शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 421–430

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 421–430

पृष्ठ 421

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८३३

शरद्धेमन्तशिशिरकालो युद्धेषु चोत्तमः ।

वसन्तो मध्यमो ज्ञेयोऽधमो ग्रीष्मः स्मृतः सदा ॥ २२४ ॥

अन्वयः - युद्धेषु शरद्धेमन्तशिशिरकालश्च उत्तमः, वसन्तः मध्यमः ज्ञेयः, ग्रीष्मस्तु सदा अधमः स्मृतः ॥२२४ ॥

व्याख्या – युद्धेषु = सङ्गरेषु, शरद् = वर्षान्तः, हेमन्तः = हिमागमः, शिशिरकालश्च = शीत-कालश्च, उत्तमः = उत्कृष्टः, वसन्तः = ऋतुराजः, मध्यमः = मध्यः, ज्ञेयः = बोध्यः, ग्रीष्मस्तु = तपनकालस्तु, सदा = सर्वदा, अधमः = हीनसमयः, स्मृतः = कथितः ॥ २२४ ॥

हिन्दी – युद्ध के लिए उपयुक्त समय शरद, हेमन्त और शिशिर कहा गया है । वसन्त ऋतु का समय मध्यम वर्ष का तथा ग्रीष्म ऋतु को अधम शरदिति । युद्धेषु शरत् हेमन्तः शिशिरकालश्च उत्तमः अधमः स्मृतः ॥ २२४ ॥

वर्षासु न प्रशंसन्ति युद्धं साम स्मृतं अन्वयः - वर्षासु युद्धं न प्रशंसन्ति, तदा साम स्मृतः ॥ व्याख्या – वर्षासु = मेघागमेषु, युद्धम् = समरम्, न = तदा = तस्मिन्काले, साम = = सन्धिरेव, स्मृतम् = कथितम् ॥ हिन्दी - वर्षाऋतु में युद्ध करना सर्वथा अप्रशंसनीय है, से सन्धि करना ही कहा गया है ॥ २२५ ॥

काल कहा गया है ॥२२४ ॥

, वसन्तः मध्यमः ज्ञेयः, ग्रीष्मस्तु सदा तदा ॥ २२५ ॥

२२५ ॥ नहि, प्रशंसन्ति = प्रशंसनीयो भवति, २२५ ॥ उस समय तो किसी भी तरह दुश्मनों वर्षास्विति । वर्षासु युद्धं न प्रशंसन्ति, तदा वर्षास्वित्यर्थः, साम सन्धिः स्मृतम् ॥ २२५ ॥

युद्धसम्भारसम्पन्नो यदाधिकबलो नृपः ।

मनोत्साही सुशकुनोत्पाती कालस्तदा शुभः ॥ २२६ ॥

अन्वयः — यदा नृपः युद्धसम्भारसम्पन्नः अधिकबलः मनोत्साही तदा सुशकुनोत्पाती शुभः कालः ॥ २२६ ॥

व्याख्या — यदा = यस्मिन्काले, नृपः = राजा, युद्धसम्भारसम्पन्नः = समरोपयुक्तसाधनस-म्पन्नः, अधिकबलः = अत्यधिकशक्तिसम्पन्नः, मनोत्साही - मनसा = चित्तेन, उत्साही = साहसी, अत्र सन्धिरार्ष:, तदा = तस्मिन्काले, सुशकुनोत्पाती – सुशकुनानाम् = सुष्ठुलक्षणानाम्, उत्पातः = समु- दयः, यस्मिन् तथाभूतः, अत एव शुभः = शुभलक्षणः, कालः = युद्धस्य समय इति ज्ञेयम् ॥ २२६ ॥

हिन्दी — जब राजा के पास युद्धोपयोगी सामग्रियों की पूर्णता हो, अधिक शक्तिसम्पन्न हो और मन में युद्ध के लिए उत्साहित हो तथा अच्छे शकुन दिखाई पड़ते हों तो उस समय युद्ध में प्रवृत्त होना शुभ फलदायक होता है ॥ २२६ ॥

युद्धेति । यदा नृपः युद्धसम्भारसम्पन्नः सङ्ग्रामसामग्रीपरिपुष्टः अधिकबलः मनोत्साही उत्साहान्वितमनाः सन्धिरत्रार्षः । तदा सुशकुनोत्पाती सुशकुनानां सुलक्षणानाम् उत्पातः उत्पतनम् उदय इत्यर्थः, यस्मिन् तथाभूतः अत एव शुभः सुमङ्गलः कालः सङ्ग्रामस्येति शेषः ॥२२६ ॥

कार्येऽत्यावश्यके प्राप्ते कालो नो चेद्यदा शुभः ।

विधाय हृदि विश्वेशं गेहे भक्त्या न्वियात् तदा ॥ २२७ ॥

५३ शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 422

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३४ शुक्रनीति: अन्वयः– यदा शुभः कालः नो चेत् अत्यावश्यके कार्ये प्राप्ते हृदि गेहे विश्वेशं भक्त्या विधाय नु इयात् ॥ २२७ ॥

व्याख्या — यदा = यस्मिन्काले, शुभः = माङ्गलिकः, कालः = समयः, चेत् = यदि, न = नहि, किञ्च, अत्यावश्यके = अत्यावश्यककर्त्तव्ये, कार्ये = कर्मणि, प्राप्ते = उपस्थिते, हृदि = चित्तस्वरूपे, गेहे = गृहे, विश्वेशम् = परमात्मानम्, भक्त्या = भक्तिपूर्वकेन, विधाय = संस्थाप्य, नु = नूनम्, इयात् = व्रजेत् ॥ २२७ ॥

हिन्दी – यदि किसी अत्यावश्यक कार्यवश युद्ध करना अनिवार्य हो जाय और उस समय यदि शुभफलद समय उपस्थित न हो तो हृदय रूपी घर में भक्तिपूर्वक भगवान् का ध्यान कर युद्ध. के लिए सन्नद्ध हो जाय ॥२२७ ॥

कार्य्ये इति । यदा चेत् यदि शुभः कालः नो प्राप्यते इत्यर्थः, तदा अत्यावश्यके कार्य्यं प्राप्ते आपतिते हृदि हृदयरूपे गेहे विश्वेशं भक्त्या विधाय नु निधाय इयात् गच्छेत् सङ्ग्रामायेति शेषः ॥ २२७ ॥

न कालनियमस्तत्र गोस्त्रीविप्रविनाशने ॥ २२८ ॥

अन्वयः - गोस्त्रीविप्रविनाशने तत्र न कालनियमः ॥२२८ ॥

व्याख्या — गोस्त्रीविप्रविनाशने – गवाम् = धेनूनाम्, स्त्रीणाम् = नारीणाम्, वा = अथवा, विप्राणाम् = ब्राह्मणानाम्, विनाशने = विध्वंसने, तत्र = = तस्मिन् समरे, न = नहि, कालनियमः = समयविचारः, अर्थात् पूर्वोक्तकार्ये समुपस्थिते सर्वस्मिन्नेव काले युद्धाय सन्नद्धो भवेत् ॥ २२८ ॥

हिन्दी – गाय, औरत और ब्राह्मणों का विनाश यदि उपस्थित हो जाय तो उन्हें बचाने के निमित्त युद्ध करने में किसी प्रकार कालनियम का विचार नहीं करना चाहिए ॥ २२८ ॥

नेति । गोस्त्रीविप्रविनाशने गवां स्त्रीणां विप्राणां वा विनाशने सति तत्र युद्धे न कालनियमः सर्वस्मिन्नेव काले सङ्ग्रामाय यायादिति भावः ॥२२८ ॥

यस्मिन् देशे यथाकालं सैन्यव्यायामभूमयः ।

परस्य विपरीताश्च स्मृतो देशः स उत्तम: ॥ २२ ९ ॥

अन्वयः – यस्मिन् देशे यथाकालं सैन्यव्यायामभूमयः परस्य विपरीताः सः देशः उत्तमः स्मृतः ॥ २२ ९ ॥ व्याख्या — यस्मिन् = यत्र, देशे = स्थाने, यथाकालम् = यथावसरम्, सैन्यानाम् = बलानाम्, व्यायामभूमयः = सैन्यशिक्षाभ्यासस्थानानि, सन्तीति शेषः, तथा = तेनैव रूपेण, परस्य = रिपोः, विपरीताः = विरुद्धाः, सः = तत्, देशः = स्थानम्, उत्तमः = श्रेष्ठः स्मृतः = कथितः ॥२२ ९ ॥ हिन्दी — जिस स्थान पर समयानुसार सैनिकों को कवायद कराने के लिए योग्य भूमि हो और वह दुश्मनों को विपरीत पड़े तो वही स्थान युद्ध के लिए चुनना उत्तम होता है ॥ २२ ९ ॥ यस्मिन्निति । यस्मिन् देशे यथाकालं समये समये इत्यर्थः, सैन्यानां व्यायामभूमयः रणव्यापारशिक्षाभ्यासस्थानानि सन्तीति शेषः, तथा परस्य शत्रोः विपरीताः न सन्तीति भावः, सः देशः उत्तमः स्मृतः ॥ २२ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 423

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८३५

आत्मनश्च परेषां च तुल्यव्यायामभूमयः ।

यत्र मध्यम उद्दिष्टो देश: शास्त्रविचिन्तकैः ॥ २३० ॥

अन्वयः — यत्र आत्मनः परेषां तुल्यव्यायामभूमयः देशः शास्त्रविचिन्तकैः मध्यमः उद्दिष्टः ॥२३० ॥

व्याख्या — यत्र = यस्मिन् स्थाने, आत्मनः = स्वस्य, परेषाम् = अन्येषां शत्रूणाम्, तुल्याः = समानाः, व्यायामभूमयः = प्रशिक्षणस्थानानि सन्ति, सः = = असौ, देशः = स्थानम्, शास्त्रविचिन्तकैः =: शास्त्रज्ञैः, मध्यमः = सामान्यः, उद्दिष्टः = कथितः ॥ २३० ॥

हिन्दी — और जहाँ अपने तथा दुश्मन की सेना के लिए समान रूप से कवायद के लिए उपयुक्त स्थान उपलब्ध हो, वह शास्त्रज्ञों की दृष्टि में मध्यम दर्जे का रणक्षेत्र कहा गया है ॥२३० ॥

आत्मन इति । यत्र यस्मिन् देशे आत्मनः परेषां शत्रूणाञ्च तुल्याः समानाः व्यायामभूमयः सन्तीति शेषः, स देशः शास्त्रविचिन्तकैः मध्यमः उद्दिष्टः कथितः ॥२३० ॥

अरातिसैन्यव्यायामसुपर्य्याप्तमहीतलः आत्मनो विपरीतश्च स वै देशोऽधमः स्मृतः ॥ २३१ ॥

अन्वयः — यः देशः वै अरातिसैन्यव्यायामसुपर्याप्तमहीतलः आत्मनः विपरीतश्च सः अधमः स्मृतः ॥ २३१ ॥

व्याख्या- - यः = यत्, देशः = राष्ट्रः, अरातिसैन्यानाम् = रिपुबलानाम्, व्यायामेषु = सेना-व्यायामेषु, सुपर्याप्तम् = सूपयुक्तम्, महीतलम् = क्रीडाक्षेत्रं रणक्षेत्रं वा, यस्मिन् तथाभूतः, आत्मनः = स्वस्य,, विपरीतश्च = विरुद्धश्च, सः = = देशः, अधमः = = हीनः स्मृतः = कथितः ॥ २३१ ॥

हिन्दी – जहाँ शत्रुसेना को व्यायाम करने के लिए पर्याप्त समतल भूखण्ड हो तथा अपने लिए ठीक उसके विपरीत स्थित हो - वह क्षेत्र युद्ध के लिए अधम कहा जाता है ॥२३१ ॥

अरातीति । यः देशः अरातिसैन्यानां शत्रुबलानां व्यायामेषु सुपर्य्याप्तं महीतलं यस्मिन् तथाभूतः, आत्मनः विपरीतश्च न तथेत्यर्थः, सः अधमः स्मृतः ॥२३१ ॥

स्वसैन्यात् तु तृतीयांशहीनं शत्रुबलं यदि ।

अशिक्षितमसारं वा साद्यस्कं स्वजयाय वै ॥ २३२ ॥

अन्वयः – यदि शत्रुबलं स्वसैन्यात् तृतीयांशहीनम् अशिक्षितम् असारं वा साद्यस्कं वै स्वजयाय ॥ २३२ ॥

व्याख्या – यदि = चेत्, शत्रुबलम् = रिपुसैन्यम्, स्वसैन्यात्- -स्वस्य = आत्मनः, सैन्यात् = बलात्, तृतीयांशहीनम् = भागत्रयहीनम्, अशिक्षितम् = प्रशिक्षणविहीनम्, असारम् = साररहितम्, वा = अथवा, साद्यस्कम् = नवनियोजितम्, तदा, वै इति निश्चयेन, स्वजयाय -स्वस्य = आत्मनः, जयाय = विजयाय, भवति ॥ २३२ ॥

हिन्दी – यदि अपनी सेना से तीन चौथाई कम दुश्मन की सेना हो, वह भी अप्रशिक्षित, सारहीन एवं नवनियुक्त हो तो अपनी विजय निश्चित है ॥२३२ ॥

स्वेति । यदि शत्रुबलं स्वसैन्यात् तृतीयांशहीनम् अशिक्षितम असारं वा साद्यस्कम् आधुनिकं तदा वै निश्चितं स्वस्य जयाय भवतीति शेषः ॥ २३२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 424

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३६ शुक्रनीतिः

पुत्रवत् पालितं यत् तु दानमानविवर्द्धितम् ।

युद्धसम्भारसम्पन्नं स्वसैन्यं विजयप्रदम् ॥ २३३ ॥

अन्वयः – यत्तु स्वसैन्यं पुत्रवत् पालितं दानेन मानेन विवर्धितं युद्धसम्भारैः सम्पन्नं तत् विजयप्रदम् ॥ २३३ ॥

व्याख्या — यत् = बलम्, तु = बलार्थे, स्वसैन्यम् – स्वस्य = आत्मनः, सैन्यम् = बलम्, पुत्रवत् = सुत इव, पालितम् = पोषितम्, दानेन = किमपि यथावसरं प्रदानेन, मानेन = आदरेण, विवर्द्धितम् = विशेषेण वृद्धिं प्रापितम्, युद्धसम्भारैः = सङ्ग्रामसामग्रीभिः, सम्पन्नम् = परिपुष्टम्, तत् = सैन्यम्, विजयप्रदम् = विजयाय भवति ॥ २३३ ॥

हिन्दी — यदि अपनी सेना बेटे की तरह पालित हो, दान- मान से सम्मानित हो, युद्धसामग्री से परिपुष्ट हो तो विजय निश्चित होती है ॥ २३३ ॥

पुत्रवदिति । यत्तु स्वसैन्यं पुत्रवत् पालितं दानेन मानेन च विवर्द्धितं विशेषतः वृद्धिं प्रापितं तथा युद्धसम्भारैः युद्धसामग्रीभिः सम्पन्नं युक्तं तत् विजयप्रदं जयावहम् ॥ २३३ ॥

सन्धि च विग्रहं यानमासनं च समाश्रयम् ।

द्वैधीभावं च संविद्यान्मन्त्रस्यैतांस्तु षड्गुणान् ॥ २३४ ॥

अन्वयः — सन्धि विग्रहं यानम् आसनं समाश्रयं द्वैधीभावं च एतान् तु मन्त्रस्य षड्गुणान् संविद्यात् ॥ २३४ ॥

व्याख्या — सन्धिम् = मैत्रीकरणम्, राज्यरक्षायाः गुणविशेषः, अन्योऽन्यसहकारित्वेन नियम-बन्धम्, विग्रहम् = परस्परविरुद्धाचरणेन समासाङ्गविश्लेषणम्, यानम् = शत्रुं प्रति प्रस्थानम्, आसनम् = शत्रुदुर्गादीनवरुध्य स्थितिः, समाश्रयम् = एकेन पीडितस्य शक्तिशालिनं शरणापन्नम्, द्वैधीभावम् = स्वस्वार्थसिद्धये उपायविशेषः, एतान् = पूर्वोक्तान्, मन्त्रस्य = मन्त्रणायाः, षड्गुणान् = षडुपायान्, संविद्यात् = सम्यक् प्रकारेण जानीयादिति ॥ २३४ ॥

हिन्दी – युद्धकाल उपस्थित होने पर विरोधी राजा के साथ मेल - जोल कर लेने को सन्धि, विपरीत आचरण से विरोध प्रकट करने को विग्रह, दुश्मन पर चढ़ाई करने को यान, दुश्मन के किले को घेर कर रहना आसन, किसी से पीड़ित होने पर दूसरे उससे प्रबल का शरणगत होना समाश्रय तथा फूट डालकर विजय पाना – इन छः मंत्रणा के गुणों का बोध होना चाहिए ॥ २३४ ॥

सन्धिमिति । सन्धि परस्परसाहाय्यार्थं हस्त्यश्वादिदानेन आवाभ्यामन्योऽस्य उपकर्त्तव्यमित्येवं विग्रहे नियमबन्धं, विग्रहं विरुद्धाचरणाधिक्येन वैरभावं, यानं शत्रुं प्रति गमनम् आसनम् उपेक्षणं, समाश्रयम् एकेन पीडितस्य अपरप्रबलतराश्रयणं, द्वैधीभावं स्वार्थसिद्धये स्वबलस्य द्वैधीकरणम् एतान् मन्त्रस्य षड्गुणान् संविद्यात् सम्यक् जानीयात् ॥२३४ ॥

याभिः क्रियाभिर्बलवान् मित्रतां याति वै रिपुः ।

सा क्रिया सन्धिरित्युक्ता विमृशेत् तां तु यत्नतः ॥ २३५ ॥

अन्वयः — बलवान् रिपुः याभिः क्रियाभिः मित्रतां वै याति सा क्रिया सन्धिः इति उक्ता । तां तु यत्नतः विमृशेत् ॥ २३५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 425

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८३७ व्याख्या - बलवान् = बलशालिन्, रिपुः = शत्रुः, याभिः = पूर्वोक्ताभिः, क्रियाभिः = व्यापारैः, वै इति निश्चयेन, मित्रताम् = सख्यम्, याति = प्राप्नोति, पूर्वोक्ताः, क्रिया = कर्म, सन्धिः = मिलनम्, इति: = एव, उक्ता = कथिता, ताम् = क्रियाम्, तु, यलतः = प्रयासेन, विमृशेत् = विचारयेत् ॥२३५ ॥

हिन्दी — अतिशक्तिशाली शत्रु भी जिस काम से मित्र बन जाय उसे सन्धि कहते हैं । इस के लिए सतत प्रयास करना चाहिए ॥ २३५ ॥

याभिरिति । बलवान् रिपुः याभिः क्रियाभिः अनुष्ठानैः वै निश्चितं मित्रतां याति प्राप्नोति सा सन्धिः इति उक्ता, तां क्रियां यत्नतः विमृशेत् विवेचयेत् ॥ २३५ ॥

विकर्षितः सन् वाधीनो भवेच्छत्रुस्तु येन वै ।

कर्मणा विग्रहस्तं तु चिन्तयेन्मन्त्रिभिर्नृपः ॥ २३६ ॥

अन्वयः - येन कर्मणा शत्रुः विकर्षितः सन् अधीनो भवेत् तं विग्रहं नृपः मन्त्रिभिः सह चिन्तयेत् ॥ २३६ ॥

व्याख्या – येन = विहितेन कर्मणा = क्रियया, शत्रुः = रिपुः, विकर्षितः = विशेषेण पीडितः सन्, वा = अथवा, अधीनः = वशवर्त्ती, भवेत् = स्यात्, तम् = कर्म, विग्रहम् = विरुद्धाचरणम्, नृपः = राजा, मन्त्रिभिः = सचिवैः, सह = साकम्, चिन्तयेत् = विचारयेत् ॥ २३६ ॥

हिन्दी — जिस काम से शत्रु पीडित होकर अधीनता कबूल कर ले, उसे विग्रह कहते हैं ।

अपने मंत्रियों के साथ विचार कर राजा को विग्रह करना चाहिए ॥ २३६ ॥

विकर्षित इति । येन कर्मणा व्यापारेण शत्रुः विकर्षितः पीडितः अधीनः वा अधीन एव वाशब्दः अवधारणार्थः । भवेत् तं विग्रहं नृपः मन्त्रिभिः सह चिन्तयेत् ॥ २३६ ॥

शत्रुनाशार्थगमनं यानं स्वाभीष्टसिद्धये ।

स्वरक्षणं शत्रुनाशो भवेत् स्थानात् तदासनम् ॥ २३७ ॥

अन्वयः - स्वाभीष्टसिद्धये शत्रुनाशार्थगमनं यानम् । स्थानं स्वरक्षणं शत्रुनाशः भवेत् तत् आसनम् ॥ २३७ ॥

व्याख्या— स्वाभीष्टसिद्धये — स्वस्य = आत्मनः, अभीष्टसिद्धये = अभिलषितसाफल्याय, तथा, शत्रुनाशार्थगमनम् = रिपुविनाशाय प्रस्थानम्, यानम् = गमनम्, तथा स्थानात् = यस्माद-वस्थानात्, स्वरक्षणम् — स्वस्य = आत्मनः, रक्षणम् = त्राणम्, शत्रुनाशश्च = रिपुविध्वंसश्च, भवेत् = स्यात्, तत् = स्थितिः, आसनम् = शत्रुदुर्गादीनवरुध्य स्थितिः ॥२३७ ॥

हिन्दी — अपनी मनोवांछित वस्तु की सिद्धि के लिए तथा शत्रुओं के विनाशार्थ चढ़ाई को यान कहते हैं । जहाँ पड़े रहने से आत्मरक्षा एवं शत्रुविनाश की संभावना हो, उसे आसन कहते हैं ॥ २३७ ॥

शत्रुनाशार्थमिति । स्वस्य अभीष्टसिद्धये स्वमनोरथसाधनाय शत्रुनाशार्थगमनं यानम् । स्थानात् यस्मात् अवस्थानात् उपेक्षणादित्यर्थः, स्वरक्षणं शत्रुनाशश्च भवेत् तत् आसनम् ॥ २३७ ॥

यैर्गुप्तो बलवान् भूयाद् दुर्बलोऽपि स आश्रयः ।

द्वैधीभावः स्वसैन्यानां स्थापनं गुल्मगुल्मतः ॥ २३८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 426

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३८ शुक्रनीतिः अन्वयः — दुर्बलोऽपि यैः गुप्तः बलवान् भूयात् स आश्रयः । स्वसैन्यानां गुल्मगुल्मतः स्थापनं द्वैधीभावः ॥२३८ ॥

व्याख्या — दुर्बलोऽपि = निर्बलोऽपि, यैः = सशक्तैः, गुप्तः = रक्षितः सन्, बलवान् = शक्ति-शालिन्, भूयात् = भवेत्, सः = असौ, आश्रयः = शरणस्थलम्, स्वसैन्यानाम् – स्वस्य = आत्मनः, सैन्यानाम् = बलानाम्, गुल्मः = = सैन्यविभागतः स्थापनम्, द्वैधीभावः = उपायविशेषो भवति ॥ २३८ ॥

हिन्दी — शक्तिहीन भी जिस शक्तिशाली की शरण में जाकर शक्तिसम्पन्न बन जाता हो, उस प्रबल राजा को आश्रय कहते हैं । अपनी सेना को टुकड़ियों में बाँटकर रखने की स्थिति को द्वैधीभाव कहते हैं ॥ २३८ ॥

यैरिति । दुर्बलोऽपि यैः गुप्तः रक्षितः सन् बलवान् भवेत् तेषामाश्रयणं समाश्रयः । स्वसैन्यानां गुल्गुल्मतः प्रतिगुल्मं स्थापनं द्वैधीभावः ॥२३८ ॥

बलीयसाभियुक्तस्तु नृपोऽनन्यप्रतिक्रियः ।

आपन्नः सन्धिमन्विच्छेत् कुर्वाणः कालयापनम् ॥ २३ ९ ॥

अन्वयः — बलीयसा अभियुक्तः अनन्यप्रतिक्रियः अत एव आपन्नः नृपः कालयापनं कुर्वाणः सन्धिम् अन्विच्छेत् ॥ २३ ९ ॥ व्याख्या — बलीयसा = बलवता वा प्रबलेन, नृपेण, अभियुक्तः = आक्रान्तः, अनन्यप्रतिक्रियः = = अन्योपायशून्यः, अत एव आपन्नः = विपद्ग्रस्तः, नृपः = राजा, कालयापनम् = समयक्षेपणम्, कुर्वाणः = उपयुक्तसमयप्रतीक्षमाणः, सन्, सन्धिम् = राज्यरक्षार्थमैत्रीकरणम्, अन्विच्छेत् = अन्वेषणं कुर्यात् ॥२३ ९ ॥ हिन्दी — किसी बलवान् शत्रु से आक्रमित होकर विपत्ति में घिरा प्रतिकारशून्य असहाय • राजा अपने अच्छे समय की प्रतीक्षा करते हुए उससे सन्धि कर ले ॥ २३ ९ ॥ बलीयसेति । बलीयसा अतिबलवता अभियुक्तः आक्रान्तः अनन्यप्रतिक्रियः अन्यप्रतिकाररहितः अत एव आपन्नः आपद्गतः नृपः कालयापनं कुर्वाणः कालं प्रतीक्षमाणः सन् सन्धिम् अन्विच्छेत् कुर्य्यादित्यर्थः ॥२३ ९ ॥

एक एवोपहारस्तु सन्धिरेष मतो हितः ।

उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥ २४० ॥

अन्वयः — एक एव हितः उपहारः एषः सन्धिः मतः । मैत्रवर्जिताः सर्वे अन्ये भेदाः तु उपहारस्य ॥ २४० ॥

व्याख्या-- एकः = = केवलः, एव, हितः = हितसाधकः, उपहारः = उपायनम्, एषः, सन्धिः: = = मैत्रीकरणम्, मतः = सिद्धान्तः, मैत्रवर्जिताः = मित्रतां परिहार्य, सर्वे = सकलाः, अन्ये = अपरे सम्मेलनप्रकाराः, उपहारस्य = उपदायाः, भेदाः = प्रकाराः एव ॥२४० ॥

हिन्दी — ऐसी स्थिति में भेंट देकर सन्धि करना ही हितकर है । मित्रता को छोड़कर सन्धि के जो भी अन्य तरीके हैं वे सभी इसी भेंट के भेद हैं ॥ २४० ॥

एक इति । एकः केवलः हितः हितकरः उपहारः उपदा एव एषः सन्धिः मतः । मैत्रवर्जिताः मैत्रं विना इत्यर्थः, सर्वे अन्ये सम्मेलनप्रकारा इत्यर्थः, उपहारस्य भेदास्तु विशेषा एव ॥ २४० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 427

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८३ ९

अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्त्तते ।

उपहारादृते तस्मात् सन्धिरन्यो न विद्यते ॥ २४१ ॥

अन्वयः - अभियोक्ता बलीयस्त्वात् अलब्ध्वा न निवर्त्तते, तस्मात् उपहारात् ऋते अन्यः सन्धिः न विद्यते ॥ २४१ ॥

व्याख्या - अभियोक्ता = आक्रामकः, प्रबलः राजा, बलीयस्त्वात् = शक्तिसम्पन्नत्वात्, अल-ब्ध्वा = किमपि अप्राप्य, न = नहि, निवर्त्तते = जहाति, तस्मात् = तेन हेतुना, उपहारात् = उपाय-नात्, ऋते = विहाय, अन्यः = अपरः, सन्धिः = मैत्रीकरणम्, न = नहि, विद्यते = अस्ति ॥ २४१ ॥

हिन्दी — आक्रमणकारी राजा यदि अत्यधिक बलशाली हो तो बिना उपहार पाये वह लौट नहीं सकता है । अतः उपहार को छोड़कर कोई अन्य साधन सन्धि के लिए नहीं है ॥ २४१ ॥

अभियोक्तेति । अभियोक्ता आक्रमणकारी प्रबलः राजा बलीयस्त्वात् प्रबलत्वात् अलब्ध्वा उपहारमिति शेषः, न निवर्त्तते, तस्मात् उपहारात् ऋते विना अन्यः सन्धिः न विद्यते ॥ २४१ ॥

शत्रोर्बलानुसारेण उपहारं प्रकल्पयेत् ।

सेवां वापि च स्वीकुर्य्याद्दद्यात् कन्यां भुवं धनम् ॥ २४२ ॥

अन्वयः — शत्रोर्बलानुसारेण उपहारं प्रकल्पयेत्, तथाहि सेवां वा स्वीकुर्यात् वा कन्यां भुवं वा धनं दद्यात् ॥२४२ ॥

व्याख्या - शत्रोः = रिपोः, बलानुसारेण = यथाशक्तिम्, उपहारम् = उपायनम्, प्रकल्पयेत् = चिन्तयेत्, तथाहि — कुत्रचित्, सेवाम् = परिचर्यां वा, स्वीकुर्यात् = दासत्वमङ्गीकुर्यात्, अथवा = वा, कन्याम् = दुहितरम्, भुवम् = धरित्रीम्, वा = अथवा, धनम् = सम्पदम्, दद्यात् = प्रयच्छेत् ॥ २४२ ॥

हिन्दी— शत्रु की शक्ति के अनुसार उसके उपहार की कल्पना की जाती है । उपहार में उसकी दासता कबूल करनी पड़ती है अथवा अपनी कुमारी बेटी या राज्य का कोई भाग अथवा धन देना पड़ता है ॥ २४२ ॥

शत्रोरिति । शत्रोः बलानुसारेण यथाबलमित्यर्थः, उपहारं प्रकल्पयेत्, तथाहि कुत्रचित् सेवां दासभावं वा स्वीकुर्य्यात् अथवा कन्यां भुवं भूमिं वा धनं दद्यात् ॥ २४२ ॥

स्वसामन्तांश्च सन्धीयात् मन्त्रेणान्यजयाय वै ।

सन्धिः कार्य्योऽप्यनार्य्येण सम्प्राप्योत्सादयेद्धि सः ॥ २४३ ॥

अन्वयः – नृपः अन्यजयाय मन्त्रेण स्वसामन्तान् सन्धीयात् । अनार्येणाऽपि सन्धिः कार्यः, हि सः सम्प्राप्य उत्सादयेत् ॥ २४३ ॥

व्याख्या – नृपः, अन्यजयाय = अपररिपुविजयाय, मन्त्रेण = विचारचातुर्येण, स्वसामन्तान्– स्वस्य = आत्मनः, सामन्तान् = गणाधिपतीन्, सन्धीयात् = सन्धि कुर्यात् किञ्च, अनार्येण = क्षुद्राशयेनापि, सन्धिः = मैत्रीकरणम्, कार्यः = सम्पादनीयो विधेयो वेति, हि = यतः, सः = दुष्टः, सम्प्राप्य = सुयोगमुपलभ्य, उत्सादयेत् = पीडयेत् ॥ २४३ ॥

हिन्दी – शत्रुओं को जीतने के लिए पार्श्ववर्त्ती सामन्तों के साथ विचार - विमर्श कर सन्धि कर ले । दुर्जन के साथ भी सन्धि कर लेनी चाहिए, क्योंकि ऐसा नहीं करने से मौका मिलते ही वह तंग कर सकता है ॥२४३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 428

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४० शुक्रनीतिः स्वेति । नृपः अन्यजयाय अपरशत्रुजयार्थं मन्त्रेण मन्त्रकौशलेन स्वस्य सामन्तान् अधीनस्थनृपान् सन्धीयात् । किञ्च अनार्येण दुर्जनेनापि सन्धिः कार्य्यः, हि यतः सः अनार्य्यः सम्प्राप्य सुयोगमिति भावः, उत्सादयेत् उत्सन्नं कुर्य्यादित्यर्थः ॥ २४३ ॥

सङ्घातवान् यथा वेणुर्निविद्धैः कण्टकैर्वृतः ।

न शक्यते समुच्छेत्तुं वेणुः सङ्घातवांस्तथा ॥ २४४ ॥

अन्वयः — यथा निविडैः कण्टकै वृतः सङ्घातवान् वेणुः समुच्छेत्तुं न शक्यते, तथा सङ्घातवान् वेणुः ॥ २४४ ॥

व्याख्या — यथा = येन प्रकारेण, निविडैः = सघनैः, कण्टकैः = द्रुमनखैः, वृतः = परिवृतः, सङ्घा- तवान् = समूहवान्, वेणुः = वंशवृक्षः, समुच्छेत्तुम् = कर्त्तितुम्, न = नहि, शक्यते = समर्थो भवति, तथा = तेनैव रूपेण, सङ्घातवान् = सहायतासम्पन्नो नृपः कोऽपि समुच्छेत्तुम् = विनाशितुम्, न शक्यते ॥ २४४ ॥

हिन्दी — जिस तरह अपनी ही डालियों में एक - दूसरे से उलझे बाँसों के झुरमुट से एक बाँस को काट कर या उखाड़ कर निकालना आसान नहीं होता है; उसी तरह चारों ओर से सहायतासम्पन्न राजा को पराजित करना आसान नहीं होता है ॥ २४४ ॥

सङ्घातवानिति । यथा निविडैः घनैः कण्टकैः वृतः सङ्घातवान् समूहात्मकः वेणुः वंशः समुच्छेत्तुं नैव शक्यते तथा सङ्घातवान् नृपश्च समुच्छेत्तुं न शक्यते अतो नृपेण स्वबलविरोधो न कर्त्तव्य इति भावः ॥ २४४ ॥

सन्धिश्चातिबले युद्धं साम्ये यानन्तु दुर्बले ।

सुहृद्भिराश्रयः स्थानं दुर्गाभिभजनं द्विधा ॥ २४५ ॥

अन्वयः — अतिबले सन्धिः, साम्ये युद्धं, दुर्बले यानं, सुहृद्भिः आश्रयः स्थानं तथा दुर्गाभिभजनं द्विधा ॥ २४५ ॥

व्याख्या — अतिबले = अत्यन्तशक्तिशालिने, सन्धिः = मैत्रीकरणम्, साम्ये = तुल्यबले, युद्धम् = समरम्, दुर्बले = अबले, रिपों, यानम् = आक्रमणम्, सुहृद्भिः = मित्रैः, सह, आश्रयः = अवष्टम्भः, स्थानम् = अवस्थितिः वा आसनम्, तथा दुर्गाभिभजनम् — दुर्गे = कोटे, विभज्य = विभाजनं कृत्वा, द्विधा = खण्डद्वये सैन्यस्थापनं कर्त्तव्यम् ॥२४५ ॥

हिन्दी — अत्यन्त शक्तिशाली राजा के साथ सन्धि, समान बलशालियों के साथ युद्ध, दुर्बलों पर आक्रमण, मित्र राजाओं के साथ आसन तथा किले के भीतर दो खण्डो में बाँट कर सैन्य-टुकडियों की स्थापना करनी चाहिए ॥ २४५ ॥

सन्धिरिति । अतिबले अतिप्रबले शत्रौ सन्धिः साम्ये तुल्यकक्षतायां, युद्धं दुर्बले शत्रौ यानं युद्धार्थम् आक्रमणं, सुहृद्भिः आश्रयः स्थानम् आसनं तथा दुर्गाभिभजनं दुर्गे विभज्य द्विधा सैन्यस्थापनं कर्त्तव्यमिति शेषः ॥ २४५ ॥

बलिना सह सन्धाय भये साधारणे यदि ।

आत्मानं गोपयेत् काले बह्वमित्रेषु बुद्धिमान् ॥ २४६ ॥

अन्वयः – यदि बह्वमित्रेषु तथा साधारणे भये यः बलिना सह सन्धाय काले आत्मानं गोपयेत् सः बुद्धिमान् ॥ २४६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 429

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८४१ व्याख्या – यदि = चेत्, बहुषु = अनेकेषु, अमित्रेषु = रिपुषु सत्सु, तथा = तेनैव रूपेण, साधारणे = सामान्ये, भये = त्रासे, सति, यः = राजा, बलिना = शक्तिशालिना, सह = साकम् सन्धाय = मैत्रीं विधाय, काले = समये, आत्मानम् = स्वम्, गोपयेत् = रक्षेत्, सः = असौ,, बुद्धिमान् = धीमान् भवति ॥ २४६ ॥

हिन्दी – यदि किसी राजा को एक साथ अनेक दुश्मनों का समान रूप से भय हो तो उनमें सर्वाधिक शक्तिशाली से संधि कर आत्मरक्षा करनी चाहिए ॥ २४६ ॥

बलिनेति । यदि बहुषु अमित्रेषु शत्रुषु सत्सु तथा साधारणे भये सति यः बलिना प्रबलेन सह सन्धाय मिलित्वा काले समये आत्मानं गोपयेत् रक्षेत् सः बुद्धिमान् ॥ २४६ ॥

बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।

प्रतिवातं न हि घनः कदाचिदपि सर्पति ॥ २४७ ॥

अन्वयः — बलिना सह न योद्धव्यम् इति निदर्शनम् अस्ति । हि घनः कदाचिदपि प्रतिवातं न सर्पति ॥ २४७ ॥

व्याख्या — बलिना = शक्तिशालिना, सह = साकम्, न = नहि, योद्धव्यम् = युद्धं कर्त्तव्यम्, इति = अत्र, निदर्शनम् = उदाहरणम्, अस्ति = भवति । हि = तथाहि, घनः = = मेघः, कदाचिदपि, प्रतिवातम् = प्रतिकूलपवनम्, न =: नहि, सर्पति = व्रजति ॥ २४७ ॥

हिन्दी— अपने से अधिक बलशाली के साथ युद्ध नहीं करना चाहिए । उदाहरणस्वरूप हम कह सकते हैं कि प्रतिकूल हवा की दिशा में बादल भी नहीं जाता है ॥ २४७ ॥

बलिनेति । बलिना प्रबलेन सह न योद्धव्यम् इति अत्र निदर्शनं दृष्टान्तः अस्ति, हि तथाहि घनः मेघः कदाचिदपि प्रतिवातं प्रतिकूलं वायुम् अथवा वातं प्रति न सर्पति न गच्छति ॥ २४७ ॥

बलीयस प्रणमतां काले विक्रमतामपि ।

सम्पदो न विसर्पन्ति प्रतीपमिव निम्नगाः ॥ २४८ ॥

अन्वयः - बलीयसि प्रणमतां तथा काले विक्रमतामपि सम्पदः निम्नगाः इव प्रतीपं न विसर्पन्ति ॥ २४८ ॥

व्याख्या — बलीयसि = सबलतरे, प्रणमताम् = प्रणामं कुर्वताम्, तथा काले = समये, विक्रमतामपि = पराक्रमतामपि राज्ञाम्, सम्पदः = विभवाः, निम्नगाः = नद्यः, इव = यथा, प्रतीपम् = विरुद्धम्, न = नहि, विसर्पन्ति = चलन्ति ॥ २४८ ॥

हिन्दी — जो अपने से अधिक शक्तिशाली राजा के सामने सिर झुका कर समय की प्रतीक्षा करते हैं और अनुकूल समय पाकर उससे युद्ध करते हैं; ऐसे राजे की सम्पदा उनसे कभी अलग नहीं हटतीं । जैसे नदियाँ कभी विपरीत दिशा में प्रवाहित नहीं होती ॥ २४८ ॥

बलीयसीति । बलीयसि बलवत्तरे प्रणमतां तथा काले समये विक्रमतां जनानां सम्पदः निम्नगाः नद्य इव प्रतीपं प्रतिकूलं न विसर्पन्ति न गच्छन्तीत्यर्थः ॥ २४८ ॥

राजा न गच्छेद्विश्वासं सन्धितोऽपि हि बुद्धिमान् । CC - अद्रोहसमयं 0. JK Sanskrit Academy कृत्वा , Jammmu वृत्रमिन्द्रः . Digitized by S3 पुरावधीत् ॥ २४ ९ ॥

पृष्ठ 430

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४२ शुक्रनीतिः अन्वयः — बुद्धिमान् राजा सन्धितोऽपि हि विश्वासं न गच्छेत् । पुरा इन्द्रः अद्रोहसमयं कृत्वा वृत्रम् अवधीत् ॥ २४ ९ ॥ व्याख्या – बुद्धिमान् = धीमान्, राजा = नृपतिः, सन्धितोऽपि = मैत्रीकृतोऽपि हि इति निश्चयेन, विश्वासम् = प्रत्ययः, न = नहि, गच्छेत् = व्रजेत् । पुरा = प्राचीनकाले, इन्द्रः = शची-पतिः, अद्रोहसमयम् — परस्परम् द्रोहम् = अनिष्टम्, न करोमीत्येवंरूपम्, समयम् = नियमबन्धं, कृत्वा, वृत्रम् = एतदाख्यदानवम्, अवधीत् = वधमकरोत् ॥ २४ ९ ॥ हिन्दी - ज्ञानी राजा दुश्मन के साथ सन्धि होने के बावजूद उस पर विश्वास नहीं करता । प्राचीन काल में परस्पर द्रोह न करने की प्रतिज्ञा के बावजूद इन्द्र ने वृत्र का वध कर दिया ॥ २४ ९ ॥ राजेति । बुद्धिमान् राजा सन्धितोऽपि कृतसन्धिरपि विश्वासं न गच्छेत् हिशब्दः अवधारणार्थः । पुरा पूर्वस्मिन् काले इन्द्रः अद्रोहसमयं परस्परं द्रोहम् अनिष्टमित्यर्थः, न करोमीत्येवंरूपं समयं नियमबन्धं कृत्वा वृत्रम् अवधीत् ॥ २४ ९ ॥

आपन्नोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।

देशकालबलोपेतः प्रारभेत च विग्रहम् ॥ २५० ॥

अन्वयः — परेण पीड्यमानः आपन्नः देशकालबलोपेतः अभ्युदयाकाङ्क्षी विग्रहं च प्रारभेत ॥ २५० ॥

व्याख्या – परेण = शत्रुणा, पीड्यमानः = क्लेश्यमानः, अत एव आपन्नः = विपद्ग्रस्तः, नृपः = राजा, देशकालबलोपेतः = स्थानसमयशक्तिपरिपुष्टः, सन्, अभ्युदयाकाङ्क्षी = शुभावसरा-भिलाषी, विग्रहम् = समरम्, प्रारभेत = प्रारम्भं कुर्यात् ॥ २५० ॥

हिन्दी — जो राजा विपत्ति में घिरकर दूसरों से पीड़ित होते हुए भी पुनः यदि अपना अभ्युदय चाहता हो तो देश, काल और उपयुक्त बल मिलते ही युद्ध प्रारम्भ कर दे ॥ २५० ॥

आपन्न इति । परेण पीड्यमानः अत एव आपन्नः आपद्ग्रस्तः नृपः देशकालबलोपेतः समय-स्थानबलपरिपुष्टः सन् अभ्युदयाकाङ्क्षी अभ्युदयार्थमित्यर्थः, विग्रहं युद्धं प्रारभेत च ॥ २५० ॥

प्रहीनबलमित्रन्तु दुर्गस्थं शत्रुमागतम् ।

अत्यन्तविषयासक्तं प्रजाद्रव्यापहारकम् ।

भिन्नमन्त्रिबलं राजा पीडयेत् परिवेष्टयन् ॥ २५१ ॥

अन्वयः— राजा प्रहीनबलमित्रं तु दुर्गस्थम् अत्यन्तविषयासक्तं प्रजाद्रव्यापहारकं भिन्नमन्त्रि-बलम् आगतं शत्रुं परिवेष्टयन् पीडयेत् ॥ २५१ ॥

व्याख्या – राजा = नृपः, प्रहीनबलमित्रम् = सैन्यसुहृद्हीनम्, दुर्गस्थम् = दुर्गगतम्, अत्यन्त-विषयासक्तम् = अतिभोगपरायणम्, प्रजानाम् = जनानाम्, धनापहारकम् = धनलुण्ठकम्, भिन्न-मन्त्रिबलम् – भिन्नम् = भेदं गतम्, मन्त्रिबलम् = मन्त्रणाशक्तिः, यस्य तादृशम्, आगतम् = प्राप्तम्, शत्रुम् = रिपुम्, परिवेष्टयन् = संवलयन्, पीडयेत् = पराजयेत् ॥ २५१ ॥

हिन्दी— सैन्यशक्ति एवं मित्रबल से हीन, अपने ही दुर्ग में घिरा, अत्यन्त विषयासक्त, प्रजा के धन को लूटने वाले, फूट डाले गये मंत्री एवं सैन्यशक्ति वाले दुश्मनों को घेर कर पराजित करना चाहिए ॥ २५१ ॥

.CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA