीक्ष्य युद्धकामुकः सङ्ग्रामार्थी भवेत् ॥२२३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA