शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 431–440
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 431–440
पृष्ठ 431
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८४३ प्रहीनेति । राजा प्रहीनबलमित्रं दुर्गस्थं दुर्गतम् अत्यन्तविषयासक्तम् अतिव्यसनिनं प्रजानां धनापहारकं भिन्नमन्त्रिबलं भिन्नं भेदं गतं मन्त्रिबलं यस्य तादृशम् आगतम् उपस्थितं शत्रुं परिवेष्टयन् पीडयेत् हन्यादित्यर्थः ॥२५१ ॥
विग्रहः स च विज्ञेयो ह्यन्यश्च कलहः स्मृतः ॥ २५२ ॥
अन्वयः — स च विग्रहः विज्ञेयः अन्यश्च कलहः स्मृतः ॥२५२ ॥
व्याख्या- सः = = पूर्ववर्णितः, च = पुनः, विग्रहः = आक्रमणम्, विज्ञेयः = बोध्यः, अन्यश्च = तद्भिन्नश्च, कलहः = विवादः स्मृतः = कथितः ॥ २५२ ॥
हिन्दी — पूर्वोक्त ढंग के आक्रमण को विग्रह जानना चाहिए, इससे भिन्न तो केवल कलह होता है ॥ २५२ ॥
विग्रह इति । स च विग्रहः विज्ञेयः, अन्यस्तु तद्व्यतिरिक्तस्तु कलहः स्मृतः ॥ २५२ ॥
बलीयसात्यल्पबलः शूरेण न च विग्रहम् ।
कुर्य्याद्धि विग्रहे पुंसां सर्वनाशः प्रजायते ॥ २५३ ॥
अन्वयः — अत्यल्पबलः बलीयसा शूरेण सह विग्रहं न कुर्यात् । हि पुंसां सर्वनाशः प्रजायते ॥ २५३ ॥
व्याख्या — अत्यल्पबलः = हीनसैन्यो नृपः बलीयसा = बलवत्तरेण, शूरेण = वीरेण, रिपुना, सह, विग्रहम् = कलहम्, न = = नहि, कुर्यात् = विदध्यात् । हि = यस्मात् तथा सति, विग्रहे: = युद्धे, पुंसाम् = नृणाम्, सर्वनाशः = समूलोच्छेदः, प्रजायते = भवति ॥ २५३ ॥
हिन्दी – कमजोर सैन्यबल वाले दुर्बल राजा को प्रबल शक्तिशाली वीर राजा के साथ
युद्ध बिलकुल नहीं करना चाहिए । ऐसा करने वाले का सर्वनाश हो जाता है ॥२५३ ॥
बलीयसेति । अत्यल्पबलः राजा बलीयसा शूरेण शत्रुणा सह विग्रहं न च कुर्य्यात् । हि यस्मात् तथा सति विग्रहे पुंसां सर्वनाशः प्रजायते ॥ २५३ ॥
एकार्थाभिनिवेशित्वं कारणं कलहस्य वा ।
उपायान्तरनाशे तु ततो विग्रहमाचरेत् ॥ २५४ ॥
अन्वयः — एकार्थाभिनिवेशित्वं कलहस्य कारणं वा तु उपायान्तरनाशे ततः विग्रहम् आचरेत् ॥ २५४ ॥
व्याख्या — एकार्थाभिनिवेशित्वम् = द्रव्यस्यैकस्य प्राप्त्यर्थं पक्षद्वयस्याभिलाषित्वम्, कलहस्य = विवादस्य, कारणम् = हेतु:, वा इत्यवधारणे, तु = तस्मात्, उपायान्तरनाशे = अन्योपायाभावे, सति, विग्रहम् = युद्धम्, आचरेत् = कुर्यात् ॥ २५४ ॥
हिन्दी - युद्ध का कारण किसी एक ही वस्तु के लिए दो व्यक्तियों का सामान आग्रह होता हो अथवा युद्धशान्ति के लिए जब कोई उपाय शेष न रह जाय, तभी युद्ध करना चाहिए ॥२५४ ॥
एकेति । एकार्थाभिनिवेशित्वम् एकद्रव्याभिलाषित्वं कलहस्य कारणं वा हेतुरेव वाशब्द-श्चावधारणार्थः । तस्मात् उपायान्तरनाशे गत्यन्तराभावे सति विग्रहम् आचरेत् ॥ २५४ ॥
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ।
उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतम् ॥ २५५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 432
पाठ पढ़ें पाठ छिपाएँ
८४४ शुक्रनीतिः अन्वयः — निपुणैः यानं पञ्चविधं स्मृतम् । यथा विगृह्य यानं सन्धाय यानं सम्भूय यानम् अथ वा प्रसङ्गतः किंवा उपेक्षया यानम् ॥ २५५ ॥
व्याख्या — निपुणैः = चतुरैः जनैः, यानम् = शत्रुं प्रति प्रयाणम्, पञ्चविधम् = पञ्चधा, स्मृतम् = कथितम्, यथा = येन प्रकारेण, विगृह्य = बलात्कारेण गृहीत्वा, शत्रुं प्रति गमनम्, सन्धाय यानम् = - शत्रुभिः सह सन्धि विधायाक्रमणं सन्धाययानम्, सम्भूययानम् = शक्तिशौर्ययुतैः, शत्रुं प्रति गमनं सम्भूययानम्, अथवा = वा, प्रसङ्गतः = अन्यत्र प्रस्थितः प्रसङ्गादन्यत्राक्रमणं प्रसङ्गयानम्, किंवा उपेक्षया = उपेक्षापूर्वकेण गमनम् ॥ २५५ ॥
हिन्दी — विद्वानों ने पाँच प्रकार के यानों का उल्लेख किया हैं । जैसे - विगृह्ययान, संधाय-यान, संभूययान, प्रसङ्गयान तथा उपेक्षायान ॥ २५५ ॥
विगृह्येति । निपुणैः विज्ञैः जनैः यानं शत्रुं प्रति गमनं पञ्चविधं स्मृतं यथा विगृह्ययानं सन्धाय-यानं सम्भूययानम् अथवा प्रसङ्गतः छलतः यानं किंवा उपेक्षया यानम् ॥ २५५ ॥
विगृह्य याति हि यदा सर्वाञ्छत्रुगणान् बलात् ।
विगृह्ययानं यानज्ञैस्तदाचाय्यैः प्रचक्ष्यते ॥ २५६ ॥
अन्वयः — यदा बलात् सर्वान् शत्रुगणान् विगृह्य याति तत् यानज्ञैः आचार्यैः विगृह्ययानं प्रचक्ष्यते ॥२५६ ॥
व्याख्या — यदा = यस्मिन् काले, बलात् = हठात् सर्वान् = सकलान् शत्रुगणान् = अरि-वर्गान्, विगृह्य = विशेषेण विग्रहेण पराजित्य याति, तत् यानम् = आक्रमणम्, यानज्ञैः = यानविशेषज्ञैः, आचार्यैः = गुरुभिः, विगृह्ययानम्, प्रचक्ष्यते: कथ्यते ॥ २५६ ॥
हिन्दी — जब कोई राजा जबरदस्ती युद्ध का कोई कारण बतलाकर शत्रुसमूहों पर आक्रमण कर देता है तो यानविशेषज्ञ राजनीति के आचार्य उसे विगृह्ययान कहते हैं ॥ २५६ ॥
विगृह्येति । यदा बलात् बलमाश्रित्य सर्वान् शत्रुगणान् विगृह्य विग्रहेण पराजित्य याति, तत् यानं यानज्ञैः आचार्यैः गुरुभिः विगृह्ययानं प्रचक्ष्यते ॥ २५६ ॥
अरिमित्राणि सर्वाणि स्वमित्रैः सर्वतो बलात् ।
विगृह्य चारिभिर्गन्तुं विगृह्यगमनन्तु वा ॥ २५७ ॥
अन्वयः — सर्वाणि अरिमित्राणि सर्वतः स्वमित्रैः बलात् विगृह्य चारिभिः गन्तुं यत् गमनं तत् विगृह्यगमनं वा ॥२५७ ॥
व्याख्या — सर्वाणि = सकलानि, अरिमित्राणि— अरेः = शत्रोः, मित्राणि = सुहृदः, सर्वतः = = सर्वैः, स्वमित्रैः – स्वस्य = आत्मनः, मित्रैः = सुहृद्भिः करणभूतैः, बलात् = = शक्तिपूर्वकात्, विगृह्य = गृहीत्वा, अरिभिः = शत्रुभिः सह, गन्तुम् = विग्रहीतुम्, यत् गमनम् = प्रस्थानम्, तत् विगृह्यगमनं वेति ॥ २५७ ॥
हिन्दी — अथवा कुछ आचार्यों के मत से शत्रुओं को अपने चारों ओर से लड़ाकर उन्हें थकाकर अपने मित्रबल के साथ उन पर बलात् आक्रमण करना विगृह्यगमन कहलाता है ॥२५७ ॥
अरीति । सर्वाणि अरिमित्राणि शत्रोः मित्राणि सर्वतः सर्वैः स्वमित्रैः आत्मबन्धुभिः करणभूतैः बलात् विगृह्य अरिभिः सह गन्तुं विग्रहीतुमित्यर्थः, यत् गमनं तत् विगृह्यगमनं वा ॥ २५७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 433
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८४५
सन्धायान्यत्र यात्रायां पार्ष्णिग्राहेण शत्रुणा ।
सन्धायगमनं प्रोक्तं तज्जिगीषोः फलार्थिनः ॥ २५८ ॥
अन्वयः — अन्यत्र यात्रायां पार्ष्णिग्राहेण शत्रुणा सन्धाय फलार्थिनः जिगीषोः यत् यानं तत् सन्धायगमनं प्रोक्तम् ॥ २५८ ॥
व्याख्या– अन्यत्र = अन्यस्मिन् रिपौ, यात्रायाम् = रणक्षेत्रप्रयाणे, पार्ष्णिग्राहेण = स्वपृष्ठ-भागस्थितप्रतिवेशिशत्रुभिः सह सन्धाय = सन्धि विधाय, फलार्थिनः = परिणामेच्छुकानाम्, जिगीषोः = विजयेच्छुकस्य राज्ञः, यत् यानम् = गमनम्, तत् सन्धाय = सन्धि विधाय, गमनम् = आक्रमणम्, प्रोक्तम् = कथितम् ॥ २५८ ॥
हिन्दी — विजय चाहने वाले राजा को विशेष फल की इच्छा रखने वाले विद्वान् अन्यत्र किसी शत्रु पर चढ़ाई करने के समय उसके पूर्व अपने पृष्ठभाग स्थित पड़ोसी शत्रु राजा के साथ सन्धि करके चढ़ाई करने को सन्धायगमन कहते हैं ॥ २५८ ॥
सन्धायेति । अन्यत्र अन्यस्मिन् शत्रौ यात्रायां युद्धयात्रायां पार्ष्णिग्राहेण पृष्ठानुधाविना शत्रुणा सह सन्धाय मिलित्वा फलार्थिनः जिगीषोः यत् यानं तत् सन्धायगमनं प्रोक्तम् ॥ २५८ ॥
एको भूपो यदैकत्र सामन्तैः साम्परायिकैः ।
शक्तिशौर्य्ययुतैर्यानं सम्भूयगमनं हि तत् ॥ २५ ९ ॥
अन्वयः —– एकः भूपः शक्तिशौर्ययुतैः साम्परायिकैः सामन्तैः एकत्र यत् यानं तत् सम्भूय-गमनं हि ॥ २५ ९ ॥ व्याख्या – एकः = केवलः, भूपः -- नृपः, शक्तिशौर्ययुतैः बलवीर्यसमन्वितैः, साम्परायिकैः = युद्धकुशलैः, सामन्तैः = गणाधिपतिभिः, सह, एकत्र = एकस्मिन् रिपौ, यत् यानम् = गमनम्, तत् = गमनम्, सम्भूयगमनम् हि इति निश्चयेन ॥ २५ ९ ॥ हिन्दी – यदि कोई राजा अकेला शक्ति और शूरता से सम्पन्न, युद्ध करने में माहिर सामन्तों के साथ मिलकर किसी एक दुश्मन पर चढ़ाई करे तो उसे सम्भूयगमन कहते हैं ॥२५ ९ ॥ एक इति । एकः भूपः शक्तिशौर्ययुतैः साम्परायिकैः सङ्ग्रामनिपुणैः सामन्तैः अधीनस्थराजवर्गैः सह एकत्र एकस्मिन् शत्रौ यत् यानं तत् सम्भूययानं हि ॥२५ ९ ॥
अन्यत्र प्रस्थितः सङ्गादन्यत्रैव च गच्छति ।
प्रसङ्गयानं तत् • प्रोक्तं यानविद्भिश्च मन्त्रिभिः ॥ २६० ॥
अन्वयः - अन्यत्र प्रस्थितः सङ्गात् यत् अन्यत्र एव च गच्छति तत् यानविद्भिः च प्रसङ्गयानं प्रोक्तम् ॥ २६० ॥
व्याख्या— अन्यत्र = अपरत्र, प्रस्थितः = चलितः, नृपः = राजा, सङ्गात् = प्रसङ्गवशात् छलाद्वा, यत् अन्यत्र = अपरस्मिन् स्थाने, गच्छति = आक्रमणं करोति, तत्, यानविद्भिः = यानविशेषज्ञैः, मन्त्रिभिः = सचिवैः, प्रसङ्गयानम्, प्रोक्तम् = कथितम् ॥ २६० ॥
हिन्दी – दूसरी जगह किसी राजा पर चढाई करने के लिए चल चुकने पर रास्ते में यदि प्रसंगवश किसी अन्य राजा पर चढ़ाई करना पड़े तो उसे यानविशेषज्ञ मन्त्रिगण प्रसङ्गयान कहते हैं ॥ २६० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 434
पाठ पढ़ें पाठ छिपाएँ
८४६ शुक्रनीति: अन्यत्रेति । अन्यत्र प्रस्थितः नृपः सङ्गात् प्रसङ्गात् छलादित्यर्थः, यत् अन्यत्र गच्छति तत् यानविद्भिः मन्त्रिभिः प्रसङ्गयानं प्रोक्तम् ॥ २६० ॥
रिपुं यातस्य बलिनः सम्प्राप्य विकृतं फलम् ।
उपेक्ष्य तस्मिन् तद्यानमुपेक्षायानमुच्यते ॥ २६१ ॥
अन्वयः — रिपुं यातस्य बलिनः विकृतं फलं सम्प्राप्य तस्मिन् उपेक्ष्य यत् यानं तत् उपेक्षायानम् उच्यते ॥ २६१ ॥
व्याख्या – रिपुम् = शत्रुम्प्रति, यातस्य = आक्रमतः, बलिनः = शक्तिशालिनः नृपस्य, विकृतम् = विरुद्धम्, फलम् = परिणामम्, सम्प्राप्य = उपलभ्य, तस्मिन्, उपेक्ष्य = अवहेलनं कृत्वा, यत् यानम् = गमनम्, तत् = आक्रमणम्, उपेक्षायानम्, उच्यते = कथ्यते ॥ २६१ ॥
हिन्दी – जो शत्रु पराजित होकर विपन्नावस्था में पड़ गया हो तो उसकी स्थिति की उपेक्षा कर उस पर चढ़ाई कर दी जाय तो उसे उपेक्षायान कहते हैं ॥२६१ ॥
रिपुमिति । रिपुं शत्रुं प्रति यातस्य गतस्य आक्रमतः बलिनः बलवतः नृपस्य विकृतं विपरीतं फलं पराजयरूपमित्यर्थः, सम्प्राप्य तस्मिन् उपेक्ष्य यत् यानं गमनं स्वनगर्य्यामिति शेषः, निवर्त्तनमिति भावः, तत् उपेक्षायानम् उच्यते ॥ २६१ ॥
दुर्वृत्तेऽप्यकुलीने तु बलं दातरि रज्यते ।
हृष्टं कृत्वा स्वीयबलं पारितोष्यप्रदानतः ॥ २६२ ॥
नायकः पुरतो यायात् प्रवीरपुरुषावृत: ।
मध्ये कलत्रं कोशश्च स्वामी फल्गु च यद्धनम् ।
ध्वजिनीञ्च सदोद्युक्तः स गोपायेद्दिवानिशम् ॥ २६३ ॥
अन्वयः — दुर्वृत्ते अपि अकुलीने दातरि बलं रज्यते, तस्मात् पारितोष्यप्रदानतः स्वीयबलं हृष्टं कृत्वा नायकः प्रवीरपुरुषैः आवृतः पुरतः यायात् । मध्ये कलत्रं कोशश्च स्वामी फल्गु च यद्धनं तत्, सः सदोद्युक्तः दिवानिशं ध्वजिनीं गोपायेत् ॥ २६२-२६३ ॥ व्याख्या- - दुर्वृत्तेऽपि = दुश्चरित्रेऽपि, अकुलीने = असत्कुलजेऽपि राजनि, दातरि = दान-शीले सति, बलम् = = सैन्यम्, रज्यते = अनुरक्तम्भवति, तस्मात्, पारितोष्यप्रदानतः = पारितोषिक-प्रदानेन, स्वीयबलम् = निजसैन्यम्, हृष्टम् = सन्तुष्टम्, कृत्वा = विधाय, नायकः = = सेनानायकः, प्रवीरपुरुषैः = श्रेष्ठवीरपुरुषैः, आवृतः = परिवृतः सन्, पुरतः = अग्रतः, यायात् = व्रजेत् । मध्ये = तन्मध्ये, कलत्रम् = नारीवर्ग:, कोशः = आकरः, स्वामी = अधिपतिः, फल्गु = साधारणधनम्, तत् यायात् । सः = = सेनापतिः, सदोद्युक्तः- : - सदा = सर्वदा, उद्युक्तः - उद्योगे निरतः सन्, दिवानिशम् = अहर्निशम्, ध्वजिनीम् = सेनाम्, गोपायेत् = संरक्षणं कुर्यात् ॥ २६२-२६३ ॥ हिन्दी – राजा चाहे दुराचारी हो या अकुलीन हो, किन्तु यदि वह दाता हो तो सेना उससे संतुष्ट रहती है । अतः पुरस्कारों से प्रसन्न अपनी सेना और वीर योद्धाओं से घिरा राजा अपनी सेना के आगे रहे, फिर सेनानायक शत्रु पर चढ़ाई करे । सेना के बीच में स्त्रीवर्ग, खजाना एवं साधारण धन रखकर इनकी और अपनी सेना की दिन - रात सावधानीपूर्वक सेनानायक रक्षा करे ॥ २६२-६३ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 435
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८४७ दुर्वृत्ते इति । नायक इति । दुर्वृत्ते दुराचारेऽपि अकुलीने असंद्वशप्रसूतेऽपि राजनि दातरि दानशीले सति बलं रज्यते अनुरक्तं भवति, तस्मात् पारितोष्यप्रदानतः पुरष्कारदानेन स्वीयबलं हृष्टं सन्तुष्टं कृत्वा नायकः सेनापतिः प्रवीरपुरुषैः आवृतः सन् पुरतः अग्रतः यायात् गच्छेत् मध्ये कलत्रं स्त्रीवर्गः कोशः द्रव्यसमूहः स्वाभी प्रभुः यच्च फल्गु सारं धनं तत् यायात् । सः नायकः सदोद्युक्तः सदा उद्योगी सन् दिवानिशं ध्वजिनीं गोपायेत् रक्षेत् ॥ २६२-२६३ ॥
नद्यद्रिवनदुर्गेषु यत्र यत्र भयं भवेत् ।
सेनापतिस्तत्र तत्र गच्छेद् व्यूहकृतैर्बलैः ॥ २६४ ॥
अन्वयः — नद्यद्रिवनदुर्गेषु यत्र यत्र भयं भवेत् तत्र तत्र सेनापतिः व्यूहकृतैः बलैः गच्छेत् ॥ २६४ ॥
व्याख्या — नदीषु = सरित्सु, अद्रिषु = पर्वतेषु वनेषु = अरण्येषु, दुर्गेषु = दुर्गमस्थानेषु च, यत्र यत्र = यस्मिन् यस्मिन् स्थाने, भयम् = त्रासम्, भवेत् = स्यात्, तत्र तत्र = तस्मिन् तस्मिन् स्थाने, सेनापतिः = सेनानायकः, व्यूहकृतैः = सम्पादितिसैन्यविन्यासैः, गच्छेत् = व्रजेत् ॥ २६४ ॥
हिन्दी - रास्ते में नदी, पहाड़, जंगल या दुर्गम स्थान के कारण जहाँ - जहाँ डर की संभावना हो, वहाँ - वहाँ सेनानायक सेना को व्यूह बनाकर आगे बढे ॥ २६४ ॥
नदीति । नदीषु अद्रिषु वनेषु दुर्गेषु दुर्गमस्थानेषु च यत्र यत्र भयं भवेत् सेनापतिः व्यूहकृतैः कृतव्यूहैः बलैः तत्र तत्र गच्छेत् ॥ २६४ ॥
यायाद् व्यूहेन महता मकरेण पुरोभये ।
श्येनेनोभयपक्षेण सूच्या वा धीरवक्त्रया ॥ २६५ ॥
अन्वयः – पुरोभये महता मकरेण व्यूहेन उभयपक्षेण श्येनेन धीवक्त्रया वा सूच्या व्यूहेन यायात् ॥ २६५ ॥
व्याख्या - पुरः = अग्रे, भये = त्रासे, समुपस्थिते सति, महता =: विशालेन 1, मकरेण = ग्राहेण, व्यूहेन = सैन्यविन्यासेन, उभयपक्षेण = पक्षद्वययुक्तेन, श्येनेन = कपोतारिणा, व्यूहेन, वा = अथवा, धीरवक्त्रया = गभीराननेन, सूच्या = सूचीमुखमिव तीव्रेण, व्यूहेन = सैन्यविन्यासेन, यायात् = गच्छेत् ॥ २६५ ॥
हिन्दी – यदि आगे से भय की संभावना हो तो बड़े मगर के चले अथवा दो पाँख वाले बाज पक्षी की तरह अथवा नुकीली सूई कर चले ॥२६५ ॥
यायादिति । पुरः अग्रे भये उपस्थिते सति महता मकरेण व्यूहेन, वा धीरवक्त्रया धीरमुखया सूच्या व्यूहेन यायात् ॥ २६५ ॥
पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञिकम् ।
सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा ।
यथादेशं कल्पयेद्वा शत्रुसेनाविभेदकम् ॥
आकार की व्यूहरचना कर के आकार की व्यूह - रचना उभयपक्षेण श्येनेन व्यूहेन २६६ ॥। अन्वयः — पश्चात् भये शकटं पार्श्वयोः वज्रसंज्ञिकं, सर्वतः भये सर्वतोभद्रं चक्रम् अथवा व्यालं शत्रुसेनाविभेदकं व्यूहं यथादेशं कल्पयेत् ॥ २६६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 436
पाठ पढ़ें पाठ छिपाएँ
८४८ शुक्रनीति: व्याख्या — पश्चात् = पृष्ठभागे, भये = त्रासे सम्भवति, शकटमयानाकारम्, पार्श्वयोः = पार्श्वभागयोः, भये = भीतौ, आपतिते, वज्रसंज्ञिकम् = वज्राख्यम्, सर्वतः = चतुर्दिक्, भये = त्रासे, समुपस्थिते, चक्रम् = चक्राकारम्, अथवा व्यालम् = सर्पाख्यम्, वर्तुलम्, शत्रुसेनाविभेदकम् = रिपुबलभञ्जकम् व्यूहम् = सैन्यसंस्थापनम्, यथाप्रदेशम् = देशानुरूपम्, वा = विकल्पेन, कल्पयेत् = रचयेत् ॥२६६ ॥
हिन्दी — पीछे से यदि भय की आशंका हो तो शकटाकार व्यूह की रचना कर, दोनों बाजू की ओर से भय की संभावना में वज्रव्यूह तथा चारों ओर से भय की आंशका में चकव्यूह अथवा सर्पाकार व्यूह की रचना करनी चाहिए अथवा देशानुसार शत्रुसेना को विनष्ट करने वाली व्यूहरचना करनी चाहिए ॥ २६६ ॥
पश्चादिति । पश्चात् भये सम्भवति शकटं शकटाकारं पार्श्वयोः भये आपतिते वज्रसंज्ञिकं वज्राख्यं सर्वतः भये उपस्थिते सर्वतोभद्रं चक्रम् अथवा व्यालं शत्रुसेनाविभेदकं शत्रुबलभञ्जकं व्यूहं यथाप्रदेशं कल्पयेद्वा रचयेदेव ॥२६६ ॥
व्यूहरचनसङ्केतान् वाद्यभाषासमीरितान् ।
स्वसैनिकैर्विना कोऽपि न जानीयात् तथाविधान् ॥ २६७ ॥
अन्वयः — स्वसैनिकैः विना कोऽपि वाद्यभाषासमीरितान् तथाविधान् व्यूहरचनसङ्केतान् न जानीयात् ॥ २६७ ॥
व्याख्या — स्वसैनिकैः– निजबलैः, विना = विहाय, कोऽपि = जनः, वाद्यध्वनिना = वाद्य-ध्वनिविशेषेण, समीरितान् = सूचितान्, तथाविधान् = तद्रूपान्, व्यूहरचनानाम् = - सैन्यस्थापनानाम् र, सङ्केतान् = इङ्गितानि, न = नहि, जानीयात् = सङ्केतग्रहणं कुर्यात् ॥२६७ ॥
हिन्दी — और बाजा बजाने के ढंग से किये गये व्यूह की रचना के संकेत ऐसे हों जिन्हें अपनी सेना के अलावा दूसरा कोई सैनिक न जानता हो ॥ २६७ ॥
व्यूहेति । स्वसैनिकैः विना कोऽपि जनः वाद्यभाषया समीरितान् वाद्यध्वनिविशेषसूचितान् तथाविधान् व्यूहरचनानां सङ्केतान् न जानीयात् ॥ २६७ ॥
नियोजयेच्च मतिमान् व्यूहान् नानाविधान् सदा ॥ २६८ ॥
अन्वयः — मतिमान् नानाविधान् व्यूहान् सदा नियोजयेत् ॥ २६८ ॥
व्याख्या - – I मतिमान् = बुद्धिमान् राजा, नानाविधान् = अनेकविधान्, व्यूहान् = सैन्य-विन्यासान्, सदा = = सर्वस्मिन् समये, नियोजयेत् = नियुक्तं कुर्यात् ॥ २६८ ॥
हिन्दी — इस तरह बुद्धिमान् राजा सदा अनेक प्रकार की व्यूहरचना में सैनिकों को रखे ॥२६८ ॥
नियोजयेदिति । मतिमान् भूपः नानाविधान् व्यूहान् सदा सर्वस्मिन् समये नियोजयेच्च ॥२६८ ॥
अश्वानाञ्च गजानाञ्च पदातीनां पृथक् पृथक् ।
उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान् नृपः ॥ २६ ९ ॥
अन्वयः – नृपः अश्वानां च गजानां च पदातीनां पृथक् पृथक् सैनिकान् व्यूहसङ्केतान् उच्चैः संश्रावयेत् ॥ २६ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 437
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८४ ९ व्याख्या – नृपः = राजा, अश्वानाम् = घोटकानाम्, गजानाम् = हस्तिनाम्, पदातीनाम् = पदगामिनां सैन्यानाम्, पृथक् पृथक् = भिन्नं भिन्नम्, सैनिकान् = सैन्यम्, व्यूहसङ्केतान् = सैन्यविन्यासेङ्गितान्, उच्चैः = उन्नतैः, संश्रावयेत् ॥ २६ ९ ॥ हिन्दी — अश्वारोही, गजारोही एवं पैदल सैनिकों को अलग - अलग बुलाकर राजा व्यूह - रचना के संकेतों को ठीक से समझा दे ॥२६ ९ ॥ अश्वानामिति । नृपः अश्वानां गजानां पदातीनाञ्च पृथक् पृथक् सैनिकान् व्यूहसङ्केतान् उच्चैः यथा तथा संश्रावयेत् ॥ २६ ९ ॥
वामदक्षिणसंस्थो वा मध्यस्थो वाग्रसंस्थितः ।
श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा ॥ २७० ॥
अन्वयः — वामदक्षिणसंस्थः वा मध्यस्थः वा अग्रसंस्थितः सैनिकैः तान् श्रुत्वा यथा अनुशिष्टं तथा कार्यम् ॥२७० ॥
व्याख्या – वामदक्षिणसंस्थः -- वामसंस्थः = सव्ये स्थितः, दक्षिणसंस्थः = वामेतरे स्थितः, वा = अथवा, मध्ये = केन्द्रे, स्थितः, वा = अथवा, अग्रतः पुरतः स्थितः = संस्थः अस्तु, किञ्च तैः तैः सैनिकैः = सेनाचरैः, तान् = पूर्वोक्तसङ्केतान्, श्रुत्वा = आकर्ण्य, यथा = येन प्रकारेण, अनुशिष्टम् = उपदिष्टम्, तथा = तेनैव प्रकारेण, कार्यम् = अनुष्ठेयम् ॥ २७० ॥
हिन्दी – बायें, दायें, बीच तथा अगले भाग में स्थित सैनिक उन संकेतों को सुनकर - जैसा उन्हें समझाया गया हो वैसा ही काम करें ॥ २७० ॥
वामेति । सैनिकपुरुषः वामदक्षिणसंस्थः वामसंस्थः वा दक्षिणसंस्थः वा मध्यस्थः अथवा अग्रतः स्थितः अस्तु किन्तु तैः तैः सैनिकैः तान् सङ्केतान् श्रुत्वा यथा अनुशिष्टं कर्तुं सङ्केतितं तथा कार्य्यम् ।
सम्मीलनं प्रसरणं परिभ्रमणमेव च ।
आकुञ्चनं तथा यानं प्रयाणमपयानकम् ॥।
पर्य्यायेण च साम्मुख्यं समुत्थानञ्च लुण्ठनम् ।
संस्थानं चाष्टदलवच्चक्रवद्गोलतुल्यकम् ॥
सूचीतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा ।
पृथग्भवनमल्पाल्यैः पर्य्यायैः पङ्क्तिवेशनम् ॥।
शस्त्रास्त्रयोर्धारणञ्च सन्धानं लक्ष्यभेदनम् ।
मोक्षणञ्च तथास्त्राणां शस्त्राणां परिघातनम् ॥
द्राक् सन्धानं पुन: पातो ग्रहो मोक्षः पुनः पुनः ।
स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः ॥
द्वाभ्यां त्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः ।
तथा प्राग्भवनं चापसरणं तूपसर्जनम् ॥।
२७१ ॥
२७२ ॥
२७३ ॥
२७४ ॥
२७५ ॥
२७६ ॥
अन्वयः — सम्मीलनं प्रसरणं परिभ्रमणम् आकुञ्चनं यानं प्रयाणम् अपयानकं पर्य्यायेण च साम्मुख्यं समुत्थानं लुण्ठनम् अष्टदलवत् संस्थानं चक्रवत् गोलतुल्यकं सूचीतुल्यं शकटवत् वा ५४ शु ० cc - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 438
पाठ पढ़ें पाठ छिपाएँ
८५० शुक्रनीति: अर्द्धचन्द्रसमं वा पृथक् भवनम् अल्पाल्पैः पर्यायैः पङ्क्तिवेशनं शस्त्रास्त्रयोः धारणं सन्धानम् लक्ष्यभेदनम् अस्त्राणां मोक्षणं शस्त्राणां परिघातनं प्राक् सन्धानं पुनः पातः ग्रहः मोक्षः स्वगूहनं शस्त्रास्त्रपदविक्रमैः प्रतीघातः द्वाभ्यां त्रिभिः चतुर्भिः वा पङ्क्तितः गमनं तथा प्राग्भवनम् अपसरणं तथा उपसर्जनम् ॥२७१-२७६ ॥ व्याख्या — सम्मीलनम् = सम्मिश्रणम्, संयुक्तं वा, प्रसरणम् = विततिः, परिभ्रमणम् = विचर-णम्, आकुञ्चनम् = सङ्कोचनम्, यानम् = गमनम्, प्रयाणम् = प्रस्थानम्, अपयानकम् = पश्चा-द्गमनम्, पर्यायेण = पर्यायक्रमेण, साम्मुख्यम् = सम्मुखे गमनम्, समुत्थानम् = उत्थानम्, लुण्ठनम् = लोटनम्, अष्टदलवत् = अष्टदलकमलमिव, संस्थानम् = स्थितिः, चक्रवत् = चक्राकार-मिव, गोलतुल्यकम् = गोलाकारेणोत्थापनम्, वेष्टनं वा, सूचीतुल्यम् = सूचीसदृशम्, शकटवत् = यानाकारमिव, वा = अथवा, अर्द्धचन्द्रसमम् = अर्द्धचन्द्राकारमिव, पृथक् = विभिन्नम्, भवनम् = वर्चनम्, अल्पाल्पैः = अतिस्वल्पैः, पर्यायैः = आनुपूर्यैः, पङ्क्तिवेशनम् – पङ्क्तिषु = श्रेणीषु, वेशनम् = प्रवेशनम्, शस्त्रास्त्रयोः = आयुधानाम्, धारणम् = सज्जीकरणम्, सन्धानम् = चापे बाणयोजनम्, लक्ष्यभेदनम् = वेध्यवेधनम्, अस्त्राणाम् = आयुधानाम्, मोक्षणम् = निक्षेपः, शस्त्रा-णाम् = = आयुधविशेषाणाम्, परिघातनम् = परिक्षेपणं प्रहरणं वा, द्राक् = झटिति, सन्धानम् = अभिषवः, पुनः = भूयोभूयः, पातः = पतनम्, ग्रहः = ग्रहणम्, मोक्षः = मोचनम्, स्वगूहनम्— स्वस्य = आत्मनः, गूहनम् = रक्षणम्, शस्त्रास्त्रपदविक्रमैः – शस्त्रैः = आयुधैः, अस्त्रैः = प्रहरणैः, पदविक्रमैः = पदातीनां पराक्रमैः, प्रतीघातः = प्रतिप्रहारः, द्वाभ्याम् = उभाभ्याम्, त्रिभिः = त्रिसंख्यकैः, चतुर्भिः = चतुसंख्यकैः, वा = अथवा, पङ्क्तितः = श्रेणीबद्धेन, गमनम्, तथा = तेनैव प्रकारेण, प्राग्भवनम् = पुरोवर्त्तनम्, अपसरणम् = पुरतः पलायनम्, तथा उपसर्जनम् = समीपगमनञ्चेति ॥ २२७१-२७६ ॥ हिन्दी — संकेतानुसार कभी सबों को इकठ्ठा हो जाना, फैल जाना, चारों ओर घूम जाना, सिकुड़ जाना, धीरे - धीरे बढ़ना, तेज चलना, पीछे हटना, एक - एक कर सामने आना, खड़े हो जाना, लौटना, अष्टकुल कमल की तरह व्यूह बना कर खड़ा होना या चक्राकार गोल बाँधकर खड़ा होना, कभी सूई तो कभी शकट या अर्द्धचन्द्राकार व्यूह बनाकर खड़ा होना, पर्याय - क्रम से थोड़ी सेना की टुकड़ी बनाकर अलग - अलग हो जाना या कतार बनाकर बैठ जाना, आयुध धारण कर लक्ष्य का संधान एवम् उसका भेदन करना, हथियारों से पैंतरा बदल कर प्रहार करना,, जल्दी से धनुष पर बाण चढ़ाना, छोड़ना, फिर तीर खींचना और छोड़ना; बार - बार ऐसा करते हुए अपने को प्रतिघात से बचाना, अस्त्र - शस्त्रों का पैंतरा बदल कर प्रयोग करना, कभी दो, तीन या चार की पंक्ति बनाकर चलना, आवश्यकतानुसार आगे बढना, पीछे हटना या यथास्थान पहले की तरह खड़ा रहना, आगे बढना, पीछे हटना या समीप जाकर आक्रमण करना- - सैनिकों को ये सारी बातें संकतानुसार करनी चाहिए ॥ २७१-२७६ ॥ व्यूहस्थदैनिककार्य्याण्याह — सम्मीलनमित्यादि । सम्मीलनं प्रसरणं परिभ्रमणम् आकुञ्चनं यानं प्रयाणम् अपयानकं पर्य्यायेण साम्मुख्यं समुत्थानं लुण्ठनम् अष्टदलवत् संस्थानं चक्रवत् गोलतुल्यकं गोलाकारेण वेष्टनमित्यर्थः, सूचीतुल्यं शकटवत् शकटाकारं वा अर्द्धचन्द्रसमं पृथक् विभिन्नं भवनं वर्त्तनम् अल्पाल्पैः पर्य्यायैः पङ्क्तिवेशनं पङ्क्तिषु प्रवेशनं शस्त्रास्त्रयोः धारणं सन्धानं लक्ष्यभेदनम् अस्त्राणां मोक्षणं निक्षेपः शस्त्राणां परिघातनं शस्त्रैः प्रहरणमित्यर्थः, द्राक् झटिति CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 439
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८५१ सन्धानं पुनः पुनः पातः पतनं ग्रहः ग्रहणं मोक्षः त्यागः स्वस्य आत्मनः गूहनं रक्षणं शस्त्रास्त्रपदविक्रमैः शस्त्रैः अस्त्रैः पदविक्रमैश्च प्रतीघातः द्वाभ्यां त्रिभिः चतुर्भिर्वा पङ्क्तितः पङ्क्तिक्रमेण गमनम् । तथा प्राग्भवनं पुरोवर्त्तनम् अपसरणं पुरतः पलायनं तथा उपसर्जनं समीपगमनञ्च ॥ २७१-२७६ ॥
अपसृत्यास्त्रसिद्ध्यर्थमुपसृत्य विमोक्षणे ।
प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थः सैनिकः सदा ॥ २७७ ॥
अन्वयः - व्यूहस्थः सैनिकः अस्त्रसिद्ध्यर्थम् अपसृत्य विमोक्षणे उपसृत्य प्राग्भूत्वा सदा अस्त्रं मोचयेत् ॥ २७७ ॥
व्याख्या — व्यूहस्थः = सैन्यविन्यासमध्यस्थितसेनाचरः, अस्त्रसिद्ध्यर्थम् = आयुधसञ्चालन-सौकर्यार्थम्, अपसृत्य = अपसरणं कृत्वा, विमोक्षणे = अस्त्रत्यागे, उपसृत्य = समीपं गत्वा, तथा प्राग् = पुरः गत्वा, सदा = सर्वदा, अस्त्रम् = प्रहरणम्, मोचयेत् = त्यागं कुर्यात् ॥ २७७ ॥
हिन्दी — व्यूहस्थ सैनिक को हथियार चलाने की सुविधा के लिए पीछे हटकर, पास जाकर सामने से हथियार चलाना चाहिए ॥ २७७ ॥
अपसृत्येति । व्यूहस्थः विन्यस्तबलमध्यवर्ती सैनिकः अस्त्रसिद्ध्यर्थम् अपसृत्य विमोक्षणे अस्त्रत्यागे उपसृत्य समीपं गत्वा तथा प्राग् अग्रगो भूत्वा सदा अस्त्रं मोचयेत् ॥ २७७ ॥
आसीनः स्याद्विमुक्तास्त्र: प्राग्वा चापसरेत् पुनः ।
प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमोचयेत् ।
एकैकशो द्विशो वापि सङ्घशो बोधितो यथा ॥ २७८ ॥
अन्वयः — विमुक्तास्त्रः आसीनः स्यात् वा प्राक् अपसरेत्, तु उपसृतः । प्रागासीनं दृष्ट्वा यथा बोधितः तथा एकैकशः द्विशः वा सङ्घशः स्वास्त्रं विमोचयेत् ॥ २७८ ॥
व्याख्या - विमुक्तास्त्रः = विमोचितायुधः, सैनिकः आसीनः = उपविष्टः स्यात् = भवेत्, वा = अथवा, प्राक् = अग्रे, अपसरेत् = अपसरणं कुर्यात्, पुनश्च = भूयश्च, उपसृतः = समीपं गच्छतः सन्, प्राक् आसीनम् = उपविष्टम्, रिपुम्, दृष्ट्वा = अवलोक्य, यथा = येन प्रकारेण, बोधितः = उपदिष्टः, तथा एकैकशः = एकम् एकं कृत्वा, द्विशः वा, अथवा सङ्घशः = सामूहिकरूपेण बहुशः, स्वस्य = आत्मनः, अस्त्रम् = प्रहरणम्, मोचयेत् = त्यजेत् ॥ २७८ ॥
हिन्दी — सैनिक हथियार चलाने के बाद बैठ जाये अथवा आगे की ओर बढ जाये, आगे बैठे शत्रु को देखकर उसके पास जाकर अपने आयुध का प्रयोग करे । एक - एक, दो - दो या समूह रूप में पूर्वसंकेतित ढंग से सैनिक चले ॥ २७८ ॥
आसीन इति । विमुक्तास्त्र: विक्षिप्तास्त्रः सैनिकः आसीनः उपविष्टः स्यात् वा अथवा प्राक् अपसरेत् । पुनश्च उपसृतः सन्निहितः सन् प्राक् आसीनं रिपुं दृष्ट्वा यथा बोधितः सङ्केतितः तथा एकैकशः द्विशः वा सङ्घशः बहुशः स्वस्य आत्मनः अस्त्रं विमोचयेत् विक्षिपेत् ॥ २७८ ॥
क्रौञ्चानां खे गतिर्यादृक् पङ्क्तिशः सम्प्रजायते ।
तादृक् सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा ॥ २७ ९ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 440
पाठ पढ़ें पाठ छिपाएँ
८५२ शुक्रनीति: अन्वयः – खे क्रौञ्चानां यादृक् पङ्क्तिशः गतिः सम्प्रजायते तादृक् देशबलं क्रौञ्चव्यूहं सञ्चारयेत् ॥ २७ ९ ॥ व्याख्या — खे = आकाशे, क्रौञ्चानाम् = कुञ्चानाम्, यादृक् = यत् सदृशम्, पङ्क्तिशः = श्रेणीबद्धेन, गतिः = गमनम्, जायते = भवति, देशबलम् = स्थानीयबलानुसारेण, कौञ्चव्यूहम् = क्रौञ्चाख्यसैन्यसंस्थानम् सञ्चारयेत् = विन्यसेत् ॥ २७ ९ ॥ हिन्दी — आकाश में जैसे बगुले पंक्तिबद्ध होकर चलते हैं, उसी प्रकार क्रौञ्चव्यूह की रचना कर सैनिक स्थानीय बल के अनुसार आगे बढ़ें ॥ २७ ९ ॥ क्रौञ्चव्यूहमाह - क्रौञ्चानामिति । खे आकाशे कौञ्चानां बकानां यादृक् पङ्क्तिशः पङ्क्तिक्रमेण गतिः जायते, देशबलं स्थानीयबलं यथा स्थानीयबलानुसारेण इत्यर्थः क्रौञ्चव्यूहं तादृक् यथा तथा सञ्चारयेत् विन्यसेत् ॥ २७ ९ ॥
सूक्ष्मग्रीवं मध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः ।
बृहत्पक्षं मध्यगलपुच्छं श्येनं मुखे तनु ॥ २८० ॥
अन्वयः — सूक्ष्मग्रीवं मध्यपुच्छं स्थूलपक्षं पङ्क्तितः बृहत्पक्षं मध्यगलपुच्छं मुखे तनु श्येनम् ॥२८० ॥ सूक्ष्मग्रीवम् — सूक्ष्मा = क्षीणा, ग्रीवा = कण्ठः, यस्य तत्, मध्ये = मध्यमे,
पुच्छः व्याख्या— = लाङ्गुलभागः, स्थूलपक्षम् — स्थूलौ = पीनौ, पक्षौ = पक्षभागौ, यस्य तथाभूतस्य तम्, पङ्क्तितश्च, मुखे = मुखभागे, तनु = सूक्ष्मम्, श्येनम् = श्येनव्यूहं भवति ॥ २८० ॥
हिन्दी — जिसके दोनों बगल के भाग विशाल हों तथा गले का भाग पतला हो, पूँछ वाला भाग मध्यम हो एवं मुखभाग पतला हो, ऐसी सैनिकों का पंक्ति को श्येनव्यूह कहा जाता है ॥ २८० ॥
श्येनव्यूहमाह — सूक्ष्मेति । सूक्ष्मा ग्रीवा यस्य तत् मध्ये पुच्छं यस्य तथोक्तं स्थूलौ विशालौ पक्षौ यस्य तथाभूतं पङ्क्तितश्च बृहत्पक्षं दीर्घपार्श्वं मध्ये गले च पुच्छं यस्य तादृशं तथा मुखे तनु सूक्ष्मं स्वल्पमित्यर्थः, श्येनं श्येनव्यूह इत्यर्थः ॥ २८० ॥
चतुष्मात् मकरो दीर्घस्थूलवक्त्रद्विरोष्ठकः ।
सूची सूक्ष्ममुखो दीर्घसमदण्डान्तरन्ध्रयुक् ॥ २८१ ॥
अन्वयः — चतुष्पात् दीर्घस्थूलवक्त्रद्विरोष्ठकः मकरः सूक्ष्ममुखः दीर्घसमदण्डान्तरन्ध्रयुक् सूची ॥ २८१ ॥
व्याख्या — चतुष्पात् = चतुष्पदः, दीर्घम् = लम्बम्, स्थूलम् = पीनम्, मुखम् = आननम्, यस्य तादृशः, द्विरोष्ठकः = अधरद्वयसंयुक्तः, मकर: = मकराकृतिः, ग्राह इव आकृतिर्यस्य तथाभूतः मकर-व्यूहः, सूक्ष्ममुखः = साग्राननः, तथा दीर्घस्य = लम्बस्य, दण्डस्य = लगुडस्य, अन्ते = अन्तिमभागे, रन्ध्रयुक्तः = छिद्रसमन्वितः, सूचीव्यूहः = व्यधनीव्यूह:, इति ख्यात इति ॥ २८१ ॥
हिन्दी — जिसके चार भाग में चार चरण हों, लम्बा और मोटा मुँह वाला हिस्सा हो, उसमें नीचे - ऊपर दो होठ भाग हों, ऐसी पंक्ति में स्थित सेना को मकरव्यूह कहा जाता है । फिर जिसका अगला भाग सूई की तरह नुकीला हो तथा बीच का हिस्सा समान रूप से डंडे की तरह लम्बा हो और अन्त अर्थात् मूल भाग में छेद हो, ऐसी सेना की पंक्ति को सूचीमुखव्यूह कहते हैं ॥२८१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA